Page #1
--------------------------------------------------------------------------
________________
HHTHHAKKKKKRKHAKKAKKAKEKKRANCH vie
(iPa00
PRATISH
INDAN
Shah
नमो वीतरागाय पंडित प्रवर आशाधावसचनः
धर्मामृतस्थ उत्तरमा
सागारधर्मा
P
AVa
ALNOR
प्रकाशकःजैन साहित्य प्रसारक कार्यालयस्य
सत्त्वाधिकारी बिहारीलाल कठनेरा जैनः ।
HAR
प्रथमावृत्तिः-- १००० प्रति । आषाढ, वीर नि० सं० २४५४
जून, सन् १९२८ ई०
ACEBHASMEERUMAR HTMKOCKS
मूल्यं सार्थैकरूप्यकम् । IPEDKAKKAKKKKIETARKARK
oir
ON
Page #2
--------------------------------------------------------------------------
________________
प्रकाशकः
बिहारीलाल कठनेरा जैन,
मालिक, जैनसाहित्य प्रसारक कार्यालय,
हीराबाग, गिरगांव बम्बई।
मुद्रकःवंशीधर उदयराज पंडित, मालिक:-श्रीधर प्रस, भवानीपेठ,
सोलापुर.
Page #3
--------------------------------------------------------------------------
________________
आभार-प्रदर्शन ।
.-MAKes श्री माणिकचन्द दिगम्बर जैन ग्रंथमाला द्वारा प्रकाशित संस्करण परसे हमने इसे प्रकाशित किया है । अतः हम ग्रंथमालाके आभारी हैं ।
औ श्रीमान पंडित बंशीधरजी जैन शास्त्री, मालिक श्रीधर प्रेस, सोलापुर ने इसका प्रूफ संशोधन करनेका कष्ट उठाया है। इसलिये आपको धन्यवाद है।
-प्रकाशक। पाठ्य ग्रथ। जैन सिद्धांत । त्रिलोक्सार स.१॥),भाषाटीका ५॥ गोमट्टसार-जीवकांड-सार्थ २॥ सागारधर्मामृत-सटीक १॥ गोमट्टसार-कर्मकांड-सार्थ २॥ न्याय । जैन सिद्धांत प्रवेशिका
अष्टसहस्री तत्वार्थराजवार्तिकालंकार-सटीक ४ आप्तपरीक्षा-मूल - सार्थ । तत्त्वार्थश्लोकवार्तिकालंकार-सटीक ४Jआप्तमीमांसा-मूल भाषा ॥ तत्वार्थसूत्र (मोसशास्त्र )-सार्थ ॥ आप्तमीमांसा-प्रमाण परीक्षा सटीक१) द्रव्यसंग्रह - सान्वयार्थ ।)विस्तृतअर्थ तर्क संग्रह वृहद्र्व्यसंग्रह-सटीक, सभाप्य २] व्यानुयोग तर्कणा २J पंचाध्यायी-मूल ।) विस्तृत भाष्य ५॥ परीक्षामुख सार्थ ), ॥ पुरुषार्थसिद्ध्युपाय सान्वयार्थ १० प्रमेयरत्नमाला-संस्कृत ॥),भाषा १) पुरुषार्थसिद्ध्युपाय-विस्तृतभाष्य ५||) प्रमेयकमल मार्तड रत्नकरंडश्रावकाचार-सटीक २) सप्तभंगीतरंगिणी-सार्थ रत्नकरंड श्रावकाचार-सान्वयार्थ । व्याकरण । सर्वार्थसिद्धि-मूल
२J कातंत्र पंचसंधि-सार्थ सर्वार्थसिद्धि-सार्थ-प्र. खंड ६) कातंत्र रूपमाला संपूर्ण १॥
द्वि. खंड ८J, , पूर्वार्ध ॥), उत्तरार्धसमयप्राभृत दो स. टीका सह ३॥ जैनेन्द्र प्रक्रिया- पं. वंशीधरजी २)
CCCELCEL
Page #4
--------------------------------------------------------------------------
________________
२
जैनेन्द्र लघुवृत्ति - पं. राजकुमार १) पद्मचंद्रकोष -
७)
जैनेन्द्र पंचाध्यायी-मूल सूत्रपाठः । वृहदुजैन शब्दार्णव- प्र. खंड-३१)
धातुरूपावली बालबोध व्याकरण- सार्थ- पूर्वार्ध बालबोध व्याकरण- उत्तरार्ध मध्यसिद्धांत कौमुदी - वरदराज लघुसिद्धांत कौमुदी शब्दरूपावलि शब्दार्णवचन्द्रिका
समासचक्र
सारस्वत-मूल-पूर्वा. I=) सजि. ॥ - ) जयन्त विजय सारस्वत चन्द्रकीर्ति टी. पू. १ ।।।) उ.१ ॥ ) तिलकमंजरी सारस्वत- तीनों वृत्ति १) सजि . १ ( ) धर्मशर्माभ्युदय सारस्वत चंद्रकीर्ति टीका तीनों. ३) प्रभावक चरित -सिद्धांत कौमुदी - भट्टोजीदीक्षित ३) पार्श्वभ्युदय सिद्धांत कौमुदी तत्वबोधनीटीका ६) पुरुदेवचम्पू
= ) विश्वलोचनकोष
III)
1 ) अलंकार चिंतामणि १1) काव्यानुशासन - हेमचंद्र
11) काव्यानुशासन - सटीक वाग्भट्ट = ) गद्यचिंतामणि
9"
अमरकोष - सटीक १ = ), धनंजय नाममाला - सार्थ
१17)
काव्य चम्पू और अलंकार ।
२। ।
३) चन्द्रप्रभ चरित - मूल १) भाषा १ । - ) || जयकुमार सुलोचना
17
बिहारीलाल कठनेरा जैन,
मालिक - जैन साहित्य प्रसारक कार्यालय, हीराबाग, पोष्ट गिरगांव, बंबई ।
२।
१
१ ॥
豆
संस्कृत प्रवेशिनी द्वि. भाग ५ ) यशस्तिलक चम्पू- पू. ३।। उ. २।।।। कोष । वाग्मटालंकार- सटीक II) सार्थ १ || ) अमरकोष - मूल II), शब्दकोषसहित हितोपदेश - मूल III) सार्थ १॥), २) III ) क्षत्रचूडामणि सार्थ ९ || ) सजि . २ ) सार्थ ३ क्षत्रचूडामणि जीवंधर चम्पू संयुक्त २) ॥ =) डीरसौभाग्य
५॥)
सब जगह के छपे सब प्रकारके जैन ग्रंथोंके मिलने का पता:
(III
Page #5
--------------------------------------------------------------------------
________________
नमो वीतरागाव। धर्मामृतस्थ उत्तरभागः सटीकः
सागारधर्मः
श्रीवर्धमानमानम्य मन्दबुद्धिप्रबुद्धये । धर्मामृतोक्तसागर-धर्मटीकां करोम्यहम् ॥ १ ॥ समर्थनादि यन्नात्र ब्रुवे. व्यासभयारक्वचित् । ...
तज्ज्ञानदीपिकाख्यैत-त्पञ्जिकायां विलोक्यताम् ॥ २॥ अथ चतुर्थाध्याये
सुदृग्बोधो गलवृत्त-मोहो विषयनिःस्पृहः ।
हिंसादेर्विरतः कााद्यतिः स्याच्छावकोंऽशत: ॥ इत्युक्तम् । अतो मध्यमङ्गलविधानपूर्वकं विनेयान्प्रति सागारधर्मामृत प्रतिपाद्यतया प्रतिजानीते
अथ नत्वाऽर्हतोऽरुण-चरणान् श्रमणानपि ।
तद्धर्मरागिणां धर्मः सागाराणां प्रणेष्यते ॥१॥ टीका-प्रणेष्यते प्रतिपादयिष्यतेऽस्माभिः। कः, उक्तकर्मतापन्नः धर्मः एकदेशविर तिलक्षणं चारित्रम् । केषां, सागाराणां वक्ष्यमाणलक्षणानां गृहस्थानाम् । किंविशिष्टानां, तद्धर्मरागिणां तेषां श्रमणानां धर्मे सर्वविरतिरूपे चारित्रे रागिणां संहननादिदोषादकुर्वतामपि प्रीतिमताम, यतिधर्मानुरागरहितानामगारिणां देशविरतेरप्यसम्यग्रूपत्वात् । सर्वविरतिलालसः खलु देशविरतिपरिणामः । किं कृत्वा प्रणेष्यते, नत्वा शिरःप्रव्हीकरणादिना विशुद्धमनोनियोगेन च पूजयित्वा । कान्, अर्हतस्तीर्थकरपरमदेवान् । किविशिष्टान्, अक्षूणचरणान् अक्षुणं सम्पूर्ण सकलमोहप्रक्षयादाविर्भूतत्वेन नित्य निर्मलं चरणं यथाख्यातचारित्रं येषां ते अक्षुणचरणास्तान् । न केवलमहतो
Page #6
--------------------------------------------------------------------------
________________
सागारधर्मः ।
त्वा श्रमणानपि नमस्कृत्य : श्राम्यन्ति बाह्यमाभ्यन्तरं च तपश्चरन्तीति श्रमणा आचार्योपाध्यायसाधवस्तान् । किंविशिष्टान् अक्षूणचरणान् अक्षूणं भावनाविशेषचलादनतिचार चारित्रं क्षायोपशमिकसंयमपरिणामो येषां ते तान् । कथं अथ, अथेति शब्दो मङ्गलार्थः अधिकारार्थो वा । इतः सागारधर्मोऽधिक्रियते इत्यर्थः ॥ १ ॥
२
किंलक्षणाः सागारा इत्याहअनाद्यविद्यादोषोत्थ-चतुः सञ्ज्ञाज्वरातुराः । शश्वत्स्वज्ञानविमुखाः सागारा विषयोन्मुखाः ॥ २ ॥ टीका - अत्र भवन्तीति क्रियाध्याहारः । भवन्ति । के, सागाराः अगारंगृहं सकलपरिग्रहोपलक्षणं सह अगारेण वर्तन्ते इति सागारा: । एतदेव अनाद्यविद्येत्यादि बिशेषणत्रयेण स्फुटयति- किंविशिष्टाः सागारा भवन्ति, शश्वत्स्वज्ञानविमुखाः शश्वदनवरतं स्वज्ञाने
" एगो में सासदो आश णाणदंसणलक्खनो ।
सेसा मे बाहिरा भावा सव्वे संजोगलक्खणा "
इत्यादिपरमागमप्ररूपिते स्वात्मावबोधे विमुखाः पराङ्मुखाः, तत्र मुख्यतयाऽ नुपयुक्ता इत्यर्थः । पुनः किंविशिष्टाः, विषयोन्मुखाः विषयेविष्टेषु स्रक्काभिन्यादिष्वनिष्टेषु च दुर्भोजनदुर्व्यसनादिषु उन्मुखाः रागात् द्वेषाच्च व्यापृताः उद्युक्ताः । कुत एतदिति हेतु प्रथमान्तत्वेन निर्दिशति । पुनः किंविशिष्टाः. अनाद्यविद्यादोषो चतुः सञ्ज्ञा ज्वरातुराः अविद्या अनित्याशुचिदुःखानात्मसु विपरीतख्यातिः यस्मात्पूर्वं नास्ति स आदि:, नास्त्यादिर्थस्याः साऽनादिः अनादिश्वास अविद्या च अनाद्यविद्या, सैव दोषो वातपित्तकफानां वैषम्यम्, उत्थानमुत्था उद्भूतिः, अनाद्यविद्या दोषादुत्था येषां ते अनाद्यविद्यादोषोत्थाः, सञ्ज्ञाः आहाराद्यभिलाषानुभव नसंस्काररूपाश्चतस्रः, तथा ज्वराः प्राकृतो वैकृतश्चेति द्वौ प्रत्येकं साध्योऽसाध्यश्चेति चत्वारः, सञ्ज्ञा एव ज्वरा मोहसन्तापरूनत्वात् सञ्ज्ञाज्वराः, चत्वारश्च ते सञ्ज्ञाज्वराश्च चतुःसञ्ज्ञाज्वराः, अनाद्यविद्यादोपोत्थाश्च ते चतुस्सञ्ज्ञाज्वराश्च अनाद्यविद्यादोषोत्थचतु:
"
Page #7
--------------------------------------------------------------------------
________________
प्रथमोध्यायः ।
सञ्ज्ञाज्वराः तैरातुराः कदर्थिताः । यत एवम्भूतास्ततः शश्वत्स्वज्ञानविमुखाः । अत एव च नित्यं विषयोन्मुखाः स्वपर प्रकाशात्मकत्वादात्मनो विमुखाः ॥२॥ भधन्तरेण तानेवाह
अनाद्यविद्यानुस्मृतां ग्रन्थसञ्ज्ञामपासितुम् ।
1
अपारयन्तः सागाराः प्रायो विषयमूच्छिताः ॥ ३ ॥ टीका — अत्रापि भवन्तीति क्रियाध्याहारः । एवमश्रयमाणं क्रियापदं पुरस्तादप्यध्याहार्यम् । भवन्ति । के ते, सागाराः । किंविशिष्टाः विषयमूर्च्छिताः कामिन्यादिविषयेषु ममेदं भोग्यमहमस्य स्वामीत्येवं ममकाराहङ्कारविकल्पपरतन्त्रतथाऽध्यवसिताः । कथं प्रायो, बाहुल्येन सुदृष्टयोऽपि चारित्रावरणकर्मोदयवशादेवं पर्यवसन्नाः सम्यग्दृष्टयः । ये तु केचिज्जन्मान्तराभ्यस्तरत्नयानुभावात्साम्राज्यादिश्रियमप्यनुभवन्तोऽसतीनांयोपभोगन्यायेन तत्त्वज्ञानदेश संयमप्रणिधानपरत्वेन भुञ्जाना अप्यभुञ्जानवदवभासन्ते तद्व्यभिचारप्रदर्शनार्थे प्राय इत्युच्यते । किं कुर्वन्तस्ते तथा भवन्तीत्याह — अपारयन्तः अशक्नुवन्तः । किं कर्तुं, अपासितुं निराकर्तुं । कां ग्रन्थसञ्ज्ञां ग्रन्थे परिग्रहे सज्ञा ममेदमिति मूर्छा परिणामस्तां । किंविशिष्टां, अनाद्यविद्ययाSनुस्यूतां बोजाङ्कुरन्यायेन सन्तत्या प्रवर्तमाना ताम् ॥ ३ ॥
एवं सागारान् लक्षयित्वा तद्भावाभावनिदानयोरविद्या विद्ययोर्बीजोपदेशार्थमिदमाह -
नरत्वेऽपि पशूयन्ते मिथ्यात्वग्रस्तचेतसः || पशुत्वेऽपि नरायन्ते सम्यक्त्व व्यक्त चेतनाः ॥ ४ ॥ टीका— पशुयन्तं हिताहितविवेक विकलतया पशव इवाचरन्ति । के ते, मिथ्यात्वग्रस्तचेतसः मिथ्यात्वेन विपरीताभिनिवेशेन प्रस्तमाविष्टं येतो
१ धात्रीबालासतीनाथ - पद्मिनी चलवावित् । दग्धरज्जुवदाभाति भुञ्जानोऽपि न पापभाक् ॥ २ वपुगृहं धनं दाराः पुत्रमित्राणि शत्रवः । सर्वथान्यस्वभावानि मूढः स्वानि प्रपद्यते ॥
Page #8
--------------------------------------------------------------------------
________________
सागारधर्मः।
मनो येषां ते । क सति, जरत्वेऽपि, नरा हि प्रायो विचारचतुरचेतसः किल प्रसिद्धास्तवेऽपि सति किं पुनस्तिर्यगादिभवे इत्यपिशद्वार्थः । एवमविद्यामूलकारणं मिथ्यादर्शनं विभाव्य विद्यामूलकारणं सम्यग्दर्शनं भावयितुमाह-पशुत्वेऽपीत्यादि, नरायन्ते हिताहितविचारचतुरतया नरा इवा. चरन्ति । के ते, सम्यक्त्वव्यक्तचेतनाः सम्यक्त्वेन तत्वार्थश्रद्धानलक्षणेन सम्यग्दर्शनपरिणामेन व्यक्ता प्रशमसंवेगानुकम्पास्तिक्यानुभावैः प्रतीतियोग्या कृता चेतना चैतन्यसम्पद् येषां ते । क सति, पशुत्वेऽपि, पशवस्तियश्चस्ते . चात्र सज्ञिन एव । जात्या तिर्यग्भावेऽपि सति सम्यक्त्वमाहात्म्याद्धेयोपादेयतत्त्वज्ञाः पशवोऽपि भवन्ति किं पुनर्मनुष्यादय इत्यपिशब्दार्थः ॥ ४ ॥ __ एवं सामान्यतो मिथ्यात्वानुभावं प्रदर्येदानीं तस्य त्रिविधस्याप्यनुभावमुपमानैरनुभावयितुमाह
केषाश्चिदन्धन्धतमसा-यतेऽगृहीतं ग्रहायतेऽन्येषाम् । मिथ्यात्वमिह गृहीतं शल्यति सांशयिकमपरेषाम् ॥ ५॥ टीका-अन्धतमसायते घोराज्ञानविवर्तहेतुतया निबिडांधकारवदाचरति । किं तत् , मिथ्यात्वं । किंविशिष्टमगृहीत परोपदेशमन्तरेण प्रवृत्तत्वादनुपात अनादिसन्तत्या प्रवर्तमानस्तत्त्वारुचिरूपश्चित्परिणाम इत्यर्थः । केषां तत्तथा स्यादित्याह-केषाञ्चित् एकेन्द्रियादिसज्ञिपञ्चेन्द्रियपर्यन्तानां । क, इह संसारे । तथा ग्रहायते विविधाकारकारितया ग्रहवदाचरति भूतावेशव द्विवर्तत
१ रागादिषु च दोषेषु चित्तवृत्तिनिवर्हणम् ।
तं प्राहुः प्रशमं प्राज्ञाः समन्ताद्बतभूषणम् ॥ २ शारीरमानसागन्तु-वेदनाप्रभवाद्भवात् ।
स्वप्नंद्रजालसंकल्पा-दीतिः संवेग उच्यते ॥ ३ सत्वे सर्वत्र चित्तस्य दयार्द्रत्वं दयालवः ।
धर्मस्य परमं मूल-मनुकम्पां प्रचक्षते ।। ४ आप्ते श्रुते व्रते तत्त्वे चित्तमास्तिक्यसंयुतम् ।
आस्तिक्यमास्तिकैरुक्तं युक्तं युक्तिधरेण वा ॥
Page #9
--------------------------------------------------------------------------
________________
प्रथमोध्यायः ।
इत्यर्थः । किं तत् , मिथ्यात्वं । किविशिष्टं, गृहीतं परोपदेशादुपात्तमतत्त्वाभिनिवेशलक्षणं चिद्वैकृतं । केषां, अन्येषां सञ्ज्ञिपञ्चेन्द्रियाणां । तथा शल्यति बहुदुःखहेतुत्वाच्छरीरान्तःप्रविष्टकाण्डादिवदाचरति । किं सत्, मिथ्यात्वं । किमाख्यं, सांशयिकं मिथ्यात्वकर्मोदये सति ज्ञानावरणोदयविशेषवशात् किमिदं जीवादि वस्तु यथा जैनैरनेकान्तात्मकमुच्यते तथा स्यादुतस्विदन्यथेति चलिता प्रतीतिः संशयः, संशये भवं सांशयिक क्वचिदप्राप्तनिश्चयमात्मस्वरूपं । केषां तत्तथा स्यादित्याह-परेषाम् इन्द्राचार्यादीनाम् ॥ ५॥
नन्वविद्यामूलमिध्यात्वनिर्मथनसमर्थस्य सम्यक्वपरिणामस्य कतमा प्रादुर्भावनसामग्रीत्यनुयोगे सतीदमुच्यते
आसमभव्यताकर्म-हानिसज्ञित्वशुद्धिभाक् ।
देशनाद्यस्तमिथ्यात्वो जीवः सम्यक्त्वमश्नुते ॥ ६ ॥ - टीका-अश्नुते प्राप्नोति । कोऽसौ, जीव आत्मा। किं तत्, सम्यक्त्वं तत्त्वार्थश्रद्धानं । किविशिष्टः सन्, आसन्नभव्यताकर्महानिसज्ञित्वशुद्धि भाक्, भव्यो रत्नत्रयाविर्भावयोग्यो जीवः, आसन्नः कतिपयभवपाप्यनिर्वाणपदः, आसन्नश्चासौ भव्यश्चासन्नभव्यस्तस्य भाव आसन्नभव्यता, कर्म-- हानिर्मिध्यात्वादीनां सम्यक्त्वप्रतिबन्धककर्मणां यथासम्भवमुपशमः क्षयो-' पशमः क्षयो वा, सञ्ज्ञा शिक्षा क्रियालापोपदेशग्राहित्वं सज्ञाऽस्यास्तीति सज्ञी सझिनो भावः सज्ञित्वं,
मनोऽवष्टम्भत: शिक्षा-क्रियालापोपदेशवित् । । येषां ते सज्ञिनो म| वृषकीरगजादयः ॥ इति । शुद्धिविशुद्धपरिणामः, आसन्नभव्यता च कर्महानिश्च सज्ञित्वं च शुद्धिश्चेतीतरेतरयोगे द्वन्द्वे सति ताश्चतस्रो भजते सेवते ततो नापैतीति तद्भागन्तरङ्गसम्यग्दर्शनादिभावकारणसम्पन्न इत्यर्थः । पुनः किंविशिष्टः, देशनाद्यस्तमिथ्यात्वः देशना सम्यग्गुरूपदेशः सा आदिर्यस्य जातिस्मरणजिनप्रतिमादर्शनादेर्बहिरङ्गकारणकलापस्य स देशनादिः तेन अस्तं निराकृतमुपशमाद्यवस्थां नीतं मिथ्यात्वं दर्शनमोहाख्यं कर्म तद्धेतुको वा सर्वथैकान्ताभिनिवेशो यस्य स तथोक्तः॥६॥
Page #10
--------------------------------------------------------------------------
________________
सागारधर्मः ।
1
साम्प्रत योऽयं सम्यक्त्वसामन्यां सत्यां सम्यग्गुरूपदेशो ऽवश्यंमृग्यस्तस्येदानीमत्र समुपदेषूणां प्रविरलत्वानुशोचनद्वारेण दुर्लभत्वं लक्षयति-कलिप्रावृषि मिथ्यादि को घच्छन्नासु दिविह । खद्योतवत्सुदेष्टारो हि द्योतन्ते कचित्क्वचित् ॥ ७ ॥ टीका - द्योतन्ते प्रकाशन्ते आत्मानं दर्शयन्ति दृश्यन्ते इत्यर्थः । के ते, प्रदेष्टारः सु शोभनं निर्बाधं सम्पूर्ण वा जीवादितत्वं दिशंत्युपदिशन्तीति सुदेष्टारः सम्यग्गुरवः । क्वचित्कचित्, कापि न सर्वत्र । कस्मिन् इह भरतक्षेत्रे । किंवत्, खद्योतवत् ज्योतिरिङ्गणा यथा । कासु सतीषु, दिक्षु सदुपदेशेषु ककुप्सु च । किंविशिष्टासु, मिथ्या सर्वयैकान्तविषयत्वादसत्या दिशो बौद्धादिवाद्युपदेशास्त एव मेघा दिशामिवानेकान्तोपदेशनाबारकत्वात् वैश्च्छन्नासु छादितासु प्रतीत्यविषयीकृतासु । कदा, कलिप्रावृषि कलिः दुप्षमाख्यः पञ्चमकालः स एव प्रावृड् वर्षाकालस्तत्र । अयमर्थः - यदा वर्षाकाले मेघाच्छादितासु दिक्षु सूर्यादिप्रकाशाभावे क्वचित्कचित्प्रदेशे खद्योता द्योतन्ते तथेह दुष्षमायां कचित्कचिदार्यदेशे सदुपदेष्टारः प्रकाशन्ते न पुनः कृतयु. आदिवद्यत्रतत्र श्रुतकेवलिनः केवलिनो वा दृश्यन्ते इति । हि शब्देन कष्टार्थे नान्तस्तापमभिव्यनक्ति ।
|
६
इह दुष्षमा समयसामर्थ्याद्दे शिकवद्देश्यानामपि दर्शन मोहोदयाक्रान्तचित्त तया देशनानर्हत्वात्प्रायो भद्रका अपि पुरुषा देशनायां भूयासुरित्याशास्तेनाथमहेऽद्य भद्राणा-मप्यत्र किमु सदृशाम् ।
हेम्न्यलभ्ये हि हेमाश्म -लाभाय स्पृहयेन कः ॥ ८ ॥
टीका - नाथामहे भद्रका अपि जीवा देशनार्हा भूयासुरित्याशास्महे । फ, वयं । केषां, भद्राणामपि । किमु, किं पुनः । सदृशां सम्यग्दृष्टीनां विशेषतो १ विद्वन्मन्यतथा सदस्यतितरामुद्दण्डवाग्डम्बराः शृंगारादिरसः प्रमोदजनकं व्याख्यानमातन्वते । ये ते च प्रतिसन सन्ति बहवो व्यामोह विस्तारिणो येभ्यस्तत्परमात्मतत्वविषय ज्ञानं तु ते दुर्लभाः ॥
Page #11
--------------------------------------------------------------------------
________________
प्रथमोध्यायः । नाथामह इत्यर्थः । क. अत्र क्षेत्रे । कदा, अद्य अस्मिन्काले । अमुमेवार्थमुत्तरार्द्धन समर्थयते । हि यस्मादर्थे । को न स्पृहयेत् नाभिलषेत् । कस्मै, हेमाश्मलाभाय सुवर्णोपलप्राप्त्यर्थ । क सति, हेम्नि सुवर्णे । किंविशिष्टे, अलभ्ये लब्धुमशक्ये ॥ २ ॥ भद्रकस्य लक्षणमुक्त्वा तस्यैव द्रव्यतया देशनार्हत्वमाह
कुधर्मस्थोऽपि सद्धर्म लघुकर्मतयाऽद्विषन् । ___ भद्रः स देश्यो द्रव्यत्वा-भाभद्रस्तद्विपर्ययात् ॥ ९॥
टीका-भण्यते । कोऽसौ, भद्रः । किं कुर्वन, मद्विषन् द्वेषविषयमकुर्वन्। कं, सद्धर्म सन् समीचीनः प्रमाणोपपनो धर्मोऽभ्युदयनिःश्रेयसोपायस्तम् । कया, लघुकर्मतया लघु अल्पं कर्म सद्धर्मद्वेषनिमित्तं मिथ्यात्वं यस्य सोयं लघुकर्मा तस्य भावस्तत्ता तया लघुकर्मतया। किंविशिष्टोऽपि, कुधर्मस्थे प्रमाणबाधिते धर्म आसक्तः; न केवलमुभयोर्मध्यस्थ इत्यपिशब्दार्थः । किं पुनरसावित्याह-देश्यः, धर्मे व्युत्पादनीयः । कोऽसौ, सभद्रः । कस्मात् , द्रव्यत्वात् अगामिसम्यक्त्वगुणयोग्यत्वात् । न पुनर्देश्यः । कौऽसौ अभद्रः कुधर्मस्थः सद्धर्म गुरुकर्मतया द्विषन् । कस्मात् , आगामिसम्यक्त्वगुणयोग्यत्वाभावात् । __इदानीमाप्तोपदेशसमम्पादितशुश्रूषादिगुणः सम्यक्वहीनोऽपि तद्वानिव सद्भूतव्यवहारभाजां प्रतिभासते इति निदर्शनेन प्रव्यक्तीकरोति
शलाकयेवाप्तगिराऽऽससूत्रप्रवेशमार्गो मणिवञ्च यः स्यात् । हीनोऽपि रुच्या रुचिमत्सु तद्वद् भूयादसो सांव्यवहारिकाणाम् ।१०॥
टोका-यः पुरुषः स्यात् भवेत् । किंविशिष्टः, आप्तसूत्रप्रवेशमार्ग एव । चशब्दस्यात्रावधारणार्थस्य योजनात् । सूत्रं परमागमः, प्रवेशमार्गः शुश्रूषादिगुणः, सूत्रस्य प्रवेशमार्गोऽन्तस्तत्त्वपरिच्छेदनोपायः सूत्रप्रवेशमार्गः, आप्तः प्राप्तः सूत्रप्रवेशमार्गो येन स तथोक्तः । कया, आप्तगिरा सद्गुरुवाचा । कयेव, शलाकयेव छिद्रकरवज्रसूचिकया यथा । किंवत्, मणिवत् यथा मणिः शलाकया आप्तप्रवेशमार्गः स्यात्, आप्तः प्राप्तः सूत्रस्य तन्तोःप्रवेशमार्गः छिद्रं येन स तथोक्तः असौ भूयात् प्रतिभासेत । किंवत्, तद्वत् रुचिमानिव । केषां सांव्य
Page #12
--------------------------------------------------------------------------
________________
सागारधर्मः ।
१
वहारिकाणां सुनयप्रयोक्तृणाम् । केषु मध्ये, रुचिमत्सु सुदृष्टिषु दीप्तिमन्मणिषु च मध्ये। किंविशिष्टोऽपि हीनोऽपि रिक्तोऽल्पो वा। कया,रुच्या शुध्द्या दीप्त्या किं पुना रुचिसम्पन्न इत्यपिशब्दार्थः । एतेनाव्युत्पन्नसम्यक्त्वानां सुदृष्टिषु मध्ये गणनीयतोपदिष्टा । सुदृष्टिवत्तेऽपि सतां मान्या भवन्तीति भावः। .. एवं देश्यदेशको व्यवस्थाप्य सागरधर्माचारिणमारिणं लक्षयितुमाहन्यायोपात्तधनो यजन गुणगुरून् सद्गीस्त्रिवर्ग भजभन्योन्यानुगुणं तदर्हगृहिणीस्थानालयो हीमयः । युक्ताहारविहार आर्यसमितिः प्राज्ञः कृतज्ञो वशी
शृण्वन् धर्मविधि दयालुरघभीः सागारधर्म चरेत् ॥ ११ ॥ टोका-अत्र · पूज्याश्चार्ह , इत्यनेनाh - सप्तमी । चरितुमर्हतीत्यर्थः । विधौ वा, यथोक्तगुणेन गृहिणा, सागरधर्मश्चरितव्य इत्यर्थः । अत्र पूर्वो भद्रक उत्तरो द्रव्यपाक्षिक इति विभागः । चरेत् अनुतिष्ठेत् । कोऽसौ, 'न्यायोपात्तधन ' इत्यादिविशेषणैश्चतुर्दशभिः समस्तैर्व्यस्तै विशिष्टो गृही । कं, सांगारधर्ममिति वाक्यार्थः । इतो विशेषणानि व्याख्यायन्ते । न्यायोपात्तधनः, स्वामिद्रोहमित्रद्रोहविश्वसितवञ्चनचौर्यादिगार्थो पार्जनपरिहारेणार्थोपार्जनोपायभूतः स्वस्ववर्णानुरूपः सदाचारो न्यायः तेनोपात्तमुपार्जितमात्मसात्कृत धन विभवो येन स तथोक्तः । यजन् गुणगुरुन् , गुणाः सदाचारसौजन्यौदार्यदाक्षिण्यस्थैर्य प्रियपूर्वकपथमाभिमा
१ सवत्र शुचयो धारा: सुकर्मबलगर्विता: स्वकर्मनिहितात्मान : पापाः सवैध शङ्किताः ।। अन्यायोपार्जितं वित्तं दशवर्षाणि तिष्ठति । प्राप्ते त्वेकादशे वर्षे समूलं च विनश्यति ॥ यान्ति न्यायप्रवृत्तस्य तिर्यञ्चोपि सहायताम् ।
अपन्थानं तु गच्छन्तं सोदगेऽपि विमुञ्चति ॥ . २ लोकापवादर्भारुत्वंदीनाभ्युद्धरणादरः । .. कृतज्ञता सुदाक्षिण्यं सदाचारः प्रकीर्तितः ॥
Page #13
--------------------------------------------------------------------------
________________
प्रथमोध्यायः ।
षणादयः स्वपरोपकारिण आत्मधर्मास्तान् पूजयन् बहुमानप्रशंसासाहाय्यकरणादिना समुल्लासयन्, तथा पुरवो मातापितरावाचार्यश्च तानपि पूजयन् त्रिसन्ध्यप्रणामकरणादिनोपचरन्, तथा गुणैर्ज्ञानसंयमादिभिर्गुरवो महान्तो गुणगुरवस्तानपि यजन् सेवाज्ञ्जल्यासनाभ्युत्थानादिकरणगणेन मानयन्, गुणाश्च गुरवश्च गुणगुरवश्चेति विगृह्येकशेषेण गुणगुरवस्तान् । सैद्गीः, सती प्रशस्ता परावर्णवादपारुप्यादिदोषरहिता गीर्वाग्यस्यासौ सद्गीः । त्रिवेंग भजन्नन्योन्यानुगुणं, परस्परानुपघातकं त्रिवर्ग धर्मार्थकामान् भजन् सेवमानः । तदर्हगृहिणीस्थानालयः, गृहिणी कौलान्यादिगुणालङ्कृता पत्नी, स्थानं पुरग्रामादि वास्तु च, आलयो गृहं, गृहिणी च स्थानं च आलयश्च गृहिणीस्थानालया:, तदर्हा स्त्रिवर्गयोग्या गृहिणीस्थानालया यस्य सः तथोक्तः । न्हीमयः, लज्जाया निर्वृत्त इव लज्जाभूयिष्ठो वा । युक्ता हारविहारः, युक्तौ शास्त्रविहितावाहारविहारौ भोजनविचरणे यस्य सः ।
१ यन्मातापितरौ क्लेश सहते सम्भवे नृणाम् । न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि ॥/ २ यदिच्छसि वशीकर्त्तुं जगदेकेन कर्मणा ।
परापवादशस्येभ्यो गां चरन्तीं निवारय ॥ परपरिभवपरिवादा-दात्मोत्कर्षाच्च बध्यते कर्म । नीचैर्गोत्रं प्रतिभव – मनेकभवकोविदुर्मोचम् ॥ ३ यस्य त्रिवर्गशून्यानि दिनान्यायान्ति यान्ति च । स लोहकारभस्त्रेव श्वसन्नपि न जीवति ॥ पादमायान्निधिं कुर्यात्पादं वित्ताय खट्वयेत् । धर्मोपभोगयोः पादं पादं भर्तव्यपोषणे ॥ आयार्द्ध च नियुञ्जीत धर्मे समधिकं ततः । शेषेण शेषं कुर्वीत यत्नतस्तुच्छमैहिकम् ॥ ४ अभ्युत्थानमुपागते गृहपती तद्भाषणे नम्रता तत्पादार्पितदृष्टिरासनविधौ तस्योपचय स्वयं । सुते तत्र शयीत तत्प्रथमतो जह्याच्च शय्यामिति प्राः पुत्रि निवेदिता: कुलवधूसिद्धांतधर्मा इमे ॥
Page #14
--------------------------------------------------------------------------
________________
सागारधर्मः।
आर्यसमितिः, आर्येषु सदाचरणैकप्राणेषु, न तु कितवधूर्तविटभट्टभण्डनटादिषु, समितिः सङ्गतिर्यस्यासौ । प्राज्ञः, ऊहापोहात्मकमतिज्ञानाति शयवान् । कृतज्ञः, कृतं परोपकृतं जानाति न निन्हुते । वैशी, इष्टेप्वर्थेप्वनासक्त्या विरुद्ध वाऽप्रवृत्त्या स्पर्शनादीन्द्रियविकारानिरोधकान्तरङ्गादिषड्वर्गनिग्रहपरश्च । शृण्वन् धर्मविधि, धमेस्याभ्युदयनिश्रेयसहेतोविधिः युक्त्यागमाभ्यां प्रतिष्ठा तं श्रण्वन् प्रत्यहमाकर्णयन् । दयालुः, दुःखितदुःखप्रहाणेच्छालक्षणां दयां शीलयन् , 'धर्मस्य मूलं दयेति'
१ यदि सत्सङ्गनिरतो भविष्यसि भविष्यसि ।
अथ सज्ज्ञानगोष्ठीषु पतिष्यसि पतिष्यसि ।। २ इदं फलमियं क्रिया करणमेतदेष क्रमो व्ययोऽयमनुषङ्गजं फलमिदं दशषा मम अयं सुहृदयं द्विषत्प्रयतदेशकालाविमाविति प्रतिवितर्कयन्प्रयतते बुधो नेतरः ॥ प्रत्यहं प्रत्यवेक्षेत नरश्चरितमात्मनः। किन्नु मे पशुभिस्तुल्यं किन्नु सत्पुरुषरिति ।। ३ विधित्सुरेनं तदिहात्मवश्यं कृतज्ञतायाः समुपैहि पारम् ।
गुणैरुपेतोऽप्यखिलैः कृतघ्नः समस्तमुद्रेजयते हि लोकम् । ४ भव्यः किं कुशलं ममेति विमृशन्दुःखाभृशं भीतिवान सौख्यैषी श्रवणादिबुद्धिविभवः श्रुत्वा विचार्य स्फुटम् । धर्म शर्मकरं दयागुणमयं युक्त्यागमाभ्यां स्थित गृह्णन्धर्मकथाश्रुतावधिकृतः शास्यो निरस्ताग्रहः ॥ . प्राणा यथाऽऽत्मनोऽभीष्टा भूतानामपि ते तथा । आत्मौपम्येन भूतानां दयां कुर्वीत मानवः ॥ श्रयतां धर्मर्वस्वं श्रुत्वा चैवावधार्यताम् ।। आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥ अवृत्तिव्याधिशोकार्ता-ननुवर्तेत शक्तितः । आत्मवत्सततं पश्ये-दपि कीटपिपीलिकाः ।।
Page #15
--------------------------------------------------------------------------
________________
प्रथमोध्यायः।
श्रुतेस्तामवश्यं कुर्वाणः । अघभीः, अघात्पापात् दृष्टादृष्टापायफलात्कर्मणश्चौर्यादेर्मद्यपानादेश्च बिभ्यत् पापभीरुरित्यर्थः । एषां संक्षेपतो व्याख्याऽत्र कता। विस्तरतो धर्मामृतपञ्जिकायां ज्ञानदीपिकासंज्ञिकायां कृता, सा सर्वात वृष्टव्या ॥ ११ ॥ साम्प्रतं मन्दमतिविनेयानां सुखस्मृत्यर्थ सकलसागारधर्म सङ्ग्रहाति
सम्यक्त्वममलममलान्यणुगुणशिक्षात्रतानि मरणान्ते ।
सल्लेखना च विधिना पूर्णः सागारधर्मोऽयम् ॥ १२॥ टीका- भवति । अयं श्रूयमाण: सागारधर्मः । किंविशिष्टः, पूर्णः समग्रः। कि किमित्याह-सम्यक्त्वं तावकिविशिष्टं, अमलं शङ्कादिदोषरहितं । तथा अणुगुणशिक्षापूर्वाणि व्रतानि अणुगुणशिक्षाव्रतानि अणुव्रतानि गुणव्रतानि शिक्षाव्रतानि च । किंविशिष्टानि अमलानि निरतिचाराणि । न केवलं निरतिचारतत्वार्थश्रद्धानपूर्वाणि निरतिचाराणुव्रतादीनि, किं तर्हि, मरणान्ते विधिना सल्लेखना चेत्ययं सम्पूर्णः श्रावकधर्मः । शेषविशेषणानां यथास्वमत्रवान्तर्भावादनुक्तसमुच्चयार्थेन चशब्देन समुच्चयनाच्च । तत्र मरणमेवान्तो मरणान्तस्तद्भवमरण, नत्वावीचिमरणं तस्य प्रतिक्षणं सर्वप्राणिषु भावात् । सल्लेखना सम्येक लाभाद्यनपेक्षत्वेन लेखना, बाह्येनाभ्यन्तरेण च तपसा कायकषायाणां कृशीकरणम् । विधिस्तु सप्तदशाध्याये वक्ष्यते । [ यत्प्रतिसमयमायुषः कर्मणो निषेकस्योदयपूर्विका निर्जरा भवति तदावीचिमरणम् ] असंयमिनोऽपि सम्यग्दृशः कर्मक्लेशापकों भवतीत्युपदेशार्थमिदमाह--
भूरेखादिसदृकषायवशगो यो विश्वदृश्वाज्ञया हेयं वैषयिकं सुखं निजमुपादेयं त्विति श्रद्दधत् । चौरो मारयितुं धृतस्तलवरेणेवाऽऽत्मनिन्दादिमान शर्माक्षं भजते रूजत्यपि परं नोत्तप्यते सोऽप्यधैः ॥ १३ ॥
Page #16
--------------------------------------------------------------------------
________________
१२
.
सागारधर्मः।
___टीका-नोत्तप्यते नोत्कृष्टं क्लिश्यते । कोऽसौ, सोऽपि अविरतसम्यग्दृष्टिः, किं पुनः त्यक्तविषयसुखः सर्वात्मनैकदेशेन वा हिंसादिभ्यो विरतश्चेत्यपिशब्दार्थः । कैः कर्तृभिः, अघैः पापैर्दोषैर्वा बहुभिः । यः किं करोतीत्याहयो भजते सेवते। किं तत्, शर्म सुखम् । किं विशिष्टं, आक्षं अक्षेभ्य इंद्रियेभ्य आगतं चक्षुरादिभिरिष्टरूपादीननुभवत आविर्भूतमित्यर्थः । न केवलमिन्द्रिय सुखमनुभवति यो रुजत्यपि पीडयति च । कं, परं स्थावरं जंगमं वा भूतग्रामं । किं कुर्वन् , श्रद्दधत् अभिनिविशमानः। किं, हेयं वैषयिकं सुखं निजमुपादेय मति एव तु अनावधारणार्थो भिन्नक्रमः । हेयं त्याज्यं न जातु सेव्यं । किं तत्, सुखं । किंविशिष्टं, वैषयिकं विषयेष्विष्टकामिन्यादिप्वनुभूयमानेषु जातं, तत्सेवनस्य दुःखकारणकर्मबन्धनिबन्धनत्वात् । तथा उपादेय रत्नत्रयोपयोगादात्मन्याविर्भावनीयं । किं तत् , सुखं । किंभूतं, निजं आत्मोत्थं नित्य वा । इत्येवं रोचमानो न स्वप्नेऽप्यन्यथा । कया हेतुभूतया, विश्वदृश्वनः सर्वज्ञस्य आज्ञा शासनमनुलंध्य तया 'नान्यथा वादिनो जिना ' इति दृढतमप्रतिपत्त्येत्यर्थः । एतेन निश्चयसम्यग्दर्शनभाग्भवन्नित्युक्तं वेदितव्यम् । पुनः किविशिष्टः सन् , आत्मनिन्दादिमान् धिग्मामेवं प्रदीपहस्तमप्यन्धकूपे पतन्तमित्यात्मानं निन्दयन् , भावन्कथमस्मै दुर्गतिदुःखाय घटिष्यते एवमुत्पथचारी जनोऽयमिति गुरुसाक्षिकं गर्हमाणश्च । नन्वेवंभूतो भवन्नपि कुतोऽक्षसुखं सेवते, कुतश्च तदर्थ भूतग्राम पीडयतीत्याह-भरेखादिसदृक्पायवशगो यतः, भूरेखादिभिः पृथ्वीभेदादिभिः सदृशास्तुल्याः कषायाः भूरेखादिसदृक्षायाः, दृषदवनीत्यादिसूत्रोक्तलक्षणा अप्रत्याख्यानावरणादयो द्वादश क्रोधादिविकल्पाः तेषां वशः पारतंत्र्यं तं गच्छतीति तद्गश्चरित्रमोहोदयपरतंत्रः सन्नित्यर्थः । क इव, चौर इव तस्करो यथा । किं विशिष्टः, धृतो रुद्धः
१ न दुःखबीजं शुभदर्शनक्षितौ कदाचन क्षिप्रमपि प्ररोहति ।
सदाप्यनुप्तं सुखबीजमुत्तमं कुदर्शने तद्विपरीतमिष्यते ॥ २ णो इंदिएसु विरदो णो जीवे थावरे तसे वापि ।
जो सद्दहदि जिणुत्तं संमाइठी अविरदो सो ॥
Page #17
--------------------------------------------------------------------------
________________
प्रथमोध्यायः।
किं कर्तु, मारयितुं । मारयिष्याम्येनमह मिति प्रतिरुद्धः । केन, तलवरेण कोट्टपालेन । अयगर्थो- यथा तलवरेण मारयितुमुपक्रान्तश्चौरो यद्यत्तेन खरारोहगादिकं कार्यते तत्तत्करोति तथा जीवोऽपि चारित्रमोहोदयेन यद्यदनात्मनीनं भावद्रव्यहिंसादिकं कार्यते तत्तदयोग्यं जानन्नपि करोत्येव, दर्निवारत्वात्स्वकाले विपच्यमानस्य कर्मणः । एतेन सम्यक्त्वग्रहणात्पूर्वमबद्वायुषोऽसंयतस्यापि सम्यग्दृष्टेः सुदेवत्वसुमानुषत्वव्यतिरेकेण सकलसंसारसं. हरणात् कर्मक्लेशापकर्षः । बद्धायुषस्तु पश्चादगृहीतसम्यक्त्वस्य नरकगतेरपिरत्नप्रभायां जघन्यस्थित्यैवानुभवनसम्भवात् बहुदुःखोपरमश्च प्रतिपादित: प्रतिपत्तव्यः । ततः संयमलब्धिकालात्पूर्व संसारेभीरुणा भव्येन सम्यग्दर्शनाराधनायां नित्यं यतितव्यमिति विधौ पर्यवसन्नमेतत्सूत्रमधिगन्तव्यम् ॥ ___ इदानीं धर्मशर्मवद्यशोऽपि मनःप्रसत्तिनिमित्तत्वात् शिष्टैरवश्यं सेव्यमित्युपदेष्टुमाहधर्म यशः शर्म च सेवमानाः केऽप्येकशो जन्म विदुः कृतार्थम् । अन्ये द्विशो विम वयं त्वमोघान्यहानि यान्ति त्रयसेवयैव ॥ १४ ॥
टीका-विदुः जानन्ति। के, केऽपि लौकिकाः। किं तत्, जन्म मनुष्यभव ग्रहणम् । किंविशिष्टं, कृतार्थ कृतः साधितोऽर्थः प्रयोजनं साध्यं यस्य तत् किंकुर्वाणाः, सेवमानाः कर्तव्यतानुरक्तबुद्ध्या साधयन्तः । कं, धर्म सुकृतम्, यशः कीर्तिम्, शर्म सुखम् । कथम् , एकशः एकैकम्। केचिद्धर्ममात्र केचिद्यशोमात्र केचिच्च सुखमात्रं साधयन्तो वयं प्राप्तमनुष्यजन्मफला इति मन्यन्तं नानारुचित्वाल्लोकस्य । तथा अन्ये लोकच्छन्दानुवर्तिनः शास्त्रज्ञम्मन्याः
१ दुर्गतावायुषो बन्धात्सम्यक्त्वं यस्य जायते । ____ गतिच्छेदो न तस्यास्ति तथाप्यल्पतरा स्थितिः ॥ २ जन्मोन्माज्यं भजतु भवतः पादपद्मं न लभ्यं तञ्चेत्रेवर चरतु न च दुदेवतां सेवतां सः।
अश्नात्यन्नं यदिह सुलभं दुर्लभं चेन्मुधाऽऽस्त क्षुव्यावृत्य कवलयति कः कालकूटं बुभुक्षुः ।।
Page #18
--------------------------------------------------------------------------
________________
१४
सागारधर्मः । विदुः। किं, जन्म । किम्भूतं, कतार्थम् । किं कुर्वाणाः, धर्म यशः शर्म च सेव मानाः । कथं, द्विशः द्वे द्वे । केचिद्धर्मयशसी केचिद्धर्मशर्मणो केचिद्यशःशर्मणी च साधयन्तो जन्म फलवन्मन्यन्त इत्यर्थः । तर्हि युष्माकं किं मतमित्यत्राहतुर्विशेपे । विद्म जानीमः । केते, वयं लौकिकशास्त्रज्ञपरितोषकारिणः । कानि अहानि दिनानि अर्थान्नृजन्मसम्बन्धीनि । किं कुर्वन्ति, यान्नि गच्छन्ति । किंविशिष्टानि,अमोघानि सफलानि । कया, त्रयसेवया धर्मयशःशर्मसाधनया, न पुनरेकैकस्य द्वयोदयो निर्वर्तनयेत्येवकारार्थः । एतेनाहरहयथाशक्तिधर्मादित्रय साध्यामिति विधिः प्रत्येयः ॥ १४ ॥
एवं भावितसम्यक्त्वस्य संयतत्वसामग्रीविरहे कालादिलब्बिलाभादवश्यारोहणीय संयतासँयतत्वपदं निर्देष्टुमाह -
मूलोत्तरगुणनिष्ठामधितिष्ठन्पश्चगुरुपदशरण्यः ।
दानयजनप्रधानो ज्ञानसुधां श्रावकः पिपासुः स्यात् ॥१५॥ टीका-स्यात् भवेत । कोऽसौ, श्रावकः शृणोति गुर्वादिभ्यो धर्ममिति श्रावकः। किं कुर्वन्, अधितिष्ठन् उपयुञ्जानः।का, मूलोत्तरगुणनिष्ठां मूलानि उत्तरगुणप्ररोहणनिमित्तत्वात् सँयमार्थिभिः प्रागनुप्ठेयत्वाच्च उत्तरे मूलगुणानन्तरसेव्यत्वादुत्कृष्टत्वाच्च, मूलानि च उत्तरे च मूलोत्तरास्ते च ते गुणाश्च संयमविकल्पाः तेषां निष्ठा निर्वाहो दृष्टफलनिरपेक्षतया निराकुलं वहन् । किम्भूतो भूत्वेत्याह-पंचगुरुपदशरण्यः, पंचानां गुरूणामहदादीनां पदानि चरणाः शरण्यानि शरणे आतिहरणे स्वात्मसमर्पणे वा साधूनि योग्यानि यस्य स तथोक्तः । एवं सम्यग्दर्शनपूर्वक देशसँयममधितिष्ठतो दानयजनाध्ययनलक्षणमाचारं कर्तव्यतया दानेत्यादिना निर्दिशति-कीदृशस्तथाभूतः श्रावकः स्यात्, दानयजनप्रधानः दान-पात्रादिभिश्चतुर्धा, यजन-नित्यमहादियज्ञः पंचधा, दानं च यजनं च दानयजने प्रधाने मुख्य यस्यासौ ।
१ जो तसवहादु विरदो अविरदओ तह य थावरवहादो ।
एकसमयामि जीवो विरदाविरदो जिणेक्कमइ ॥ २ ध्यानन शोभते योगी संयमेन तपोषनः । सत्येन वचसा राजा गेही दानेन शोभत ।।
Page #19
--------------------------------------------------------------------------
________________
प्रथमोध्यायः।
बार्ता तुश्रावकस्य गौणीति प्रधानग्रहणालख्यति। किं चैरिष्णु: श्रावकःस्यात्, पिपासुः पातुमिच्छुः उपयोक्तुकामः । कां, ज्ञानसुधां स्वपरान्तरज्ञानामृतम् ।
एवं पञ्चमगुणस्थानं निर्दिश्य तद्विकत्थानां. भावव्यात्मनामेकादशाना मुपासकपदानां मध्येऽन्यतमं विशुद्धदृष्टिर्भहाव्रतपरिपालनलालसो यथा. मशक्ति यः प्रतिपद्यते तमभिनन्दति . . .
रागादिक्षयतारतम्यविकसच्छुद्धात्मसंवित्सुखस्वादात्मस्वबहिर्बहिस्त्रसवधायहोव्यपोहात्मसु । सट्टग्दर्शनिकादिदेशविरतिस्थानेषु चैकादश- .
स्त्रेक यः श्रयते यतिव्रतरतस्तं श्रद्दधे श्रावकम् ॥ १६॥ टोका-श्रद्दधे साधु करोत्ययमिति प्रतिपधेऽहम्। कं, तं श्रावकं । यः किं, यः श्रयते स्वीकुरुते । किं तत् , एक पद। केषु मध्ये, दर्शनिकादिदेशविरतिस्थानेषु एकादशसु वक्ष्यमाणेषु। कथम्भूतो भूत्वा, सक् सम्यग्दर्शनशुद्धः । पुनः किंविशिष्टः, यतिव्रतरतः यतीनामनगाराणां व्रतानि सर्वहिंसादिविरतिपरिणामास्तेषु रत आसक्तः, सर्वविरतिकलशारोपणो हि श्रावकधर्मप्रासादः। किंविशिष्टेषु भावतस्तेवित्याह रागादिक्षयतारतम्येत्यादि, क्षयः सर्ववातिसर्द्धकानामुदयाभावः , अर्थादेशवातिस्पर्द्धकानामुदयः, तारतम्य यथोतरनुत्कर्षः, रागादीनां रागद्वेषमोहानां क्षयतारम्येन विकसन्ती आविर्भवन्ती चासौ शुद्धात्मसंविच्च निर्मलचिद्रूपानुभूतिः सैव तदुत्यं वा मुखमानन्दस्तस्य सादः वसवित्याऽनुभवः स एवात्मा स्वरूपं येषां तानि तदात्मानि तेषु । क, एवंभूतेषु अबहिरध्यातं । तर्हि द्रव्यतः किंरूपेप्रित्याहबहिः शरीरे वाचि मनसि च त्रसवधं आदिर्येषां स्थूलादीनां तानि त्रसवधादीनि तान्येव अंहांसि पापानि तत्कलवात्तेभ्यो व्यपोहो विधिपूर्वक
१ आयुःश्रीवपुरादिकं यदि भवत्पुण्यं पुरोपार्जित । स्यात्सर्वं न भवेन्न तच्च नितरामायासितेऽप्यात्मनि ।। हत्यायीः सुविचार्य कार्यकुशलाः कार्येऽत्र मंदोद्यमा । 'द्रागागामिभवार्थमेव सततं प्रीत्या यतन्ते तराम् ॥
.4M.
Page #20
--------------------------------------------------------------------------
________________
सागारधर्मः।
देवगुरुसधर्मसाक्षिकमपोहो विरतिः सैवात्मा एषां तानि तेषु । ' च शब्दस्यात्र भिन्नक्रमस्य योजनात् ॥ १६ ॥ किंलक्षणास्ते दर्शनिकादयो भवन्तीत्युदिशति
दृष्ट्या मूलगुणाष्टकं व्रतभरं सामायिकं प्रोषधं सच्चित्तानदिनव्यवायवनितारम्भोपधिम्यो मतात् । उद्दिष्टादपि भोजनाच विरतिं प्राप्ताः क्रमात्प्राग्गुण
प्रौढ्या दर्शनिकादयः सह भवन्त्येकादशोपासकाः ॥१७॥ टीका-भवन्ति। के, उपासकाः श्रावकाः । कति, एकादश । किन्नामानः दर्शनिकादयः । दर्शनिकोऽथ व्रतिक इत्यादिना वक्ष्यमाणाः। किंविशिष्टाः सन्तः,प्राप्ताः प्रतिपन्नाः । किं तत्, दृष्ट्या मूलगुणाष्टकमित्यादिविरतिमित्यन्तं देशसंयम । तथा हि-सम्यक्त्वेन विशिष्टं मूलगुणाष्टकं प्राप्तो दर्शनिकः। स एव च व्रतभर निरतिचाराण्यणुव्रतादीनि प्राप्तो व्रतिकः। एवमुत्तरेष्वपि सम्बन्धः कर्तव्यः । व्यवायो मैथुनम् , वनिता स्त्री, उपधिः परिग्रहः, मतात् मदर्थ साधु कृतमनेनेदमित्यनुमोदितात् , अपि भोजनात् मतादुद्दिष्टाच्च भोजनादपि विरति प्राप्तोऽनुमतविरत उद्दिष्टविरतश्च, योऽनुमतमुद्दिष्टं च भोजनमपि न कुर्यात् स किमर्थ अन्यत्रारम्भादौ पापकर्मण्यनुमतिं दद्यात्, उद्दिष्टं च वसत्याच्छादनादिकमुपयुञ्जीतेत्यपिशब्दाल्लभ्यते । कथं ते, तत्तत्पदं प्राप्ताः, सह सार्धम् । कया, प्राग्गुणप्रौढ्या दृष्टिमूलगुणाष्टकर्षण सह व्रतभरं, तत्रयप्रकर्षण सामायिकमित्यादियुक्त्य! ते तथा भवन्तीत्यर्थः । कस्मात्तथा भवन्ति, क्रमात् अनादिविषयाभ्यासासंयमभग्नमनस्कतया युगपत्तत्रासामर्थ्यात् । ___ साम्प्रतं दुरितापचयनिमित्तेज्यादिधर्मकर्मसिध्यर्थ कृष्यादिषट्कर्मलक्षण वार्तामाचरतो गृहस्थस्यावश्यंभावी सावद्यलेशः प्रायश्चित्तेन पक्षादिभिश्च निराकार्य इत्युपदेशार्थमाह- .
नित्याष्टाह्निकसच्चतुमुर्खमहः कल्पद्रुमैन्द्रध्वजाविज्याः पात्रसमक्रियान्वयदयादत्तीस्तपःसंयमान् । स्वाध्यायं च विधातुमादृतकृषीसेवावणिज्यादिकः शुन्याऽऽप्तोदितया गृही मललवं पक्षादिभिश्व क्षिपेत् ॥१७॥
Page #21
--------------------------------------------------------------------------
________________
प्रथमोध्यायः । टीका-क्षिपेत् निराकुर्यात् । कोऽसौ, गृही गृहस्थः। कं, मललवं पापलेशम् । कया, शुध्द्या प्रायश्चित्तेन । किविशिष्टया, आप्तोदितया। न केवलं तया पक्षादिभिश्च पक्षचर्यासाधनैस्त्रिभिः। किंविशिष्टः सन् , आदृतकृषीसेवावणिज्यादिकः आदृतानि यथास्वं प्रवर्तितानि कृषीसेवावणिज्यानि आदिशब्दान्मषीविद्याशिल्पानि च षडाजीवनकर्माणि येन सः आइतकृषीसेवावणिज्यादिकः। किं कर्तु, विधातुं कर्तुं करिष्याम्यह मिज्यादीनि जिनागमप्रसिद्धानि पञ्च धर्मकर्माणीति अध्यवसाय। कानि तानीत्याह-नित्येत्यादि, नित्यमहः * अष्टाह्नि कमहः सच्चतुर्मुवमेहः कल्पद्रुमः ऐन्द्रध्वजश्चति पञ्चाहत्पूजाविशेषाः इज्याः।
उक्तं च आर्षे भगवजिनसेनपाद:प्रोक्ता पूजार्हतामिज्या सा चतुर्धा सदार्चनं ।
चतुर्मुखमहः कल्प-द्रुमश्चाष्टाह्निकोपि च ॥ १ तत्र नित्यमहो नाम शश्वज्जिनगृहं प्रति । स्वगृहान्नायमानाऽर्चा गन्ध पुष्पाक्षतादिका ॥ चैत्यचंत्यालयादीनां भक्त्या निर्मापणं च यत् । शासनीकृत्य दान च ग्रामादीनां सदार्चनं ॥ या च पूजा मुनीन्द्राणां नित्यदानानुषङ्गिणी ।
स च नित्यम हो शेयो यथाशक्त्युपकल्पितः ।। * अष्टाह्निको महः साव-जनिको रूढ एव सः । २ महामकुटबद्वैस्तु क्रियमाणो महामहः । __चतुर्मुखः स विज्ञेयः सर्वतोभद्र इया॑प ।। ३ दत्वा किमिच्छुकं दानं सम्राभियः प्रवर्त्यते ।
कल्पवृक्षमहः सोयं जगदाशाप्रपूरणः ।। ४ महानन्द्रध्वजोन्यस्तु सुरराजः कृतो महः ॥ बलिस्नपनमित्यन्य-त्रिसध्यासेवया समं । उक्तेष्वेव विकल्पेषु ज्ञेयमन्यच्च तादृशं ॥ एवं विधविधानेन या महज्या जिनेशिनाम् । विधिज्ञास्ता मुशन्तीज्यां वृत्तिं प्राथमकल्पिकीं ॥ वाती विशुद्धवृत्या स्यात्कृष्यादौनामनुष्ठितिः ।
Page #22
--------------------------------------------------------------------------
________________
१८
सागारधर्मः ।
चतुर्मुखस्य सदितिविशेषणादत्रेदानीमयमेव परमोत्कृष्टः कल्पवृक्षस्यासम्भवादिति प्रकाशयति । अत एवैन्द्रध्वजेन सह समस्यैष निर्दिष्टः । पात्रे त्यादि. समा आत्मना समाना क्रिया आधानादिका उपलक्षणान्मन्त्रव्रतादयश्च यस्यासो समक्रियः, पात्रं च समक्रियश्च अन्वयश्च दया च पात्रसमक्रियान्वयन दयास्तदाश्रया दत्तयो दानानि तद्दतयस्ताः, पात्रदत्तिं समानदत्तिमन्वयदत्तिं दयादत्तिं च । तपोऽनशनादि संयम व्रतधारण । स्वाध्याय श्रुतभावनाम् । किमेतत्पक्षादित्रयमित्याह
स्यान्मैयाधुपबंहितोऽखिलवधत्यागो न हिंस्यामहं
धर्माद्यर्थमितीह पक्ष उदितं दोषं विशोध्योज्झतः । • सूनौ न्यस्य निजान्वयं गृहमथो चर्या भवेत्साधनं
त्वन्तेऽनेहतनूज्झनाद्विशदया ध्यात्यात्मनः शोधनम् ॥ टीका -- स्यात् भवेत् । कोऽसौ, पक्ष: अहिंसापरिणामत्वं । किमात्मा, अखिलवधत्यागः अखिलोऽनृतादिसहितो वधः प्राणा तिमातः, स चेह सागारधर्मप्रक्रमात्त्रसवधविषय एव तस्य त्यागो वर्जनं। किंविशिष्टः, मैत्र्याधुप
५ चतुर्थी वर्णिता दत्ति-र्दयादानसमाऽन्वयः ।।
सानुकम्पमनुग्राह्ये प्राणिवृन्देऽभयप्रदा । त्रिशुद्ध्यानुगता सेयं दयादत्तिर्मता बुधैः ।। महातपोधनायार्चा-प्रतिग्रहपुरःसरम् । प्रदानमशनादीनां पात्रदानं तदिष्यते ॥ समानायात्मनाऽन्यस्मै क्रियामन्त्रवतादिभिः। निस्तारकोत्तमायेह भूहमाद्यतिसजनम् ॥ समानदत्तिरेषा स्यात् पात्रे मध्यमतामिते । समानप्रतिपत्त्यैव प्रवृत्ता श्रद्धयाऽन्विता ॥ आत्मान्वयप्रतिष्ठार्थ सूनवे यदशेषतः । समं समयवित्ताभ्यां स्ववर्गस्यातिसर्जनं ।। सषा सकलदत्तिः स्यात् स्वाध्यायः शुभभावना । तपोऽनशनवृत्यादि संयमो व्रतधारणम् ।।
Page #23
--------------------------------------------------------------------------
________________
प्रथमोध्यायः ।
१९
1
बृंहितो मैत्रीप्रमोदकारुण्यमाध्यस्थ्यभावनाभिरुपचितः । केन, न हिंस्यामहं धर्माद्यर्थमित्येवम्प्रकारेण सङ्कल्पेन धर्मार्थ देवतार्थं मन्त्रसिद्यर्थमौषधार्थमाहारार्थं वा प्राणिघातं न कुर्यामिति प्रतिज्ञाय । अयं हि मन्दकषायोऽपि गृहवास सेवनरतत्वेन प्रवर्तितारस्भत्वादनारम्भजामेव साङ्कल्पिक हिसां परिहर्तुं शक्नोति न पुनरारम्भानुषङ्गिणीम, तस्या गृहिणोऽवश्यम्भावात् । क पक्षः स्यात्, इह एतेषु पक्षादिषु मध्ये । तथा भवेत् । काऽसौ चर्या दर्शनिकादारभ्यानुमतिविरतं यावदुपासकाचारः । कस्य गृहिणः । किं कुर्वतः, उज्झतस्त्यजतः । किं तत्, गृहं । किं कृत्वा न्यस्य स्थापयित्वा । कं, निजान्वयं स्वं पोप्यवर्गं धनं, धर्म्य च । क्क, सुनौ पुत्रे । तदसम्भवे तत्तुल्ये वंश्येऽपि । किं कृत्वा, विशोध्य विधिपूर्वकं प्रायश्चित्तेन शास्त्रोक्तविधानेन निराकृत्य । कं, दोषं हिंसादिकं । किंविशिष्ट, मुदितं कृप्या दिद्वारेणोत्पन्नं कथमथो, पक्षसँस्कारानन्तरं वैराग्यपरिणामे प्रत्यहमारोहति सतीत्यर्थः । तथा भवेत् । किं तत् साधनं किं, शोधनं शुद्धी रागादिदोषापनयनं । कस्य, आत्मनः चिद्रूपस्य । कया, ध्यात्या ध्यानेन । किंविशिष्टया, विशदया शुद्धया । कस्मात् अन्नहतनूज्झनात् अन्नं चाहार ईहश्च शरीरचेष्टा तनुश्च शरीरमन्नेहतनवस्तासामुज्झनं नियतकालं यावज्जीवं च यथोचितं परित्यागस्तस्मात् । क्व, अन्ते गृहत्यागावसाने मरणे चासन्ने । तु' शब्दादुदितं दोषं विशोध्येत्यनुवृत्यात्रापि योज्यम् ॥ १९ ॥
{
:
इदानीं पक्षादिकल्पनाद्वारेण कृतावतारान् श्रावकस्य त्रीन् प्रकारानुद्दिश्य संक्षेपेण लक्षयन्नाह -
1
पाक्षिकादिभिदा त्रेधा श्रावकस्तत्र पाक्षिकः । द्धर्मगृह्यस्तनिष्ठो नैष्ठिकः साधकः स्वयुक् ॥ २० ॥ टीका - भवति । कोऽसौ, श्रावकः । कतिधा, त्रेधा त्रिविधः । कया, पाक्षिकादिभिदा पक्षेण चरति दीव्यति जयति वा, पाक्षिक: आदिर्यस्यासौ पाक्षिकादिः, पाक्षिको नैष्ठिकः साधकश्चेति स एव तेन वा भिद् भेदो विकल्पकथनं पाक्षिकादिभिद् तया । तानेव लक्षणतो दर्शयति - तत्रेत्यादि, तत्र तस्यां पाक्षिकादिभिदि । भवति । कोऽसौ, पाक्षिकः । किंरूपः, तद्धर्म
Page #24
--------------------------------------------------------------------------
________________
सागारधर्मः।
गृह्यः तस्य श्रावकस्य धर्म एकदेशहिंसाविरतिरूपं व्रतं गृह्यं पक्षः प्रतिज्ञाविषयो यस्यासौ प्रारब्धदेशसंयमः श्रावकधर्मस्वीकारपर इत्यर्थः। तथा भवति। कोऽसा, नैष्ठिकः निष्ठया चरति तत्र वा भवः किंविशिष्टः, तन्निष्ठः तत्र धर्मे निष्ठा निर्वहणं यस्यासौ. घटनानदेशसंयमो निरतिचारश्रावकधर्मनिर्वाहपर इत्यर्थः । तथा भवति। कोऽसौ, साधकः समाधिमरणं साधयतीति साधकः । किंविशिष्टः, स्वयुक् स्वस्मिन्नात्मनि युक् समाधिर्यस्यासौ निष्पनदेशसंयम आत्मध्यानतत्पर इति भद्रम् ॥ २० ॥
इत्याशाधरविरचितायां स्वोपजधर्मामृतसागारधर्मदीपिकायां
भव्यकुमुदचंद्रिकासज्ञायामादितो दशमः . प्रक्रमाच्च प्रथमोऽध्यायः ।
द्वितीयोऽध्यायः। एवं सागारधर्म सूचयित्वा पाक्षिकाचारं प्रपञ्चयितुकामः प्रथमं तावद्यादृशस्य भव्यस्य सागारधर्माभ्युपगमो धर्माचार्यैरभ्युनुज्ञायते तादृशं तं दर्शयन्नाह
त्याज्यानजस्रं विषयान् पश्यतोऽपि जिनाज्ञया ।
मोहाच्यक्तमशक्तस्य गृहिधर्मोऽनुमन्यते ॥१॥ टीका-अनुमन्यते क्रियता मित्यनुज्ञायते धर्माचार्यैः । कोऽसौ, गृहिधर्मः । कस्य, अशक्तस्य असमर्थस्य। किं कर्तु, त्यक्तुं । कान् , विषयान् इष्टकामिन्या दीन् । कस्मात् . मोहात् प्रत्याख्यानावरणलक्षणचारित्रमोहोदयोद्रेकात्। किं कुर्वतोऽपि, पश्यतोऽपि प्रतिपद्यमानत्य, न पुनरनन्तानुबन्धिरागादिपरतंत्रवत्सेव्यतयाऽभ्युपगच्छत इत्यपिशब्दार्थः । कान् , विषयान् । किविशिष्टान्, त्याज्यान असेव्यान् । कथम् , अजलं शश्वत् । कया, जिनाज्ञया वीतरागसर्व
१ विषयविषमाशनोत्थित-मोहज्वरजनिततीव्रतृष्णस्य । नि:शक्तिकस्य भवतः प्रायः पेयाधुपक्रम: श्रेयान् ।।
Page #25
--------------------------------------------------------------------------
________________
द्वितीयोध्यायः ।
२१
ज्ञानुल्लंघ्यशासनेन सम्यग्दर्शनशुद्धस्य सत इत्यर्थः । इदमत्र तात्पर्य, एकदेशविरतिमहं करिष्यामीति प्रतिपद्यमानो गृही सूरिभिरोमित्यनुज्ञायते । एतेन स्थावरवधानुमतिदोषानुषंगोऽप्याचार्याणां परिहृतो भवति ॥ १ ॥
अधुना पाक्षिक दर्शन विशुद्धिमध्यासीनमहिंसा सिध्यर्थं मद्यादिविरतौ नियुक्त -
तत्रादौ श्रद्दधज्जैनी - माज्ञां हिंसामपासितुम् । मद्यमांसमधून्युज्झे- त्पञ्च क्षीरिफलानि च ।। २ । टीका-उज्झेत् त्यजेत् । कोऽसौ, देशसंयमोन्मुखो गृही। कानि, मद्यमांसमधूनि न केवलमेतानि पञ्च क्षीरिफलानि च क्षीरिणां पिप्पलादीना पञ्चानां फलानि । च - शब्दान्नवनीतरात्रिभुक्त्यगा लितपानीयादिकमप्युत्सृजेदित्यनुक्त समुच्चितं व्रतति । किं कर्ते, अपासितुं त्यक्तं । कां, हिंसां भावतो मद्यादिविषयरागरूपां द्रव्यतश्च तद्गतप्राणिप्राणव्यपरोपणलक्षणाम् । किं कुर्वन्, श्रद्दधत् । कां, आज्ञां । किं विशिष्टां, जैनीं जिनागगमित्यर्थः । क्क, आदौ प्रथमतः । क्व, तत्र गृहिधर्मे । एतेनेदमुक्तं भवति, तादृग्जिनाज्ञा श्रद्धानेनैव मद्यादिविरतिं कुर्वन् देशव्रती स्यात् न कुलधर्मादिबुध्द्या ॥ २ ॥
1
अथ स्वमतपरमताभ्यां मूलगुणान् विभजतेअष्टैतान् ग्रहिणां मूलगुणान् स्थूलवधादि वा ।
फलस्थाने स्मरेद् द्यूतं मधुस्थान इहैव वा ॥ ३ ॥ टीका - स्मरेत् स्मृतिविषयीकुर्यात् । कौऽसौ, मूलगुणस्थापनोद्यतः सूरिः । कानू, मूलगुणान् । केषां गृहिणां । किंविशिष्टान् एतान् उपासकाध्ययनादि
1
१ सर्वविनाशी जीवस्त्रसंहनने त्याज्यते यतो जैनैः 1 स्थावरहननानुमतिस्ततः कृता तैः कथं भवति ॥
२ मांसाशिषु दया नास्ति न सत्यं मद्यपायिषु । अनृशंस्यं न मर्त्येषु मधूदुम्बरसेविषु ॥
Page #26
--------------------------------------------------------------------------
________________
सागारवर्मः।
शास्त्रानुसारिभिः पूर्वमनुष्ठेयतयोपदिष्टान् । कति, अष्ट मद्यमांसमधुपञ्चोदुम्बरफ लविरतिरूपान् । वा-शब्दः पक्षान्तरसूचने। स्वामिसमंतभद्रमते पुनः सूरिः स्मरेत् । किंतत्, स्थूलवधादि स्थूलहिंसानृतस्तेयमैथुनग्रन्थपञ्चकम् । क्क, फलस्थाने पञ्चोदुम्बरफलप्रसङ्गे तन्निवृत्तौ वा मद्यमांसमधुविरतित्रय पञ्चाणुव्रतानि चाष्टौ मूलगुणान् स्मरेदित्यर्थः । पुनर्वाशब्दः पक्षान्तरसुचने । महापुराणमते तु-स्मरेत् किं तत्, द्यूतं । क, मधुस्थाने। कस्मिन् इहैव अस्मिन्नेव स्वाम्युक्ताष्टमूलगुणपक्षे मद्यमांसद्यूतविरतित्रय पंचाणुव्रतानि चाष्टौ मूलगुणान् स्मरेदित्यर्थः । स्मरेदित्यनेन च सर्वत्र यमनियमादौ मुक्त्यंगे स्मरणपरेण भवितव्यमिति लक्षयति ॥ ___ सम्पति मद्यस्य जन्तुभूयिष्ठतानुवादपुरस्सरमुपयोक्तृणामुभयलोकबाधकत्वमुपदर्शयन्नवश्यत्याज्यतामभिधत्ते.. यदेकबिन्दोः प्रचरन्ति जीवाश्चत्तत् त्रिलोकीमपि पूरयन्ति ।
यद्विक्लवाश्चमममुंचलोकं यस्यन्ति तत् कश्यमवश्यमस्येत् ॥४। टीका-अस्येत् त्यजेत् । कोऽसौ, स्वहितैषी। किं तत्, कश्यं मद्य । कथं, अवश्यं नियमेन मद्यविरतिव्रतं स्वीकुर्यादित्यर्थः । यतः पूरयन्ति भरन्ति। के ते, जीवाः । कां, त्रिलोकीमपि समस्त विष्टपमपि । कथं, तत् ततः । १ मद्यमांसमधुत्यागैः सहोदुम्बरपञ्चकैः ।
अष्टावेते गृहस्थानामुक्ता मूलगुणाः श्रुते ॥ ( सोमदेवः ) २ मद्यमांसमधुत्यागैः सहाणुवतपञ्चकम् । . अष्टौ मूलगुणानाहु-गुहिणां श्रमणोत्तमाः ॥ (समन्तभद्रः) ३ हिंसासत्यस्तेया-दब्रह्मपरिग्रहाच्च बादरभेदात् । ...
द्यूतान्मांसान्मद्या-द्विरतिगृहिणोऽष्ट सन्त्यमी मूलगुणाः ॥ ४ मनोमोहस्य हेतुत्वा-न्निदानत्वाच्च दुर्गते: । -
मद्य साद्भः सदा त्याजमिहामुत्र च दोषकृत् ॥ विवेक: संयमो ज्ञान सत्यं शाचं दया क्षमा । मद्यात्प्रवीयते सर्वं तृण्या वन्हिकणादिव ॥ .
Page #27
--------------------------------------------------------------------------
________________
द्वितीयोध्यायः ।
चे, द्यदि । प्रचरन्ति संचरन्ति । के, जीवाः कस्मात् यदेकबिन्दोः यस्य मद्यस्यैकस्माद् बिन्दोः पृषतः सकाशात्, तज्जाः प्राणिनो यदि विचरेयुरित्यर्थः । यतश्च यस्यन्ति भ्रंशयन्ति श्रेयो,-ऽहितं कुर्वन्तीत्यर्थः के ते, यद्विक्लवाः येन मद्येन मोहितमतयः । कं, लोकं । किंविशिष्ट,-ममुं, न केवलममुं च तद्भवमुत्तरभवं च दुःखमय कुर्वन्तीत्यर्थः ॥ ४ ॥
इदानीं नद्यपानस्य द्रव्यभावहिंसानिदानत्वमनूद्य तन्निवृत्तिप्रवृत्तिशीलानां गुणदोषौ दृष्टान्तद्वारण स्पष्टयन्नाह
पीते यत्र रसाङ्गजीवनिवहाः क्षिप्रं म्रियन्तेऽखिलाः कामक्रोधभयभ्रमप्रभृतयः सावद्यमुद्यन्ति च । तन्मय व्रतयन्न धूर्तिलपरास्कन्दीव यात्यापदं
तत्पायी पुनरेकपादिव दुराचारं चरन्मज्जति ॥ ५॥ . टीका-न याति न प्राप्नोति । कोऽसौ, पुरुषः । कां, आपद विपदं । किं कुर्वन, व्रतयन् व्रत कुर्वन् अमद्यपकुलजातोऽपि देवादिसाक्षिक निवर्तयन्नित्यर्थः। किं तत् , तत्प्रागुक्तविनिपातप्राय मद्यम् । क इव, धूर्तिलपरास्कन्दीव धूर्तिलनामा चोरो यथा । तत्पायी पुनर्मद्यशीलो मज्जति दुर्गतिदुःखे ब्रजति । किं कुर्वन् चरन् अनुतिष्ठन् । कं, दुराचारं अगम्यगमनाभक्ष्यभक्षणापेयपानादिकं । क इव, एकपादिव एकपान्नामपरिव्राजको यथा । यत्र किं, यस्मिन्मद्य पीते सति। नियन्ते विपद्यते । के ते, रसाङ्गजीवनिवहाः रसोऽङ्ग कारण येषां ते रसांगाः रसजा इत्यर्थः, तथा रसस्यांगानि कारणानि रसांगानि मद्ये रसजनका इत्यर्थः, रसांगाश्च ते जीवाश्च रसांगजीवास्तेषां निवहा: संधाताः। किंवि
१ रसजनां च बहूनां जीवानां योनिरिष्यते मद्यम् । ..
मद्य भजतां तेषां हिंसा सञ्जायतेऽवश्यम् । समुत्पद्य विपद्येह देहिनोऽनेकशः किल ।। मद्ये भवन्ति कालेन मनोमोहाय देहिनाम् ।।
Page #28
--------------------------------------------------------------------------
________________
२१
सागारधर्मः।
शिष्टाः, अखिलाः समस्ताः । कथं, क्षिप्र पानानन्तरमेव । तथा उद्यन्ति उत्पद्यन्ते । के ते, कामादयः । क सति, यत्र पीते सति । कथे, सावधं पापेन निन्दया वा सह । कामो योन्यादौ रिंसा, भ्रमो मिथ्याज्ञानं चक्रारूढस्येव शरीरभ्रमण, कामश्च क्रोधश्च भयं च भ्रमश्च कामक्रोधभयभ्रमाः ते प्रभृतयः प्रमुखा येषामभिमानहास्यारतिशोकादीनां ते ॥ ५॥ अथचारविशुद्धिगर्वितानां पिशिताशनं गईमाणः प्राह -- स्थानेऽश्नन्तु पलं हेतोः स्वतश्चाशुचिकश्मलाः।
वादिलालावदप्पधुः शुचिम्मन्याः कथं नु तत् ॥६॥ टोका- अनन्तु भक्षयन्तु । के ते, कश्मलाः जातिकुलाचारमलिनाः । किं तत् पलं मांसं । किंविशिष्टं, अशुचि । कस्मातू, हेतोः शुक्रशोणितलक्षणात् कारणात् , न केवलं हेतोः स्वतश्च स्वभावेन अमेध्यबीजममध्यस्वभावं चेत्यर्थः । कथे, स्थाने युक्तं कश्मलानां तथाप्रवृत्त्युपपत्तेः । नु अहो। कथमधुः कथं खादेयुः गर्हामहे । अन्याय्य ( अनार्य ) मेतत् । गहें सप्तम्या विधानात् । के ते, शुचिम्मन्याः आचारविशुद्धमात्मानं मन्यमानाः । तत् , पलं । किंविशिष्टं, श्वादिलालावदपि श्वादीनां कुक्कुरचित्रकश्येनादीनां लाला मुखस्रावः श्वादिलाला सा अस्मिन्नस्तीति श्वादिलालावत्, अथवा श्वादिलालया तुल्य श्वादिलालावत् कुक्कुरादिलालायुक्तं तत्तुल्यं वा । अपि विस्मये ॥६॥
साम्प्रतं स्वयमेव पञ्चत्वं प्राप्तस्य पञ्चेन्द्रियस्य मत्स्यादेर्भक्षणमदृषणमुत्रे क्षमाणान् प्रत्याह
हिंस्रः स्वयम्मृतस्यापि स्यादनन् वा स्पृशन्पलम् । पक्कापक्का हि तत्पेश्यो निगोदौघसुतः सदा॥७॥ १ भक्षयान्त पलमस्तचेतना: सप्तधातुमयदेहसंभवम् ।
यद्वदन्ति च शुचित्वमात्मानः किं विडम्बनमतः परं बुधाः । यतो मांसाशिनः पुंसो दमो दानं दयार्द्रता । सत्यशैचव्रताचारा न स्युर्विद्यादयोऽपि च ॥
Page #29
--------------------------------------------------------------------------
________________
द्वितीयोध्यायः ।
२५
:
1
टीका - स्यात् भवेत् । कोऽसौ पुमान् किंविशिष्ट:, हिंस्रः द्रव्य हिंसाशीलः । भावहिंसायास्तु मांसभक्षणे दर्पकरतरत्वेन वक्ष्यमाणत्वात् । किं कुर्वन्, अश्नन् खादन्, स्पृशन् वा हस्तादिना संयोजयन् । किं तत्, पलं मांसं । कस्य, स्वयमृतस्यापि भोक्तुः प्रयत्नमन्तरेणापि त्यक्तप्राणस्य मत्स्यमहिषादेः किं पुनरात्मना वधितस्येत्यपिशब्दार्थः । कुत इत्याह- हि यस्मात् । भवन्ति । का, स्तत्पेश्यः तस्य पलस्य पेश्यः कोशाः । किंविशिष्टाः, निगोदौघसुतः निगोदानां साधारणांगजीवानामे कशरीरभोक्तृणामनन्तप्राणिनामोघाः सङ्घातास्तान् सुवन्ति जनयन्तीति निगोदौघसुतः । किं कदाचिन्नत्याह- सदा सर्वदा । किंविशिष्टाः सत्यः, पक्का पक्का पक्काश्चापक्काश्चेति विगृह्यैकशेषेण पक्का पक्का इत्यस्य लोपस्तेन पक्काः आमाः पच्यमानाश्चेत्यर्थः ॥ ७ ॥
अथ मांसस्य प्राणिहिंसा तिरे कप्रभवत्वेनेन्द्रियदर्प करतरत्वेन च भावहिंसाहेतुत्वानुवादपुरस्सरं तद्भक्षणं नरकादिगतिविवर्तन निमितत्वेनोपदिशन्नाहप्राणिहिंसार्पितं दर्प-मर्पयत्तरसं तराम् ।
रसयित्वा नृशंसः स्वं विवर्तयति संसृतौ ॥ ८ ॥
टीका-विवर्तयति द्रव्यक्षेत्रकालभावैः परिवर्तयति । कोऽसौ, नृशंसः क्रूरकर्मकृत् । कं, स्वं आत्मानं । क, संसृतौ संसारे । किं कृत्वा, रसयित्वा आस्वाद्य ।
१ अभिमानभयजुगुप्सा- हाम्यारतिक'मशोक कोपाद्याः । हिंसायाः पर्यायाः सर्वेऽपि च नरकसंनिहिताः ||
न विना प्राणिविघातान्मांसस्योत्पत्तिरिष्यते यस्मात् । मांस भजतस्तस्मात् प्रसरत्यनिवारिता हिंसा ॥
ये भक्षयन्त्यन्यपलं स्वकीयपलपुष्टये । त एव घातका यन्न वद को भक्षकं विना ॥ मांसास्वादनलुब्बस्य देहिनो देहिनं प्रति । हन्तुं प्रवर्तते बुद्धि: शाकिन्य इव दुर्धियः २ आमां न्ग पक्कां वा खादति वा स्पृशति वा पिशितपेशीम् । स निहन्ति सततनिचितं पिण्डं बहुजीवकोटीनाम् ॥ आमास्वपि पक्कास्वपि विपच्यमानासु मांसपेशीषु । सातत्येनोत्पादस्तज्जातीनां निगोतानाम् ॥
Page #30
--------------------------------------------------------------------------
________________
२६
सागारधर्मः ।
किं तत् , तरस मांस। किंविशिष्टं प्राणिहिंसार्पित पञ्चन्द्रियजीववधसम्पादितं । किं कुर्वत् ,अर्पयत् सम्पादयत्।कं, दर्प मदावेशं । कथं, तरां अतिशयेनेत्यऽव्ययमिदम् । मृष्टान्नादिभ्योऽतिशयेन प्राणिवधादुत्पन्न तद्वदपकरं चेत्यर्थ ॥ ८ ॥
इदानीं सांकल्पिकस्यापि पलभक्षणस्य दोषं तद्विरतिनिष्ठायाश्च गुणमुदाहरणद्वारेण दर्शयति-..
भ्रमति पिशिताशनाभि-ध्यानादपि सौरसेनवत्कुगतीः। ...... तद्विरतिरतः सुगति श्रयति नरश्चण्डवत्खदिरवद्वा ॥ ९ ॥
टीका--भ्रमति परापरविवर्ते परिवर्तयति । कोऽसौ, जीवः। काः, कुगतीः नरकादिभवग्रहणानि। कस्मात् पिशिताशनाभिध्यानादपि मांसभक्षणसङ्कल्पात्, किं पुनस्तद्भक्षणादित्यपिशब्दार्थः । किंवत् , सौरसेनवत् सौरसेनराज्ञा तुल्यं । तथा श्रयति लभते । कोऽसौ, नरः । कां, सुगति स्वर्गादिगति । किविशिष्टः सन्, तद्विरतिरतः पिशितनिवृत्तावासक्तः । किंवत्, चण्डवत् चण्डनामोज्जयिन्यां मातङ्गो यथा । अथवा खदिरवत् खदिरसारो नाम भिल्लराजो यथा ॥ ९ ॥
अधुना मांस सतां भक्षणीयं प्राण्यङ्गत्वान्मुद्गादिवदित्यनुमानाभिधानग्रहावेशान्मांसभक्षणदक्षिणान् प्रत्याह
प्राण्यङ्गत्वे समेऽप्यन्नं भोज्यं मांसं न धार्मिकैः ।
भोग्या स्त्रीत्वाविशेषेऽपि जनैर्जायैव नाम्बिका ॥ १० ॥ टीका-भोज्यं भोक्तव्यं । किं तत्, अन्नं मुद्ांदिधान्यं रसरक्तविकारजत्वा. भावात् । न तु भोज्यं । किं तत्, मांस रसरक्तविकारजत्वात् । कैः, धार्मिकैः धर्ममहिंसारूपं चरद्भिः । क्व सति, प्राण्यङ्गत्वे जीवकायत्वे । किविशिष्टे,समेऽपि
१ पञ्चेन्द्रियस्य कस्यापि वधे तन्मांसक्षणे। यथा हि नरकप्राप्ति-न तथा धान्यभोजनात् ॥ धान्यपाके प्राणिवधः परमेकोऽवशिष्यते । गृहिणां देशयमिनां स तु नात्यंतबाधकः ॥ मांसखादकगतिं विमृशंतः शस्यभोजनम्ता इह संतः । प्राप्नुवंति सुरसम्पदमुच्चै-जैनशासनजुषो गृहिणोऽपि ।।
Page #31
--------------------------------------------------------------------------
________________
द्वितीयोध्यायः ।
२७
अन्नमांसयोस्तुल्येऽपि, न च प्राणिकायत्वाद्धौंन्यस्यापि मांसत्वमुपकल्प्य, यो यः प्राणिकायः स स मांसमिति व्याप्तेरभावात् । अन्यथा वृक्षत्वादशोकादीनामपि निम्बत्वकल्पनाप्रसङ्गात् । यत: भोग्या अनुभवनीया ! काऽसौ, जायैव,न पुनरम्बिका माता भोग्या । कैजनैः लोकैः । क सति, स्त्रीत्वाविशेषेऽपि भार्यामात्रोः स्त्रीत्वे तुल्येऽपि ॥ १० ॥ अथ क्रमप्राप्तान्मधुदोषानाहमधुकृवाताघातोत्थं मध्वशुच्यपि बिन्दुशः ।।
खादन बनात्यघं सप्त-ग्रामदाहाहसोऽधिकम् ॥ ११ ॥ टीका-बध्नाति आत्मना योजयति । कोऽसौ, पुमान् । किं तत् अघ पापं । कियत् अधिकं अतिरिक्तं। कस्मात् सप्तंग्रामदाहांहसः ग्रामसप्तकदाहकपातकात्। किं कुर्वन् , खादन् भक्षयन् । किं तत् , मधु क्षौद्र। किंमात्रमपि बिन्दुशः बिन्दु मात्रमपि। किंविशिष्टं, मधुकृतां मक्षिकाभ्रमरमशकादीनां मधुकरप्राणिनां व्रातः सङ्घस्तस्य घातो नाशस्तस्मादुत्था उत्पत्तिर्यस्य तन्मधुकृहातघातोत्थं । पुनः
१ मांसं जीवशरीर जीवशरीर भवेन्न वा मांसम् ।
____ यद्वनिम्बो वृक्षो वृक्षस्तु भवन्न वा निम्बः ॥ शुद्धं दुग्धं न गोमासं वन्तुवैचित्र्यमीदृशं । विषघ्नं रत्नमाहेयं विषं च विपदे यतः ॥ हेयं पलं पयः पयं समे सत्यपि कारण । विषद्रोरायुषे पत्र मूलं तु मृतये मतम् ।।
२ ग्रामसप्तकविदाहिरेफसा तुल्यता न मधुभक्षिरेफसः । तुल्यमञ्जालजलेन कुत्रचि-निम्नगापतिजलं न जायते ॥ यश्चिखादिषति सारघं कुधी-मक्षिकागणविनाशनस्पृहः । पापकर्दमनिषेधनिम्नगा तस्य हन्त करुणा कुतस्तनी ? ।। स्वयमेव विगलितं यद् गहीतमथवा बलेन निजगोलात् ।
तत्रापि भवति हिंसा तदाभयप्राणिनां घातात् ॥ . ३ अनेकजंतुसङ्घात निघातनसमुद्भवम् ।
___ जगुप्सनीयं लालावत्क: स्वादयति माक्षिकम् ॥ माक्षिकागर्भसम्भूत-बालाण्डकानपीडनात् । जातं मधु कथ संत: सेवंते कललाकृति। एकैककुसुमक्रोडाद्रसमापीय मक्षिकाः। यद्वमंतिम धूच्छिष्टं तदनंति न धार्मिका:
Page #32
--------------------------------------------------------------------------
________________
सागारधर्मः ।
२८
किंविशिष्ट, अशुचि प्राणिनिर्यासजन्यत्वान्मक्षिका दिवान्तत्वाच्चापवित्रं म्लेच्छलालादिसम्पृक्तत्वात् तुच्छं च ॥ ११ ॥
1
अथ क्षौद्रवन्नवनीतस्त्र दोषभूयिष्टतया त्याज्यतामुपतिशति-मधुवन्नवनीतं च मुञ्चत्तत्रापि भूरिशः । द्विमुहूर्तात्परं शश्वत्संसजन्त्यंगिराशयः ॥ १२ ॥ टीका - मुञ्चत् व्रतयेत् । कोऽसौ, धार्मिकः । किं तत्, नेवनीतं च दधिसारमपि । किंवत्, मधुवत् क्षौद्रं यथा । यतः संसजन्ति सम्मूर्छन्ति । के, अङ्गिगराशयः जीवसंघाताः । कियन्तो भूरिशः प्रचुराः । क्व, तत्रापि न केवलं मधुनि नवनीतेऽपि । कथं, शश्वत् सदा । कथं परम्, ऊर्ध्वं । कस्मात् द्विमुहूर्तात् मुहूर्तद्वयात् ॥ १२ ॥
"
अथ पञ्चरक्षणे द्रव्यभावहिंसादोषमुपपादयति — पिप्पलोदुम्बरलक्ष- वटफल्गुफलान्यदन् ।
हन्त्यार्द्राणि त्रसान् शुष्का - ण्यपि स्वं रागयोगतः ॥ १३ ॥ टीका - हन्ति हिनस्ति । कोऽसौ पुरुषः । कानू, त्रसान् स्थूलसूक्ष्मप्राणिकुलाकुलत्वात्तेषाम् । किं कुर्वन, अदन् भक्षयन् । कानि, पिप्पलादिफलानि ।
"
1
१ यन्मुहूर्तयुगत: पर सदा मूर्छति प्रचुरजीवराशिभिः ।
तद्विलन्ति नवनीतमत्र ये ते व्रजन्ति खलु कां गतिं मृताः ॥
अंतर्मुहूर्तात्परत: सुसूक्ष्मा जंतुराशय: । यत्र मूर्छन्ति नाद्यं तन्नवनीतं विवेकिभिः॥ २ अश्वत्थोदुम्बरप्रक्ष- न्यग्रोधादिफलेष्वपि ।
प्रत्यक्षा: प्राणिनः स्थूला : सूक्ष्मश्चागमगोचराः ॥ ससंख्यजीवव्यपघातवृत्तिभिर्न धीवरैरस्ति समं समानता । अनंतजीवव्यपरोपकाणामुदुम्बराहारविलोलचेतसाम् ॥ मद्येोदुम्बरपञ्चका मित्र मधुत्यागाः कृपा प्राणिनां नक्तंभुक्तिविमुक्तिराप्तविनुतिस्तोयं सुवस्त्रसृतम् ।
Set प्रगुणा गुणा गणधरैरागारिणां कीर्तिता एकेनाप्यमुना विना यदि भवेद् भूतो न गेहाभ्रमी ।
Page #33
--------------------------------------------------------------------------
________________
२९
द्वितीयोध्यायः । फल्गुरत्र काकोदुम्बरिका, किंविशिष्टानि, आर्द्राणि, न केवलमााणि तान्यदन् स्थूलसूक्ष्ममाणिनो हन्ति, किं तर्हि,शुष्काण्यपि कालोच्छिन्नत्रसाण्यपि। तान्यदन् स्वमात्मानं हन्ति । कस्मात्,रागयोगतः प्रीतिसम्बन्धात् । अन्तर्दीपकत्वादिदं मध्वादिप्वपि योज्यम् । तत्रापि रागावतारद्वारेणात्मघातस्योक्तत्वात् ॥ १३ ॥ अथ निशाभोजनागालितजलोपयोगयोर्मद्याधुपयोगवदोषमयत्वात्परिहारमाह
रागजीववधापाय-भूयस्त्वात्तद्वदुत्सृजेत् ।
रात्रिभक्तं तथा युज्या-न पानीयमगालितम् ॥ १४ ॥ टीका -उत्स्सृजेद्वजे येद्धार्मिकः । किं तत्, रात्रिभक्तं रात्रावन्नप्राशनं । किंवत्, तद्वत् मद्यपानादिवत् । कस्मात् रागेत्यादि, रागश्च जीववधश्च अपायाश्च जलोदरादयस्ते भूयांसो दिनभोजनादतिशयेन बहवो यत्र तद्रागजीववधःपायभूयस्तस्य भावस्तत्त्वं तस्मात् तथा न.युज्यात् नोपयुञ्जीत। किं तत्, पानीय जलं पेयत्वात्तैलवृतादि वा सर्व द्रवद्रव्यं। किं विशिष्ट, मगालितं वस्त्रादपरिसृतम्।
साम्प्रतमनस्तमितभोजिनः सत्फलं किञ्चिदृष्टान्तेन मुग्धजनप्ररोचनार्थ प्रकटयति
चित्रकूटेऽत्र मातंगी यामानस्तमितत्रतात् ।
स्वमा मारिता जाता नागश्रीः सागराङ्गजा ॥ १५ ॥ टीका-जाता उत्पन्ना। काऽसा, मातङ्गो अन्तेवासिनी । किंविशिष्टा, साग राङ्गजा सागरदत्तश्रेष्ठिपुत्री। किंनाम्नी, नागश्रीः । क, चित्रकूटे। किंविशिष्टे, ऽत्र एतस्मिन्नेव मालवदेशस्योत्तरस्यां दिशि प्रसिद्धे । कम्मात्, यामानस्तमितव्रतात् याम प्रहरमात्र पालितादनस्तमितभोजन नियमात् । किंविशिष्टा सती मारिता । केन स्वभा जागरिकनाम्ना ॥ १५॥
एवं कृतपरिकर्मणा पाक्षिकश्रावकेण स्थूलहिंसादिविरतिरपि यथात्मशक्ति भावनीयेत्युपदेशार्थवाह१ अर्कालोकेन विना भुंजान: परिहरेत्कथं हिंसाम् ।
अपि बोधितप्रटीपो भोज्यजुषां सूक्ष्मजीवानाम ।।
Page #34
--------------------------------------------------------------------------
________________
सागारधर्मः ।
स्थूलहिंसाद्धृतस्तेय-मैथुनग्रन्थवर्जनम् । पापभीरुतयाऽभ्यस्ये द्वलवीर्यनिगृहकः ।। १६ ।। टीका - अभ्यसेद्भावयेत् । कोऽसौ, श्रावकः । किं तत्, स्थूलेत्यादि, वक्ष्यमा णलक्षणं स्थूलहिंसादिविरतिरूपमणुव्रतपञ्चकं । कया, पापभीरुतया, न तु राजादिभयेन, ततस्तदभ्यासे कर्मक्षपणाऽनिष्टेः । किंविशिष्टः सन्, बलवीर्यनिगूहक: बलमाहारादिजा शक्तिः सैव नैसर्गिकं वीर्य तयोर्निगूहकस्तदनुसारीत्यर्थः ॥ १६ ॥
एवं हि स्थूलहिंसाविरतिमभ्यस्यता वेश्यादाविव द्यूतेऽप्यासक्तिर्न कर्तव्येत्युपदिशति—
द्यूते हिंसा नृतस्तेय - लोभमायामये सजन् ।
1
क्व स्वं क्षिपति नानर्थे वेश्याखेटान्यदारवत् ॥ १७ ॥ टीका — कानर्थे न क्षिपति, सर्वस्मिन्धर्मादिभ्रंशे व्यापारयतीत्यर्थः । कं, स्वं आत्मानं जातिं च । किं कुर्वन्, सजन्, गृद्धिं कुर्वन्, कौतुकमात्रेण द्यूतक्रीडनस्य पाक्षिकेण त्यक्तुमशक्यत्वादेवमुच्यते । व सजन्, द्यूते । किंविशिष्टे हिंसा प्राणातिपातः, अनृतमसत्यवचनं, स्तेयं चौर्य, लोभो गार्ग्य, माया वञ्चना ताः प्रकृताः प्राचुर्येण कृता अस्मिन्निति हिंसादिभये । किंवत्, वेश्यायामाखेटे परदारेषु च यथा । वेश्यादिष्वपि हिंसादिमयत्वादासजतः स्वस्य ज्ञातीनां च पुरुषार्थभ्रंशस्य सुप्रसिद्धत्वात् ॥ १७ ॥
३०
१ सर्वानर्थप्रथनं मथनं शौचस्य सद्म मायायाः । दूरात्परिहर्तव्य चौर्यासत्यास्पदं द्यूतम् ॥
२ कौपीनं वसनं कदन्नमशनं शय्या धरा पांसुला जल्पाश्लीलगिर: कुटुम्बकजनद्रोहः सहाया विटाः । व्यापाराः पग्वञ्चनानि सुहृदचौरा महान्तो द्विषः प्रायः संघ दुरोदरव्यसनिनः ससांरवासक्रम: ।
Page #35
--------------------------------------------------------------------------
________________
द्वितीयोध्यायः ।
__ अथ प्रतिपाद्यानुरोधाद्धर्माचार्याणां सुत्राविरोधेन देशनानानात्वोपलम्भाद्भग्यन्तरेणाष्टमूलगुणानुद्देष्टुमाह___मद्यपलमधुनिशाशनपश्चफलीविरतिपश्चकाप्सनुती।
जीवदया जलगालनमिति च क्वचिदष्टमूलगुणाः ॥ १८ ॥ टीका-वर्तन्ते । के, मूलगुणाः । कति, अष्टं । क्व, क्वचित् शास्त्र । कथं, मद्येत्यादि, पञ्चफली पञ्चानां फलानां समाहारः पिप्पलादिफलपञ्चकमित्यर्थः, तद्विरतिरेक एवात्र मूलगुणः, अप्तनुतिः त्रिकालदेववन्दना, मद्यं च पलं च मधु च निशाशनं च पञ्चफली च ताभ्यः पञ्चभ्यो विरतस्यतासां पञ्चक, तच्चाप्तनुतिश्च ते द्वे, जीवदया अनुकम्पा, जलगालनं चेति ॥ १८ ॥
प्रकृतमुपसंहरन् सार्वकालिकसम्यक्त्वशुद्धिपूर्वकमद्यादिविरतिकृतां कृतोपनीतीनां ब्राह्मणक्षत्रियविशां जिनधर्भश्रुत्यधिकारितामा विष्कर्तुमाह
यावज्जीवमिति त्यक्त्वा महापापानि शुद्धधीः । - जिनधर्मश्रुतेर्योग्यः स्यात्कृतोपनयो द्विजः ॥ १९ ॥ टीका-स्याद्भवेत् । कोऽसौ, द्विजः द्विर्जातो मातृगर्भे जिनसमयज्ञानगर्ने चोपादात् द्विजो ब्राह्मणक्षत्रियविशामन्यतमः ‘त्रयो वर्णा द्विजातय ' इति वचनात् । किंविशिष्टः, कृतोपनयः कृतो यथावि युपकल्पित उपनयो मौजीबन्धादिलक्षणोपनीतिक्रिया यस्य स तथोक्तः । किवि शिष्टः स्यात्, योग्योऽधि कारी। कस्या, जिनधर्मश्रुतेः वीतरागसर्वज्ञोपदिष्टस्य धर्मस्य श्रुतिः श्रवण शास्त्र वा उपासकाध्ययनादि तस्याः । किं कृत्वा, शुद्धधीः सम्यक्त्व विशुद्धबुद्धिः सन् । त्यक्त्वा । कानि, महापापानि महद्विपुलमनन्तसंसारकारणं पापं येभ्यस्तानि मद्यपानादीनि प्राक्प्रबन्धेनोक्तानि । कथं यावज्जीवं जीविताववधि । कथे, इति अनेन प्रकारेण ॥ १९॥
१ अष्टावनिष्टदुस्तरदुरितायतनान्यमान परिवर्ण्य । जिनधर्मदेशनाया भवन्ति पात्राणि शुद्धधियः ।।
Page #36
--------------------------------------------------------------------------
________________
सागारधर्मः । . सहजामहार्यो चालौकिकी गुणसम्पदमुद्रहतो भव्यान् यथासम्भवमवगमयन्नाह--
जाता जैनकुले पुरा जिनवृषाभ्यासानुभावाद्गुणे येऽयत्नोपनतैः स्फुरन्ति सुकृतामग्रेसराः केऽपि ते । येऽप्युत्पद्य कुदृवकुले विधिवशादीक्षोचिते स्वं गुणविद्याशिल्पविमुक्तवृत्तिनि पुनन्त्यन्वीरते तेऽपि तान् ॥२०॥ टीका-सन्ति । के ते, केऽपि प्रविरलाः सम्प्रति बहूनामभावात् । किविशिष्टा, अग्रेसराः सम्यक्त्वसहचारिपुण्योदयोन्मुख्याः । केषां, सुकृतां कृतपुण्यानां । ये किं, ये स्फुरन्ति लोकचित्ते चमत्कारं कुर्वन्ति । कैः, गुणः सग्यक्त्वादिभिः । किंविशिष्टं, यत्नोपनतैः प्रयत्नमन्तरेण प्राप्तैः सहजैरित्यर्थः । किंविशिष्टाः सन्तो, जाता उत्पन्नाः । क. जैनकुले जिनो देवता येषां ते जैनास्तेषां कुलं पूर्वपुरुषपरम्पराप्रभवो वंशस्तत्र, जिनोक्तगर्भाधानादिनिर्वाणपर्यन्तक्रियामंत्रसंस्कारयोग्ये महा-वय इत्यर्थः । कस्मात् , पुरा पूर्वजन्मनि जिनवृषस्य सर्वज्ञोक्तधर्मस्याभ्यासः असकृत्प्रवृत्तिस्तस्यानुभावो माहात्म्य तज्जनितपुष्योदयस्तस्मात् । तथा अन्वीरतेऽनुगच्छन्ति । के, तेऽपि । कान् , तान् पूर्वोक्तान् जैनकुलजातान् , तत्सहशा भवन्तीत्यर्थः । ये किं, ये पुनन्ति पवित्रीकुर्वन्ति । कं. स्वमात्मानं । कैः, गुणैः वक्ष्यमाणतत्वार्थप्रतिपत्यादिभिः । किं कृत्वा, उत्पद्य जनित्वा । क, कुक्कुलेऽपि मिथ्यादृष्टिवंशेऽपि । अपिरत्र विस्मये भिन्नक्रमः । किंविशिष्टे, दीक्षोचिते दीक्षा व्रताविष्करणं व्रतोन्मुखस्य वृत्तिरिति यावत्, सा चात्रोपासकदीक्षा जिनमुद्रा वा उपनीत्यादिसंस्कारो वा। पुनः किं विशिष्ट, विद्या शिल्पविमुक्तवृत्तिनि विद्याऽत्राजीवनार्थ गीतादि-शास्त्रं, शिल्पं कारुकर्म, ताभ्यां विमुक्ता ततोऽन्या वृत्तिर्वार्ता कृष्यादिलक्षणो जीवनोपायो यत्र तस्मिन् । कस्मात्, विधिवशात् मिथ्यात्वसहचारिपुण्योदययोगात्॥२०॥ __ इदानीं द्विजातिषु कुलक्रमायातमिथ्याधर्मपरिहारेण विधिवज्जिनोक्तमार्ग माश्रित्य स्वाध्यायध्यानबलादशुभकर्माणि निघ्नन्तं भव्यमभिष्टौति
Page #37
--------------------------------------------------------------------------
________________
द्वितीयोध्यायः । तत्वार्थ प्रतिपद्य तीर्थकथनादादाय देशवत तद्दीक्षाग्रतापराजितमहामन्त्रोऽस्तदुर्दैवतः । आङ्गं पूर्वमथाथसंग्रहमधीत्याधीतशास्त्रान्तरः पर्वान्ते प्रतिमासमाधिमुपयन्धन्यो निहन्त्यंहसी ॥ २१ ॥ टीका-निहन्ति नाशयति । कोऽसौ, धन्यः सुकृती। के, अंहसी द्रव्यभावपापे इत्यर्थः । किं कुर्वन् , उपयन् अभ्यम्यन् । कं, प्रतिमासमा धिं रात्रिप्रतिमायोगं । क्व, पर्वान्ते पर्वणां मासि मासि द्वयोरष्टम्योर्द्वयोश्चतुर्दश्योरन्ते अवसाने रात्रावित्यथः । किविशिष्टः सन् ,अधीतशास्त्रान्तरः अधीतानि विपठितानि शास्त्रान्तराणि सौगता दिग्रन्था व्याकरणादीनि च येनासौ। किं कृत्वा, अधीत्य पठित्वा । कम्, अर्थसंग्रहं उद्धारग्रन्थमुपश्रुत्य, सूत्रमपि किंविशिष्ट, माझं आचाराङ्गा दिद्वादशाङ्गश्रितं, न केवलमाङ्ग, पौर्व च चतुर्दशपूर्वगतश्रुता श्रितम् । अथ शब्दोऽत्र चार्थे । किम्भूतो भूत्वा, अस्तदुर्दैवतः त्यक्तमिथ्यादेव तागणः । पुनः किंविशिष्टो भृत्वा, तदित्यादि, तस्य देशव्रतस्य दीक्षा अग्रं पूर्व यस्य तत्तद्दीक्षाग्रं उपासकदीक्षापूर्वकं धृतो गुरुमुखाद्धारितोऽपराजितो नाम महान् गणधरदेवादीनां पूज्यो मन्त्रः पञ्चनमस्काराख्यो येन स तद्दीक्षाग्रतापराजितमहामंत्र. । किं कृत्वा, आसाद्य लब्ध्वा । किं तत् देशव्रतं तद्दीक्षामूलगुणाष्टकादिकं । किं कृत्वा, प्रतिपद्य निश्चित्य। कं, तत्वार्थ जीवा दिकं । कस्मात् , तीर्थकथनात् तीर्थस्य धर्माचार्यस्य गृहस्थाचार्यस्य वा कथनाद्वाक्यप्रबन्धात् । एता अष्टौ मिथ्यादृशो दीक्षान्वयक्रियाः क्रमेण संक्षेपाद त्रोक्ता विस्तरतस्तु ज्ञानप्रदीपिकायामार्य वा द्रष्टव्याः। अत्रार्षोक्तः श्लोको यथा
अवतारो वृत्तलाभ: स्थानलाभो गणग्रहः ।
पूजाराध्य पुर्ण्ययज्ञो दृढचर्योपयोगिती ॥ - १ गुरुर्जनयिता तत्व-ज्ञानं गर्भः सुसंस्कृतः ।
तथा तत्रावतीर्णोऽसा भव्यात्मा धर्मजन्मना । २ ततोऽस्यवृत्तलाभ: स्यात्तदैव गुरुपादयोः। प्रणतस्य व्रतव्रात विधाननोपसेदुषः।
Page #38
--------------------------------------------------------------------------
________________
सागारधर्मः ।
३ ततः कृतोपवासस्य पूजाविधिपुरस्सरम् ।
स्थानलाभो भवेदस्य तत्रायमुचितो विधिः ॥ जिनालये शुचौ रंगे पद्ममष्टदल लिखेत् । विलिखेदा जिनास्थान-मण्डल समवृत्तकम् ॥ लक्ष्णेन पिष्टचूर्णेन सलिलालोडितेन वा । वर्तनं मण्डलस्येष्टं चन्दनादिद्रवेण वा ॥ तस्मिन्नष्टदले पद्मे जैने वाऽऽस्थानमण्डले । विधिना लिखिते तज्ज-विष्वग्विरचितार्चने ।। जिनार्चाभिमुखं सूरि-विधिनैनं निवेशयेत् । तवोपासकदीक्षेय-मिति मूर्ध्नि मुहुः स्पृशन् । पञ्चपुष्टिविधानेन स्पृष्ट्वैनमधिमस्तकम् । पतो;ासे दीक्षयेत्युक्त्वा सिद्धशेषं च लम्भयेत् ॥ ततः पञ्चनमस्कार-पदान्यस्मायुपादिशेत् । मन्त्रोऽयमखिलात्पापा-त्त्वां पुनीतादितीरयन् ॥ कृत्वा विधिमिमं पश्चात्पारणाय विसर्जयेत् ।
गुगरनुग्रहात्सोऽपि सम्भीत स्वं गृहं व्रजेत् ॥ ४ इयन्तं कालमज्ञानात्पूजिता:स्थ कृतदरम् ।
पज्यास्त्विदानीमस्माभि-रस्मत्सयदेवताः ।। ततोऽपमृषितेनाल-मन्यत्र स्वैरमास्यताम् । इति प्रकाशमवता नीत्वान्यत्र कचित्त्यजेत् ॥ गणग्रहः स एषः स्यात्प्राक्तनं देवतागणम् । विसृज्याचेंयतः शान्ता देवता: समयोचिताः॥ ५ पूजाराध्याख्यया ख्याता क्रियाऽस्य स्यादतः परा।
पूजोपवाससम्पत्या गृह्णतोऽङ्गार्थसंग्रहम् ॥ ६ ततोऽन्या पुण्ययज्ञाख्या क्रिया पुण्यानुबन्धिनी । शृण्वतः पूर्वविद्याना-मर्थं सब्रह्मचारिगः ॥ तदास्य दृढचर्याख्या क्रिया स्वसमय श्रुतम् । निष्ठाप्य श्रृण्वतो ग्रन्थान्बाह्यानन्यांश्च कांश्चन ।। दृढव्रतस्य तस्यान्या क्रिया स्यादुपयोगिता । पापवासर्पयन्त प्रातमायोगधारणम् ॥
Page #39
--------------------------------------------------------------------------
________________
द्वितीयोध्यायः ।
अथ शूद्रस्याप्याहारादिशुद्धिमतो ब्राह्मणादिवद्धर्मक्रियाकारित्वं यथोचितमनुमन्यमानः प्राह -
शूद्रोऽप्युपस्कराचारवपुःशुध्याऽस्तु तादृशः। . ___ जात्या हीनोऽपि कालादिलब्धौ ह्यात्माऽस्ति धर्मभाक् ॥२२॥
टोका-अस्तु भवतु । कोऽसौ, शूद्रोऽपि । किंविशिष्ट,-स्तादृशो जिनधर्मश्रुतेर्योग्यः । किविशिष्टः सन् , उपस्करः आसनाद्युपकरण, आचारः मद्यादि वरतिः, वपुः शरीरं. तेषां त्रयाणां शुध्या पवित्रतया विशिष्टः । कुत इत्याह-जात्येत्यादि, हि यस्मादस्ति भवति । कोऽसौ, आत्मा जीवः । किंविशिष्टो, धर्मभाक् श्रावकधर्माराधकः । कस्यां सत्यां, कालादिलब्धौ कालादीनां कालदेशादीनां लब्धौ धर्माराधनयोग्यतायां सत्यां । किंविशिष्टोऽपि हीनो रिक्तोऽल्पो वा, किं पुनरुत्कृष्टो मध्यमो वेत्यपिशद्धार्थः । कया, जात्या वर्णसम्भृत्या । वर्णलक्षणमार्षे यथा
जातिगोत्रादिकर्माणि शुक्लध्यानस्य हेतवः।
येषु ते स्युस्त्रयोवर्णाः शेषाः शूद्राः प्रकीर्तिताः । इत्यमानृशंस्यममृषाभाषित् परस्वनिवृत्तिरिच्छानियमो निषिद्धासु च स्त्रीषु ब्रह्मचर्यमिति सर्वसाधारणधर्ममभिधायेदानीमध्ययनं यजनं दानं ब्राह्मणक्षत्रियविशां समानो धर्मोऽध्यापनयाजनप्रतिग्रहाश्च ब्राह्मणानामेवेति विशेषतस्तद्व्याख्यानार्थमुत्तरप्रबन्धमुपक्रममाणो यजनादिविधानाय पाक्षिकं तावदेवं नियुक्ते
यजेत देवं सेवेत गुरून्पात्राणि तर्पयेत् ।
कम धर्म्य यशस्यं च यथालोकं सदा चरेत् ॥ २३ ॥ __टीका-यजेत पूजयेत् । कोसौ, श्रावकः । कं, देवं दीव्यते स्तूयते इंद्रादिभिरिति देवः परमात्मा तं । तथा सेवेत उपासीत । कोऽसौ, श्रावकः । कानि, यात्राणि संपूज्यमानमोक्षकारणगुणान् । तथा आचरेत् अनुतिष्ठेत् । कोऽसौ, श्रावकः । किं तत् ,कर्म भृत्वाऽऽश्रितानित्यादिना वक्ष्यमाणं । किंविशिष्टं,धर्म्य
Page #40
--------------------------------------------------------------------------
________________
३६
सागारधर्मः।
दयाप्रधानत्वाद्धर्मादनपेतं, न केवलं धर्म्य यशस्यं च धर्म्य तावदवश्यमाचरणीय तच्चत्कीर्त्यर्थ स्यात्तदा सुतरां भद्रकमित्ययमर्थश्वशद्धेनान्वाचीयते । अनुक्तसमुच्चये वाऽत्र च: तेनायुष्यं च कर्म ब्राह्ममुहूर्तोत्थानशरीरचिन्तादन्तधावना दिकर्मायुर्वेदप्रसिद्धमाचरेदिति लभ्यते । कथं,यथालोकं लोकस्यानतिक्रमेण लोकानुसारेणेत्यर्थः। योय आलोक आप्तोपदेशप्रकाशस्तेन तेन तत्तत्कर्माचरेदिति ग्राह्यम् । कथं, सदा नित्यम् ॥ २३ ॥ ___ इतोऽष्टादशभिः पद्यैर्जिनपूजां प्रपञ्चयति
यथाशक्ति यजेताह-देवं नित्यमहादिभिः।
सडल्पतोऽपि तं यष्टा भेकवत्स्वर्महीयते ॥ २४॥ 'टीका-यजेत् । कोऽसौ.श्रावकः।कं, अर्हद्दवं । कथं, यथाशक्ति या या शक्ति स्तया। कै,-नित्यमहादिभि: वक्ष्यमाणैः । यतो महीयते पूज्यो भवति। कोऽसौ, जीवः । किविशिष्टो,यष्टा ताच्छील्येन साधुत्वेन वा यजमानः।क,तं अर्हदेवं । कस्मात्सकल्यतोऽपि यजेऽहमहदेवमिति चिन्तनात् , किं पुन: कायेन गंधाक्षदिभिर्वाचाता च विचित्रस्तवनैरुपचरन्नित्यपिशद्वार्थः । के महीयतेऽसौ, स्वः स्वर्गे महर्द्धिकदेवैः खामीनि मत्वा पूज्यत इत्यर्थः । किंवत् , भेकवत् राजगृह गरे श्रेष्ठिचरो दर्दुरो यथा ॥ २४ ॥ अथ नित्यमहमाह
प्रोक्तो नित्यमहोऽन्वहं निजगृहान्नीतेन गन्धादिना पूजा चैत्यगृहेऽर्हतः स्वविभवाच्चैत्यादिनिर्मापणम् । १ दानं पूजा जिन: शील-मुपवासश्चतुर्विधः । श्रावकाणां मतो धर्मः संसारारण्यपावकः ।। आराध्यन्ते जिनेन्द्रा गुरुषु च विनतिर्धार्मिके प्रीतिरुच्चः पात्रेभ्यो दानमापन्निहतजनकृते तच्च कारुण्यबुध्द्या । तत्वाभ्यासः स्वकीयत्रतरतिरमलं दर्शनं यत्र पूज्यं तद्गार्हस्थ्यं बुधानामितरदिह पुनदुःखदो मोहपाश: ॥
Page #41
--------------------------------------------------------------------------
________________
द्वितीयोध्यायः ।
भक्त्या ग्रामगृहादिशासनविधादानं त्रिसन्ध्याश्रया
सेवा स्वेऽपि गृहेऽर्चनं च यमिनां नित्यप्रदानानुगम् ॥२५॥ टीका-प्रोक्तः प्रवचने कथितः । कोऽसौ, नित्यमहः । किं, पूजा । कस्य, अर्हत. क, चैत्यगृहे । केन, गन्धादिना चन्दनाक्षतपुष्पादिना । किंवि शेष्टेन, नीतेन चैत्यालय प्रापितेन । कस्मा,-निजगृहात् । कथ, मन्वहं दिने दिने । तथा प्रोक्तो नित्यमहः । किं तत्, चैत्यादिनिर्मापणं चैत्यचैत्यालयादि निष्पादनं । कस्मात्, स्वविभवात् निजधनविनियोगात् । तथा प्रोक्तो नित्यमहः । किं तत्, ग्रामगृहादिशासनविधादानं ग्रामः संवसथः, गृहं वेश्म आदिशद्वात्क्षेत्रहट्टादिपरिग्रहः, ग्रामगृहादेः शासनविधया शासनविधानेन दानं । कया, भक्त्या। तथा प्रोक्तो नित्यमहः किं, सेवा आराधना। कस्य, अर्हतः । किंविशिष्टा, त्रिसन्ध्याश्रया त्रैका लिकी।क, गृहे। किंविशिष्टे, स्वे निजे, अपिशब्दाच्चैत्यगृहे च । न केवलमहत्पूजादिकं नित्यमहः प्रोक्तः, अर्चनं च पूजा । केषां, यमिनां संयतानां किंविशिष्टं, नित्यपदानानुगं अहरहः प्रकृष्टदानसम्बन्धि ॥ २५॥
अथाष्टान्डिकैन्द्रध्वजौ लक्षयति___जिनार्चा क्रियते भव्य-र्या नन्दीश्वरपर्वणि ।
अष्टाह्निकोऽसौ सेन्द्राद्यैः साध्या विन्द्रध्वजो महः ॥२६॥ टोका-प्रोक्तः सूरिभिः । कोसा,-वसौ महः । किमाख्यः, आष्टान्हिकः । या किं, या क्रियते । का,-सौ जिनार्चा अर्हपूजा । कै,-भव्यैर्भावुकलोकैः सम्भूयकरणज्ञापनार्थं बहुवचनं । क्व, नन्दीश्वरपर्वणि प्रतिवर्षमाषाढकार्तिकफाल्गुनसितपक्षेप्वष्टम्यादिदिनाष्टके। तथा प्रोक्तः। कोऽसौ, इन्द्रध्वजाख्यो महः । काऽसौ, सा जिनार्चा । किंविशिष्टा, साध्या क्रियमाणा। कै,-रिंद्राद्यैः इन्द्रप्रतीन्द्रसामानिकादिभिः । तुर्विशेषे ॥ २६ ॥ अथ महामहं निर्दिशतिभक्त्या मकुटबद्धैर्या जिनपूजा विधीयते। तदाख्या:सर्वतोभद्र-चतुर्मुखर्महामहाः ॥ २७ ॥
Page #42
--------------------------------------------------------------------------
________________
३८
सागारधर्मः ।
•
1
टीका - भवन्ति । का, स्तादाख्याः तस्या जिनपूजाया आख्या नामानि किं किं, सर्वतोभद्र इति, चतुर्मुख इति, महामह इति च तिस्रोऽन्वर्थाः तत्र सर्वत्र प्राणिवृन्दे कल्याणकरणात्सर्वतोभद्रः, चतुर्मुखमण्डपे विधीयमानत्वाच्चतुर्मुखः, अष्टान्हिका पेक्षया गुरुत्वान्महामहः । या किं, जिनपूजा विधीयते ।
- कुटबद्धैमकुटानि बद्धानि सामान्तादिभिर्येषां ते मकुटबद्धा मण्डलेश्वरास्तैः । कया, भक्त्या, न तु चक्रवत्यादिभयादिना । एषोऽपि कल्पवृक्षवत् - केवलमत्र प्रतिनियतजनपद विषयं दानादिकम् ॥ २७ ॥
अथ कल्पवृक्षमहमाह
किमिच्छन द्वानेन जगदाशाः प्रपूर्य यः ।
"
चक्रिभिः क्रिपते सोऽर्ह-यज्ञः कल्पद्रुमो मतः ॥ २८ ॥ टीका - मतः पूर्वाचार्यैः सम्मतः । कोऽसौ सोऽर्हद्यज्ञः । किमाख्यः, - कल्पद्रुमः कल्पवृक्षनामा । यः किं यः क्रियते । कै, - श्वत्रिभिः सम्राभिः । किं कृत्वा, प्रपूर्य प्रकर्षेण पूरयित्वा । काः, जगदाशा: लोकानां मनोरथान् । केन, दानेन त्यागेन । किंविशिष्टेन, किमिच्छकेन किमिच्छसीति प्रश्नपू- याचकेच्छानुरूपं क्रियमाणेन ॥ २८ ॥
सम्प्रति बलिनपनादिजिनपूजाविशेषाणां नित्यमहा दिष्वेवान्तर्भावमाहबलिपननाट्यादि नित्यं नैमित्तिकं च यत् ।
भक्ताः कुर्वन्ति तेष्वेव तद्यथास्वं विकल्पयेत् ॥ २९ ॥ टीका - विकल्पयेत् नित्यमहादीनामेव भेदमाचक्षीत विद्वान् । किं तत् तत् । केषु तेष्वेव नित्यमहादिषु । कथं, यथास्वं यथायोग्यं । यत्किं यत्कुर्वन्ति निर्वर्तयन्ति । के ते, भक्ता भक्तिमन्तः । किं तत्, बलिस्नपननाट्यादि, बलिरुप1 पहार:, स्नपनमभिषेकः, नाट्यं गीतनृत्यवाद्यं, आदिशब्दात्प्रतिष्ठारथयात्रादि । किंविशिष्टं नित्यं प्रत्यहविधेयं । तथा नैमित्तिकं पर्वकर्तव्यम् ॥ २९ ॥ इदानीं जलादिपूजानां प्रत्येकं फलमालपति —
वार्धारा रजसः शमाय पदयोः सम्यक्प्रयुक्तार्हतः । सगन्धस्तनुसौरभाय विभवाच्छेदाय सन्त्यक्षताः ।
Page #43
--------------------------------------------------------------------------
________________
द्वितीयोध्यायः। यष्टुः स्रग्दिविजस्रजे चरुरुमास्वाम्याय दीपस्त्विषे
धूपो विश्वगुत्सवाय फलमिष्टार्थाय चार्घाय सः ३०॥ टीका- भवति । काऽसौ, वार्धारा वारो जलस्य धारा स्रतिः । कस्मै. शमाय अनुद्रकाय । कस्य, रजसः पापस्य ज्ञानहगावरणकर्मणोऽ। कस्य, यष्टुरात्मनः पूजयितुः । किंविशिष्टा सती, प्रयुक्ता सम्पादिता। क्योः, पदयोश्चरणयोः । कस्य, अर्हतो जिनेन्द्रस्य । कथं, सम्यक् यथोक्तविधानेन । तथा भवति । कोऽसौ, सद्गन्धः श्रीचन्दनद्रवः । कम्मै, त्नुसौ भाय शरीरसौगन्ध्यनिमित्तम् । कस्य, यष्टुः । किंविशिष्टः सन् , अर्हतः पदयोः सम्यक् प्रयुक्तः । तथा सन्नि भवन्नि। के, अक्षताः अखण्डतण्डुलाः । कस्मै, विभवाच्छेदाय विभवस्याणिमादिविभूतेविणम्य वाऽच्छेदो निरन्तर वृत्तिस्तदर्थ । शेषं पूर्ववत् । तथा भवति का,-सौ स्रक् पुष्पमाला । कस्यै दिविजस्रजे स्वर्गजन्ममन्दारमालार्थ । तथा भवति । कोऽसौ, चरु: नैवद्य । कस्मै, उमास्वाम्याय लक्ष्मीपतित्वार्थ । तथा भवति । कोऽसौ, दीपः आरार्तिक । कम्यै, त्विषे दीप्त्यर्थ । तथा भवति। कोऽसौ, धूपः किविशिष्टः, अर्हतः पदयोः सम्यक्प्रयुक्तः । कस्मै, विश्वगुत्सवाय यष्टुः परमसौभाग्यार्थ । तथा भवति । किं तत्, फलं बीजपूरादि : कस्मै, इष्टार्थायाभिमतवस्तुप्राप्त्यर्थ । तथा भवति । कोऽसौ, सःश्रुतत्वादर्घः पुष्पाञ्जलिरित्यर्थः । कस्मै भव,-त्यर्घाय पूजाविशेषार्थ । अथवा स इत्यनेन पूर्वोक्त इष्टार्थ एव परामृश्यते तेनायमर्थः कथ्यते । यद्यद्यष्टुरात्मनोऽभिमतं वस्तु गीतादिकं तेन जिने सम्यक्प्रयुक्ते तत्तद्विशिष्टगीतादिवस्तुनोऽर्घाय मूल्याय स्यात्तत्सम्पादयतीत्यर्थः ॥ ३० ॥
अथ जिनेज्यायाः सम्यक्प्रयोगविध्युपदेशपुरस्सरं लोकोत्तरं फलविशेषमा - विष्करोति
चैत्यादौ न्यस्य शुद्धे निरुपरमनिरौपम्यतत्तद्गुणौघश्रद्धानात्सोऽयमर्हन्निति जिनमन!स्तद्विधोपाधिसिद्धैः । नीराद्यैश्चारुकाव्यस्फुरदनणुगुणग्रामरज्यन्मनोभिभव्योऽर्चन् दृग्विशुद्धि प्रवलयतु यया कल्पते तत्पदाय ॥३१॥
Page #44
--------------------------------------------------------------------------
________________
सागारधर्मः।
टीका-प्रबलयतु प्रबलां प्रकृष्टस्वफलदानसमर्थो करोतु । कोऽसौ, भूयो भाक्तिकः । कां, दृग्विशुद्धिं शङ्का दिदोषरहिततत्त्वश्रद्धानं । किं कुर्व, नचन् पूजयन् । कं, जिन कै, नीराद्यैः जलगन्धाक्षतादिभिः । किंविशिष्ट, रनधैः हठहृतत्वाहृयत्वस्वान्यभुक्तशेषत्वादिपापहेतुदोषमुक्तः । पुनः किंविशिष्टैःतद्विधोपाधिसिद्वैः निष्पापसाधननिष्पन्नैः । पुनरपि किंविशिष्टेः, चार्वित्यादिचारूणि दोषनिरासाद्रुणालङ्कारस्वीकाराच्च सहृदयहृदयावर्जकानि. काव्यानि लोकोतरवर्णनारमणीयगद्यपद्यवाङ्मयानि, अनणुगुणग्रामा अनणूनां महतां गुरूणां गुणानां निसर्गनिर्नलत्वसौरभ्यातिशयादीनां ग्रामाः सङ्घाताः, चारुकाव्यैः स्फुरन्तो भावुकलो कचित्तेषु चमत्कुर्वन्तोऽनगुगुणग्रामास्तै रज्यन्ति प्रियमाणानि मनांसि येषु तानि तैः । किं कृवा अर्चन् , न्यस्य सोऽयमर्ह - निति उत्तर्पणतृतीयचतुर्थकालयोर्यश्चतुस्त्रिंशदतिशयसमेतः समवसृतावष्टभहाप्रातिहार्यविराजितस्योपदेशेन भव्यलोकं पुनीतवान् सोऽहन्ने-- वायमिति नामस्थापनाद्रव्यभावैः स्थापयित्वा । कं, जिनं। क, चैत्यादो चैत्ये प्रतिमायां, आदिशब्देन तदल भे जिनाकाररहितेऽप्यक्षतादौ । किंविशिष्ट, शुद्धे निर्दोषे रुद्राकाररहिते इत्यर्थः । कस्मा,-निरित्यादि, निरुपरमा अविनश्वरा निरौपम्या असाधारणास्तद्गुणा व्यवहारेण दर्शनविशुध्या दिभावनाप्रमुखकल्याणपञ्चकलक्षणा निश्चयेन चिद चिद् यद्रव्याकार विशेषस्वरूपान्ते षामोघे समूहे श्रद्धानं रुचिरतरोऽनुरागम्तस्मात् । इत्थं तां दृग्विशुद्धिं प्रबलयतु भव्यो यया दृग्विशुध्द्या प्रबलीकृतया कल्प्यते सम्पद्यते भव्यः । कस्मै, तत्पदाय तीर्थकरत्वाय । एकस्या अपि दृग्विशुद्धरत्कर्षम्य तीर्थकरत्वा ख्यपुण्यविशेषबन्धहेतुत्वप्रसिद्धः ॥ ३१ ॥
अधुना व्रतभूषितस्य जिनयष्टुरिष्टफलविशेषमभिधत्ते-- ___ दृक्पूतमपि यष्टार-महतोऽभ्युदयश्रियः ।
श्रयन्त्यहम्पूर्विकया किं पुनर्वतभूषितम् ॥ ३२ ॥ टीका-श्रयन्ति आश्रयन्ति । का, अभ्युदयश्रियः पूजार्थाज्ञैश्चर्यविशिष्टबलपरिजनकामभोगसम्पदः । कं, यष्टारं पूजकं। कभ्य, अर्हतः। किंविशिष्टं, दृक्पूतमपि सम्यक्त्वविशुद्धं । अपिर्विस्मये । कया, अहम्पूर्विकया अहं
Page #45
--------------------------------------------------------------------------
________________
द्वितीयोध्यायः ।
४१
पूर्वमह पूर्वमित्यहम् पूर्विका तथा अहंप्रथमिकया । किंपुन, - र्विशेषात् श्रयन्ति । का, अभ्युदयश्रियः । कं अर्हतो यष्टारं । किंविशिष्टं व्रतैर्देशतो हिंसादिविरतिलक्षणैर्भूषितमलकृतम् ॥ ३२ ॥
जिन जान्तराय परिहारोपायविधिमाह - यथास्वं दानमानाद्यैः सुखीकृत्य विधर्मणः । सधर्मणः स्वसात्कृत्य सिध्यर्थी यजतां जिनम् ॥ ३३ ॥ टीका - यजतां पूजयतु । कोऽसौ, सिद्धयर्थी जिनपूजा सम्पूर्णतां स्वात्मोपलब्धि वा. अभीप्सुः । कं, जिन । किं कृत्वा, स्वसात्कृत्य स्वाधीनान् कृत्वा । कानू, सधर्मण: जिनधर्मभावितान् । किं कृत्वा, सुखीकृत्य अनुकूलान् कृत्वा कान् विधर्मणः शिवादिधर्मरतान् सर्वधर्मबाह्यान् वा । कैः स्थास्वं यथायोग्यं । दानमानाद्यैः अर्थविनियोगसत्काराभ्युत्थानासनप्रदानादिभिरावर्जनोपायैः ॥ ३३ ॥
I
1
स्नानापास्तदोषस्यैव गृहस्थस्य स्वयं जिनयजनेऽधिकारित्वमन्यस्य पुनस्तथा विधेनैवान्येन तद्यजनं इत्युपदेशार्थमाह
स्यारम्भसेवासंष्टिः स्नात्वाऽऽकण्ठमथाशिरः ।
1
स्वयं यजेात्पादा-नस्नातोऽन्येन याजयेत् ॥ ३४ टीका-यजेत ! कोऽसौ, भाक्तिको गृही कानड, - हत्पादान् जिनचरणान्। केन, स्वयमात्मना । किं कृत्वा, स्नात्वा शौचं कृत्वा । कथ, - . - माकण्ठं
१ नित्यं स्नानं गृहस्थस्य देवाचनपरिग्रहे । यतेस्तु दुर्जनस्पशास्नानमन्यद्विगर्हितम् ॥ वातातपादिसम्पृष्ठे भूरितोये जलाशये । अवगाह्याचेरत्स्नान-मतोऽन्यद्गालितं भजेत् ॥ पादजानुकटिग्रीवा शिरःपन्तंसश्रयम् । स्नानं पञ्चविधं ज्ञेयं यथादोषं शरीरिणाम् ॥ ब्रह्मचर्योपपन्नस्य निवृत्ताम्भकर्मणः । यद्वा तद्वा भवेत्स्नान मन्त्यमन्यस्य तु द्वयम् ॥ सवीरम्भविजृम्भस्य ब्रह्मजिह्मस्य देहिनः । अविधाय बहिः शुद्धिं नासोपास्त्यधिकारिता ||
Page #46
--------------------------------------------------------------------------
________________
:.NP
सागारधर्मः।
कण्ठावधि । अथ अथवा । आशिरः मस्तकावधि, यथादोषं जलेन शुचीभूयेत्यर्थः। किविशिष्टः सन, स्यादीति, स्त्रीसेवया कृष्यादिकर्मसेवया च संक्लिष्टः समन्तात्काये मनसि चोपतप्तः, प्रस्वेदतन्द्रालस्यदौर्मनस्यादिदोषदृषितकायमनस्क इत्यर्थः । सोऽस्नातः किं कुर्यादित्याह-याजयेत्पूजया संयोजयेत् । कोऽसौ, अस्नातस्तथाविधो गृही। कानऽ, हत्पादान्। केन, कान्येन स्नातेन सब्रह्मचारिसतीर्थ्यसधर्मका दिना ॥ ३४ ॥
चैत्यादिनिर्माणस्य फलविशेषसमर्थनया विधेयतामभिधत्ते
निर्माप्य जिनचैत्यतद्गृहमठस्वाध्यायशालादिकं ... श्रद्धाशक्त्यनुरूपमस्ति महते धर्मानुबन्धाय यत् ।
हिंसारम्भविवर्तिनां हि गृहिणां तत्ताहगालम्बन
प्रागल्भीलसदाभिमानिकरसं स्यात्पुण्यचिन्मानसम् ॥ ३५ ॥ __टीका-निर्माप्य कारापणीय। किं तत् नजिनचैत्यादि । कैः, पाक्षिकश्रावकैः । किविशिष्टं, श्रद्वाशक्त्यनुरूपं रुच्या सामर्थ्येन च सहश । यत्किं, यदस्ति भवति । कम्मै, धर्मानुबन्धाय धर्मस्यानुबन्धोऽलब्धलाभो लब्धपरिरक्षण रक्षितवर्धनमित्यवमात्मकस्तम्मै । किंविशिष्टाय, महते विपुलाय। एतेन चैत्यालयादिनिर्मापणे सावद्यदोषशङ्कानिरस्ता । यदाह तत्पापमपि न पापं यत्र महान् धर्मसम्बन्ध इति । हि यम्मात् । स्यात् भवेत्। किं तत् मानस मनः । किविशिष्टं, पुण्यचित् पुण्यं सुकृतं चिनोति वर्धयति, अथवा पुण्या पवित्रा निर्मला चित् संवित्तिर्यस्य तत्पुण्यचित् । केषां, गृहिणां गृहस्थानां
भाप्लुतः सम्लुतश्चान्तः शुचिवासोविभूषितः ।
मौनसयमसम्पन्नः कुर्याद्देवार्चना वधिम ।। दन्तधावनशुद्धास्यो मुखवासोवृताननः । असञ्जातान्यसंसर्गः सुधीर्देवानुपाचरेत् ।
१ यद्यप्यारम्भतो हिंसा हिंसायाः पापसम्भवः
तथाऽप्यत्र कृतारम्भा महत्पण्यं समश्नुत ।। निरालम्बनधर्मस्थ स्यितिर्यस्मात्ततः सताम् । । मुक्तिप्रासादसोपानमाप्तरुक्तौ जिनालयः ।।
Page #47
--------------------------------------------------------------------------
________________
द्वितीयोध्यायः ।
किंविशिष्टानां, हिंसारम्भविवर्तिनां हिंसाप्रायः आरंभः कृष्यादिः तत्र विवर्तन्ते विविधं परिणमन्तेऽभीक्ष्णमिति तद्विवर्तिनस्तेषां। किंविशिष्टं तत् ,तदित्यादि, तजिनचैत्यचैत्यालयादि ताक्तीर्थयात्रादि, आलम्बनं दृग्विशुद्धयङ्गं,प्रागल्भी पौढिः, आभिमा निकरसः अहकारानुरक्तो हर्षः, तच्च तादृक्च तत्ताहक् तच्च तदालम्बनं च तस्य प्रागल्भी तया लसन् द्योतमानः स्वसंवित्तिविषयीभवन आभिमानिकरसो यस्मिन् तत् तथोक्तम् ॥ ३५ ॥
शास्त्रविदामपि प्रायः प्रतिमादर्शनेनैव देवादिसेवापरां मतिं कुर्वाण कलिकालमपवदते
धिग्दुष्षमाकालरात्रिं यत्र शास्त्रशामपि ।
चैत्यालोकादृते न स्यात् प्रायो देवविशा मतिः ॥ ३६॥ • टीका-धिक् निन्दामीत्यर्थः । कां, दुःषमाकालरात्रिं दुःषमा पञ्चमकाल: कालरात्रिमरणनिशेव दुर्निवारमोहावहत्वत् । यत्र किं, यस्यां न स्यात् । काऽसौ, मतिरन्तःकरणप्रवृत्तिः । किंविशिष्टा, देवविशा देवं परमात्मानं विशत्यनन्यशरणीभूय श्रयतीति क्विबन्तादजाद्यतष्टाप् । केषां, शास्त्रदृशामपि श्रुतचक्षुषामपि । कथं, ऋते विना । कस्मात्, चैत्यालोकात् प्रतिमादर्शनात्। कथं, प्रायो बाहुल्येन । केषाञ्चित् ज्ञानवैराग्यपराणां चैत्यदर्शनमन्तरेणापि मनः परमात्मानं संश्रयतीति भावः कलौ धर्मस्थितिः सम्यक्चैत्यालयमूलवेत्यनुशास्ति
प्रतिष्ठायात्रादिव्यतिकरशुभस्वैरचरणस्फुरद्धर्मोद्धर्षप्रसररसपूरास्तरजसः । कथं स्युः सागाराः श्रमणगणधर्माश्रमपदं
न यत्राहद्हं दलितकलिलीलाविलसितम् ॥ ३७ ॥ टीका-तत्र नगरादौ कथं स्युः, कथमपि न भवेयुरित्यर्थः । के ते. सागारा गृहस्थाः । किविशिष्टाः, प्रतिष्ठेत्यादि, आदिशब्दः पूजाभिषेकजागरणाद्यर्थः । व्यतिकरः प्रघट्टकः, स्वैरं स्वच्छन्दं, उद्धर्ष उत्सवः, प्रसरश्चिरावस्थायित्वं, रसः हर्षो जलं वा, रजः पापं रेणुश्च, प्रतिष्ठायात्रादीनां व्यतिकरे शुभं प्रशस्तं
Page #48
--------------------------------------------------------------------------
________________
सागारधर्मः ।
1
"
पुण्यास्रवणकारणं स्वैरं चरणं मनोवाक्कायव्यापारस्तेन स्फुरचासौ धर्मोद्धर्ष स्तस्य प्रसरः स एव रसपूरो जलप्रवाहस्तेनास्तं स्फाटितं रजो येषा ते तथा । कथं स्युस्तत्र । यत्र किं यत्र न भवति । किं तत्, अहं जिनचैत्यालय: । किंविशिष्ट, दलितं छिन्नं खण्डितं कलिलीला विलसितं मउपत्यादिदुर्णयो निरंकुश विजृम्भमाणसंक्लेशपरिणामो वा यत्र तदलितक लिलीलाविलसितं । पुनः किंविशिष्टं, श्रमणगणमाश्रमपदं श्रमणस्य यतिसङ्घस्य धर्मार्थमाश्रमपदं निवासस्थानम् ॥ ३७ ॥
४४
कलौ वसतिविशेषं विना सतामप्यनवस्थितचित्तत्वं दर्शयतिमनो मठकठेराणां वात्ययेवानवस्थया । चेक्षिप्यमाणं नाद्यत्वे क्रमते धर्मकर्मसु ॥ ३८ ॥ टीका-न क्रमते नोत्सहते । किं तन्मनः । केषां मठकठेरागां वसतिदरिद्राणा मरण्या दिवासिनां यतीनामित्यर्थः । क्व, धर्मकर्मसु धर्मार्थासु क्रियासु आवश्यकादिषु । कढ़ा, अद्यत्वे अस्मिन् काले । किं क्रियमाणं, चेक्षिप्यमाणं भृशं Į पुनः पुनर्वी चाल्यमानं । कया, अनवस्थया परापररागादिविवर्तनपरिणत्या । कयेव, वात्ययेव वातमण्डल्या तूला दिर्यथा ॥ ३८ ॥
विमर्शस्थानं विना महोपाध्यायादीनामपि शास्त्रान्तस्तत्वज्ञानदौः स्थित्यं प्रथयति
――――
विनेयवद्विनेतृणामपि स्वाध्यायशालया ।
विना विमर्शशून्या धीष्टेऽप्यन्धायतेऽध्वनि ॥ ३९ ॥ टीका- अन्धायते अन्धमिवात्मानमाचरति तत्त्वं न पश्यतीत्यर्थः । काऽसौ. धीर्बुद्धिः । केषां, विनेतृणामपि । केषामिव विनेयवत् उपाध्यायानाम् शिष्याणां यथा । क्व, अध्वनि मार्गे अर्थाच्छास्त्रे निःश्रेयसि वा । किंविशिष्टे ऽपि, दृष्टेऽपि। अभ्यस्तेऽपि । किंविशिष्टा सती, विमर्शशून्या अन्तस्तत्वक्षोदविधुरा । कथं विना । कया, स्वाध्यायशालया पाटस्थानेन । ततश्चेत्यादिचतुष्टयं श्रेयोऽर्थ नियमेन कारयेदिति प्रतिपत्तव्यम् || ३९ ॥
"
सत्रातुरोपचारस्थानयोरनुकम्प्यप्राण्यनुग्रहबुद्ध्या विधापनं बारम्भरतानां गृहस्थानां जिनपूजार्थं पुष्पवाटिकादिनिर्मापणे दोषाभावं च प्रकाशयन्नाह -
Page #49
--------------------------------------------------------------------------
________________
द्वितीयोध्यायः । सत्रमप्यनुकम्प्यानां सृजेदनुजिघृक्षया ।
चिकित्साशालवदुष्ये-ज्यायै वाटिकाद्यपि ॥ ४०॥ टीका-सृजेन्निर्मापयेत्पाक्षिकः । किं तत्, सत्रमन्नप्रदानस्थानं अपिशङ्का अपां च किंवत् , चिकित्साशालवत् व्याधिप्रतीकारस्थानं यथा । कया, अनुजिवृक्षया उपकर्तुमिच्छया । केषा, मनुकम्प्यानां कृपा विषयानां क्षुत्तृष्णार्तानां व्याधितानां च । तथा न दुष्येन्न दुष्टं भवेत् । किं तत् , वाटिका दि आदिशद्वद्वापीपुष्करिण्यादि । किमर्थ,-मिज्यायै पूजार्थ । अपिशब्देनानादरार्थेन विषयसुखार्थ कृप्यादिकं कुर्वतां यद्यपि धर्मबुध्या वाटिकादिविधाने लोके व्यवहारानुरोधादोषो न भवति, तथापि तदकुर्वतामेव क्रयक्रीतेन पुप्पादिना तेषामपि जिनं पूजयतां महान् गुणो भवतीति ज्ञाप्यते ॥ ४० ॥
निर्व्याजमक्या येन केनापि प्रकारेण जिनं सेवमानानां समस्तदुखोच्छेद मितस्ततः समस्तमी हितार्थसम्पत्तिं चोपदिशति
यथाकथञ्चिद्भजतां जिनं निर्व्याजचेतसाम् ।
नश्यन्ति सर्वदुःखानि दिशः कामान्दुहन्ति च ॥ ४१ ॥ टीका-नश्यन्ति निवर्तन्ते। कानि, सर्वदुःखानि शरीरमनम्तापाः । केषां निर्व्याजचेतसां निमायमनसां भाक्तिकाना मित्यर्थः । किं कुर्वतां, भजतां सेवमानानां । कं, जिनं । यथाकथंचित येनकेनापि स्नपनपूजास्तवनादिप्रकारेण । तथा दुहन्ति प्रपूरयन्ति । का, दिशः ककुभः । कान्, कामान् मनोरथान् । यद्यत्कामयन्ते जिनयष्टारस्तत्तत्सर्वत्र लभन्ते इत्यर्थः ॥ ४१ ॥ ___ एवं जिनपूजां विधेयतयोपदिश्य तद्वसिद्धांदिपूजामपि विधेयतयोपदे प्ठुमह
जिनानिव यजन्सिद्धान्साधुन्धर्मं च नन्दति।
तेऽपि लोकोत्तमास्तद्वच्छरणं मङ्गलं च यत् ॥ ४२ ॥ टीका-नन्दति अन्तरङ्गबहिरङ्गविभूत्या संवर्धते । कोऽसौ, जीवः । किं कुर्वन् , यजन् पूजयन् । कान्, सिद्धान् मुक्तात्मनः, तथा साधून् सिद्धिं साधयन्तीत्यन्वर्थनामानुसरणादाचार्योपाध्याययतीन, न केवलं तान्, धर्म च व्यव-.
Page #50
--------------------------------------------------------------------------
________________
सागारधर्मः। हारनिश्चयरूपं रत्नत्रयं । कानिव, जिनानिव अर्हतो यथा । कुत इत्याह-यद्य स्मात् । वर्तनो। के ते, अपि सिद्धसाधुधर्माः किंविशिष्टाः, लोकोत्तमाः लोकेषूत्कृष्टाः, तथा शरणमातिहरणमपायपरिरक्षणोपाया इत्यर्थः । तथा मङ्गलं पापापहाः पुण्यप्रदाश्च । किंवत्, तद्वत् जिनवत् ॥ ४२ ॥ ___ सकलपूज्यपूजाविधिप्रकाशनेनानुग्राहिकायाः सम्यक्श्रुतदेवतायाः पूजायां सज्जयन्नाह -
यत्प्रसादान जातु स्यात् पूज्यपूजाव्यतिक्रमः ।
तां पूजयेज्जगत्पूज्यां स्यात्कारोड्डमरां गिरम् ॥ ४॥ टीका-पूजयेच्छ्रेयोऽर्थी यजेत। कां, तां गिरं श्रुतदेवतां । किंविशिष्टां, स्यात्कारोड्डुमरां स्यात्पदप्रयोगेण सर्वथैकान्तवादिभिरजय्यां। पुनः किंविशिष्टां जात्पूज्यां विश्वलोकानामा यत्प्रसादात् यम्या अनुग्रहात् न स्यात् न भवेत् । कोऽसौ, पूज्यपूजाव्यतिक्रमः पूज्यानां अर्ह सिद्धसाधुधर्माणां पूजायां व्यतिक्रमो यथोक्तविधिलंघनं । कथं, जातु कदाचिदपि ॥ ४३ ॥ श्रुतपूजकाः परमार्थतो जिनयूजका एवेत्युपदिशति
ये यजन्ते श्रुतं भक्त्या ते यजन्तेऽञ्जसा जिनम् ।
न किश्चिदन्तरं प्राहु-राप्ता हि श्रुतदेवयोः ॥ ४४ ॥ टीका-यजन्ते पूजयन्ति। के ते, पुमांसः । कं, जिनं । केन, अञ्जसा पर मार्थेन । ये किं, ये यजन्ते । किं तत् , श्रुतं । कया, भक्त्या । हि यस्मात् । न पाहुः न ब्रुवन्ति । के ते, आप्ता: गुरवः । किं तत् , अन्तरं भेदं । कयोः. श्रुतदेवयोः प्रवचनपरमात्मनोः । कीदृशं, किञ्चित् यदेव श्रुतं स एव देवो य एव च देवस्तदेव श्रुतमित्यर्थः ।। ४४ ॥ ___ एवं देवपूजाविधि संक्षपेणोपदिश्य साक्षादुपकारकत्वेन गुरूणामुपासने नित्यं नियुङ्क्ते
उपास्या गुरवो नित्य-मप्रमत्तः शिवार्थिभिः ।
तत्पक्षताक्ष्यपक्षान्तःश्वरा विघ्नोरगोत्तराः ॥ ४५ ॥ . टीका-उपास्याः सेव्याः । के ते, गुरवः धमोराधनायां प्रयोक्तारः । कैः, शिवार्थिभिः परमकल्याणकामैः । किविशिष्टैः, सद्भिरप्रमत्तैः प्रमादरहितैः।
Page #51
--------------------------------------------------------------------------
________________
४७
द्वितीयोध्याय । कथं, नित्यं शश्वत् । यतो भवन्ति । के ते, तत्वक्षता_पक्षान्तश्चराः तेषां गुरूणां पक्षस्तदायत्ततया वृत्तिः स एव तार्थ्यपक्षो गरुडपतत्रं तत्रान्तमध्ये चरन्ति तदन्तश्चराः । किंविशिष्टा भवन्ति, विघ्नोरगोत्तराः विघ्नाः प्रक्रमाद्धमानुष्ठानविषये अन्तरायास्त एवोरगाः सर्पाः अपकारकत्वात् तेभ्य उत्तराः परे तहरचारिणः, धर्मानुष्ठानप्रत्यूहसपँर्नाभिभूयन्त इत्यर्थः ॥ ४५ ॥ गुरूपास्तिविधिमाहनिव्याजया मनोवृत्या सानुवृत्या गुरोर्मनः । .
प्रविश्य राजवच्छश्वद्विनयेनानुरञ्जयेत् ।। ४६ ॥ टीका-अनुरञ्जयेदात्मनि रक्तं कुर्यात्। कोऽसौ, श्रेयो। किं त, मन श्चित्त । कस्य, गुरोराराध्यस्य । केन, विनयेन अभ्युत्थानादिना कायिकेन, हिमितप्रतिपादनेन वाचनिकेन शुभचिंतनादिना चित्तेन च । कथं शश्वत् नित्यं । किं कृत्वा, प्रविश्यान्तश्चरित्वा । किं तत्, गुरोर्मनः । कया, मनोवृत्त्या चित्तप्रवृत्त्या। किंविशिष्टया, निर्व्याजया निर्दम्भया । पुनः किंविशिष्टया; सानुवृत्त्या छन्दानुवृत्तिसहितया । कस्यव, राजवत्, राज्ञो यथा सेवकवर्गः ॥ ४६॥ विनयनानुरञ्जयेदित्येतदर्थ व्यनक्ति
पाश्व गुरूणां नृपवत्प्रकृत्यभ्यधिकाः क्रियाः । । अनिष्टाश्च त्यजेत्सर्वा मनो जातु नु दूषयेत् ॥ ४७ ॥ टीका-त्यजेत् वर्जयेत् उपासकः । काः, क्रियाश्चष्टाः । सर्वाः। किंविशिष्टाः, अ त्यभ्यधिकाः स्वभावादतिरिक्ताः वैकारिकीः कोपहास्यविवादादिकाः । न केवलं ताः अनिष्टाश्च शास्त्रनिषिद्धाश्च पर्यस्तिकोपाश्रयादिकाः । क, पार्वे समीपे । केषां, गुरूणां । केषामिव, नृपवत् राज्ञां यथा । तथा न दूषयेत् न विकारयत्। किं तत्, राज्ञामिव गुरूणां मनः । कथ, जातु कदाचिदपि आर्तावस्थायामपीत्यर्थः ॥ ४७ ॥.
१ निष्ठीवनमवष्टम्भं ज़म्भणं गात्रभञ्जनम् ।
असत्यभाषणं नर्म हास्यं पादप्रसारणम् ।। अभ्याख्यानं करस्फोटं करेण करताडनम् । विकारमंगसंस्कार वर्जयेद्यातिसन्निधौ ।।
Page #52
--------------------------------------------------------------------------
________________
४८
सागारधर्मः ।
साम्प्रतं पात्राणि तर्पयेदित्यादिपूर्वोद्दिष्टदानादिविधिप्रपञ्चार्थमाह -
पात्रागमविधिद्रव्य-देशकालानतिक्रमात् ।
दान देयं गृहस्थेन तपश्चर्य च शक्तितः ॥४८॥ टीका-देयं दातव्यं । किं तत् , दानं रत्नत्रयानुग्राहकं वस्तु। केन, गृहस्थेन । कस्मात्, पात्राद्यनतिक्रमात् यथापात्रं यथाऽऽगमं यथाविधि यथाद्रव्यं यथादेशं यथाकालं चेत्यर्थः । तथा चर्यमनुष्ठेयं गृहस्थेन। किं तत, तपोऽनश . नादि । कस्मात् , शक्तितः निजसामर्थ्यानुसारेण दानतपसी कुर्यादित्यर्थः।४८॥
सम्यग्दृशो नित्यमवश्यतया विधीयमानयोदनितपसोरवश्यम्भाविन फलविशेषमाह. नियमेनान्वहं किञ्चिद्यच्छतो वा तपस्यतः ।
सन्त्यवश्यं महीयांसः परे लोका जिनश्रितः ॥ ४९ ॥ टीका--अवश्यं निश्चितं । सन्ति भवन्ति । के ते. लोकाः। किंविशिष्टाः, परे जन्मान्तराणीत्यर्थः । किंविशिष्टाः सन्ति, महीयांसः इंद्रादिपदलक्षणाः । कस्य, जिनश्रितः परमात्मानं सेवमानस्य भव्यस्य । किं कुर्वतो, यच्छतो ददतः तपस्यतो वा तपश्चरतः । किं, किञ्चित् यद्वा तद्वा शास्त्रविहितं । केन, नियमेन अवश्यतया । कथ,-मन्वहं दिने दिने ॥ ४९॥ यदर्थ यद्दानं कर्तव्यं तत्तदर्थमाह--
धर्मपात्राण्यनुग्राह्या-ण्यमुत्र स्वार्थसिद्धये ।
कार्यपात्राणि चात्रैव कीत्य त्वौचित्यमाचरेत् ॥ ५० ॥ टीका-अनुग्राह्याणि उपकार्याणि श्रेयोऽर्थिना । कानि, धर्मपात्राणि रत्नत्रयसाधनपगः नराः । किमर्थ, स्वार्थसिद्धये । क्व, अमुत्र परलोके स्वर्गादिसुखसम्पत्यर्थमित्यर्थः । तथा अनुग्राह्याणि । कानि, कार्यपात्राणि त्रिवर्गसाधनसहायाः । कस्य, अत्रैव जन्मनि स्वार्थसिद्धये पुरुषार्थसम्प्राप्तये । तथा आचरेदनुतिष्ठेत् गृही । किं तत्, औचित्यं दानप्रियवचनाभ्यामन्यस्य सन्तोषोत्पादनं । कस्यै कोत्यै यशोऽर्थम् ॥ ५० ॥ । १ वर्यमध्यजघन्यानां पात्राणामुपकारकम् ।
दानं यथायथं देयं वैयावृत्यविधायिना ।।
Page #53
--------------------------------------------------------------------------
________________
द्वितीयोध्यायः ।
धर्मपात्राणां यथागुण सन्तर्पणीयत्वमाह
समयिकसाधकसमयद्योतकनैष्ठिकगणाधिपान्धिनुयात् । मन्त्र
दानादिना यथोत्तरगुणरागात्सद्गृही नित्यम् । ५१ ॥ वक, ___टीका-समयिको गृही यतिर्वा जिनसमयश्रितः, साधेको ज्योतिषसानहवादादिलोकोपकारकशास्त्रज्ञः, समयद्योतको वादित्वादिना मार्गप्रभाक्षिकनैष्ठिको मूलोत्तरगुणश्लाध्यतपोऽनुष्ठाननिष्ठः, गणाधिपः धर्माचार्यस्ताविहा। स्थाचार्यो वा एतान् पञ्च धिनुयात् प्रीणयत् । कोऽसौ, सदगृही पाक्षिकस्य श्रावकस्त्रैवर्णिको वा गृहस्थः। केन, दानादिना दानमानासनसम्भाषणालिमा त कम्मात्, यथोत्तरगुणरागात् यो य उत्तर उत्कृष्टः समयिकादीनां मध्येहसुस्था तस्य गुणेषु प्रीतितः, अथवा यो यो यस्योत्कृष्टो गुणस्तत्र तत्र प्रीत्यासम्सन धिनुयादिति योज्यम् । अत्र श्रमणोपासकेषु मुमुक्षुषु रत्नन्नयानुग्रहबुध्धा सन्तर्पणं पात्रदत्तिः, बुभुक्षुषु च गृहस्थेषु वात्सल्येन यथार्हमनुग्रहः समान दत्तिरिति विभागः ॥ ५१॥ समदत्तिविधानोपदेशार्थमाहस्फुरत्येकोऽपि जैनत्व-गुणो यत्र सतां मतः । तत्राप्यजेनेः सत्पात्रै-धोत्यं खद्योतवद्रवौ ॥ ५२ ॥ १ गृहस्थो वा यतिर्वाऽपि जैन समयमास्थितः।
यथाकालमनुप्राप्तः पूजनीयः सुदृष्टिभिः ॥ २ ज्योतिर्मन्त्रनिमित्तज्ञः सुप्रज्ञ: कार्यकर्मसु ।
मान्यः समयिभिः सम्यक्परोक्षार्थसमर्थधीः ।। ३ दीक्षायात्राप्रतिष्ठाद्याः क्रियास्तद्विरहे कुतः ।
तदर्थे परपृच्छायां कथं च समयोन्ननिः ।। ४ मूलोत्तरगुणश्लाघ्यैस्तपोभिर्निष्ठितस्थितिः। :
साधुः साधु भवेत्पूज्यः पुण्योपार्जनपण्डितैः ॥ ५ शानकाण्डे क्रियाकाण्डे चातुर्वर्ण्यपुरस्सरः ॥ सूरिव इवाराध्यः संसाराब्धितरण्डकः ॥
Page #54
--------------------------------------------------------------------------
________________
सागारधर्मः। टीका-द्योत्यं प्रकाश्य प्रभाव्यं । कैः, सत्पात्रैःज्ञानतपोऽधिकैः । किविशिष्टै, जैनैः शिवादिभक्तिग्रहाविष्टैः । क्व, तत्रापि तपोज्ञानरहितेऽपि जने । किंवत्, खद्योतवत् खद्योतैरिव । कस्मिन् , स्वौ रविसन्निधाने ज्योतिरिङ्गणा यथा निष्प्रभा भवन्ति तथा स्फुरजैनत्वगुणपुंसः समीपे मिथ्यादृष्टिधार्मिका इत्यर्थः । यत्र किं, यत्र स्फुरति प्रतपति । कौऽसौ, जैनत्वगुणः जिन एव देवो मे भवार्णवोत्तारकत्वादित्यभिनिवेशधर्मः। किंविशिष्टोऽपि, ज्ञानतपोरहितः, किं पुनस्तत्सहित इत्यपिशब्दार्थः । किंविशिष्टः, सतां मतः साधूनामिष्टः॥५२॥ श्रेयोऽर्थिनां जैनानुग्रहानुभावमाह
वरमेकोऽप्युपकृतो जैनो नान्ये सहस्रशः।।
दलादिसिद्धान् कोऽन्वेति रससिद्धे प्रसेदुषि ॥ ५३ ॥ टीका-वरं भवतु । कोऽसौ, जैनः । किंविशिष्टः, उपकृतोऽनुगृहीतः । किंविशिष्टोऽपि, एकोऽपि । नवरं। के-ऽन्ये अजैनाः। किंविशिष्टाः,उपकृताः कियन्तः, सहस्रशः सहस्रसंख्याः । अत्र दृष्टान्तमाह-को, न कश्चित् । अन्वेति अनुवर्तते । कान, दलादिसिद्धान्, दलं बीजरहितकृत्रिमसुवर्णादिद्रव्यं आदिशब्दाद्वर्णोत्कर्षादि तत्र तेन वा सिद्धान् प्रसिद्धान् । क सति, रससिद्ध पारदेन दारियव्याधिजरादिनिराकरणशक्त्या प्रतीते पुंसि। किंबिशिष्टे, प्रसेदुषि प्रसन्ने अनुग्रहोद्यते ॥ ५३ ॥ नामादिनिक्षेपविभक्तानां चतुर्णा जैनानां पात्रत्वं यथोत्तरं विशिनष्टि
नामतः स्थापनातोऽपि जैनः पात्रायते तराम् ।
स लभ्यो द्रव्यतो धन्यैर्भावतस्तु महात्मभिः ॥ ५४ ॥ टीकाः-पात्रायते तरां अजैनपात्रेभ्योऽतिशयेन संयुज्यमाननिर्वाणकारणगुणलक्षणपात्रवदाचरति, सम्यक्त्वसहचारिपुण्यास्रवकारणत्वात् ।। कोऽसौ, जैनः । केन, नामतः सञ्ज्ञामात्रेण, न परं नाम्ना स्थापनातोऽपि सोऽयं जैन इति कल्पनामात्रेणापि। लभ्यः प्राप्यः । कोऽसौ, स जैनः। केन, द्रव्यतो द्रव्येण आगामिजैनत्वगुणयोग्यत्वेन विशिष्टः कैः, धन्यैः पुण्यवद्भिः। स एव तु भावतो भावेन जैनत्वगुणयोगेन लभ्यः । कैः, महात्मभिः महाभागैः ॥५४॥
भावजैनं प्रति निरुपाधिप्रीतेमतोऽभ्युदयनिःश्रेयससम्पदं फलमाह
Page #55
--------------------------------------------------------------------------
________________
- द्वितीयोध्यायः ।
प्रतीतजैनत्वगुणेऽनुरज्यन्निाजमासंसृति तद्गुणानाम् ।।
धुरि स्फुरन्नभ्युदयैरप्तस्कृप्तस्त्रिलाकीतिलकत्वमेति ॥ ५५ ॥ टीका-एति गच्छति । कोऽसौ, गृही। किं कुर्वन्, अनुरज्यन् स्वयमेवानुरागं कुर्वन् । कथं, निर्व्याजं निश्च्छद्म । क्व, प्रतीतः प्रसिद्धो जैनत्वगुणो यस्य तस्मिन् प्रतीतजैनत्वगुणे । कि-, मेति त्रिलोकीतिलकत्वं परमपदं । किंभूतो भूत्वा, तृप्तः वितृष्णीभूत इत्यर्थः । कैः, अभ्युदयैराज्ञैश्चर्यादिभिः । किंविशिष्टः सन्, अहप्तोऽकृतमदः सम्यक्त्वसहचारिपुप्योदययोगात् । किं कुर्वन् , स्फुरन् दीव्यन् । क्व, धुरि अग्रे। केषां सद्गुणानां प्रतीतजैनत्वगुणानां । कथम् आसंसृति संसारं यावत् , भवे भवे जैनानामग्रणीभवन्नित्यर्थः ॥ ५५ ॥ - गृहस्थाचार्याय तदभावे मध्यमपात्राय वा कन्यादिदान पाक्षिकश्रावकस्य कर्तव्यतयोपदिशति
निस्तारकोत्तमायाथ मध्यमाय सधर्मणे ।
कन्याभूहेमहस्त्यश्व-रथरत्नादि निर्वपेत् ॥ ५६ ॥ टीका-निवपत् दद्यात् गृही। किं तत्, कन्या कुमारी, भूर्भूमिः, हेम काञ्चनं, हस्ती गजः, अश्वो वाजी, स्थ: स्यन्दनः, रत्नं वज्रादि, आदिशब्देन वस्त्रगृहनगराधेवंजातीयकमन्यदपि त्रिवर्गसाधनाश्रयं वितरेत् । कस्मै, सधर्मणे समान आत्मना समो धर्मः क्रियामन्त्रव्रतादिलक्षणो गुणो यस्य तस्मै । किंविशिष्टाय, निस्तारकोत्तमाय संसारार्णवोत्तारकाणां गृहिणां मध्ये प्रधानाय, न केवलं तस्म तदलाभे च मध्यमाय अनुत्तमाधमाय । अथशब्दोऽत्र पक्षान्तरसूचनेऽधिकारे वा । अत्र जघन्यविषयां समदत्तिं व्याख्याय मध्यमविषयाऽ सावधिक्रियते इत्यर्थः । यत्यपेक्षया गृहस्थस्य गुणाधिकस्यापि मध्यमपात्रत्वात् ॥ ५६॥ सधर्मभ्यः कन्या दिदाने हेतुमाह
आधानादिक्रियामन्त्र-व्रताद्यच्छदवाञ्छया।
प्रदेयानि सधर्मभ्यः कन्यादीनि यथोचितम् ॥ ५७॥ टीका-प्रदेयानि प्रकृष्टं कृत्वा दातव्या नि गृहिणा। कानि, कन्यादीनि।
Page #56
--------------------------------------------------------------------------
________________
५२
सागारधर्मः। केभ्यः, सधर्मभ्यः साधर्मिकेभ्यः । कथ, यथोचितं यो यो यद्दानस्य योग्यस्तस्मै तस्मै तदातव्यमित्यर्थः । कया, आधानादीत्यादि--आधानं गर्भाधानविधानमादिर्यासां प्रीतिसुप्रीत्यादीनामाप्तोक्तानां क्रियाणां ता आधानादयस्ताश्च ताः क्रियाश्च कर्मागि गृहस्थानामवश्यकार्याणि, मन्त्राः प्रत्यासत्तेराधानादिक्रियासम्बन्धिन एवाप्तोक्ताः अपराजितमन्त्री वा, व्रत. नि मद्यविरत्यादीनि आदिशब्दादेवपूजापात्रदाना दिधर्म कमा णि तेषानच्छेदः सातत्येन प्रवृत्तिस्तत्र वाञ्छा आकांक्षा तया ॥ ५७ ॥ सम्यकन्यादानविधि तत्फलं चाह
निदोषां सुनिमित्तसूचितशिवां कन्यां वराहर्गुणः स्फूजन्तं परिणाय्य धर्यविधिना यः सत्करोत्यञ्जसा । दम्पत्योः स तयोस्त्रिवर्गवटनात्वर्गिकेवग्रणी
भूत्वा सत्समयास्तमोहमहिमा कार्ये परेऽन्यूर्जति ॥ ५८ ॥ टीका यो गृही। अञ्जसा श्रद्धापरत्वेन । साधर्मिकं सत्करोति सम्मानयति यथोचितवस्त्रादिदानेनोपचरति । किं कृत्वा, परिणाय्य युक्तितो वरणविधान मनिदेवद्विजसाक्षिकं च पाणिग्रहणं विवाहस्तं कारयित्वा । केन, धर्म्यविधिना धा धर्मादनपेता ब्राह्मप्राजापत्यार्षदेवाश्चत्वारो विवाहास्तेषां यथार्ह प्रयो१ धर्म्यविवाहविधिराः यथा
ततोऽस्य गुर्वनुज्ञाना-दिष्टा वैवाहिकी क्रिया । ववाहिके कुले कन्या-मुचितां परिणष्यतः। सिद्धार्चनविधि सम्य-निर्वयं द्विजसत्तमाः । कृतानित्रयसम्पूजा: कुयुस्तत्साक्षिकां क्रियाम् ।। पुण्याश्रमे क्वचित्सिद्ध-प्रतिमाभिमुखं तयोः। दम्पत्योः परया भूत्या कार्यः पाणिग्रहोत्सवः ।। वेद्यां प्रणीतमग्नीनां त्रयं द्वयमथैककम् । तत: प्रदक्षिणीकृत्य प्रसज्य विनिवेशनम् ।। पाणिग्रहणदोक्षायां नियुक्तं तद्वधूवरम् । आसप्ताहं चरब्रह्म-व्रतं देवाग्निसाक्षिकम् ॥ (शेषस्त्वपृष्ठे )
Page #57
--------------------------------------------------------------------------
________________
५
......
गेण ।
गेण । किं कुर्वन्त, राज निवारकचतसि स्फुरन्तं । कै,-गुणैः। किंविशिष्टैः, वराहवर यो यः बुरशीलसानाध्य विद्या वित्तसौरूप्ट योग्यवयोथित्वैः । कां परिणाय्य, कन्यां । किं वशिष्टां, निर्दोषां सामुद्रिकशास्त्रोक्तदोषरहितां । पुनः किविशिष्टां, सुनि मतसूचित शिवां सुनिमित्तै: सामुद्रिकदृतज्योतिषादिभविष्यच्छुभाशुभज्ञ नोपायः सृचितं प्रकाशितं शिवं स्वस्य वरस्य च कल्याण यस्यास्तां । स किमित्याह-उर्जति सगर्थो भवति । कोऽपौ, स यथाविधिकन्यादाता । क कार्यःवश्यकृत्ये। किंविशिष्टे, परेऽपि पारलौकिके न केवलं लौकिक इत्यपिशब्दार्थः । किवि शष्टः सन् , सदित्यादि-ससमयः जिनप्रवचनमार्यसङ्ग तिर्वा तेनास्तो निर कृतो मोह। चारित्रावरणकर्मणो महिमा गुरुत्वं येन स तथोक्तः । किं कृा, भृत्वा । किम्भूतो,-ऽग्रणी: प्रधानं । केषु मध्ये, त्रैवर्गिकेषु धर्मार्थकामानाच त्सु । कस्मात्, त्रिवर्गघटनात् धर्मार्थकामसम्पादनात् । कयो,-स्तयोः स्वकन्यातद्वरलक्षणयोर्दम्पत्योर्जायापत्योः ॥ ५८ ॥ सत्कन्याप्रदात: सामिकोपकाकरणद्वारेण महान्तं सुकृतलाभमवभासयन्नाहक्रान्त्वा स्वस्योचिता भूमि तीर्थभूमाविहृत्यचास्वगृहं प्रविशेदभूत्या परया तद्वधूवरम् विमुक्तककण पश्चात्स्वगृहे शयनीयकम। आधिशय्य यथाकालं भोगाङ्गैरूपलालितम्
सन्तानार्थमृतावेव कामसेनां मिथो भजेत् ।
शक्तिकालव्यपेक्षोऽयं क्रमोऽशक्तेष्वतोऽन्यथा ।। १-२ द्वौ हि धर्मों गृहस्थानां लौकिक पारलौकिक:,
लोकाश्रयो भवेदाद्यः परः स्यादागमाश्रयः ॥// सर्व एव हि जैनानां प्रमाण लौकिको विधि/e यत्र सम्यक्त्व हानिर्न यत्र न व्रतदूषणम् ॥ स्वजात्यैव विशुद्धानां वर्णानामिह रत्नवत् । तक्रियाविनियोगाय जनागमविधिः परम् । यद्भवभ्रान्तिानमुक्ति-हेतुधीस्तत्र दुर्लभा । व संसारव्यवहारे तु स्वत: सिद्धे वृथाऽऽगम: IN
Page #58
--------------------------------------------------------------------------
________________
सागारधर्मः। सत्कन्यां ददता दत्तः सत्रिवों गृहाश्रमः ।
गहं हि गृहिणीमाहु-न कुड्यकटसंहतिम् ॥ ५९ ॥ टीका--दत्तो बितीर्णः सद्गृहिणा साधर्मिकाय । कोऽसौ, गृहाश्रमः गृहे आश्रमो धर्मानुष्ठानं गृहमेव वाऽश्रमस्तपःस्थानं । किं कुर्वता, ददता । कां, सत्कन्यां सती प्रशस्ता कौलीन्यादिगुणोपेता सामुद्रिकोक्तदोषरहिता च कन्या कुमारी सत्कन्या तां। किंविशिष्टो गृहाश्रमो दत्तः, सत्रिवर्गो धर्मार्थकामानां भगृहिणीमूलत्वात् । तथाहि--धर्मः स्वदारसन्तोषाद्यात्मकसंयमलक्षणो देवादिपरिचरणस्वरूपः सत्पात्रदानादिस्वभावश्च, अर्थो वेश्या दिव्यसनव्यावतेनेन निष्प्रत्यूहमर्थस्योपार्जनादुपार्जितस्य च रक्षणाद्रक्षितस्य च वर्द्धनाद्यथाभाग्य ग्रामसुवर्णादिसम्पत्तिः, “संकल्परमणीयस्य प्रीतिसम्भोगशोभिनो रुचिस्याभिलाषस्य नाम काम ' इति स्मृतिरिति वचनात् कामश्च यथेष्टमाभिमानिकरसानुविद्धसर्वेन्द्रियप्रीतिहेतु: कुलाङ्गनामङ्गिनां सुप्रतीतः । हि यस्मात् । आहुः ब्रुवन्ति विद्वांसः । किं, गृहं । कां, गृहिणीं कुलपत्नीं। न आहुः। किं तत्, गहं । कुड्यकटसंहति भित्तिवंशादिच्छादनसङ्घातम् ॥ ५९ ॥ __कुलस्त्रीपरिग्रहं लोकद्वयाभिमतफलसम्पादकत्वात् त्रैवर्गिकस्य विधेयतयोपदिशति
धर्मसन्ततिमक्लिष्टां रति वृत्तकुलोन्नतिम् ।
देवादिसत्कृति चेच्छन्सत्कन्यां यत्नतो बहेतु ॥६॥ टीका-वहेत् परिणयेत । कोऽसौ, श्रावकः । कां सत्कन्यां सती प्रशस्ता सतश्च सज्जनस्य कन्या सत्कन्या तां । कस्मात्, यत्नतः प्रयत्नेन तत्परतया । किं कुर्वन्, आकांक्षन् । किं किं, धर्मसन्ततिं धर्मार्था सन्ततिरपत्या नि अथवा धर्मस्य सन्ततिरविच्छेदो धर्मसन्ततिस्तां, तथा अक्लिष्टामनुपहतां रति संम्भोगं, तथा वृत्तकुलोन्नतिं वृत्तस्याचारस्य कुलस्य च वंशस्य गृहस्य वा उन्नतिरुद्गतिस्तां, तथा देवोदिसत्कृति देवद्विजातिथिवान्धवसत्कारम् ॥६०॥
दुष्कलत्रस्याकलत्रस्य वा पात्रस्य भूम्यादिदानान्न कश्चिदुपकारः स्यादित्यमुमर्थमवश्यं तत्कन्याविनियोगेन सधर्माणमनुगृह्णीया दिति विधिव्यवस्थापनार्थमर्थान्तरन्यासेन समर्थयते
Page #59
--------------------------------------------------------------------------
________________
द्वितीयोध्यायः। सुकलत्रं विना पाते भूहेमादिव्ययो वृथा ।
कीटैर्दन्दश्यमानेऽन्तः कोऽम्बुसेकाद्रुमे गुणःना ६१ ॥ टीका-भवति । कोऽसौ, भूहेमादिव्ययः भूमिसुवर्णादिदानं । कथम्भूतो, वृथा व्यर्थः । क, पात्रे संयुज्यमानमोक्षकारणगुणे गृहिणि। कथं, विना । किं तत्, सुकलंत्रं सत्पत्नीं । अत्र दृष्टान्तमाह-को भवति, न कश्चित् । कोऽसौ गुण उपकारः । कस्मात्, अम्बुसेकात् जलसेचनात् । क, द्रुमे वृक्षे। किं क्रियमाणे, दन्दश्यमाने गर्हितं भक्ष्यमाणे । कैः, कीटैः घुणैः। क्व, अन्तर्मध्ये ।
विषयसुखोपभोगेनैव चारित्रमोहोदयोद्रेकस्य शक्यप्रतीकारत्वात्तद्वारेणैव तस्मादपवात्मानमिव साधर्मिकमपि विषयेभ्यो व्युपरमयेदित्युपदेशार्थमाह
विषयेषु सुखभ्रांतिं कर्माभिमुखपाकजाम् ।
छित्वा तदुपभोगेन त्याजयेत्तान्स्वक्त्परम् ॥ ६२॥ टीका- त्याजयेद्विमोचयेत् । कोऽसौ, सद्गृही । कं, परं कन्यादिदानेन विषयी क्रियमाणं साधर्मि। कान् तान्, सुकलत्रादिविषयान् । किंवत् , स्ववत् आत्मानं यथा । कृत्वा, छित्वा प्रशमय्य । कां, सुखभ्रान्ति सुखयन्तीति सुखाः सुखहेतव इमे सुखं वेति विपर्यासमति ! केषु, विषयेषु। किंविशिष्टां, कर्माभिमुखपाकजां कर्मणश्चारित्रमोहस्याभिमुखो निजफलदानोद्यतः पाको रसः कर्माभिमुखपाक स्तस्मात् जातां । छित्वा प्रशमय्य । कां, सुखभ्रांतिं । केन, तदुपभोगेन विषयानुभवनेन ॥ ६२ ॥
दुप्षमाकालवशात्प्रायेण पुरुषाणामाचारविप्लवदर्शनाद्विचिकित्साकुलितचित्तस्य दातुः सौचित्यविधानार्थ चतुरः श्लोकानाह। 'दैवाल्लब्धं धनं प्राणैः सहावश्यंविनाशि च । . - बहुधा विनियुञ्जानः सुधीः समयिकान्क्षिपेत् ॥ ६३॥
टीका-क्षिपेत् धिगिमान् सम्भाषणमात्रस्याप्ययोग्यानित्याद्यवर्णवादेन तिरस्कुर्यादिति काका न क्षिपेदिति प्रतिषेधे पर्यवस्यति । कोऽसौ, सुधीः
Page #60
--------------------------------------------------------------------------
________________
। सागारधर्मः ।
सोऽर्थी गृही। कान् , समयिकान् समयाश्रितान् गृहस्थान् यतीन् वा। किं कुर्वाणो, विनियुञ्जानो व्ययमानः । किं तत् , धनं कतिधा, बहुधा बहुभिः अंकोरैः लज्जाभयाक्षपातादिभि. । किंविशिष्टं धनं, लब्धं प्राप्तं । कस्मात् , डैवात्पुण्योदयान्न पुरुषकारात् , तस्य संसारे गौणत्वात् । किंविशिष्ट, मवश्यंविनाशि नियमेन गत्वरं । कथं, सह । कैः, प्राणैः ॥ ६३ ॥ दैव किं तर्हि कुर्या दित्याह -- वि विन्यस्यदंयुगीनेषु प्रतिमासु जिनानिव ।
भक्त्या पूर्वमुनीनचेत्कुतः श्रेयोऽतिचर्चिनाम् ॥ ६४ ॥ टीका-अर्चत् पूजयेत्। कोऽसौ, सद्गृही। कान् , पूर्वमुनीन् प्राक्तनसा बून् । कया, भक्त्या । किं कृत्वा, विन्यस्य नामादिविधिना निक्षिप्याकेषु, ऐदंयुगीनेषु अस्मिन् युगे साधुषु । कास्विव कान् , प्रतिमासु जिनानिव प्रति छिम्बेष्वर्हतो यथा यतः कुतो भवात, न कुतश्चित् । किं तत् , श्रेयः पुण्यं । हषाम्, अतिचर्चिनाम् अतिमात्रं क्षोदकाराणाम् ॥ ६४ ॥ हि पुनस्तदर्थसमर्थनार्थमाह३ १ भुक्तिमानप्रदाने तु का परीक्षा तपस्विनाम् ।
ते सन्तः सन्त्वसन्तो वा शूद्रो दानेन शुध्द्यति ।। सर्वारम्भप्रवृत्तानां गृहस्थानां धनव्ययः । बहुधाऽस्ति ततोऽत्यर्थ न कर्तव्या विचारणा ॥ यथा यथा विशिष्यन्ते तपोज्ञानादिभिर्गुणैः ।
तथा तथाऽधिकं पूज्या मुनयो गृहमेधिभिः ॥ देवाल्लब्धं धनं धन्यवतव्यं समयाश्रिते । एको मुनिर्भवेल्लभ्यो न लभ्यो वा यथागमं । उच्चावचजनपायः समयोऽयं जिनेशिनाम् । नैकस्मिन्पुरुषे तिष्ठे देकस्तम्भ इवालय ते नामस्थापनाद्रव्य-भावन्यासश्चतुर्विधाः। भवन्ति मुनयः सर्वे दानमानादिकर्मसु उत्तरोत्तरमावेन विधिस्तेषु विशिष्यते। पुण्यार्जने गृहस्थानां जिनप्रतिकृतिष्विव ॥ काल कला चले चित्ते दहे चान्नादिकीटके । एतच्चित्रं यदद्यापि जिनरूपधरा नराः। - यथा पूज्यं जिनेद्राणां रूपं लेपादिनिर्मितम् ।
तथा पूर्वमुनिच्छायाः पूज्याः सम्प्रति संयताः।
Page #61
--------------------------------------------------------------------------
________________
द्वितीयोध्यायः।
भावो हि पुण्याय मतः शुभः पापाय चाशुभः ।
तदुष्यन्तमतो रक्षेद्धीरः समयभक्तितः ॥ ६५॥ टीका-हि यस्मात् । पुनरिष्टः । कोऽसौ, भावः परिणामः । कम्मै, पुण्याय सुकृतनि मतं । किंविशिष्टः शुभः पशातः । तथा मतः। कोऽसौ भावः । किंविशिष्टो,-ऽशुभोऽ शस्तः । क-मै, पापाय पातकनिमित्तं । यत एवमतः एतस्मात्कारणात् । रक्षेन्निवारयेत् । कोऽसौ, धीरोऽविकार कृतिः। कंतं भावं । किं कुर्वन्तं, दुप्पन्तं विकुर्वाण। कम्मात्, समयभक्तितः जिनशासन कलौ धारयन्तोऽमी अतो जिनवन्मान्या इत्यनुरागबुध्द्या ॥ ६५ ॥ ज्ञानतपसोः पृथक् समुदितयोश्च तद्वतां च पूज्यत्वे युक्तिमाह
ज्ञानमय॑ तपोऽङ्गत्वा-त्तपोऽयं तत्परत्वतः ।।
द्वयमय शिवाङ्गत्वात्तद्वन्तोऽा यथागुणम् ॥६६ ॥ टीका-अर्च्य पूज्यं गृहिणां। किं तत् , ज्ञानं साधकस्थं दीक्षायात्राप्रतिष्ठाधुपयोगि। कुत,-स्तपोऽङ्गत्वादनशनादितपोनिमितत्त्वात् । तथा अर्घ्यं । किं तत् , तपो नैष्ठिकस्थं । कस्मात्त, त्परत्वतः ज्ञानातिशयहेतुत्वात् ज्ञानं परमुत्कृष्ट यस्मादिति व्युत्पत्त्य श्रयणात् । तथा अन्य किं तत्, द्वयं ज्ञानतपोयुगलं गणाधिपस्थं । कस्मात् , शिवाङ्गत्वान्मोक्षकारणत्वात् । तथा अर्ध्याः के ते, तद्वन्तो ज्ञानिनस्तपस्विनो ज्ञानतपोयुक्ताश्च । कथं, यथागुणं यो यो गुणो यस्याधिकस्तेन तेन तं तं विशेषेण पूजयेदित्यर्थः ॥६६॥
अथ मिथ्यादृष्टश्च सुपात्रेष्वेवान्नदानादुत्पन्नस्य पुण्यस्य फलविशेषमपात्रे चार्थविनियोगस्य वैयर्थ्य प्रतिपादयितुमाह
न्यङ्मध्योत्तमकुत्स्यभोगजगतीभुक्ताक्शेषाद्वषाताइक्वात्रवितीर्णभुक्तिरसुदृग्देवो यथास्वं भवेत् । सदृष्टिस्तु सुपात्रदानसुकृता द्रेकात्सुभुक्तोत्तम___ स्वभूमर्त्ययदोऽश्नुते शिवपदं व्यर्थस्त्वपात्रे व्ययः॥६७॥ टीका-भवेत् जायेत । कोऽसौ, असुदृमिथ्यादृष्टिर्जीवः । किं भवेत्,
Page #62
--------------------------------------------------------------------------
________________
५८
सागारधर्मः ।
देवः सुरः । कथं, यथास्वं यद्यत्स्वमात्मीयं दानं तत्तदनतिक्रमेणेत्यर्थः । किंविशिष्टः सन्, तादृक्पात्रवितीर्णभुक्तिः ताभ्यो न्यग्मध्योत्तमकुत्सितेभ्यः पात्रेभ्यो वितीर्णा दत्ता भुक्तिराहारो येन स तथोक्तः । कस्माद्भवेत्, वृषात् पुण्यविशेषात्, । किंविशिष्टात्, न्यगित्यादि,-न्यक् जघन्य एकपल्योपमभो म्यत्वात् , उत्तमस्त्रिपल्योपमभोग्यत्वात् कुत्स्य सुस्वादुमृत्पुष्पफलाशनवृत्तित्वदेकोरुकादिदेहयोगाच्च । न्यक्च मध्यमश्च उत्तमश्च कुत्स्यश्च न्यग्मग्मध्योत्तमकुत्स्यास्ते च ते भोगाश्च न्यग्मध्योत्तमकुत्स्यभोगास्तैरुपलक्षिता जगत्यो भूतयो जघन्यभोगभूमिमध्यमभोगमूमिरुत्तमभोगभूमिः कुभोगभूमिश्चति चतस्रस्तासु भुक्ताः कल्पवृक्षादिसम्पादितेष्टविषयोपभोगमुखेन निर्जीर्णश्चासा ववशेषश्चोद्धृतो यो वृषस्तस्मात् । तत्र मिथ्यादृष्टिर्जघन्यपात्राय सुदृष्टिलक्षणायाहारदानं दत्वा जघन्यभोगभूमौ, मध्यमपात्राय सम्यक्त्वाणुव्रतपवित्राय मध्यभोगभूमौ, उत्तमपात्राय सम्यग्दर्शनमहाव्रतभूषिताय चोत्तमभोगभूमौ, निरातङ्कभोगान् भुक्त्वा स्वायुःक्षये यथायोग्यं गच्छेत् । तत्तत्पात्रसन्निधानातथाविधशुभपरिणामविशेषोगपत्त्या तादृक्पुण्यप्रचयानुभावात् । स एव च कुपात्राय सम्यक्त्वरहितव्रततपोयुक्तायाहारं दत्वा कुभोगभूमौ निर्भूषाविवस्त्रगुहावृक्षमूलनिवास्येकोरुकादिशरीरो भूत्वा स्वसमानपत्न्या सह यथाम्वं निराबाधतया भोग भुक्त्वा पल्योपममात्रस्वायु:क्षये मृत्वा स्वर्गे वाहनदेवो ज्योतिष्को वा व्यन्तरो वा भवनवासी वा भूत्वा दीर्घ दुर्गतिदुःखानि भुञ्जन् संसरति । किं च ये भोगभूमिषु ये च मानुषोत्तरपर्वताबहिः प्राक्च स्वयम्प्रभ पर्वतात्तियञ्चो ये च म्लेच्छराजगजतुरगादयो वेश्यादयो वा नीचात्मानो
पात्रापत्रलणं या१-२ उत्कृष्टपात्रमनगारमणुव्रताढ्यं मध्यं व्रतेन रहितं सुदृशं जघन्यम् ।
निर्दशनं व्रतनिकाययुतं'कुपात्रं युग्मोज्झितं नरमपात्रमिदं हि विद्धि । ___., उत्तमपत्तं साहू मज्झिमपत्तं च सावया भणिया । - अविरदसम्माइटी अहण्णपत्तं मुणेयव्वम् ॥
Page #63
--------------------------------------------------------------------------
________________
द्वितीयोध्यायः ।
५९ भोगभाजो दृश्यन्ते ते सर्व कुपात्रदानतो यथापरिणाममुत्पन्नेन मिथ्यात्वसहचारिगा पुण्येन तथा स्युरिति निर्णय: । अश्नुते प्राप्नोति कोऽसौ, सद्दृष्टिः सम्यक्त्वविशुद्धो जीवः । तुर्विशेषे । किं, शिवपदं । किंभूतो भूत्वा, ' सुष्ठु यथेष्ट भुक्तानि उत्तमानि महर्द्धिकानि स्वर्भुवां कल्पोपपन्नदेवानां मर्त्यानां च चक्रवर्त्यादीनां पदानि येन स सुभुक्तोत्तमस्वर्भमर्त्यपदः । कस्मात्, सुपात्रदानसुकृतोद्रेकात् सुपात्राय महातपोधनाय त्रिविधपात्राय वा दानमनुग्रहार्थे स्वस्यातिसर्गस्तस्माज्जातं सुकृतं पुण्यं तस्योद्रेकादुदयात् । भवेत् । कोsसौ, व्ययः अर्थविनियोगः । क, अपात्रे' सम्यक्त्ववतरहितप्रणिनि । किंविशिष्टो, व्यर्थो विपरीतफलो निष्फलो वा ॥ ६७ ॥
इदानीं पात्रदानपुण्योदयफलभाजां भोगभूमिजानां जन्मप्रभृति सप्ताहसप्तकभाविनीरवस्था निर्देष्टुमाह
सप्तोत्तानशया लिहन्ति दिवसान्स्वांगुष्ठाभार्यास्ततः
मिथ्यात्वग्रस्तचित्तषु चारित्राभासभागिषु । दोषायैव भवेद्दानं पय पानमिवाहिषु ॥ कारुण्यादथवीचित्यात्तेषां किञ्चिदिशन्नपि । दिशेदुद्धृतमेवान्न गृहे भुक्तिं न कारयेत् ॥ सत्कारादिविधावेषां दर्शनं दूषितं भवेत् । यथा विशुद्वमप्यम्बु विषभाजनसंगमात् ॥ पात्राय विधिना दत्वा दान मृत्वा समाधिना । अच्युतान्तेषु कल्पेषु जायन्ते शुद्धदृष्टयः ॥ ज्ञात्वा धर्मप्रसादेन तत्र प्रभवमात्मनः । पूजयन्ति जिनाचीस्ते भक्त्या धर्मस्य वृद्धये ॥ १ - अपात्रदानतः किञ्चिन्न फलं पापतः परम् । लभ्यते हि फल खेदो वालुकापुञ्जपेषणे ॥ अपात्रय धनं दत्ते यो हिला पात्रमुत्तमम् | साधुं विहाय चौराय तदर्पयति स स्फुटम् ॥
Page #64
--------------------------------------------------------------------------
________________
, सागारधर्मः । को रिझन्ति ततः पदैः कलगिरो यानि स्खलद्भिस्ततः । स्थेयोभिश्च ततः कलागुणभृतस्तारुण्यभोगोइताः ।
सप्ताहेन ततो भवन्ति सुगादानेऽपि योग्यास्ततः ॥ ६८॥ टीका-लिहन्ति आस्वादयन्ति । के, आर्याः भोगभूमिजमनुजाः कं, खांगुष्ठं । कान्, दिवसान् । कति, सप्त जन्मानन्तरं सप्ताहमित्यर्थः । किंविशिष्टाः सन्तः, उत्तानशया उत्तानमनधोमुख शेरते। ततः प्रथमसप्ताहानन्तरं रिङ्गन्ति पदयां सर्पन्ति। के, आर्याः। कंम्यां, को भूमौ । कान् , सप्तदिवसान् । ततो द्वितीयसप्ताहानन्तरं यान्ति सञ्चरन्ति । के आर्याः । कम्यां, कौ । कैः, पदैः पादन्यासैः। किं कुर्वद्भिः, स्खलद्भिर्यत्रतत्र पतद्भिः । किविशिष्टाः सन्तः, कलगिरो मनोहरवाचः । ततस्तृतीयसप्ताहानन्तरमार्याः सताहेन सप्तभिर्दिनैः म्थेयोभिः स्थिरतरैः पदैः यान्ति गच्छन्ति। कस्यां, को पृथिव्यां । ततश्चतुर्थसप्ताहानन्तरमार्याः सप्ताहेन सप्तभिर्दिनैः कलगीतादिगुणाश्च लावण्यादीन् बिभ्रतो भवन्ति । ततः पञ्चमसप्ताहानन्तरं सप्ताहेनार्याः तारुण्यभोगोद्गता उदितोदितयौवना अविच्छिन्नमद्यादीष्टविषयाश्च भवन्ति । ततः षष्ठसप्ताहानन्तरं सप्ताहेनार्याः योग्या भवन्ति । क्क, सुदृगादाने सम्यक्त्वग्रहणे । अपिविस्मये ॥ ६८ ॥ अथ मुनिदेयनिर्णयार्थमाह
तपःश्रुतोपयोगीनि निरवद्यानि भक्तितः। __ मुनिभ्योऽनौषधावास-पुस्तकादीनि कल्पयेत् ॥ ६९ ॥
टीका-कल्प-येदुपकारयेत् । सद्गृही। कानि, अन्नौषधावासपुस्तकादीनि। आदिशब्देन पिच्छिकाकमण्डल्वादीनि । केभ्यो, मुनिभ्यः संयतेभ्यः । कस्मात्, भक्तितः । किंविशिष्टानि, तपःश्रुतोपयोगीनि तपसः श्रुतज्ञानस्य चोपकारकाणि । पुनः किंविशिष्टानि, निरवद्यानि पिण्डशुध्युक्तोद्गमोत्पादनादिदोषरहितानि ॥ ६९॥
अन्नादिदानफलानां क्रमेण निदर्शनान्याह
मानि निरवद्यानादीनि कल्पावासपुस्तत
Page #65
--------------------------------------------------------------------------
________________
द्वितीयोध्यायः । भोगित्वाद्यन्तशान्तिप्रभुपदमुदयं संयतेऽनप्रदानाच्छ्रीषेणो रुनिषेधाद्धनपतितनया प्राप सर्वोषधर्द्धिम् ।
प्राक्तजन्मर्षिवासावनशुभकरणात्सूकरः स्वर्गमग्य कौण्डेशः पुस्तका_वितरणविधिनाऽऽप्यागमाम्भोधिपारम् ॥७०॥
टीका--प्राप लब्धवान् । कोऽसौ, श्रीषेणो नाम राजा । कम, उदयमभ्युदयं । किंविशिष्टं, भोगित्वाद्यन्तशान्तिप्रभुपदं भोगित्वमुत्तमभोगभूमिजत्वमादावन्ते च शान्तिमाः शान्तिनाथतीर्थङ्करस्य पदं यस्य तं । कस्माद,न्नप्रदानात् विधिवदाहारवितरणात् । क्व, संयते संयमभाजि आदित्यगत्याख्यारिञ्जयसंज्ञचारणर्षियुगले । बीजत्वमात्रविवक्षाऽत्र । तथाविधाभ्युदयस्योत्तरपुण्यविशेषोदयसम्पाद्यत्वात् । तथा प्राप। काऽसौ, धनपतितनया वृषभसेनाभिधाना पूर्वभवे राज्ञो देवकुलस्य सम्मार्जिका । कां प्राप, सर्वोषधर्द्धि सर्वेषां ज्वरातिसारादिव्याधीनामौषधं चिकित्सितं तत्त्य ऋद्धिरव्याहतसिद्धिस्तां । कस्मात् , रुग्निषेत्रात् व्याधिप्रतिकारादौषधादेः दोषनिषेधात् । क, संयते तपोधने । तथा प्राय। कोऽसौ, शूकरो वराहः कं, स्वर्ग। किंविशिष्टं, अग्न्य सौधर्मे महर्द्धिकदेवत्वमित्यर्थः । कस्मात् , प्रागित्यादि-प्राक्च पूर्व तच्च तात्कालिकं च प्राक्त,प्राक्त च ते जन्मनी च प्राक्तजन्मनी तयोः ऋषेर्वासावने निवासरक्षणे तयोः शुभकरणः शुभाभिसन्धिपरिणामस्तस्मात् । पूर्वभवे मुनेसवासदानाभिप्रायेण नद्भवे चरक्षणाभिप्रायेणेत्यर्थः। तथा कौण्डेशोऽपि गोविन्दाख्यगोपालचरो ग्रामकूटपुत्रः सन् कौण्डेशो नाम मुनिश्च प्राप । कम् , आगमाम्भोधिपारं द्वादशाङ्गश्रुतसारपर्यन्तं । केन पुस्तकस्य अर्चायाः पूजायाः वितरणस्य च दानस्य विधिना करणेन ॥ ७० ॥
जिनधमानुबन्धार्थमसतां मुनीनामुत्पादने सतां च गुणातिशयसम्पादने प्रयत्नविधानार्थमाह
जिनधर्म जगद्वन्धु-मनुबध्दुमपत्यवत् । .यतीजनयितुं यस्येत्तथोत्कर्षयितुं गुणैः ॥ ७१ ॥
Page #66
--------------------------------------------------------------------------
________________
सागारधर्मः।
टीका-यस्येत् प्रयतेत । सद्गृही। किं कर्तु, जनयितुम् अपूर्वानुत्पादयितुं । कान् साधून । किंवत् , अपत्यवत् पुत्रान्यथा । किं कर्तुम्, अनुबध्दं सन्तत्या प्रवर्तयितुं । कं, जिनधर्म । किंविशिष्टं, जगद्वन्धु लोकानामुपकारकं । तथा यस्येत् । किं कर्तुम् , उत्कर्षयितुम् उत्कृष्टान् कर्तुं । कान् वर्तमानान् यतीन्। कै,-र्गुणैः श्रुज्ञानादिभिः । जिनधर्ममित्यादि पूर्ववदत्रापि योज्यम् ॥७१॥
सम्प्रति पुरुषाणां दुष्कर्मगुणत्वाद्गुणातिशया सिद्धेर्दर्शनात्तदुत्पादने निष्फल: प्रयत्न इति गृहिणां मनोभङ्गनिषेधार्थमाह--
श्रेयो यत्नवतोऽस्त्येव कलिदोवाद्गुणद्युतौ । . असिद्धावपि तत्सिद्धौ स्वपरानुग्रहो महान् ॥ ७२ ॥
टीका-अस्त्येव नियमेन भवति । किं तत् , श्रेय. पुण्यं । कस्य, यत्नवतः प्रयतमानस्य गृहस्थस्य · कस्मिन्विषये, गुणद्युतौ गुणा तिशयशा लिनां विषये। कस्यां सत्याम् ,असिद्धावपि आवृत्या गुणहुतावनिष्पत्तावपि । कस्मात्, 'कले: पञ्चमकालस्य पापकमणो वा दोषादपराधात् प्रातिलोम्यादित्यर्थः। तत्सिद्धौ महालाभमाह । भवति । कोऽसौ, स्वपरानुग्रहः स्वस्य वैय्यावृत्यकरस्य परस्य च साधर्मिकस्यं सामान्यजनम्य च अनुग्रह उपकारः। किंविशिष्टो, महान् विपुलः । कस्यां सत्यां, तत्सिद्धौ तेषां गुणातां निष्पत्तौ । कस्मात् , कलिदोषाटुष्कर्मप्रतिघातात् दैवदुर्योगादित्यर्थः ॥ ७२ ॥ ___ महाव्रतमणुव्रतं वा बिभ्रत्यः स्त्रियोऽपि धर्मपात्रतयाऽनुग्राह्या इति समर्थयितुमाह
आर्यिकाः श्राविकाश्चापि सत्कुर्याद्गुणभूषणाः।
चतुर्विधेऽपि सङ्घ यत्फलत्युप्तमनल्पशः ॥ ७३ ॥ टीका-सत्कुर्याद्यथोक्तविनयप्रतिपत्त्यादिना आवर्जयेत् सद्गृही । काः, आर्यिका उपचरितमहाव्रतधराः स्त्रीः, न केवलं ताः श्रविकाश्च यथाशक्तिमू लोत्तरगुणभृतः तदुपासिकाश्च । अपिशब्दान्न केवलं व्रतिन्योऽव्रतिनीरपि सन्मानयेदिय॑थः। किंविशिष्टाः, गुणभूषणाः गुणाः श्रुततपःशीलादयो भूषण, न्यलङ्करणानि यासां ताः । यद्यस्मात् । फलति इष्ट सम्पादयति । किं तत्, उप्त
Page #67
--------------------------------------------------------------------------
________________
द्वितीयोध्यायः ।
विधिवप्रयुक्तं भक्तवसत्यादि। क्व, सङ्घ गुणसङ्घाते. प्राणिगणे। किंविशिष्टे, चतुर्विधे यत्यार्यिकाश्रावकश्राविकाप्रकारे। न केवलमर्हचैत्यचैत्यालयश्रुतेषु विधिवत्प्रयुक्तमात्मीयं धनमल्पशः प्रभूतं भूत्वा फलति, किं तर्हि, सधेऽपीत्य पिशब्दार्थः। एतेन सप्त गृहिणोधनव्ययस्थानानीत्युपदिष्टं वेदितव्यम् ॥७३॥ ___एवं धर्मपात्रानुग्रहं गृहस्थस्यावश्यकार्यतयोपदिश्य सम्प्रति कार्यपात्रानुग्रह विध्युपदेशार्थमाह
धर्मार्थकामसधीचो यथौचित्यमुपाचरन् ।।
सुधीनिवर्गसम्पत्त्या प्रेत्य चेह च मोदते ॥ ७४॥ टीका-मोदते प्रल्हादते । कोऽसौ, सुधीः सद्बुद्धिः । कया, त्रिवर्गस . म्पत्त्या धर्मार्थकामसम्पदा। क प्रेत्य जन्मान्तरे । इहास्मिञ्जन्मनि । द्वौ च शब्दौ जन्मद्वयेऽपि तुल्यकक्षतां सूचयतः । किं कुर्व-न्नुपाचरन् उपकुर्वन् , ऋणीकमन्यान् वुर्वन् । कान् , धर्मार्थकामसध्रीच: त्रिवर्गसहकारिणः पुरुषान् कथं, यथौचित्यं यद्यद्यस्य यस्य योग्यं दानमानादिकं तत्तत्तस्य तस्य कुर्वनित्यर्थः ॥ ७४ ॥ ___ एवं समदत्तिं पात्रदत्तिं च प्रबन्धेनाभिधायेदानीं दयादत्तिं विधेयतमत्वे नोपदिशन्नाह
सर्वेषां देहिनां दुःखाद्विभ्यतामभयप्रदः।
दयार्दो दातृधौरेयो निर्भीः सौरूप्यमश्नुते ॥ ७५ ॥ टीका-अश्नुते प्राप्नोति । कोऽसौ, अभयप्रदः प्राणादिभयापसारकः । १ तेनाधीतं श्रुतं सर्व तेन तप्तं परं तपः ।
तेन कृत्स्नं कृतं दानं यः स्यादभयदानवान् ।। धर्मार्थकाममोक्षाणां जीवितं मूलमिष्यते ।
तदक्षता न किं दत्तं हरता तन्न किं हृतम् ॥ .. दानमन्यद्भवेन्मा वा नरश्चेदभयप्रदः । सर्वेषामेव दानानां यतस्तद्दानमुत्तमम् ॥
यो भूतेष्वभयं दद्यात् भूतेभ्यस्तस्य नो भयम् ।
Page #68
--------------------------------------------------------------------------
________________
६४
सागारधर्मः ।
9
केषां देहिनां प्राणिनां । किं कुर्वतां बिभ्यतां । त्रस्यतां । कस्मात् दुःखात् देहमनस्तापात् । कियतां सर्वेषां । किम्, अश्नुते, सौरूप्यं रूपातिशयं । उपल क्षणात्स्थैर्य गाम्भीर्य तेजस्वित्वमादेयत्वं सौभाग्यं सौम्यत्वं त्यागित्वं भोगित्वं यशस्वित्वं निरामयत्वं चिरजीवित्वमित्यादिलो को त्तरगुणग्रामं । किंविशिष्टः सन्, निर्भीः सर्वतो भयरहितः । किविशिष्टोऽसौ दयः द्रः करुणा मृदुहृदयः । पुनः किंविशिष्टो, दातृधौरेयः अन्नादिदातण मग्रणीः । धर्मार्थकाममोक्षाणां जीवितमूलत्वाज्जीवितप्रदः किमभिमतं न ददातीति भावः ॥ ७५ ॥ अथ कर्मधर्म्यमित्यादि प्राक् सूत्रितं प्रपञ्चयन् श्रिताभरणकृपादानपुर सरं दिवाभोजन नुपदिशन्नीरादीनां रात्रावप्यप्रत्याख्येयतामा ख्याति भृत्वाऽऽश्रितानुवृत्त्याऽऽर्तान्कृपया नाश्रितानपि । भुञ्जीतान्ह्यम्बुभैषज्य - ताम्बूलैलादि निश्यपि ॥ ७६ ॥ टीका - भुञ्जीत ओदनादिकमुपयुञ्जीत गृही । क, अन्हि दिने । किं कृत्वा भृत्वा पोषयित्वा । कानू, आश्रितान् अनन्यस्वामिकान् मानुषान् तिरश्चश्च । किं विशिष्टान, अवृत्त्या जीवनाभावेनार्ता अनवस्थितचित्तास्तान् न केवलमाश्रिताननाश्रितानपि भृत्वा । कया, कृपया करुणया, न केवलं तथा कृत्वा दिवा भक्तादिकं भुञ्जीत । निश्यपि रात्रावपि भुंजीत । किं तत् अम्ब्वादि अम्बु जलं, भैषज्यमोषधं ताम्बूलं क्रमुक, एला प्रसिद्धा । आदि शब्देन जातीफलकर्पूरादिमुखवासनप्रायद्रव्यपरिग्रहः ॥ ७६ ॥
यादृग्वितीर्यते दानं तादृगाध्यास्यते फलम् ॥ सौरूप्यमभयादाहुराहाराद्भगवान्भवेत् । आरोग्यमाषधाज्ज्ञेयं श्रुतात्स्यात् श्रुतकवली ॥ मनोभूरिव कान्ताङ्गः सुवर्णाद्रिरिव स्थिरः । सरस्वानिव गम्भीरो विवस्वानिव भासुरः ॥ आदेयः सुभगः सौम्यस्त्यागी भोगी यशोनिधिः । 'भवत्यभयदानेन चिरजीवी निरामयः ॥
१ ताम्बूलमौषधं तोयं मुक्त्वाऽऽहारादिकां क्रियाम् । प्रत्याख्यानं प्रदीयेत यावत्प्रातर्दिनं भवेत् ॥
Page #69
--------------------------------------------------------------------------
________________
द्वितीयोध्यायः ।
सेव्यानामप्यर्थानां सेवायामसम्भवत्त्यां कालपरिस्थित्या प्रत्याख्येयतां मुपदिश्य तत्प्रत्याख्यानं फलवत्तया समर्थयते
यावन्न सेव्या विषयास्तावत्तानाप्रवृत्तितः ।। ___व्रतयेत्सबतो दैवान्मृतोऽमुत्र सुखायते ॥ ७७ ॥
टीका-आप्रवृत्तितो व्रतयेत् आप्रवृत्तेर्निवृत्तिर्मेऽस्य ताम्बूलादेरिति नियमेद्गही। कान, तान् ताम्बूलकामिन्यादिविषयान् । कथं, तावत् तावन्तं कालं । यावकि, यावन्तं कालं । न सेव्या न सेवितुं सम्भाव्याः । के ते, विषयाः । एवं कृते किं फलं स्यादित्याह-सुखायते सुखमनुभवति । कोऽसौ, स तथा कृतनियमः । क, अमुत्र परलोके । किंविशिष्टो, मृतः । कस्मात्. दैवात् कर्मवशात्। किंविशिष्टः सन्, सवतस्तथावतभावितः । ७७॥ तपश्चर्य च शक्तित इत्युक्तं तद्विशेषविधिमभिधत्ते
पञ्चम्यादिविधि कृत्वा शिवान्ताभ्युदयप्रदम् ।।
उद्द्योतयेद्यथासम्पनिमित्त प्रोत्सहेन्मनः ॥ ७८ ॥ टीका-उद्योतयेत उद्यापयेत् । कं, पञ्चम्या दिविधि पञ्चम्यां पुष्पाञ्जलिमुक्तावलिरत्नत्रयादिविधानं किंविशिष्ट, शिवान्ताभ्युदयप्रदं निःश्रेयसावसानशकचक्रधरा दिपदसम्पादकं किं, कृत्वा यथाम्नायं परिसमाप्य । कथम् उद्योतयेत्, यथासम्पद्यथा विभवं । ननु नित्यानुष्ठाने सत्यपि किमिदमनुष्ठीयते इत्याह-प्रेत्सहेत् नित्यानुष्ठानापेक्षया प्रकर्षणोत्साहं गच्छेत् मनश्चित्त । क, निमत्ते नैमित्तिकानुष्ठाने ॥ ७८ ।। अथ व्रतग्रहणरक्षणच्छेदोपस्थापनविधीनुपदिशति
समीक्ष्य व्रतमादेयमात्तं पाल्यं प्रयत्नतः।
छिन्नं दर्यात्प्रमादाद्वा प्रत्यवस्थाप्यमञ्जसा ॥ ७९ ॥ .. टीका-आदेयं ग्राह्य श्रेयोऽर्थिना । किं तत्, व्रतं । किं कृत्वा, समीक्ष्य आत्मानं देशकालस्थानसहायादींश्च सम्यगालोच्य । तथा पाल्यं रक्षणीय व्रतं । किंविशिष्टम्, आत्तं तथा गृहीतं । कस्मात्, प्रयत्नतः प्रकृष्टयतनया। तथा प्रत्यवस्थाप्यं प्रायश्चित्तविधिना पुनरनुसन्धेयं व्रतं । कथम्, अञ्जसा
Page #70
--------------------------------------------------------------------------
________________
: सागारधर्मः ।।
सद्य एव । किंविशिष्टं तत्, छिन्नम् अतिचरितं । कस्मात्, दर्षात् मदावेशात् प्रमादाद्वाऽनवधानात् ॥ ७९ ॥ किं व्रतमित्याह
सङ्कल्पपूर्वकः सेव्ये नियमोऽशुभकर्मणः ।
निवृत्तिर्वा व्रतं स्याद्वा प्रवृत्तिः शुभकर्मणि ॥ ८० ॥ टीका-स्याद्भवेत् । किं तत्, व्रत । किं, नियमः प्रत्याख्यानं । क, सेव्ये स्वदारताम्बूलादौ। किंविशिष्टः, संकल्पपूर्वकः, इदमियदेताव-तं कालं न सेविप्येऽहमिति मनसाऽध्यवसायं कृत्वा इत्यर्थः। अथवा अहमिदमियदेतावन्तं कालं सेविष्याम्येवेति सङ्कल्पेन नियमः प्रतिज्ञा व्रतं स्यात् । अथवा व्रतं स्यात् । किं, निवृत्तिः विरतिः। कस्मात् , अशुभकर्मणो हिंसादेः। किंविशिष्टा, सङ्कल्पपूर्विकेति लिङ्गपरिणामेन सम्बन्धः । अथवा व्रतं स्यात् । किं, प्रवृत्तिराचरणं । क, शुभकर्मणि पात्रदानादौ। सङ्कल्पपूर्विकेत्यत्रापि योज्यम् ॥ ८ ॥ विशिष्टागमप्रत्ययावष्टम्भात्प्राणिरक्षाविधिमनुशास्ति --
न हिंस्यात्सर्वभूतानीत्यार्ष धर्मे प्रमाणयन् ।
सागसोऽपि सदा रक्षेच्छक्त्या किं नु निरागसः ॥ ८१ ॥ टीका-रक्षेत् पालयेत्। कोऽसौ, धर्मी धार्मिकः । कान्, सागसोऽपि सापरापानपि जीवान् । कया, शक्त्या यथाशक्ति । किं निमित्तं, धर्मे धर्मनिमित्तं । क, सदा सर्वस्मिन् काले किं नु निरागसो निरपराधान् विशेषतो रक्षेदित्यर्थः। किं कुर्वन् ,प्रमाणयन् अविसंवादयन् इदमेवमित्थमेवेति प्रतिपद्यमानः। किं तत् ,आर्ष ऋषिभिः प्रोक्तं शास्त्रं । किंरूपमित्याह-इति एवं रूपं । न हिंस्यात् न हन्यात् । कोऽसौ,श्रेयोऽर्थी। कानि, सर्वभूतानि सर्वान् त्रसस्थावरजीवान् ॥ ८१ ॥ साङ्कल्पिकहिंसापरित्यागमुपदिश्यार्थान्तरन्यासेन समर्थयते
आरम्भेऽपि सदा हिंसां सुधीः साकल्पिकी त्यजेत् । नतोऽपि कर्षकादुःपापोऽनन्नपि धीवरः ॥ ८२ ॥
Page #71
--------------------------------------------------------------------------
________________
द्वितीयोध्यायः। टीका-त्यजेत् परिहरेत् । कौऽसौ, सुधीः शास्त्रबलेन हिंसायाः फलमेसदिति निश्चितमतिः । कां, हिंसा प्राणातिपातं । किंविशिष्टां, साङ्कल्पिकी अमुं जतु मांसाद्यार्थित्वेन हन्मीति सङ्कल्पपूर्विकां । आरम्भजा तु हिंसाऽशक्य प्रत्याख्याने ति तत्र यतनामेव कुर्यादिति भावः । व सति, आरम्भेऽपि कृष्या दिकर्मण्यपि प्रवर्तमानः । कथं, सदा नित्यं । हि यस्मात् भवति । कोऽसौ, धीवरो मात्स्यिकः किं विशिष्ट: उच्चः पापः उत्कृष्टपातकी। किं कुर्वन्नपि, बहून्मत्स्यान् हनिष्य मीत्यभिध्यानेन प्रवृत्तोऽमारयन्नपि । कस्मात् , कर्षकात् कर्षणप्रवृत्तात् किं कुर्वतो, नतोऽपि देवब्राह्मणकुटुम्बाद्यर्थ धान्यमुत्पादयिध्यामीति अभिध्यानविशेषेण प्रवत्ताहूनपि मारयतः ॥ ८२ ॥ ... - परैविधेयतया व्यवस्थाप्यमानं हिंस्रादिप्राणिनां वधं प्रतिविधातुमाह
हिंस्रदुःखिसुखिप्राणि-घातं कुर्यान्न जातुचित् । । अतिप्रसङ्गश्वभ्रार्ति-सुखोच्छेदसमीक्षणात् ॥ ८३ ॥
टीका - न कुर्यात् श्रेयोऽर्थी कं, हिंसदुः खिसुखिप्राणिघातं । कथं, जातुचित् कदाचिदपि । कुतः, अती.त्यादि-हिंस्रा व्याघ्रादयः । अत्र केचिदाहुः, हिंस्रजीवा हन्तव्याः । हिंसे ह्ये हस्मिन्हते भूयसां रक्षा कृता भवति । ततश्च धर्माधिगमः पापोपरमश्च स्यात् । तदयुक्तमतिप्रसङ्गात् । सर्वेषां प्राणिनां हिं स्रतया हन्तव्यतानुषङ्ग त् । तथा व लाभमिच्छतां तथावादिनां मूलोच्छेदः स्यात् । न च बहुरक्षणाभिप्रायेणापि हिंस्रं हिंसतो धर्मः पापोच्छेदो वा युज्येत । दयामूलत्वात्तयोः । यच्च संसारमोचकाःप्रचक्षते दुःखिनो जीवा हन्तव्यास्तेषां विनाशे दुःखविनाशसम्भवादिति; तदप्ययुक्त । तेषां स्वल्पदुःखानां निहतानां नरकेऽनन्तदुःखे संयोजनाया दुर्निवान्त्वात्। अन्ये त्वाहुः-सुखिनो हन्तव्याः यतः संसारे सुख दुर्लभ । सुखिनश्च हताः सुखिन एव. भवन्तीति तदप्यसकतं । सुखिनां हन्यमानानां दुःखावेशेन सुखोच्छेदम्यावश्यम्भावात् । दुःखमृत्युना च दुर्ध्या नानुसन्धान हुन्तदुर्गतिदुःखावर्तनिर्वर्तनात् । तदल
Page #72
--------------------------------------------------------------------------
________________
६८
सागारधर्मः।
मतिप्रसङ्गेन । स्वगता परगता वा यथाकथञ्चिक्रियमाणा हिंसा न धर्माय स्यात् । किं तर्हि, पातकसम्भगयैवेति प्रतिद्यमानैर्यथाशक्ति तत्परित्यागे धर्मार्थिभिः सन्ततं यतितव्यमित आप्तयुक्तोपनिषत् ॥ ८३॥ अथ पाक्षिकस्य दृग्विशुद्ध्यर्था लोकानुत्त्यांश्च क्रिया: कृत्यतयोपदिशति
स्थूललक्षः कियास्तीर्थ यात्राद्या दृम्किशुद्धये ।
कुर्यात्तथेटभोज्याद्याः प्रीत्या लोकानुवृत्तये ॥ ८४ ॥ - टीका-कुर्यात् । कोऽसौ स्थूललक्षः स्थूलं व्यवहारं लक्ष त्यालोचयतीति स्थूललक्षो व्यवहारप्रधानो बहुप्रदश्च गृही। काः, क्रियाः। किंविशिष्टाः तीर्थयात्राद्याः तीर्थान्यूजलन्तादीनि पुण्यपुरुषाध्युषितस्थानानि तेषु यात्रा आद्या यासु ताः । किमर्थ, दृग्विशुद्धये सम्यक्त्वनिर्मलीकरणार्थ । तथा स्थूललक्षः क्रियाः कुर्यात् । किंविशिष्टः, इष्टभोज्याद्याः इष्ट : सधर्माण:स्वजना मित्रादयो भोज्यन्तं स्वगृहे भोजन क र्यन्ते यस्यां सा इष्टभोज्या लिया, सा आद्या आसु अतिथि पूजनभूतबल्या दिक्रियासु ताः । कया, प्रीत्या हर्षेण नोद्वेगेन । किमर्थ, लोकानुत्तो लोकचिन्त वर्जनार्थम् ।। ८४ ।।
श्रेयोऽर्थिनः कीर्तेरप्यर्जनीयत्वमाह__अकीर्त्या तप्यते चेतश्चेतस्तापो शुभास्रवः । ___ तत्तत्प्रसादाय सदा श्रेयसे कीमिर्जयेत् ॥ ८५॥
टीका-तप्यते संक्लिश्यते । किं तत् चतश्चित्तं । कया, अकीर्त्या अयशसा । भवति च । कोऽसौ, चेतस्तापो मनःकालुष्य। किंविशिष्टो,ऽशुभा स्रवः पापहेतुः । यत एवं तत्तत्मात्कारणात् । अर्जयेत् उपार्जयेत् । गृही। कां, कीर्ति । कथं, सदा । कस्मै, तत्रासादाय चेतःप्रसत्त्यर्थम् । कस्मै तत्ासादः, श्रेयसे । अथवा श्रेयसे । पुण्यकारणाय तत्प्रसादायेति व्याख्येयम् । ८५ - कीयुपाजनोणयमाह
परासाधाणान्गुण्यप्रगण्यानघमर्षणान् । गुणान् विस्तारयेन्नित्यं कीर्तिविस्तारणोद्यतः ॥ ८६ ॥
Page #73
--------------------------------------------------------------------------
________________
द्वितीयोध्यायः ।
६९
टीका-विस्तारयोद्विपुलीकुर्यात् । कोऽसौ, कीर्तिविस्तारणाद्यतो यशःप्रसा रणतत्परः । कान, गुणान् दानसत्यशौचशीलादीन् । किंविशिष्टान् , परासाचारणान् अनन्यसदृशान् । पुनः किंविशिष्ट न् , गुप्यप्रगप्यान् गुणवद्भिः प्रकर्षण माननीयान् । पुनरपि किंविशिष्ट न् अघमर्षणान् पापविध्वंसिनः ।।८६॥ एवं विधाचारपरस्य श्रावकस्योत्तरोत्तरभूमिकाश्रयणेन सकलविरतिपदाधिरोहणविधिमुरादिशति
सैषः प्राथमकल्पिको जिनवचोऽभ्यासामृतेनासकनिर्वेद ममावपन् शमरसोद्गारे द्धा विभ्रति । पार्क कालिकमुत्तरोत्तरमहान्त्यतस्य च फला
न्यास्त्राघोद्यतशक्तिरुद्धचरितप्रासादमार हतु ।। ८७॥ टीका-आरोहतु चटतु । कोऽसौ, सैष स एवेत्यर्थः पादपूरणेऽत्र सेर्लोपः। कोऽसौ, प्राथमकलिकः प्रारब्धदेशसंयमः। कमारोहतु, उद्धचरितप्रासाद सल्ले वनान्तयति व मसौध । किविशष्टः सन्, उद्यतशक्तिरद्भूनसामर्थ्यः । कि कृत्वा, आस्वाद्यानुभूय कानि, चर्याफलानि दर्शनिकादिप्रतिमाफलानि कस्य, एतस्य निर्वेदमस्य । किंविशिष्टानि, उत्तरोत्तरमहान्ति यथोत्तरं पृथूनि। किं कुर्वन्ति, बिभ्रति धारयन्ति । किं, पाकमात्मीयपरिणति परिपाकं च । किविशिष्टं, कालिकं कालकृत । पुनः किंविशिष्टं, शमरसोद्ग रो र शमः प्रशमसुख स एव रसो रसनेन्द्रियग्राह्यो गुणस्तस्योद्ग रोऽभिव्यक्तिस्तेनोडुरंउत्कटं सू एव वा उद्धरो यत्र । किं कुर्वन् , आवपन् सिञ्चन् पोषयन् । के, निर्वेदद्रुम संसारशरीरभोगवैराग्यवृक्ष । केन, जिनवचो भ्यासामृतेन जिनागमभावनापीयूषेण । कथम, असकृतभीक्ष्णमिति भद्रम् ॥ ८७ ॥
इत्याशावरविरचितायां स्वोपशधर्मामृतसागारधर्मदीपिकायां भव्यकुमुदचन्द्रिकासक्षायामा देत एकादशः प्रक्रमाञ्च द्वितीयोऽध्यायः समाप्तः ॥ २॥
Page #74
--------------------------------------------------------------------------
________________
तृतीयोऽध्यायः।
नैष्ठिकलक्षणमाहदेशयमनकषायक्षयोपशमतारतम्यवशतः स्यात् ।
दर्शनिकायेकादशदशावशो नैष्ठिकः सुलेश्यतरः ॥ १॥ टीका-स्याद्भवेत्। कोऽसौ, नैष्ठिकः।श्रावकः । किंविशिष्टो, दर्शनिकायेकादशदशावशः, दर्शन निर्मलमद्यादिविरत्याहितातिशयं सम्यक्त्वमस्यास्तीति 'अतिशायने ठावत' इति ठः । एवं व्रतिकादित्रयो व्युत्पाद्याः । दर्शनिक आदिर्यासां व्रतिकादीनां ता दर्शनिकादय एकादशदशाः श्रावकसंयमस्थानानि, तासां वशः पारतंत्र्यं यस्य स घटमानदेशसंयम इत्यर्थः । कस्मात् , देशेत्यादि--देशयमध्ना अप्रत्याख्यानावरणाख्याः कषापाः क्रोधादयस्तेषां क्षयेनोदयाभावेन प्रत्याख्यानावरणकषायोदयविशिष्टेन युक्त उपशमः सदवस्था तत्क्षयोपशमस्तस्य तारतम्यं यथोत्तरमुत्कर्षस्तद्वशतस्तत्पारतन्ध्यात् । पुनः किंविशिष्टः स्यात् , सुलेश्यतरः । लिंपति स्वीकरोति पुण्यपापे स्वयं जीवो यया सा लेश्या, अथवा लिशत्यल्पीकरोत्यात्मानमित्ति लेश्या कषायोदयः
१ लिम्पत्यात्मीकरात्यात्मा पुण्यपापे यया स्वयम् । सा लेश्येत्युच्यते सद्भिर्द्विविधा द्रव्यभावतः ॥ प्रवृत्तियौगिकी लेश्या कषायोदयरजिता । भावतो द्रव्यतो देहच्छवि: षोढामयी मता ॥ .. कृष्णा नीलाऽथ कापोती पीता पद्मा सिता स्मृता । लेश्या षड्भिः सदा तागृह्यते कर्म जन्मिभिः ॥ योगाविरतिमिथ्यात्वकषायजनितोऽङ्गिनाम् ।। संस्कारो भावलेश्याऽस्ति कल्माषावकारणम् ।। कापोती कथिता तीवो नीला तीव्रतरो जिनः । । कृष्णा तीव्रतमो लेश्या परिणामः शरीरिणाम् ॥ . पीता निवेदिता मन्दः पद्मा मन्दतरो बुरैः। ....: शुक्ला मन्दतमस्तासां वृद्धिः षट्स्थानयायिनी ॥
Page #75
--------------------------------------------------------------------------
________________
يعرق
तृतीयोध्यायः ।
रञ्जिता योगप्रवृत्तिः सैषा भावतः, द्रव्यतस्तु शरीरच्छविर्लेश्या । सा च द्वितय्यपि कृष्णादिभेदेन षोढा, कृष्णा नीला कापोती पीता पद्मा शुक्ला चेति । प्रशस्ता लेश्या यस्यासौ सुलेश्यः प्रकृष्टः पाक्षिकापेक्षया सुलेश्यः । सुश्यतरः अथवा सर्वेऽपि यथोत्तरं विशुद्धतरलेश्याः स्युः ॥ १ ॥
दश निकादीनुद्दिशं तेषां गृहित्वब्रह्मचारित्वभिक्षुकत्वानि जघन्यमध्यमो - तमत्वाच्च विभक्तुमार्याद्वयमाह
निर्मूलस्कन्धयोश्छेत्तुं भावाः शाखोपशाखयोः । उच्च पतितादाने भावलेश्या फलार्थिनाम् ॥ षट्षट् चतुषु विज्ञेयास्तिस्रस्तिस्रः शुभास्त्रिषु । शुक्ला गुणेषु षट्स्वेका लेश्या निर्लेश्यमन्तिमम् ॥
रागद्वेषग्रहाविष्टो दर्ग्रहो दुष्टमानसः । क्रोधमानादिभिस्तीग्रस्तोऽनन्तानुबन्धिभिः । निर्दयो निरनुक्राशो मद्यमांसादिलम्पट : 'सर्वदा कदनामक्तः कृष्णलेश्यान्वितो जनंः कोपी मानी मायी लोभी । रागी द्वेषी मोही शोकी । स्रिः क्रूरचण्डश्रौरो । मूर्खः स्तब्ध: स्पर्द्धीकारी ॥ निद्रालु: कामुको मन्दः कृत्याकृत्याविचारकः । महामूच्छ महारभ्भो नीललेश्यो निगद्यते ।।
शोकभीमत्सगसूयापर निन्दापरायणः । प्रशंसति सदाऽऽत्मानं स्तूयमानः प्रहृष्यति ।। वृद्धिहानी न जानाति न मूढः स्वपरान्तरम् । अहङकारग्रहग्रस्तः समस्तां कुरुते क्रियाम ॥
श्लाघितो नितरां दने रणे मत्तुम पीहते । परकीययशोध्वंसी युक्तः कापोतले श्यया ।। समदृष्टिरविद्वेषो हताहितविवेचकः । वदान्य: सदयो दक्षः पीतलेश्यो महामनाः । शुचिदनरतो भद्रो विनतात्मा प्रियंवदः । साधुपजायतः साधुः पद्मलेश्यो नयक्रियः ।। निर्णदानोऽहंकार पक्षपातोज्झितोऽशठः । रागद्वेषपराचीन: शुक्ललेश्य: स्थिराशयः । तेजः पद्मा तथा शुक्ला लेश्यास्तिस्रः प्रशस्तिकाः। संवेगमुत्तमं प्राप्तः क्रमेण प्रतिपद्यते ॥
Page #76
--------------------------------------------------------------------------
________________
.. सागारधर्मः।
दर्शनिकोऽथ व्रतिकः सामयिकी प्रोषधोपवासी च। सचित्तदिवामैथुन-विरतो गृहिणोऽगुयमिषु हीनाः षट् ॥२॥ अब्रह्मारम्भपरि-ग्रहविरता वर्णिनस्त्रया मध्याः ।।
अनुमतिविरतादिष्टवि-रतावुभौ भिक्षुको प्रकृष्टौ च ।३॥ युग्मं । टीका-अथशब्दोऽत्रानन्तर्यार्थः प्रत्येक योज्यः । भवन्ति । के, श्रावकाः। कति, षट् । किविशिष्टा भवन्ति, हीना जघन्याः । केषु मध्ये, अणुर्यामषु । श्रावकेषु न केवलं हीनाः गृहिणश्च। कः कः, दर्शनिकोऽथानन्तरं व्रतिकस्ततः सामयिकी तदनु प्रोषधोपवासी तदन-तरं सचित्तविरतोऽपि दिवामैथुनविरतश्च। भवन्ति । के ते, त्रय । किंविशिष्ट', मन्याः अणुय मषु मध्ये मध्यमाः । पुनःकिं व शट', वर्णिनो ब्रह्मचारिणः । कति, त्रयः । किमाख्या, अब्रह्मारम्भपरिग्रहविता अब्रमविरतः, आरम्भविरतः परिग्रहविरतश्च । सदनन्तरं भवतः । को, उभो । विशिष्टौ, प्रकृष्टौ अणुयमिषु मध्ये उत्कृष्टो । पुनः किंविशिष्टो, भिक्षुको। अल्पा भिक्षा यत्यपेक्षया ययोस्तौ। किमाख्यौ, अनुमतिविरतोद्दिष्टवि तौ ॥ २३ ॥ नैष्ठिकोऽप यादृशः सन् पाक्षिकव्यपदेशमेव लभते तादृशं दर्शयति
दुर्लेश्याभिभवाज्जातु विषये क्वचिदुत्सुकः।
स्खलनपि कापि गुणे पाक्षिकः स्यान्न नैष्ठिकः ॥ ४ ॥ टीका-स्याद्भवत् गृही। किविशिष्टः, पाक्षिको न नैष्ठिकः । कविशिष्टः सन्, उत्सुकः सोत्कण्ठ भिलाषः क्व, विषये इन्द्रियार्थे । किंविशिष्टे, क्वचित् कामिन्यादीनामन्यतमे न सर्वत्र । कदा, जातु कदाचिन्न सर्वदा। कस्मात् ,
१ षडत्र गृहिणो ज्ञेयास्त्रय स्युर्ब्रह्मचारिणः । भिक्षुको द्वौ तु निर्दिष्टा तत: स्यात्सर्वतो यतिः । आद्यास्तु षड् जघन्या. स्युमध्यमान्तदनु त्रयः । शेषौ द्वावुत्तमावुक्तौ जैनेषु जिनशासने ।।
Page #77
--------------------------------------------------------------------------
________________
तृतीयोध्यायः।
दुर्दृश्याभिभवात् दुर्लेश्या कृष्णनीलकापोतीनामन्यतमया अभिभवः . कुतश्चिन्निमित्ताच्चेतनशत्तेस्त दृक्मकारोवोधस्तस्माद्धे तोः तं वाऽऽश्रित्य । न केवलं तथा भवन् । स्खलन्नपि अतिच रं ग ठंश्च अनभ्स्त त्व संयमस्य दुर्धरत्वाद्वा मनसः । क्व, गुणे । किंविशिष्ट, क्व.पि मद्यवि त्यादीनामन्यतमे न सर्वत्र ॥ ४ ।
दर्शनिकादीनामा स्वस्व नुष्ठानादाढाव्यत एव दर्शनिकादिव्यपदेशः स्याद्भाव स्तु पर्वपूर्वोऽसा व त बोधयन्नाह
तद्वर्शनिकादिश्च स्थैर्य रवे वे व्रतेऽवजन ।।
लभते पूर्वमेवार्थाद्वयपदेशं न तृत्तरम् ॥ ५ ॥ टीका-लभते । कोऽसौ. दर्शनिक दिश्च दर्शनिक व्रतिकादिरपि श्रवकविकल्पः । कं, व्यपदेशं सज्ञां । किं विशिष्ट, पूर्वमेव प्राक्तनमेव । न तु न पुनः । उत्तरं परापेक्षया परं । कस्म त् , अर्थात् परम.र्थतो व्यवहारादुत्तमपि लभते । किंवत् , तद्वत् नैष्ठिकमात्रवत् । किं कुर्वन् , अव्रजन् अगच्छन् । किं तत् , स्थैर्य स्थित कचित्कदाचित्कथंचिदचलनम् । क, स्वे से व्रते निरतिचाराष्टमूलगुणादिलक्षणे ॥ ५ ॥ एतदेव समर्थयितुमाह
प्रारब्धो घटमानो निष्पन्नश्चाहतस्य देशयमः ।। ___ योग इव भवति यस्य त्रिधा स योगीव देशयमी ॥६॥
टीका- भवति। कोऽसौ, स देशयमी श्रावकः । कतिधा, त्रिधा त्रिप्रकारः। क इव, योगीव यथा प्रारब्धयोगो घटमानयोगो निष्पन्नयोगश्चेति नैगमादिनयापेक्षया त्रिविधो योगी तथा प्रारब्धदेशसंयमो घटमानदेशसंयमो निष्पन्नदेशसंयमश्चेति त्रिविधः श्रावकोऽपि स्य दित्यर्थः । यस्य किं, यस्याहतस्य जिनकशरणस्य सतो भवति । कोऽसौ. देशयमो देशसंयमः । किंविशिष्टः, प्रारब्ध उपक्रान्तः, तथा घटमानः सम्पद्यमानः, तथा निष्पन्नः पर्यन्तं प्राप्तः, क इव, योग इव समाधियथा ॥ ६ ॥
Page #78
--------------------------------------------------------------------------
________________
७४
सागारधर्मः।
एवं स्थलशुद्धिं विधायाधुना दर्शनिकस्वरूपनिरूपणार्थ श्लोकद्वयमाहपाक्षिकाचारसंस्कार-दृढीकृतविशुद्धदृक् । भवाङ्गभोगनिर्विण्णः परमेष्ठिपदैकधीः ॥ ७ ॥ निर्मूलयन्मलान्मूल-गुणेष्वग्रगुणोत्सुकः।
न्याय्यां वृत्ति तनुस्थित्यै तन्वन्दशनिको मतः॥ ८ । युग्मं । टीका-मतः एवम्भूतनयादिष्टः सूरिभिः । एतेन नैगमनयादेशात्पाक्षिकस्यापि दर्शनिकत्वमनुज्ञातं भवति । ततो न 'श्रावकपदानि देवरकादश देशितानी' त्यनेन विरोधः, पाक्षिरस्य द्रव्यतो दर्शनिकत्वात् । कोऽसौ मतः दर्शनिकः । किंलक्षणः, पाक्षिकाचारस्य पूर्वाध्याये प्रपञ्चनोक्तस्य संस्कार उत्कर्षस्तेन दृढीकृता निश्चलत्वं नीता विशुद्धा निर्दोषा हक दर्शन येन स पाक्षिकाचारसंस्कारर्द्ध कृतविशुद्धहक्, तथा भवाङ्गभोगनिविण्णः भवाङ्गभोगाः संसारशरिरेष्टविषयाः, अथवा भवाङ्गं संसारकारणं यो भोगो गृद्धिपूवर्क का मन्यादिविषयसेवनं ततो निर्विष्णो विरक्तः प्रत्याख्यानावरमाख्यचारित्रमोहकर्मविपाकवशात् कामिन्यादिविषयान् भजन्नपि तत्राकृतसेवानिबन्ध इत्यर्थः, तथा परमेष्ठिपदैकधीः परमेष्ठिपदेषु अहंदादिपञ्चगुरुचरणेषु एका धीरन्तर्दृष्टिर्यस्य स तथोक्तः ! आपदाकुलितोऽपि दर्शनिकस्तन्निवृत्त्यर्थ शासनदेवतादीन् कदाचिदपि न भजते । पाक्षिकम्तु भजत्यपीत्येवमर्थमेक ग्रहणम्। तथा निर्मूलयन् मूलादपि निरस्यन् । कान्, मलान् अतिचारान् । केषु, मूलगुणेषु तथा अग्रगुणोत्सुकः अग्रगुणे व्रतिकपदे उत्सुकोऽनुष्ठातुमुत्कण्ठितः। तथा तन्वन्ननुबध्नन् । कां, वृत्तिं कृष्यादिवा” । किंविशिष्टां, न्याय्या - १ आदावेते स्फुटमिह गुणा निर्मला धारणीया:
पापध्वंसि व्रतमपमलं कुर्तता श्रावकीयम् । फर्तुं शक्यं स्थिरमुरुभरं मन्दिरं गर्तपूरं
न स्थेयोभिदृढतममृत निर्मितं नावजालैः ॥: २ कृषि वणिज्यां गोरक्ष्यमुपायेंगुर्णिनं नृपम् । लोकद्वयाविरुद्धां च धनार्थी संश्रयेत् क्रियाम् ।।
Page #79
--------------------------------------------------------------------------
________________
तृतीयोध्यायः ।
७५
स्ववर्णकुलव्रतानुरूपा । किमर्थ, तनुस्थित्यै शरीरवर्तनार्थ न विषयोपसेवनार्थ एवं विधलक्षणो दर्शनिको नाम श्रावको मन्यते ॥ ७८ ॥ अथ मद्यादिव्रतोद्योतनार्थ तद्विक्रयादिप्रतिषेधार्थमाहमद्यादिविक्रयादीनि नार्यः कुर्यान कारयेत् ।
न चानुमन्येत मनो-वाकायैस्तद्वतद्युते ॥ ९ ॥ टीका-न कुर्यात् । कोऽसौ, आर्यो दर्शनिकः । मद्यादिविक्रयादीनि मद्यादीनां मद्यमांसमधुनवनीतप्रभृतीनां विक्रयादीनि आदिशब्दात्सन्धानकसंस्कारोपदेशाधुपादानं । तथा न कारयेत् । न चानुमन्येत नाप्यनुमतिं दद्यात् । कैः, मनोवाक्कायैः मनसा वाचा कायेन च । किमर्थ तबताते मद्यविरत्याद्यष्टमूलगुणनिर्मलीकरणार्थम् ॥ ९ ॥ यच्छीलनान्मद्या दिव्रतक्षति स्य त्तदुपदेशार्थमाह
भजन्मद्यादिभाजस्त्री-स्तादृशैःसह संसृजन् ।
भुक्त्याऽऽदौ चति साकीर्ति मद्यादिविरतिक्षतिम् ॥ १० ॥ टीका-एति गच्छति । कोऽसौ. व्रती पुमान् । कां, मद्यादिविरतिक्षतिम् अष्टमूलगुणहानि । किंविशिष्टां, साकीर्ति वाच्यतासहितां । किं कुर्वन् , भजन सेवमानः । काः, स्त्रीः। किंविशिष्टाः, मद्यादिभाजो मद्यमांसादिसेविनीः। . न केवलं ता भजन संसृजश्च संसर्ग कुर्वन् । कैः सह, तादृशैर्भद्यादिमाग्भिः पुम्भिः । क, भुत्यादौ भोजनभाजनासनादौ ॥ १० ॥ ___ एवं सामान्यतो मूलव्रतातिचारनिवृत्तिमभिधाय मद्या दिव्रतातिचारनिवृत्यर्थमाह
सन्धानक त्यजेत्सर्व दधि तक्रं यहोषितम् ।
काञ्जिकं पुष्पितमपि मद्यवतमलोऽन्यथा . ११ ॥ टीका त्यजेत् । कोऽसौ, दर्शनिकः । किं तत् , संधानकं । किंविशिष्ट, सर्व । एतेन काञ्जिकवटकादेरपि हेयत्वं दर्शयति । उक्तं. च-- १ मद्यादिस्वादिगेहेषु पानमन्त्रं च नाचरेत् । तदामत्रादिसम्पर्क न कुर्वीत कदाचन।
Page #80
--------------------------------------------------------------------------
________________
सागारधर्मः ।
जायन्तेऽनन्तशो यत्र प्राणिनो रसका यिकाः । सन्धानानि न वल्भ्यन्ते तानि सर्वाणि भाक्तिकाः ॥
तथा त्यजेत् । किं तत्, दधितक दधि च मथितं च । किंविशिष्ट, पुपितं घोषित अहोरा त्रिद्वयमतिक्रान्तं । तथा त्यजेत् कां जिंक, धान्याम्लं, मनुष्पमिव जात् । अपिशब्दाद्व्यहोषितं च अन्यथा उक्त विपर्यये । भवति । कोsसौ, मद्यत्रतमलः मद्यविरत्यतिवारः ॥ ११ ॥
७६.
मांसविरत्यतिचारानाह
―
चर्मस्थमम्भः स्वच हिंग्वसहत चर्म च ।
सर्वं च भोज्यं व्यापन्नं दोषः स्यादाभिषवते ॥ १२ ॥ टीका - स्यात् भवेत् । किं तत्, चर्मस्थमम्भः प्रमुखमुपयुज्यमानं । किं स्यात्, दोषोऽतिचारः । क आमिषत्रते मांसविरतौ प्रतिपन्नायां । किं किं तदित्याह - अम्भो जल, स्नेहश्च घृतादिकं दोषः स्यात् । किंविशिष्टं, चर्मस्थं दृत्यादिस्थ जलं कुतुपा दिस्थं च घृतादिकमुपयुज्यमानं । एतेन खट्टिकादिस्थवचटिकादिस्थचूतफलादीनां चर्मोपनद्धचालनीशूर्पटिकाद्युपस्कृतकणिका दीनां च त्याज्यतामुपलक्षयति । तथा हिंगु रामठं दोषः स्यात् । किंविशिष्टम्, असंहृतचर्म असंहृतं स्वम्वभावेनापरिणामितं चर्म येन त्त् ' असंवृत में ' ति वा पाठः । तत्र चर्मणा छादितं चर्मणाद्धं प्रसारितं वा राम्ठं न गृह्णीयादिति भावः । उपलक्षणमेतत् । तेन तथाभूतं लवणाद्यपि । तथा भोज्यं भक्तघृतादि सर्व । किंविशिष्टं व्यापन्न कुथिंत स्वादचलितमिति यावत् ॥ १२ ॥
9
मधुव्रता तिचार निवृत्त्यर्थमाह
प्रायः पुष्पाणि नाश्नीयान्मधुवतविशुद्धये ।
।
वस्त्यादिष्वपि मध्वादि - प्रयोग नार्हति व्रती ॥ १३ ॥ टीका - नाश्नीयात् न भक्षयेत् मधुविरतः । कानि, पुष्पाणि । किमर्थ मधुचतविशुद्धये क्षौद्रविरत्यतिचार निवृत्त्यर्थं । कथं, प्रायः तेन मधूकभल्लातकपुष्पाणां शक्यशोधनत्वान्नात्यंतनिषेधः । शुष्कत्वान्नागकेसरादीनामपीति लक्ष
Page #81
--------------------------------------------------------------------------
________________
तृतीयोध्यायः ।
७७. यति । तथा नार्हति न कर्तुं योग्यो भवति । कोऽसौ, व्रती मधुमासमद्येभ्योतिशयेन निवृत्तः। कं, मध्वादिप्रयोग माक्षिकमांसमद्योपयोग केषु, बस्त्यादिषु बस्ति कर्मपिण्डप्रदाननेत्राञ्जनसेचनलूताग्रासादिषु, किं पुनः स्वास्थ्यानुवृत्तिबाजीकरणादिविधिप्वित्यपिशब्दार्थः ॥ १३ ॥ पञ्चोदुम्बरविरत्यति वारपरिहारार्थमाह- ..
सर्व फलमविज्ञातं वार्ताकादि त्वदारितम् ।
तद्वब्रह्मादिसिम्बीश्च खादेनोदुम्बरवती ॥ १४ ॥ टीका-न खाइन्न भक्षयेत् । कोऽसौ, उदुम्बरवती पिप्पलादिफलनिवृत्तः किंतत् , फलं सर्व । किंविशिष्टम् , अविज्ञ तमज्ञातनाम । तथा न खादेत्। किं नत् ,वा कादि। आदिशब्देन कचरबदरपूगफलादि। किंविशिष्टम् ,अदारितमभिन्नं अशोधितमध्यमित्यर्थः । तथा भल्लादिसिम्बी: भल्लराजमाषप्रमुखफलिका न ख देत् । किंवत्, तद्वत् अदा रिता इत्यर्थः ॥ १४ ॥ __ अनस्त मे भोजनातिचारमाह. मुहूर्तेऽन्त्ये तथाऽऽद्येऽहो बल्भा नस्तमिताशिनः ।
गदच्छिदेऽप्याम्रघृता-धुपयोगश्च दुष्यति ॥ १५ ॥ टीका-दुष्यति दोषो भव ते। कोऽसौ, वल्भा भोजनं । क, मुहूर्ते घटिका द्वये । कस्य अहो दिनस्य । किंविशिष्ट, अन्त्ये पर्यन्तवर्तिनि। तथा आधे प्रथमे । कस्य, अनस्त मिताशिनः अनस्त मते सूर्येऽश्नातीत्येवंव्रतस्य । तथा दुष्पति । कोऽसौ, आम्रवृतधुपयोगः चूतचारचोचमोचादिफलानां घृतक्षीरे क्षुरसादीनां च सेवनं । कस्यै, गदच्छिदे रोगनिवृत्त्यर्थ, किं पुनः स्वास्थ्यानुवृत्त्याद्यर्थमित्यपिशब्दार्थः ॥ १५ ॥
जलगालनवतातिचार निवृत्त्यर्थमाहमुहूर्तयुग्मोर्ध्वमगालन वा दुवाससा गालनमम्बुनो वा। अन्यत्र वा गालितशेषितस्य न्यासोनिपानेऽस्य न तद्वतेऽWः ॥१६॥ टीका-अर्च्य इति लिङ्गविपरिणामेन सम्बन्धः । न अर्घ्य निन्द्यमित्यर्थः।
Page #82
--------------------------------------------------------------------------
________________
१८
सागारधर्मः ।
किं तत्, अगालनमस्रावणं । कस्य, अम्बुनो जलस्य । कथं, मुहूर्तयुग्मोर्ध्वं घटिकाचतुष्टयादुपरि । क, तहने गालितजलपाननिष्ठायां । वाशब्दास्त्रयोऽपि परस्परसमुच्चये। तथा नार्च्य। किं तत्, अम्बुनो गालनं । केन, दुर्वाससा अल्पसच्छिद्रजर्जरा दिवस्त्रेण । तथा नार्च्यः । को सौ, न्यासः स्थापनं । कस्य, अम्बुनः । किंविशिष्टस्य, गालितशेषितस्य वस्त्रस्त्रावितादुरितस्य क्क, निपाने जलाशये । किं विशिष्टे, अन्यत्र स्वाधारजलाशयादन्यस्मिन् । अथ66 पंचुंबरसहियाई सत्तत्रि वसणाइ जो विवज्जेइ | " सम्मत्तविसुद्द मई सो दसणमावओ भणिओ ॥
"
: इति वसुनन्दिसैद्धान्तिमते ॥ १६ ॥
1 दर्शनिकस्य द्यूतादिव्यसननिवृत्तिमुपदे तेषामिह मुत्र चापायावद्यप्रायत्वमुदाहरणद्वारेण व्याहरन्नाह—
द्यूता जो बकस्य पिशितान्मद्यादू वि चारोः कामुकया शिवस्य चुरया यह ह्मदत्तस्य च । पापद्ध परदारतो दशमुखस्यो श्चैरनुश्रूयते
"
द्यूतादिव्यसनानि घोरदुरिता न्युज्झेत्तदा यस्त्रिधा ॥ १७ ॥ टीका-उज्झेत् त्यजेत् । कोऽसा, अर्थ रुद्रती गृही। कथं त्रिधा मनोवाक्कायक्कृतकारितानुमतैः । कानि, द्यूतादीनि व्यसनानि । द्यूतमांसमद्यवेश्याचौर्यपापर्द्धिपरदारोपसेवनानि । किंविशिष्टानि, घोरदुरितानि घोराणि दुर्गतिदुखकारणानि दुरितानि पापानि येभ्यस्तानि । कथं तत्तस्मात्। यद्यम्मादनुश्रूयते वृद्धपरम्परया आकर्ण्यते कासौ, विपत् । कथम्भूता । उच्चैः प्रकृष्टा । कस्मात्, द्यूतात् द्यूतक्रीडनात् । कस्य, धर्मतुजो धर्मपुत्रस्य युधिष्ठिरस्य । तथोचैर्विपदनुश्रूयते । कस्य, बकस्य बकनाम्नो राज्ञः । कस्मात्. पिशितात् । मांसभक्षणात् । तथोच्चैर्विपदनु श्रूयते । केषां यदूनां यदोरपत्यानां यादवानां । कस्मात्, मद्यात्। मद्यपानात् । तथा उच्चैर्विपदनुश्रूयते । कस्य, चारोः चारुदत्तनाम्नः श्रेष्ठिनः । कया, कामुकया वेश्योपसेवनया । तथा उच्चैर्विपदनु श्रूयते । कया, चुरया चौरिकया । कस्य, शिवभूतिनाम्नोद्विजस्य । तथा उच्चैर्विपदनु श्रयते । कस्य, ब्रह्मदत्तनाम्नोऽन्त्यचक्रवर्तिनः । कया, पापद्ध आखेटकेन । तथा
1
"
Page #83
--------------------------------------------------------------------------
________________
तृतीयोध्यायः
: 1
७९
उच्चैर्विपदनुभूयते । कस्य, दशमुखस्य रावणस्य । कुतः, परदारतः परस्त्रीगमेना
भिलाषनिबन्धेन ॥ १७ ॥
1 व्यसनशब्द निरु क्तिद्वारेण द्यूतादेर्घोरदुरितश्रेयः प्रत्यावर्तन हेतुत्वं समर्थ्य तद्विरतस्य तत्समानफलत्वाद्धाद्युपव्यसनानामपि दूरपरिहरणीयतामुपदिशलि जाग्रत्तीत्रकषायकर्कशमनस्कारार्पितैर्दुष्कृतै
1
"
I
चैतन्यं तिरयत्तमस्तरदपि द्यूतादि यच्छ्रेयसः । पुंसो व्यस्यति तद्विदो व्यसनमित्याख्यान्त्यतस्तद्वतः कुर्वीतापि रसादिसिद्धिपरतां तत्सोदरीं दूरगाम् ॥ १८ ॥ टीका- आख्यान्ति व्यपदिशन्ति । के ते विदो विद्वांसः किं तत् द्यूतादिसप्तकं । किमाख्यान्ति, व्यसनं व्यसन मितिशब्देन व्यवहरन्तीत्यर्थः । कथं, तत् तस्मात् । यद्यस्मात्, व्यस्पति प्रत्यावर्तयति । किं तत् द्यूतादि । कान्, पुंसः पुरुषान् । कस्मात्, सः अकल्यणं प्रापयतीत्यर्थः । किं कुर्वत्, तिरयत् छादयत्। किं तत्, चैतन्यनन्तस्तत्त्वं । कैः दुष्कृतः पापैः । किंविशिष्टैः, जाग्रदित्यादि, जाग्रद्भिर्नित्योदितै तीनै दुर्निवारैः कमाये: क्रोत्रादिभिः कर्कश - कर्म सम्पादनो मनक रश्चित णित्रानं तेनार्पितेरात्मना संयोजितैः । किं कुर्वदप, तराप अतिक्रामत् । किं तत्, तमो मिथ्यात्वं । किं पुनर्मिथ्यात्वे विव-मानमित्यपिशब्दार्थः । यत एव तत एतस्मात् कारणात् कुर्वीत विदधीत । कोऽसां, तद्रः द्यूतादिविरतिं प्रतिपन्नः । कां रसादिसिद्धिपरतामपि, न परं द्यूतादिपरतामित्यपिशब्दार्थ । विशिष्ट, दूरगां दूरवर्तिनीं । किंविशिष्टां, यतस्तत्सोदरीं द्यूतादिव्यसनसदृशीं, दुरन्तदुष्कृतबन्धश्रेयः प्रत्यावर्तन हेतुत्वाविशेषात् । रसादीत्यादिशब्देना ज्ञ्जनगुटिकापादुका विवरप्रवेशादि गृह्यते ॥ १८ ॥ द्यूतनिवृत्त्यतिचारमाह—
I
दोषो होढाद्यपि मनो - विनोदार्थं पणोज्झिनः । • हर्षामर्षोदयाङ्गत्वात् कषायो इसेऽञ्जसा ।। १९ ॥
टीका - भवति । किं तत्, होढादि । होढा परस्परस्पर्धया धावनादि
Page #84
--------------------------------------------------------------------------
________________
• सागारधर्मः ।
आदिशब्देन छूतदर्शनादि । किं भवति, दोषोऽतिचारः । कस्य, पणोज्झिनः पण द्यूतमुझतीत्येवंकर. । किमर्थ, मागे वनोदार्थमपि मनोऽप रमयितुं प्रयुज्यमानं दोषः. कि पुनर्धनाद्यर्थ । कुतो, होमर्षोदयानत्वात् प्रमोदक्रोधोद्भवहेतुत्वात् । एतदपि समर्थ यतुमाह -हि यम्म द्भवति । कोऽसौ, कषायो रागद्वेषपरिणामः । कम्म अंडसे पापनिमित्तं । केन अञ्जसा परमार्थेन ॥१९॥
वेश्याव्यसनव्रतातिचारनिवृत्त्यर्थमाह___ त्यजे तौर्यत्रिकासक्तिं वृथाव्यां षिड्गसङातिम् ।
नित्यं पण्याङ्गनात्यागी तद्गेहगमनादि च ॥ २० ॥ टीका—वजेत् । कोऽसौ, पण्याङ्गनात्यागी वेश्या नवृत्तिव्रतः । किं किं तौर्य त्रकासक् िगीतनृत्यवाद्येषु सेवानिबन्धं । आसक्ति ग्रहणाच्चैत्यालयादौ धर्मार्थ गीतश्रवण न दोष इति लक्षयति । तथा वृथाट्यां प्रयोजनं विना विचरणां त्यजेत् । तथा षिड्गसङ्गतिं विटेः सह साङ्गत्यं त्यजेत् । षिड्ग इति पिट 'सिंट' अन दरे संटनं सिट अनादरः । सिटा अनादरेण गायति गच्छति वा । “ अन्यतोऽपि चेति" डः पृषोदरादित्वात्सस्य च षत्वं । तथा तद्नेहामनादि वेश्यागृहगमनसम्भाषणसत्कारादि त्यजेत् नित्यमित्यनेन सर्वदा । व्रते यत्नं कुर्यात् दुर्निवारत्वादित्युपदिशति ॥ २० ॥
चौर्यव्यसनमलोगदेशार्थमाहदायादाज्जीवतो राज-वर्चसाद्गृह्णनो धनम् ।।
दाय वाऽपनुवानस्य क्काचौर्यव्यसनं शुचि ॥ २१ ॥ टीका-क, कस्मिन्देशे काले च । अचौर्यव्यसनं चौ रकापरिहारत्रतं । शुचि निरतिचारं भवति न कापीत्यर्थः । कस्य, पुसः किं कुर्वतो, गृह्णतः । स्वीकुर्वतः । किं तत्, धनं ग्रामसुवर्गादिद्रव्यं । कस्मात् , दायादात् दायं कुलसाधारण द्रव्यमादत्ते इति दायादो भ्रात्रादिम्तस्मात् । किं कुर्वतो जीवत । मृतस्य तु यथान्यायं स्वीकुर्वतो नास्ति दोषः । कस्माद्हतो, राज वर्चसात् नृपतेजसः न जातिकुलदेशकालाधनुरोधात् । तथा अपहनुवानस्य भ्रात्रादिभ्यः अपलपतः । कं, दायम् ॥ २१ ॥
Page #85
--------------------------------------------------------------------------
________________
तृतीयोध्यायः ।
वर्णनाणकपुस्ता दि-न्यस्तजीवच्छिदादिकम् ।
न कुर्यात्परूपापर्द्धि-स्तद्धि लोकेऽपि गर्हितम् ॥ २२ ॥ टीका- न कुर्यात् । कोऽसौ, त्यक्तपापर्द्धिः । किं तत्, वस्त्रेत्यादि, वस्त्राणि पञ्चरङ्गपटादीनि नाणकोनि सीतारामटकादीनि पुस्तादीनि च लेप्यचित्रकाष्ठाश्मदन्तधात्वा दिशिल्पानि, वस्त्राणि च नाणकानि च पुस्तादीनि च वस्त्रनाणकपुंस्तादीनि तेषु न्यस्तो नामोच्चारणपूर्वकः सोऽयमिति स्थापितो जीवः प्राणी गजतुरगादिस्तस्य छिदादिकं खण्डनावर्तनभञ्जनादि । हि यस्मात् भवति । किं तत्, वस्त्रादिन्यस्तजीवच्छिदादिकं । किंविशिष्टं, गर्हितं निन्दितं । क, लोकेऽपि व्यवहर्तृजनमध्येऽपि न परं शास्त्रे ॥२२॥ परदारव्यसनदोष निषेधार्थमाह
८१
कन्यादूषणगान्धर्व-विवाहादि विवर्जयेत् ।
परस्त्रीव्यसन त्यागत्रतशुद्धिविधित्सया || २३ || टीका-विवर्जयेत् । कोऽसौ, परदारवर्जी । किं तत् कन्येत्यादि । 1 कन्यादूषणं कुमार्या अभिगमनं स्वविवाहनार्थं दोषोद्भावनं वा, गान्धर्वविवाहो यो मातुः पितुर्बन्धूनां चाप्रामाण्यात्परस्परानुरागेण मिथः समवायाद्वधूवराभ्यां क्रियते, आदिशब्देन हर विवाहो हरणादि । कया, परस्य स्त्री परस्त्री तत्र तदेव वा व्यसनं तस्य त्यागः स एव व्रतं तस्य शुद्धिर्निर्दोषता तत्र विधित्सा कर्तुमिच्छा तया ॥ २३ ॥
मद्यमांसव्यसननिवृत्त्योस्त्वतीचाराः प्रागेवोक्ताः । इदानीं यतो लोकद्वयविरुद्धबुद्धया आत्मना विरतिः क्रियते परस्मिन्नपि तत्प्रयोगं तद्व्रतविशुद्धधर्थ न विदध्यादित्यनुशास्ति —
त्यते यदिहामुत्रा - प्यपायावद्यकृत्स्वयम् । तत्परेऽपि प्रयोक्तव्यं नैव तद् व्रतशुद्धये ॥ २४ ॥
१ पंचुंबर सहियाइ सत्तइ वसणाइ जो विवज्जेइ । सम्मत्तविसुद्ध मह सो दंसणसावयो भणियो ॥
Page #86
--------------------------------------------------------------------------
________________
सागारधर्मः ।
८२
टीका व्रत्यते संकल्पपूर्व प्रत्याख्यायते । किं तत् यत् वस्तु । किंविशिष्टं अपायावद्यकृत् अपायोऽभ्युदयनिःश्रेयसभ्रंशनोपायः, अवद्यं गर्छ, अपायश्चावद्यं चापायावद्ये ते करोति तत् व, इहा स्मिञ्जन्मनि । तथाऽमुत्र परजन्मनि केन । व्रत्यते, स्वयं आत्मना । किं तत्,व्रतविषयीकृतं वस्तु । नैव प्रयोक्तव्यं प्रयोज्यं । क्क, परेऽपि आत्मनीव पुरुषान्तरेऽपि । कस्यै, व्रतशुद्धये प्रकृतत्रतनिर्मलीकरणार्थम् ॥ २४ ॥ एवं प्रतिपन्नदर्शनप्रतिमस्य श्रावकस्य स्वप्रतिज्ञानिर्वाहार्थमुत्तरेण प्रबन्धेन शिक्षां प्रयच्छन्नाह
-
अनारम्भबधं मुञ्चेच्चरेन्नारम्भमुद्धरम् ।
स्वाचाराप्रतिलोम्येन लोकाचारं प्रमाणयेत् ।। २५ ।। टीका - मुश्चेत् त्यजेत् । दर्शनिकः । कम्, अनारम्भवधं तपः संयमादिसाधनतनुस्थित्यर्थायाः कृष्यादिक्रियाया अन्यत्र प्राणिहिंसां । एतेन यदुक्तं स्वामिसमन्तभद्रदेवैः - ' दर्शनिकस्तत्त्वपथगृह्य' इति दर्शनप्रतिमालक्षणं तदपि संगृहीतं तथाविध हिंसाविरतिविध्युपदेशेन पञ्चाणुत्रतानुसरणविधानोपदेशात् । तथा न चरेत् न कुर्यात् । कम्, आरम्भं कृप्यादिकं । किंविशिष्टम्, उद्धुरम् आत्मनिर्वाह्यभरं । परेण हि कृष्यादिक्रियां कारयतो द्वन्द्वलाघवान्न तादृशी प्रतिज्ञातधर्मकर्मानुष्ठाने गृहिणो विहंस्तता भवति यादृशी तामात्मना कुर्वतः सा स्यात् द्वन्द्वावर्तविवर्तनात् । तथा प्रमाणयेत् प्रमाणं कुर्यात् न विसंवादयेदित्यर्थः । कं, लोकाचारं स्वामिसेवा क्रयविक्रयादिकं । केन, स्वाचारामतिलोम्येन आत्मप्रतिपन्नत्रतानुष्ठानानुपघातेन ॥ २५ ॥
धर्मे पन्याः सुतरां व्युत्पादनविधिमुपदिशतिव्युत्पादयेत्तरां धर्मे पत्नीं प्रेम परे नयन् ।
सा हि मुग्धा विरुद्वा वा धर्माद् भ्रंशयते तराम् || २६ ।। टीका - व्युत्पादयेत् तरां | अर्था दिव्युत्पाद्यात् धर्मेऽतिशयेन व्युत्पन्नां कुर्यात् अथवा धर्म॑विषये सर्वमपि परिवारं च पत्नीं च व्युत्पादयन् पत्नीं ततोऽतिशयेन तत्र व्युत्पादयेदिति व्याख्येयं । कोऽसौ दर्शनिकः । कां, पत्नीं भार्या ।
----
Page #87
--------------------------------------------------------------------------
________________
तृतीयोध्यायः ।
८३
क्व, धर्मे । किं कुर्वन्, नयन् प्रापयन् । कां, पत्नीं । किं तत्, प्रेम स्वस्मिन् धर्मे च स्नेहं । किंविशिष्टं, परमुत्कृष्टं । हि यस्मात्. ग्रंशयते तरां परिवारा- (दा) दतिशयेन प्रच्यावयति । काऽसौ, सा पत्नी । कं, पुरुषं । कस्मात् , धर्मात् । किंविशिष्टा सती, मुग्धा धर्मे मूढा धर्ममजानतीत्यर्थः । तथा विरुद्धा पुंसि धर्मे वा द्वेषिणीत्यर्थः । इदमत्र तात्पर्य धर्ममजानानो विरक्तश्च परिजनो नरं धर्मा प्रच्यावयति। ततोऽप्यतिशयेन तादृग्विधा गृहिणी तदधीनत्वाद्गृहिणो धर्मकार्याणाम् ॥२६॥
प्रेम परं नयन्नित्यस्य समर्थनार्थमाहस्त्रीणां पत्युरुपेक्षैव परं वैरस्य कारणम् ।
तन्नोपेक्षेत जातु स्त्री वाञ्छल्लोकद्वये हितम् ॥ २७॥ . टीका-भवति। किं तत् , वैरस्य कारण वैरस्य विरागताया हेतुः । अथवा वैरस्य विरोधस्य कारण। किविशिष्टं, परमुत्कृष्ट, । कासां, स्त्रीणां । किं तत् , उपेक्षैव अनादर एव, न तु वैरूप्यनिर्धनत्वादि। कस्य,पत्युभर्तुः। यत एवं तत्तस्मात् नोपेक्षेत, नोपेक्षणीयत्वेन पश्येत् । कोऽसौ, पुमान् । कां, स्त्री स्त्रियं कदा, जातु कदाचिदपि धर्माद्यनुष्ठानकाले । किं कुर्वन् , वांछन् अभिलषन्। किं तत् हितं सुखं सुखकारणं च ।क, लोकद्वयेऽपि इहलोके परलोके च ॥२७॥ ___ कुलस्त्रियाऽपि धर्मादिकमिच्छन्त्या भर्तृच्छन्दानुवृत्तिरेव कर्तव्येति प्रासङ्गिकी स्त्रिया: शिक्षा प्रयच्छन्नाह
नित्यं भर्तमनीभ्य वर्तितव्यं कुलस्त्रिया।
धर्मश्रीशर्मकीत्येककेतनं हि पतिव्रताः ॥ २८ ॥ टीका-वर्तितव्यं मनोवाक्कायकर्मभिराचरितव्यं । कया, कुलस्त्रिया कुलीननार्या । किं कृत्वा, भर्तृमनीभूय अभर्तमना भर्तृमना भूत्वा पतिचित्तानुवतनेनैव चिन्त्य वाच्यं चेष्टितव्यं च । कथं, नित्यं सर्वदा। हि यस्मात् । भवन्ति। काः, पतिव्रताः पतिसेवैव व्रतं प्रतिज्ञा शुभकर्मप्रवृत्तिर्वा यासां ता इत्यर्थः । किं भवति, धर्मेत्यादि-धर्मस्य पुण्यम्य, श्रियो विभूतेरित्याश्च, शर्मण
Page #88
--------------------------------------------------------------------------
________________
सागारधर्मः।
आनन्दस्य, कीर्तर्यशसः एकमुत्कष्टमव्यभिचारि केतन गृहं ध्वजो वा यास्ताः धर्मश्रीशर्मकीककेतनं । नित्यधर्मादिमत्यो धर्मादिविख्याता वा इत्यर्थः।२८॥ धर्माद्यर्थिनः कुलस्त्रियामप्यत्यासक्तिं निषेधयन्नाह
भजेदेहमनस्तापशमान्त स्त्रियमभवत् ।
क्षीयन्ते खलु धर्मार्थकायास्तदतिसेवया ॥ २९ ॥ टीका-भजेत् सेवेत । कोऽसौ, त्रैवर्णिकः विशेषणादर्शनिकः श्रावकः । कां, स्त्रियं । कथं, यथा भवति देहमनस्तापशमान्तं शरीरमनसोः सन्तापशमो यथा भवति न पुनरत्यासक्त्या । किंवत्, अन्नवत् भोजनं यथा । खलु यस्मात् । क्षीयन्ते क्षयं यान्ति । के, धर्मार्थकामाः धर्मो, धनं, शरीरं च त्रीण्यपि । कया, तदतिसेवया अन्नस्येव स्त्रिया अप्यतिमात्रोपयोगेन ॥३० पुत्रस्योत्पादनादिप्रयत्नविधिमाह
प्रयतेत सधर्मिण्यामुत्पादयितुमात्मजम् ॥
व्युत्पादयितुमाचारे स्त्रवत्त्रातुमथापथात् ॥ ३० ॥ टीका-पयतेत परमादरं कुर्यात्। कोऽसौ,दर्शनिकः । किं कर्तुम्, उत्पादयितुं जनयितुं । कम् , आत्मजमौरसं पुत्रं । क्षेत्रजाघेकादशपुत्राणामनभ्युपगमात्।
१ पुत्रोत्पादनविधिस्त्वयमष्टाङ्गहृदयोक्तः -- पूर्णषोडशवर्षा स्त्री पूर्णविशेन सङ्गता। शुद्धे गर्भाशय मागे रक्ते शुक्रेऽनिले हृदि । वार्यवन्तं सुतं सूते ततो न्यूनाब्दयोः पुनः । रोग्यल्पायुरधन्यो वा गर्भो भवति नैव वा शुक्र शुक्लं गुरु स्निग्धं मधुरं बहुलं बहु । घृतमाक्षिकतैलाभ सद्यार्तवं पुनः ।। लाक्षारसशशास्त्राभं धौत यश्च विरज्यते । शुद्धशुक्रातवं स्वस्थं संरक्तं मिथुनं मिथः । स्नेहैः पुंसवनैः स्निग्धं शुद्ध शीलितवस्तिकम् । नरं विशेषात्क्षीराद्यैर्मधुरोषधसंस्कृतैः नारी तैलेन मारैश्च पित्तलैः समुपाचरेत् । क्षामप्रसन्नवदनां स्फुरच्छोगिपयोधराम् ।। सस्ताविकुक्षि पुंस्कामा विद्यादृतुमती स्त्रियम् । पदं सङ्कोचमायाति दिनेऽतीते
यथा तथा॥
Page #89
--------------------------------------------------------------------------
________________
तृतीमोध्यायः।
८५
कस्यां, सधर्मिण्यां समानो धर्मो अस्यामस्तीति नित्ययोगे 'इन् ' कुलस्त्रियामित्यर्थः । आत्मनो जात आत्मज इत्यत्वर्थतासिद्धयर्थ कुलस्त्रीरक्षायां नित्य यतितव्यमिति प्रतिपत्तव्यं । तथा प्रयतेत । कोऽसौ, सः। किं कर्तु, व्युत्पादयितुं विविधमुत्कृष्टं ज्ञानं प्रापयितुं । कम् , आत्मजं। क, आचारे कुललोकसंव्यवहारे। किंवत्, स्ववत् आत्मना तुल्यं । तथा प्रयतेतासौ। किं कर्तु, त्रातुं रक्षित निवर्तयितुमित्यर्थः । कम्, आत्मजं । कस्मात्, अपथात् धर्मादिभ्रंशनोपायात् दुराचारादित्यर्थः । स्ववदित्यत्रापि योज्य। अथशब्दः समुच्चये ॥३०॥ ___ सत्पुत्ररहितेन श्रावकेणोत्तरपदं प्रति प्रोत्साहो दुष्करः स्यादिति दृष्टान्तेनोपष्टम्भयन्नाचष्टे--
विना सुपुत्रं कुत्र स्वं न्यस्य भारं निराकुलः।
गृही सुशिष्यं गणिवत् प्रोत्सहेत परे पदे ॥ ३१॥ . टीका-कुत्र, कस्मिन् पुंसि स्वमात्मीयं भारं पोष्यादिनिर्वाहभरं न्यस्य स्थापयित्वा निराकुलो निर्द्वन्द्वः सन् प्रोत्सहेत प्रकृष्टमुद्योगं कुर्यात्
ऋतावतीते योनिः स्याच्छुक्रं नातः प्रतीच्छति । मासेनोपचितं रक्तं दमनिभ्यामृतौ पुनः ॥ ईषत्कृष्णं विगन्धं च वायुर्योनिमुखान्नुदेत् । ततः पक्षेक्षणादेव कल्याणध्यायिनी व्यहम् ॥ सजालङ्काररहिता दर्मसंस्तरशायिनी । झरेयं यावक स्तोक कोष्ठशोधनकर्शनम् ।। पणे शरावे हस्ते वा भुंजीत ब्रह्मचारिणी। चतुर्थेऽन्हि ततः स्नाता शुक्लमाल्याम्बरा शुचिः ॥ इच्छन्ती भर्तृसदृशं पुत्रं पश्येत्पुरः पतिम् । ऋतुस्तु द्वादश निशाः पूर्वास्तिस्रोऽथ निन्दिताः॥ एकादशी च युग्मासु स्यात्पुत्रोऽन्यासु कन्यका ।
Page #90
--------------------------------------------------------------------------
________________
८६
सांगारधर्मः ।
न कापीत्यर्थः । कोसौ, गृही प्रकृतत्वादर्शनिकः।क, पदे संयमस्थाने। किविशिष्टे, परे व्रतिकप्रतिमायां वानप्रस्थाद्याश्रमे वा । कथं, विना अन्तरेण । के सुपुत्रं आत्मसमानमात्मजं । किंवत्, गणिवत् धर्माचार्यो यथा। कं सुशिष्यमामसमानमेवाचार्याद्विना । कुत्र, श्रमणे । स्वं भारं संघनिर्वाहलक्षणं। न्यस्य निराकुलों निर्व्यापेक्षः सन् पदे आत्मसंस्कारादौ मोक्षपदे वा प्रोत्सहेत, न कापीत्यर्थः । इदमत्रैदम्पर्य- दर्शनिकेन धर्माचार्येण च परं पदमाश्रयितुमिच्छता सत्पुत्रः सच्छिष्यश्वात्मवन्निष्पादनीयः ॥ ३१ ॥ - प्रकृतमर्थमुपसंहरन् बतिकप्रतिमारोहणयोग्यता सूत्रयन्नाह
दर्शनप्रतिमाभित्थमारुह्य विषयेष्वरम् ।।
विरज्यन सवसन्जः सन्बती भवितुमर्हति ॥ ३२ ।। टीका--अर्हति योग्यो भवति । कोऽसौ, श्रावकः । किं कर्तु, भवितुं सम्पत्तुं किंविशिष्टो, व्रती व्रतिकप्रतिमावान् । किंविशिष्टः सन्, सत्त्वसज्जः धैर्या दिसात्विकभावनिष्ठः । किं कुर्वन, विरज्यन् स्वयमेव विरक्तिं गच्छन् । केषु, विषयेषु कामिन्यादिषु । कथं, अरं पाक्षिकापेक्षया स्वस्य च प्राक्तनावस्थापेक्षयातिशयेन । किं कृत्वा, आरुह्य पर्यन्तं प्राप्य । कां, दर्शनप्रतिमां । कथम् , इत्थमनेन पाक्षिकाचारसंस्कारेत्यादिपूर्वोक्तप्रकारेणेति भद्रम् ॥ ३२ ॥
इत्याशाधविरचितायां स्वोरज्ञधर्मामृतसागारधर्मदीपिकायां भव्यकुमुदचन्द्रिकासञ्ज्ञायामादितो द्वादशः प्रक्रमाच्च
तृतीयोऽध्यायः समाप्तः ।। ३ ।।
Page #91
--------------------------------------------------------------------------
________________
अथ चतुर्थोऽध्यायः। अथ व्रतिकप्रतिमामध्यायत्रयेण प्रपञ्चयिष्यन् प्रथमं तावत्तलक्षण संग्रह्णन्नाह
सम्पूर्णदृग्मूलगुणो निःशल्यः साम्यकाम्यया ।
धारयन्नुत्तरगुणानक्षूणान्त्रतिको भवेत् ॥ १॥ टीका-भवेत् । कोऽसौ, बतिकः। किं कुर्वन, धारयन् अकृच्छ्रेण दधन्। कान,उत्तरगुणान् वक्ष्यमाणान् । किंविशिष्टान् ,अक्षूणान् निरतिचारान् । कया, साम्यकाम्यया इष्टानिष्टयो रागद्वेषोपरमवाञ्छयान पुनर्लाभादीच्छया। किंविशिटः सन,सम्पूर्णग्मूलगुणः सम्पूर्णा उपयोगमात्राश्रयेणान्तरङ्गेण चेष्टामात्राश्रयेण च बहिरङ्गेणातिचारेण रहितत्वादखण्डा दृक् सम्यक्त्वं,मूलगुणाश्च यस्य स तथोक्तः। पुनः किंविशिष्टः,निःशल्यः शृणाति हिनस्तीति शल्यं शरीरानुप्रवेशिकाण्डादि,शल्यमिव शल्यं कर्मोदयविकारः शारीरमानसबाधाहेतुत्वात्। तत् त्रिविधं मिथ्यात्वमायानिदानभेदात्। मिथ्यात्वं विपरीताभिनिवेशः,माया वञ्चना,निदान तपःसंयमाद्यनुभावन कांक्षाविशेषः, शल्यान्निष्क्रान्तो निःशल्यः । ननु च सम्पू
हरमूलगुण इत्यनेनैव शल्यपरिहारस्य सिद्धत्वाद् व्यर्थमिदमिति चेत्सत्यं, किंत्वचिरप्रतिपन्नव्रतस्य पूर्व विभ्रमसंस्कारारोप्यमाणतत्परिणामानुसरणनिवारणार्थ भूयो यत्नः क्रियते । उपदेशे च पौनरुक्त्यं न दोषः ॥ १ ॥
१ तप:संयमाद्यनुभावनकांक्षाविशेषो निदानम् । तद द्वेधा प्रशस्तेतरभेदात्, प्रशस्तं पुनर्द्धिविध विमुक्तिसंसारानिमित्तभेदात् तत्र विमुक्तिनिमित्तं कर्मक्षयाद्याकाङ्क्षा । उक्त च
कर्मव्यपायं भवदुःखहानि बोधिं समाधि जिनबोधसिद्धिम् । आकांक्षितं क्षीणकषायवृत्तेर्विमुक्तिहेतुः कथितं निदानम् ॥ जिनधर्मसिद्धयर्थं तु जात्याद्याकाङक्षणं संसारनिमित्तम् । जातिं कुलं बन्धविवर्जितत्वं दरिद्रता वा जिनधर्मसिद्धयै । प्रयाचमानस्य विशुद्धवृत्ते: संसारहेतुर्गदितं निदानम् ॥ मोक्षेऽपि मोहादभिलाषदोषो विशेषतो मोक्षनिषेधकारी। यतस्ततोऽध्यात्मरतो मुमुक्षुर्भवेत्किमन्यत्र कृताभिलाष: ॥
Page #92
--------------------------------------------------------------------------
________________
८८
सागारधर्मः।
शल्यत्रयोद्धरणे हेतुमाह- .
सागारो वाऽनगारो वा यनिःशल्यो व्रतीष्यते ।
तच्छल्यवत्कुमायानिदानान्युद्धरेद्धदः ॥ २ ॥ टीका-यद्यस्मात्कारणात् । इष्यते । कोऽसौ,व्रती। किंविशिष्टो,निःशल्यः । किंविशिष्टः सन्, सागारो वा अनगारो वा । अत्रेयं भावना-शल्यापगमे सत्येव व्रतसम्बन्धाद् व्रती मन्यते, न हिंसाधुपरतिमात्रव्रतसंबन्धात्। यथा बहुक्षीरघृतो गोमानिति व्यपदिश्यते बहुक्षीरघृताभावात् सतीष्वपि गोषु न गोमान्, तथा सशल्यत्वात् सत्वपि व्रतेषु न व्रती । यस्तु निःशल्यः स व्रतीति । तत्तस्मात् । उद्धरेत् निष्कासयेत्। कोऽसौ,व्रतार्थी। कानि,कुवायानिदानानि । कस्मात् , हृदो हृदयात्। किंवत् ,शल्यवत् शल्यानि यथा|॥२॥ शल्यसहचारीणि व्रतानि धिक्कुर्वन्नाह
आभान्त्यसत्यसायानिदानः साहचर्यतः ।
यान्यव्रतानि व्रतवद् दुःखोदर्काणि तानि धिक् ॥३॥ टीका-धिग् निन्द्यानि । कानि,तानि अव्रतानि व्रताभासानि। किंविशिष्टानि,दुःखोदर्काणि यतः दुःखमुदर्कमुत्तरफलं येषां तानि। यानि किं,यानि आभान्ति आभासन्ते। कानि,अवतानि। किंवत्, व्रतवद् व्रतानि यथा । कस्मात् , साहचर्यतः सहचारित्वात्।कैः,असत्यदृशा मिथ्यात्वेन मायया निदानेन च ॥३॥ . उत्तरगुणनिर्णयार्थमाह
पञ्चधाऽणुव्रतं त्रेधा गुणवतमगारिणाम् । शिक्षावत चतुर्धेति गुणाः स्युर्द्वादशोत्तरे ॥ ४ ॥ टीका-स्युः भवेयुः । के, गुणाः संयमविकल्पाः । केषाम्, अगारिणां गृहिणां । किंविशिष्टाः, उत्तरे मूलगुणानन्तरसेव्यत्वादुत्कृष्टत्वाच्च । कति, द्वादश । कथं, इति अनेन प्रकारेण । भवति । किं तत्, अणुव्रतं अणुव्रतापेक्षया लघुव्रतहिंसादि। कतिधा, पञ्चधा अस्य पञ्चधात्वं बहुमतत्वादिष्यते
Page #93
--------------------------------------------------------------------------
________________
चतुर्थोध्यायः।
कचित्तु राज्यभोजनमध्यणुव्रतमुच्यते । तथा भवति । किं तत्, गुणवतं । कतिघा, त्रेधा । गुणार्थमणुव्रतानामुपकारार्थ व्रत गुणवतं दिग्विरत्यादीना- . मणुव्रतानुबहणार्थत्वात् । तथा भवति । किं तत्, शिक्षाव्रतं । कतिधा, चतुर्धा शिक्षायै अभ्यासाय व्रतं देशावका शिकादीनां प्रतिदिवसाभ्यसनीयत्वात् । अत एव गुणव्रतादस्य भेदः । गुणव्रतं हि प्रायो यावज्जीविकमाहुः । अथवा शिक्षा विद्योपादानं शिक्षाप्रधानं व्रतं शिक्षात देशावकाशिकादेविशिष्टश्रुतज्ञानभावनापरिणतत्वेनैव निर्वाह्यत्वात् ॥ सामान्येन पञ्चाणुव्रतानि लक्षयन्नाहविरतिः स्थूलवधामनोवचोकृतकारितानुमतैः ।
कचिदपरेऽप्यननुमतैः पञ्चाहिंसाधणुवतानि स्युः ॥५॥ टीका-स्युः भवेयुः । कानि, अहिंसाद्यणुव्रतानि । कति, पञ्च। विरतिः निवृत्तिः। कस्मात्, स्थुलवधादेः। कैः, मन इत्यादि-कृतादयो भावे क्तसाधनाः । मनश्च वचश्च अङ्गं च मनोवचोऽङ्गानि, तेषां प्रत्येकं कृतं च कारितं चानुमतं च मनोवचोऽङ्गकृतकारितानुमतानि तैः । केषां पञ्चाणुव्रतानि स्युः, कचिद् गृहवासनिवृत्ते श्रावके तथा अपरे गृहवासनिरते श्रावके । अननुमतैरनुमतिवर्जितैस्तैः षड्भिस्तानि स्युरिति संक्षेपः। इतो विस्तरः-स्थूलजीवादिविषयत्वान्मिथ्यादृष्टीनामपि हिंसादित्वेन प्रसिद्धत्वाद्वा स्थूलो वधादिः स्थूला हिंसानृतस्तेयाब्रह्मपरिग्रहा इत्यर्थः । ततो मनसा वाचा कायेन च पृथक्करणकारणानुमननैर्निवृत्तिरहिंसासूनृतास्तेयब्रह्मचर्यापरिग्रहाख्यानि पञ्चा- . णुव्रतानि क्वचिद्गृहवासनिवृत्ते श्रावके भवेयुरित्युत्कर्षवृत्त्याऽणुव्रतान्युपदिश्यन्ते। यान्यपरे गृहवासनिरते श्रावकेऽननुमतैरनुमतिविवर्जितैर्मनस्करणादिभिः षड्भिः स्थूलहिंसा दिनिवृत्त्या सम्पद्यन्ते तानि मध्यमवृत्त्या व्रतान्यभिमन्यन्ते । तस्यापत्यादिभिर्हिसादिकरणे तत्कारणे वा अनुमतेरशक्यप्रतिषेधत्वात् । स उक्तं च चारित्रसार१ बघादसत्याचौर्याच कामाद् प्रन्यान्निवर्तनम् ।
पञ्चधाऽणुव्रतं राज्यभुक्तिः षष्ठमणुव्रतम् ।।
Page #94
--------------------------------------------------------------------------
________________
सागारधर्मः ।
एष द्विविधत्रिविधाख्यः स्थूलहिसादिविरतिभङ्गो बहुविषयत्वात् श्रेयान् । अपिशब्दः प्रकारान्तरेणापि स्थूलहिंसादिनिवृत्तेरणुत्वख्यापनार्थः । शक्त्या हि व्रतं प्रतिपन्नं सुखनिर्वाहं श्रेयोऽर्थ च स्यात् । तद्विरतिभङ्गाः करणादित्रिकेण योगत्रिकेण च धिशिष्यमाणा एकोनपञ्चाशद्भवन्ति। यथा हिंसां न करोति मनसा १,वाचार,कायेन च३,मनसा वाचा४,मनसा कायेन'१,वाचा कायेन६, मनसा वाचा कायेन च ७, एते करणेन सप्त भङ्गाः एवं कारणेन सप्त । अनुमत्यापि सप्त । तथा हिंसां न करोति न कारयति च मनसा १, वाचा २, कायेन ३, मनसा वाचा ४, मनसा कायेन ५, वाचा कायेन ६, मनसा वाचा कायेन च ७, एते करणकारणाभ्यां सप्त । एवं करणानुमतिभ्यां सप्त । कारणानुमतिभ्यामपि सप्त । करणकारणानुमतिभिरपि सप्त । एवं सर्वे मिलिता एकोनपश्चाशद्भवन्ति । एते च त्रिकालविषयत्वात्प्रत्याख्यानस्य कालत्रयेण गुणिताः सप्तचत्वारिंशदधिकं शतं भवन्ति १४७ । त्रिकालविषयता चातीतस्य निन्दया साम्प्रतिकस्य संवरणेनानागतस्य च प्रत्याख्यानेनेति । एते च भङ्गा अहिंसाव्रतवद् व्रतान्तरेष्वपि द्रष्टव्याः। अत्रेयं भावना दिक्। तत्र तावडाहुल्येनोपदेशाद् द्विविधत्रिविधभङ्गमाश्रित्योच्यते । स्थूलहिंसां न करोत्यात्मना न कारयत्यन्येन मनसा वाचा कायेन चेति । तथा स्थूलहिंसां न करोति न कारयति मनसा वाचा । यद्वा मनसा कायेन अथवा वचसा कायेन चेति । तन्न यदा मनसा वाचा न करोति न कारयति तदा मनसाऽभिसन्धिरहित एव वाचाऽपि हिंसकमब्रुवन्नेव कायेनैव दुश्चेष्टितादि असंज्ञिवत्करोति । यदा तु मनसा कायेन न करोति न कारयति तदा मनसाऽभिसन्धिरहित एव कायेन दुश्चेष्टितादि परिहरन्नेबानाभोगाद्वाचैव हन्मि घातयामि वेति ब्रूते । यदा तु वाचा कायेन च न करोति न कारयति तदा मनसैवाभिसन्धीकृत्य करोति कारयति च । अनुमतिस्तु त्रिभिरपि सर्वत्रवास्ति। एवं शेषविकल्पा अपि भावनीयाः । स्थूलग्रहणमुपलक्षणं । तेन निरपराधसंकल्पपूर्वकहिंसा
१ पंगुकुष्टिकुणित्वादि दृष्ट्वा हिंसाफलं सुधीः । । निरागस्त्रसजन्तूनां हिंसां संकल्पतस्त्यजेत् ॥
Page #95
--------------------------------------------------------------------------
________________
'चतुर्थोध्यायः ।
९१ दीनामपि ग्रहणम् । एतेन - "दण्डो हि केवलो लोकमिमं चामुं च रक्षति । राज्ञा शत्रा च पुत्रे च यथादोषं समं धृत" इति वचनादपराधका रिषु यथाविधदण्डप्रणेतृणामपि चक्रवर्त्यादीनामणुत्रतादिधारणं पुराणादिषु च बहुशः श्रूयमाणं न विरुध्यते । आत्मीयपदवीशक्त्यनुसारेण तैः स्थूलहिंसा दिविरतेः प्रतिज्ञानात् ॥ ५ ॥
स्थूलविशेषणं व्याचष्टे
की
स्थूलहिंस्याद्य श्रयत्वात् स्थूलानामपि दुर्दृशाम् । तत्त्वेन वा प्रसिद्धत्वद्वाधादि स्थूलमिष्यते ॥ ६॥
टीका - इष्यते अभिमन्यते आचार्यैः । किं तंत्, वधादि हिंसादिपापकर्मपञ्चकं । किंविशिष्टमिष्यते, स्थूलं । कस्मात्, स्थूलहिंस्याद्याश्रयत्वात् स्थूला बादरा हिंस्यादयो हिंस्यभाष्यमोष्यपरिभोग्यपरिग्राह्या आश्रया आलम्बनानि यस्य तत्तदाश्रयं तद्भावात् । तथा वघादि स्थूलमिष्यते । कस्मात्, प्रसिद्धत्वात् सम्प्रतिपन्नत्वात् । केषां, स्थूलानामपि । किंलक्षणानां, दुर्दशां मिथ्यादृष्टीनां । केन, तत्त्वेन वधादिभावेन । वाशब्दात्स्थूलकृतत्वाचेत्यनुक्तं समुच्चीयते ॥ ६ ॥ इदानीमत्सर्गिकम हिंसाणुत्रतं व्याचष्टे -
शान्ताद्यष्टकषायस्य सकल्पैर्नवभित्रसान् ।
अहिंसतो दयार्द्रस्य स्यादहिंसेत्यणुव्रतम् || ७ ||
टीका- स्याद्भवेत् । किं तत्, अणुव्रतं । किमाख्यम्, अहिंसेति अहिंसाख्यं । कस्य, शान्ताद्यष्टकषायस्य शान्ता शमं गताः शमिता वा आधा अनन्तानुबन्धिनो अप्रत्याख्यानावरणाश्च अष्टौ कषायाः क्रोधादयो यस्य येन वा तस्य । पुनः किंविशिष्टस्य, दयार्द्रस्य करुणामृदुहृदयस्य । प्रयोजनोद्देशेन कदाचित् स्थावरघाते प्रवृत्तावप्यनुकम्प्यमानमानसस्येति भावः । किं कुर्वतः, अहिंसतो द्रव्यभावप्राणैरवियोजयतः । कान्, त्रसान् द्वित्रिचतुःपञ्चेन्द्रियजीवान् । कैः, सङ्कल्पैः उत्तरसूत्रद्वयनिर्दिष्टैहिंसाभिसन्धिभिः । कतिभिः, नवभिः मनोवाक्कायैः पृथक्करणकारणानुमननैरित्यर्थः । अत्र करणग्रहणं कर्तुः स्वातन्त्र्यप्रतिपत्यर्थ । कारणाश्रयणं परप्रयोगापेक्ष । अनुमननोपादानं प्रयोजकस्य मानसपरिणामप्रदर्शनार्थं । तथाहि त्रसहिंसां स्वयं न करोमि
I
Page #96
--------------------------------------------------------------------------
________________
सागारधर्मः।
त्रसान् हिनस्मीति मनःसङ्कल्पं न करोमीत्यर्थः । तथा मनसा त्रसहिंसामन्यं न कारयामि त्रसान् हिंसय हिंसयेति मनसाऽन्यप्रयोजको न भवामीत्यर्थः । अत्र हिंसयेति हन्त्यर्थाच्चति हिनस्तेश्चुरादिपाठाण्णिजन्तस्य रूपं । तथाऽन्य त्रसहिंसां कुर्वन्तं मनसा नानुमन्ये सुन्दरमनेन क्रियते इति मनःसङ्कल्पं न करोमीत्यर्थः । एवं वाचा स्वयं त्रसहिंसां न करोमि त्रसान् हिनस्मीति स्वयं वाचं नोच्चारयामीत्यर्थः । तथा वाचा त्रसहिंसां न कारयामि त्रसान् हिंसय हिंसयेति वाचं नोच्चारयामीत्यर्थः । तथाऽन्यं त्रसहिंसां कुर्वन्तं वाचा नानुमन्ये साधु क्रियते त्वयेति वाचं नोच्चारयामीत्यर्थः । तथा कायेन त्रसहिंसां स्वयं न करोमि त्रसहिंसने दृष्टिमुष्टिसन्धाने स्वयं कायव्यापार न करोमीत्यर्थः । तथा कायेन त्रसहिंसां न कास्यामि त्रसहिंसने हस्तादिसञ्ज्ञया कायेन परं न प्रेरयामीत्यर्थः । त्रसहिंसां कुर्वन्तमन्यं कायेन नानुमन्ये त्रसहिंसने प्रवर्तमानमन्यं नखच्छोटिकादिना नाभिनन्दामीत्यर्थः ॥ ७ ॥ एतदेव पद्यद्वयेन संगृहन्नाह
इमं सत्त्वं हिनस्मीति हिन्धि हिन्थ्येष साध्विमम् । हिनस्तीति वदन्नाभिसन्दध्यान्मनसा गिरा ॥ ८ ॥ वर्तेत न जीववधे करादिना दृष्टिमुष्टिसन्धाने ।
न च वर्तयेत्परं तत्परे नखच्झोटिकादि न च रचयेत् ॥९॥ टीका-नाभिसन्दध्यात्। न सङ्कल्पयेत् । कोऽसौ, त्यक्तगृहः श्रावकः । के, बंधं हिंसां । केन, मनसा तथा गिरा वाचा । कथमिति, किमिति हिनस्मि हन्मि । कं, सत्त्वं जीवं । किंविशिष्टम् , इमं पुरोवर्तिनं । तथा हिन्धि, ' हिन्धि मारय मारय । कं, इमं । तथा हिनस्ति । हन्ति । कोसौ, एषः पुरुषः । कम् , इमं । कथं, साधु सुंदरं । न वर्तेत न व्याप्रियेत । कोऽसौ, त्यक्तगृहः । ___ जीववधे जीवानां सत्त्वकल्पितत्रसप्राणिनां प्राणव्यपरोपणे । क विषये, दृष्टिमुष्टिसन्धाने दृष्टिश्चक्षुः मुष्टिहस्तांगुलीवन्धविशेषः,दृष्टिश्च मुष्टिश्च दृष्टिमुष्टी ताभ्यां सन्धानं संयोजनं यस्मिन् प्रवृत्तिविषये तद् दृष्टिमुष्टिसन्धानं पुस्तकासनादिकमुपकरणवस्तु तस्मिन् । त्यक्तगृहस्यापि श्रावकस्य सम्भविनि जीववधे करादिना हस्तांगुल्याद्यङ्गोपाङ्गेन न प्रवर्ततेत्यर्थः । उक्तं च
Page #97
--------------------------------------------------------------------------
________________
चतुर्थोध्यायः।
आसनं शयनं यान मार्गमन्यच वस्तु यत् । - अदृष्टं तन सेवेत यथाकालं भजनपि ।
दृष्टिग्रहण ज्ञानक्रियोपलक्षण । मुष्टिग्रहणे च ग्रहणादिक्रियोपलक्षणं । तथा न च वर्तयेत्। कोऽसौ, त्यक्तगृहः। कं, परं । क, तादृशे जीववधे । तथा न चरबयेत् न कुर्यात्। किं तत् ,नखच्छोटिकादि । क, तत्परे जीववधे स्वयमेव वर्तमाने पुंसि ॥ ८ ॥९॥
एवं त्यकगृहस्योगसकस्याहिंसाणुव्रतविधानमुपदिश्येदानी गृहवर्तिनस्तदुपदिशन्नाह
इत्यनारम्भजां जह्याद्धिसामारम्भजां प्रति । ___ व्यर्थस्थावरहिंसावद् यतनामावहेद्ही ॥१०॥
टीका-जह्यात् त्यजेत् । कोऽसौ, गृही गृहवर्तिश्रावकः । कां, हिसां किंविशिष्टाम्, अनारम्भजां अनारम्भे आसनोपवेशनादौ जातां तत्सम्भविनीमित्यर्थः । उक्तं च___ गृहकार्याणि सर्वाणि दृष्टिपूतानि कारयेत् ।
कथं जह्यात् , इति अनेन त्यक्तगृहोपासकोपदिष्टेन प्रकारेण । तथा आवहेत् कुर्यात् । कोऽसौ, गृही । कां, यतनां समितिपरतां । कथं, प्रत्युद्दिश्य । कां, हिंसां । किंविशिष्टाम्, आरम्भजां कृष्याद्यारम्भसम्भविनीं । किंवत्, व्यर्थस्थावरहिंसावत् निष्प्रयोजनैकेन्द्रियवधे यथा ॥ १० ॥ स्थावरवधादपि निवृत्तिमुपपादयति
यन्मुक्त्यङ्गमहिसैव तन्मुमुक्षुरुपासकः । एकाक्षवधमप्युज्झेद्यः स्यानावयंभोगकृत् ॥११॥ १ हिंसा द्वेधा प्रोक्ताऽऽरम्भानारम्भभेदतो दरः ।
गृहवासतो निवृतो देधाऽपि त्रायते तां च ॥ गृहवाससेवनरतो मन्दकषायः प्रवर्तितारम्भः । आरम्भजां स हिंसां शक्नोति न रक्षितुं नियतम् ।।
Page #98
--------------------------------------------------------------------------
________________
सागारधर्मः।
___टीका-यद्यस्माद्भवति । किं तत् , मुक्त्यङ्गं मोक्षसाधनं । किं, अहिंसैव द्रव्यभावहिंसाविरमणमेव । तत्तस्मात् । उज्झेत् त्यजेत् । कोऽसौ, उपासकः श्रावकः। किंविशिष्टो, मुमुक्षुः बुभुक्षोर्नास्ति नियम इति भावः । कम्, एकाक्षवधमपि त्रसहिंसामिव स्थावरहिंसामपि । यः किं, यः एकाक्षवधः । न स्यात् । किंविशिष्टः, अवयंभोगकृत् अवानां वर्जयितुमशक्यानामावानां बा' अर्जनीयानां भोगानां सेव्यार्थानां कारणम् ॥ ११ ॥ सांकल्पिकवधं नियमयति
ग्रहवासो विनाऽऽरम्भान चारम्भो विना वधात् ।
त्याज्यः स यत्नात्तन्मुख्यो दुस्त्यजस्त्वानुषङ्गिकः ॥१२॥ टीका न भवति । कोऽसौ, गृहवासो गेहाश्रमः । कथं, विना । कस्मात् आरम्भात् कृष्यादिजीवनोपयात्। तथा न भवति । कोऽसौ, आरम्भः । कथं विना । कस्मात् , वधात् प्राण्युपमर्दनात् । यत एवं तत्तस्मात्त्याज्यः। कोऽसौ, स वधः । किंविशिष्टो, मुख्यः इमं जन्तुमासाद्यार्थित्वेन हन्मीति सांकल्पप्रभवः । यत्नात् अवधानात् । तुर्विशेषे । तेन भवति । कोऽसौ, आरम्भः ।। किंविशिष्टो,दुस्त्यजः त्यक्तुमशक्यः। किविशिष्टः, आनुषङ्गिकः कृप्याद्यनुषङगे जातः कृष्यादौ क्रियमाणे सम्भवन्निय॑थः ॥ १२॥ प्रयत्नहेयां हिंसामुपदिशति
दुःखमुत्पद्यते जन्तोर्मनः संक्लिश्यतेऽस्यते । तत्पर्यायश्च यस्यां सा हिंसा हेया प्रयत्नतः ॥ १३ ॥ १ जे तसकाया जीवा पुम्वुद्दिष्ठा ण हिंसिदव्वा ते ।
एगिदियावि णिक्कारणेण पढमं वदं थूलं ॥ स्तोकैकेन्द्रियघाताद् गृहिणां सम्पन्नयोग्यविषयाणाम् । शेषस्थावरमारणविरमणमपि भवति कर्तव्यम् । भूपयःपवनानीनां तणादीनां च हिंसनम । यावत्प्रयोजन स्वत्यं तावत्कुर्यादजन्तुजित् ।।
Page #99
--------------------------------------------------------------------------
________________
चतुर्थोध्यायः । ..
टीका. हेया त्याज्या गृहिणा काऽसौ, हिंसा। कस्मात्, प्रयत्लतः प्रणिधानेन । उत्पद्यते। किं, दुःख शारीरं दुःख क्लेशः । कस्य, जन्तोर्जीवस्य परजीवस्य वा। तथा संक्लिश्यते सन्तप्यते । किं तत् , मनश्चित्त जन्तोः। तथाऽस्यते विनाश्यते । कोऽसौ, तत्पर्यायः सः चासौ पर्यायश्च तत्पर्यायो वर्तमान भवग्रहणम् ॥१३॥ __ अहिंसाणुव्रताराधनोपदेशार्थमित उत्तरः प्रबन्धः । तत्र तावत्प्रयोक्तारमाश्रित्येदमुच्यते
सन्तोषपोषतो यः स्यादपारम्भपरिग्रहः।
भावशुद्धयेकसो सावहिंसाणुव्रतं भजेत् ॥१४॥ टीका--भजेत् आराधयेत्। कोऽसौ, गृही। किं तत्, अहिंसाणुव्रतं । यः किं, यः स्यात् । किंविशिष्टः,अल्पारम्भपरिग्रहः आरम्भश्च परिग्रहश्च ममेदमहमस्येति बुद्धिग्राह्यो भार्याद्यर्थः आरम्भपरिग्रहौ, अल्पौ दुनिप्रक.
नुत्पादको' आरम्भपरिग्रहौ यस्य स तथोक्तः । कस्मात्, सन्तोषपोषतो धतेः प्रकर्षात् । पुन: किंविशिष्टो, भावशुद्धयेकसो मनःशुद्धावेकानः॥१४॥ • पञ्चातिचारान् परिहरन् वाङ्मनोगुप्त्यादिभावनापञ्चकेनाहिंसाणुव्रतमुपयुञ्जीतेत्युपदिशति--
मुश्चन् बन्धं वधच्छेदावतिभारादिरोपणम् ।
भुक्तिरोधं च दुर्भावाद्भावनाभिस्तदाविशेत् ॥ १५ ॥ .. टीका-आविशेदुपयुञ्जीत । कोऽसौतिकः। किं तत् ,अहिंसाणुव्रतं । काभिः भावनाभिर्वाग्गुप्त्या मनोगुप्त्यर्यासमित्या आदाननिक्षेपणसमित्या आकोकितपानभोजनेनेति पंचभिरभ्यासविशिष्टैः। किं कुर्वन्, मुञ्चन धजयन्। किं तत् , बन्धादिपञ्चकं, । कस्मात्,दुर्भावात्। इति समन्वयः। इतो विस्तर बन्धो रज्वादिना गोमनुष्यादीनां नियन्त्रण। सच पुत्रादीनामपि विनयग्रहणार्थ विधीयते अलो दुर्भावादित्युक्तं । दुर्भावं दुष्परिणाम प्रकर्षायोदयमाभिव्य क्रियमाणो यो बन्धस्तं वर्जयन्नित्यर्थः । अत्रायं "विधि:-बन्धो द्विदिनों
NAAM
KIYA
Page #100
--------------------------------------------------------------------------
________________
९६
सागारधर्मः
1
चतुष्पदानां वा स्यात् सोऽपि सार्थकोऽनर्थको वा । तत्रानर्थकस्तावच्छावकस्य कर्तु न युज्यते । सार्थकः पुनरसौ द्वेधा सापेक्षो निरपेक्षश्च । तत्र सापेक्षो यो दामगंध्यादिना शिथिलेन चतुष्पदानां विधीयते यश्च प्रदीपनादिषु मोचयितुं छेत्तुं वा शक्यते । निरपेक्षो यनिश्चलमत्यर्थममी बद्धधन्ते । द्विपदानां तु दासदासीचोरजारादिप्रमत्तपुत्रादीनां यदा बन्धो विधीयते तदा सविक्रमणा एवामी बन्धनया रक्षणीयाश्च यथाऽग्निभयादिषु न विनश्यन्ति । यद्वा द्विपदचतुष्पदाः श्रावण त एव संग्राह्या येऽद्धा एव तिष्ठन्तीति प्रथमोऽतिचारः । चधो दण्डकशाद्यभिघातः । सोऽपि दुर्भावाद्विधीयमानो बन्धवदतिचारः । यदि पुनः कोsपि न करोति विनयं तदा तं मर्माणि मुक्त्वा लतया दवरकेण वा सकृत् द्विर्वा ताडयेदिति द्वितीयोऽतिचारः । छेदः कर्णनासिकादीनामवयवानामप नयनं । सोऽपि दुर्भावात्क्रियमाणोऽतिचारो निर्दयं हस्तादीनां छेद इत्यर्थः स्वास्थ्यापेक्षया तु गण्डत्रणादिच्छेदनदहनादिकं ससान्त्वनं कुर्वतोऽपि नातिचारः स्यादिति तृतीयः । अतिभारादिरोपणं न्याय्यभारादतिरिक्तस्य वोढुमशक्यस्य भारस्यारोपणं वृषभादीनां पृष्ठस्कन्धादौ वाहनोपाधिरोपणं । तदपि दुर्भावात् क्रोधाल्लोभाद्वा क्रियमाणमतिचारः । अत्राप्ययं विधिः - श्रावकेण तावत् द्विपदादिवाहनेन जीविका प्रागेव मोक्तव्येत्येष श्रेष्ठः पक्षः । अथान्योऽसौ न स्यात्तदा द्विपदो यावन्तं भारं स्वयमुत्क्षिपति अवतारयति च तावन्तमेव वाह्यते मोच्यते चोचितवेलायाम् । चतुष्पदस्य तु यथोचितभारः किञ्चिदुनः क्रियते हलकटादिषु पुनरुचितवेलायामसौ मुच्यते इति चतुर्थ: । भुक्तिरोधोऽन्नपानादिनिषेधः । सोऽपि दुर्भावाद्वन्प्रवदतिचारः । तीक्ष्णक्षुधा दिपीडितः प्राणी म्रियत इत्यन्नादिनिरोधो न कस्यापि कर्तव्यः । अपराधकारिणि च चैव वदेदद्य तेन दास्यते भोजनादिकमिति । स्वभोजन वेलायां तु नियमत एवान्य भोजयित्वा स्वयं भुञ्जीतान्यत्रेोपवास चिकित्स्यज्वरादिव्याधितेभ्यः । शान्तिनिमित्तं चोपवासाद्यपि कारयेदिति पञ्चमः । किं बहुना मूलगुणस्या
1
Page #101
--------------------------------------------------------------------------
________________
चतुर्थोध्यायः । हिंसालक्षणस्वाति चारा यथा न भवति त्था यतनया वर्तितव्यम् ॥ १५॥
उक्तमेवार्थ मुग्धधियां सुखस्मृत्यर्थ किञ्चदुपसंगृह्णन्नाहगवाधष्ठिको वृत्ति त्यजेद्वन्धादिना विना।
भोग्यान् वा तानुपेतं योजयेद्वा न निर्दयम् ॥ १६ ॥ टीका-त्यजेद्वजयेत् । कोऽसौ, नैष्ठिकः । पाक्षिकम्य तु नास्ति नियमः । कां, वृति जीवनार्थ व्यापारं। कैः, गवाद्यैर्गोमहिषतुरगादिभिः । एष प्रशन्यतमः पक्षः । वा अथवा । उपेयात् परिगृण्हीयात् नैष्ठिकः कान्, एतान् गवादीन्। किंविशिष्टान्, भोग्यान् वाहदोहादावुपयोक्तुं शक्तान् । कथं, विना । केन, बन्धा दिना नियन्त्रणताडनादिना। एष मध्यमः पक्षः ।अथवा न योजयेत् स्वयमन्येन वा न विधापयेत् नैष्ठिकः । कं, तं बन्धा द । कथं, निर्दय । एषोऽधमः पक्षः। 'व्रतानि पुण्याय भवन्ति जन्तो-न सातिचाराणि निषेविता नि । सस्यानि कि क्वापि फलन्ति लोके मलोपलीढानि कदाचनपि' ॥ अत्राह कश्चित्-ननु हिंसैव श्रावकेण प्रत्यारा । न बन्धादयः ततस्तत्करणेऽपि न दोषो हिंसा विरतेरखण्डितत्वात् । अथवन दोऽपि प्रत्याख्याता तदा तत्करणे व्रतभङ्ग एव विरतिखण्डनान् । किं च बंधादीनां प्रत्याख्येयत्वे व्रतेयत्ता विशीर्यंत प्रतिव्रतमतिचारवतानामाधिक्यादिति। एवं च नबन्धादीनामतिचारतेति । अत्रोच्यते । सत्यमहिंसैप प्रत्याख्याता न बन्धादयः । केवलं तत्प्रत्याख्यानेऽर्थतस्तेऽपि प्रत्याख्याता द्रष्टव्या हिंसोगयत्वात्तेषां । न च बन्धादिकरणेऽपि व्रतभड्गः किन्वत चार एव । कथं ? द्विविधं हि व्रतं अन्तर्वृत्त्या बहिर्वृत्त्या च तत्र मारयामीति विकल्याभावेन यदा कोपाद्य वेशात्परप्राणप्रहाणमविगणयन् बन्धादौ प्रवर्तते न च हिंसा भवति तदा निर्दयताविरत्यनपेक्षतया प्रवृत्तत्वेनान्तर्वृत्त्या व्रतस्य भङ्गो हिंसाया अभावाद्वहिर्वृत्त्या पालनमिति देशस्य भजननाद्देशस्यैब पालनादतिचारव्यपदेशः प्रवर्तते। तदुक्तं:-'नमारयामीति इतव्रतस्य विनैव मृत्यु क इहातिचारः । निगवते यः कुपितो बषादीन करोत्यसौस्यानियमानपेक्षः। मृत्योस्भावानियमोऽस्ति तस्य कोपाइयाहीनतया हि भतः देशस्य भगादनुपालनाच ज्या प्रतीचारशहरन्ति ।।" यज्योत
Page #102
--------------------------------------------------------------------------
________________
सागाला।
प्रतेयत्ता विशीर्यतेति तदयुक्तं विशुद्धाहिंसासद्भावे हि बन्धादीनामभाव एव अतः स्थितमेतत् बन्धादयोऽतिचारा एवेति ॥ १६ ॥
एतदेव संगृह्णन्नाह- न हन्मीति व्रत क्रुध्यनिर्दयत्वान्न पाति न । ' भनक्त्यघ्नन् देशभङ्गत्राणात त्वतिचरत्यधीः ॥ १७॥ टीका-न पाति न पालयति । कोऽसौ, अधीरज्ञोऽसमीक्ष्यकारी। किं तत् , न हन्मीति व्रतं न मारयामीति नियम । किं कुर्वन् , क्रुध्यन् क्रोधावेशं गच्छन् । कुतो न पाति, निर्दयत्वात् करुणारहितत्वात् । तथा न भनक्ति न नाशयति। कोऽसौ, अधीः किं तत् , न हन्मीति व्रत । किं कुर्वन् ,--अघ्नन् प्राणैर्जीवमवियोजयन्। किंतर्हि करोतीत्याह-अतिवरति व्रतमतिक्रन्याधिवर्तते ।तु पुनः। कस्नात् , देशभङ्गत्राणात् भङ्गश्च त्राणं च भङ्गत्राणं देशभ्यान्तर्बहिर्वत्त्युभयरूपत्तैकदेशस्य भङ्गत्राणन्तर्वत्त्या भञ्जनं बहिर्वत्त्या च पालनं तस्मात् ॥१७॥ __ अतिचरतीति पदार्थमभिव्यक्तु भुक्तिरोधन चेत्यत्र चशब्देन समुच्चितं चातिचारजातं वक्तु गह
सापेक्षस्य व्रते हि स्यादतिचारोंऽशभञ्जनम् ।
मन्त्रतन्त्रप्रयोगाद्याः परेऽप्यूह्यास्तथाऽत्ययाः ॥ १८ ॥ टीका-हि यस्मात् । म्याद्भवेत् । कोऽसौ, अतिचारः । किं स्यादंशभञ्जनं भन्तर्वृत्त्या बहिर्वृत्त्या वा खण्डनं । कस्य, सापेक्षस्य । क, व्रते प्रतिपन्नमहिंसाव्रतं न भनज्मीति अपेक्षमाणस्य पुसः। तथा ऊह्याः विताः । के, अत्यया अजीचाराः । किंविशिष्टाः, मन्त्रतन्त्रप्रयोगाद्याः मन्त्र इष्टकर्मसाधनसमर्थः पठितसिद्धोऽक्षरपिण्डः, तन्त्रं सिद्धौषधिक्रियाः, मन्त्रश्च तन्त्रं च मन्त्रतन्त्रे तयोः प्रयोगो विधिवत्कर्मणि व्यापारणं स आयो येषां ध्यानादीनां ते मन्त्रतन्त्रप्रयोगाद्याः गतिस्तम्भमतिस्तम्भोच्चाटनादिदुष्टकर्मसाधनहेतवः। न केवल ते परेऽपि शास्त्रान्तरनिर्दिष्टाश्च । कथमूह्याः, तथा तेन व्रतापेक्षापूर्वकं तदेकदेशभञ्जनलक्षणेन प्रकारेण मन्त्रादिवत् ॥ १८ ॥
बन्धादीनामतिचारत्वसमर्थनपुरस्सरमतिचारपरिहारे यत्नं कारयन्नाह.
Page #103
--------------------------------------------------------------------------
________________
स्तुर्षोभ्यायः ।
मन्त्रादिनापि बन्धादिः कृतो रज्ज्वादिवन्मलः ।
तत्तथा यतनीय स्यान्न यथा मलिनं व्रतम् ॥ १९ ॥ टीका-भवति । कोऽसौ, बन्धादिः बन्धनताडनादिः । किं स्यात्, मल: यथोदितशुद्धिपतिबन्धित्वादहिंसाणुव्रतातिचारःस्यात्तदेकदेशभञ्जकत्वाविशेषा. त् । क्रिविशिष्टः, कृतो विहितः । केन, मन्त्रादिना मन्त्रतन्त्रादिना। न केवल रज्ज्वादिनेत्यपिशब्दार्थः । केनेव, रज्वादिवत् पाशकर्शादिना यथा। तत्तस्माद्यतनीयं मैयादिभावनालक्षणया प्रमादपरिहारपूर्वकचेष्टारूपया च यतनया वर्तितव्यं । कथं, तथा तेन विशुद्धाध्यवसायलक्षणेन प्रकारेण । यथा किं, यथा न स्यात् । किं तत्, व्रतं । किंविशिष्टं, मलिनं सातिचारम् ॥ १९ ॥ अहिंसाणुव्रतम्वीकारविधिमाहहिंस्यहिंसकहिंसातत्फलान्यालोच्य तचतः। ...
हिंसां तथोज्झेन यथा प्रतिज्ञाभङ्गमाप्नुयात् ॥ २० ॥ टीका-उज्झेत् व्रतयेत् । कोऽसो, श्रावकः। कां, हिंसां । कथं, तथा तन स्वशक्त्यनुसारलक्षणेन प्रकारेण। किं कृत्वा, आलोच्य गुरुसधर्मश्रेयोऽ र्थिभिः सह विमृश्य । कानि, हिंस्यहिंसकहिंसातत्फलानि वध्यवधकवधतसाध्यानि । कस्मात्, तत्त्वतः याथातथ्येन । यथा किं, यथा नाप्नुयात् । कोऽसौ, व्रती प्रतिन्निव्रतः । कं, प्रतिज्ञाभग नियमखण्डनम् ॥ २० ॥ - हिंसकादाल्लॅशयति
प्रमत्तो हिंसको हिंस्या द्रव्यभावस्वभावकाः ।
प्राणास्तद्विच्छिदा हिंसा तत्फलं पापसंचयः॥ २१ ॥ टीका-भवति । कोऽसौ, हिंसकः । किंरूपः, प्रमत्तः कषायाधाविष्टः । प्रपञ्चितं चैतदहिंसामहाव्रतोपदेशप्रस्तावे प्रागिति न पुनरिह प्रपंच्यते । तथा भवन्ति । के, हिंस्याः प्राणाः । किमात्मानो, द्रव्यभावस्वभावकाः द्रव्यात्मकाः पुद्गलविवर्तरूपाः भावात्मकाश्च चित्परिणामलक्षणाः । तथा भवति । काऽसौ, हिंसा । किंलक्षणा, तद्विच्छिदा तेषां द्रव्यभावप्राणानां वियोगकरण । तथा भवति । किं तत्, तत्फलं हिंसासाध्यं । किं पापसचयः दुष्कर्मबन्धः ॥ २१ ॥
Page #104
--------------------------------------------------------------------------
________________
१००
सामारधर्मः ।
.
गृहिणोऽप्यहिंसाव्रतनैर्मल्याय विधिविशेषमाह
कषायविकथानिद्राप्रणयाक्षविनिग्रहात् ।
नित्योदयां दयां कुर्यात्पापध्वान्तरविप्रभाम् ।। २२ ॥ टीका--कुर्यात् । कोसौ; अहिंस'णुवतनैर्मल्यार्थी । कां, दयामनुकम्पां। किंविशिष्टी, नित्योदयां अविच्छिन्नोल्लासां । पुनः किंविशिष्टां, पापध्वान्तरविप्रभां पापं बन्धाद्यतिचारदुष्कृतं तत् ध्वान्तमिव पुण्यप्रकाशविरोधित्वात् तत्र रविप्रभावत्तदनवगाह्यत्वात् ! कस्मात्, कषायेत्यादि-कषायाः क्रोधादयः विकथा मार्गविरुद्धाः कथाः, निद्रा भुक्तान्त्रपरिणामहेतुः स्वापः, प्रणयो मोहः स्नेहानुबन्धान्ममायमिति ग्रहः, अक्षाणि स्पर्शादि विषयरागद्वेषपरिणतानीन्द्रियाणि, तेषां पञ्चदशप्रमादानां विनिग्रहात विधिपूर्वकनिग्रहात् । अत्र मार्गविरुद्धाः कथा भक्तस्त्रीदेशराजसम्बन्धिन्यः । तत्र भक्तकथा इदं चेद श्यामाकपायमोदकादि साधु में ज्य, सावनेन भुज्यते, अहमपि चेदं भोक्ष्ये इयादिरूपा । तथा स्त्रीकथा स्त्रीणां ने।थ्य हारहावभाव दि.वर्णनरूपा ‘कर्णाटी सुरत.पचारचतुरा, ल टी दिग्धा प्रिये त्यादिरूपा वा । तथा देशकथा दक्षिणापथः प्रचुरान्न गनस्त्रीसम्भोगनधानः । पूर्व देशो विचित्रवस्त्रगुडखण्डशालिमद्यादिप्रधानः । उत्तरापथे शूराः पुरुषाः, जविनो वाजिनो, गोधूमप्रधानानि धान्यानि, सुलभं कुंकुम, मधुराणि द्राक्षादाडिमकपित्थादीनि । पश्चिमदेशे सुखस्पर्शानि वस्त्राणि, सुलभा इक्षवः, सितं वारीत्येवमादि । राजकथा--शूरोऽस्मदीयो राजा सधनः शौण्डः गजपतिगौंडः, अश्वपतिस्तुरुष्कः इत्यादिरूपा । एवं प्रतिकूला अपि भक्तादिकथा वाच्याः। यदा तु रागद्वेषावनास्कन्दन् धर्मकथाङ्गत्वेन अर्थकामकथाः कथयति तदा न वैकथिकः स्यात् । एवं प्रणयस्यापि धर्मविरोधित्वेनैव प्रमादत्वं बोध्यम् ॥ २२ ॥
१ पुण्यं तेजोमयं प्राहुः प्राहुः पापं तमोमयम् । तत्पापं पुंसि किं तिष्ठेयादीधितिमालिनि । लेहानुविदहृदयो शानचरित्रान्वितोऽपि न लाध्यः । दीप जापाइपिवा कज्जवमग्निस्य पास ॥
Page #105
--------------------------------------------------------------------------
________________
चतुर्थोध्यायः ।
गृहस्थस्य हिंसादुष्परिपाल्यत्वशङ्कामपाकरोतिबिजलते लोगेाचरन् कोमोक्ष्यत । भाषेकसाधना बन्धुमाक्षी नाभविष्यताम् ॥ २३ ॥ ट्रीका -अमोक्ष्यत मोक्षमगमिष्यत । कोडमा, कोऽपि मुमुक्षुः । किं कुर्वन, चरन् चेष्टमानः । कस्मिन् क्क- न क्वापि प्रदेशे । कस्मिन, लोके जगत्ति । किंविशिष्टे, विष्वग्जीवचिते समन्ताज्जन्तुव्याप्ते । चेद्यदि वा नाम - विप्यतां नाजनिष्यतां । कौ, बन्धमोक्षौ । किंविशिष्टौ भवैकसाधनौ भावः परिणाम एकमुत्कृष्टं प्रधानं साधनं निमित्त ययोः । तत्र शुभाशुभोपयोगौ पुण्यापापरूपबन्धस्य शुद्धोपयोगश्च मोक्षस्य प्रधानं कारणमिति विभागः॥ २३ ॥
*
1
एवमतिचारपरिहारद्वारेणाहिंसाणुत्रतपरिपालनमुपदिश्य साम्प्रतं रात्रिभो - जनवर्जन व्रतबलेन तदुपदिशन्नाह -
अहिंसा रक्षार्थं मूलत विशुद्धये ।
१०१
नक्तं भुक्ति चतुर्धापि सदा धीरखिधा त्यजेत् ॥ २४ ॥ टीका - त्यजेत् । को मौत की मुक्ति भोजने । कांता, चतुधोऽपि अन्नपानखाद्याकारमपि । कदा, नक्तं रात्रो । कथ, सदा सर्वदा यावज्जीवं । कथं, त्रिया मनोवाक्कायैः । किं विशिष्टः सन, धीरः परीषहोपसर्गेरक्षोभ्यः सत्वभावनानिष्ठ इत्यर्थः । किमर्थ, अहिंसाव्रतरक्षार्थ मूलव्रतविशुद्धये च मूलगुणान्विमलीकर्तुम हिंसाणुत्रतं च रक्षितुमित्यर्थः ॥ २४ ॥ दृष्टादृष्टदोषभूयिष्ठमपि रात्रिभोजनमाचरन्तं वक्रर्माणित्या तिरस्कुर्वन्नाहजलोदरादिकृद्यकाद्यकमप्रेक्ष्यजन्तुकम् ।
प्रेताद्युच्छिष्टमु मृष्टमप्यश्नन्निश्यहो सुखी ॥ २५ ॥ टीका- -अहो आश्चर्य कष्टुं च । भवति । कोऽपौ, जनः । किंविशिष्टः सुखी सुखिनमात्मानं मन्यते । इहामुत्र च दुःखभागेव भवतीति भावः । किं कुर्वन, अश्नन् भोज्यमाहरन् । क्क, निशिरात्रौ । किंविशिष्टम्, जलोदरादिकृद्यकार्यङ्कमपि अपिशब्दोऽन्तदीपकत्वाच्चतुर्भिःपिं विशेषणः सम्बध्यते । जलोदर मादिषी कष्टादीनामपायानां तान् कुर्वन्तीति तत्कृतो. जलोदराद्विहेबचत यकादयश्च यूकामर्कटिकादयस्ते तथाविधा अङ्क : कलङ्का अङ्के
Page #106
--------------------------------------------------------------------------
________________
१०२
सागारधर्मः ।
वा उत्सङ्गे मध्ये यस्यान्नपानादेर्भोज्यवस्तुनस्तथोक्तं । तत्र यूका भोजनेन सह भुक्ता जलोदरं करोति, कौलिकः कुष्ठं, मक्षिका छर्दि, मनिका मेोहानि व्यञ्जनान्तः पतितो वृश्चिकस्तालुव्यथां, कण्टकः काष्ठखण्डं वा गलव्यथां, वालश्व गले लम: स्वरभङ्गमित्यादयो दृष्टदोषाः सर्वेषां प्रतीतिकरा रात्रि - भोजने सम्भवन्ति। तथा अप्रेक्ष्यजन्तुकमपि अप्रेक्ष्यः स्तमसा छत्वाद् दृष्टुमशक्या जन्तुका अल्पजन्तवः सुक्ष्मजीवाः कुन्थ्वादयो जलघृतादिमध्ये पतिताः मोदकखर्जूराद्यनुषङ्गणो वा यत्र तत्तथोक्तं । किं च । निशि भोजने क्रियमाणेऽवश्यं पानः सम्भवति । तत्र च षड्जीवनिका येवधोऽवश्यम्भावी । भोजनधावनादौ च जलगतजन्तुविनाशो जलोज्झने च भूमिगत कुन्थुपिपीलिकादिजन्तुघातश्च संभवति । तथा प्रेताद्युच्छिष्टमपि प्रेता अधमव्यंतरा आदयो येषां पिशाचराक्षसादीनां तैरुच्छिष्टं स्पर्शादिना अभोज्यतां नीतं । एते पूर्वे चादृष्टदोषाः । तथा उत्सृष्टमपि प्रत्याख्यातमपि वस्तु घोरान्धकाररुद्धदृशां तदुपलक्षणासम्भवादेषोऽप्यदृष्टो दोषः ॥ २५ ॥
वनमालादृष्टान्तेन रात्रिभोजनदोषस्य महत्तां दर्शयतित्वां यद्युपैमि न पुनः सुनिवेश्य राम, लिप्ये वधादिकृदधैस्तदिति श्रतोऽपि । सौमित्रिरन्यशपथान्वनमालयैकं,
दोषा शिदोषशपथं किल कारितोऽस्मिन् ॥ २६ ॥ टीका - किल रामायणे ह्येवं श्रूयते । कारितो विधापितः । कोऽसौ, सौमित्रिर्लक्ष्मणः । कया, वनमालया स्वभार्यया । कं दोषा शिदोषशपथ दोषाशिनो रात्रिभोजिनो दोषो महापातकाख्यः तेन लिप्येऽहमिति शपथं । किंविशिष्टम्, एक शपथान्तररहितं । क, अस्मिन् लोके । किंविशिष्टोऽपि, श्रितोऽपि प्रतिपन्नोऽपि । कानू, अन्यशपथान् शपथान्तराणि । कथं, इति अनेन प्रकारेण । यदि नोपैमि नागच्छामि । कां त्वां । कथं पुनर्व्याघुट्य । किं त्वा, सुनिवेश्य सुव्यवस्थित कृत्वा । कं रामं । तत् ततः लिप्ये संयुज्येऽहं । कैः कर्तृभिः, गोस्ध्यादिघातकादिपापैः । तत्कथा यथा- लक्ष्मणो दशरथपितृनिदेशात्सह रामेण सीतया च दक्षिणापथे प्रस्थितो
Page #107
--------------------------------------------------------------------------
________________
चतुर्थोध्यायः ।
१०३
ऽन्तरा कूर्चनगरे महीधरराजतनयां वनमालां परिणीतवान् । ततश्च रामेण सह परतो देशान्तरं यियासन् स्वभार्यो वनमालां प्रतिमोचयति स्म । सा तु तद्विरहकातरा पुनरागमनमसम्भावयन्ती लक्ष्मणं शपथानकारयत् । यथा प्रिये राम मनीषिते देशे परिसंस्थाप्य यद्यहं भवती स्वदर्शनेन न प्रीणयामि तदा प्राणातिपाता दिपातकिनां गतिं यामीति । सा तु तैः शपथैरतुष्यन्ती यदि रात्रिभोजनकारिणां शपथं करोषि तदा त्वां प्रतिमुञ्चामि, नान्यथेति । स च तथेत्यभ्युपगत्य देशान्तरं प्रस्थितवानिति ॥ २६ ॥ लौकिकसंवाददर्शनेनापि रात्रिभोजनप्रतिषेधमाह
यत्र सत्पात्रदानादि किंचित्सत्कर्म नष्यते ।
कोऽद्यात्तत्रात्ययमये स्वहितैषी दिनात्यये ॥ २७ ॥ टीका-कः स्वहितैषी आत्मनो लोकद्वयेऽपि पथ्यमिच्छुः अद्यात्, न कश्चित्स्व हतैषी भुञ्जीतेत्यर्थः। क, तत्र दिनात्यये रात्रिसमये किंविशिष्टे अत्ययमये दोषभूयिष्ठे दोषनिर्वते वा । यत्र किं, यत्र नेष्यते बाबैरपि नाभिमन्यते । किं तत्, सत्कर्म शुभक्रिया । किंविशिष्टं, किञ्चित् किमपि । किं पुनः सर्व । किं विशिष्टं तत्, सत्पात्रदानादि सत्पात्रदानं स्नानं देवार्चन माहुतिः श्राद्ध विशेषतो भोजनं च ॥ २७ ॥ दिनरात्रिभोजनद्वारेण पुंसामुत्तममध्यमजघन्यभावमाह--
भुञ्जतेऽहः सद्वर्या द्विर्मध्याः पशुवत्परे।
राश्यहस्तद्वतगुणान् ब्रह्मोद्यानावगामुकाः ॥ २८॥ टीका-भुञ्जते अनन्ति । के ते, चर्या उत्तमाः शुभकर्मणोल्वणाः । कथं, सकृत एकवारं । कस्य, अन्हो दिनस्य मध्ये । तथा भुञ्जते । के, मध्या मध्यमाः शुभक्रियाभिरनुत्तमाधमाः। कय, द्विः द्विवारं । कस्य, अन्हः। तथा परे अधमाः पापकर्माणः भुञ्जते । किंवत्,पशुवत् गोमहिषादिभिस्तुल्यं । कयं,राज्यइनकंदिन। किविशिष्टाः सन्तो,नावगामुकाः अजानानाः। कान् ,तद्वतगुणा
माहुतिः श्राद्ध जनद्वारेण पुंसा विर्भध्याः पालकाः ॥ २८ : कर्थ,
Page #108
--------------------------------------------------------------------------
________________
१०४
सागार
नरात्रिभोजनवर्जनोपकास्कधर्मान् । किविशिष्ट्रान,ब्रह्मोद्यान् सर्वज्ञप्रतिपाद्यान्
शासनिक विमा भावानुभवसिद्ध रात्रिभोजनमितिफलवि
गोषमाह
योति त्यजन दिनाधन्तमुहृतौ रात्रिवत्सदा।
स वयेतोपवासेन स्वजन्मार्द्ध नयन कियत् ॥ २९ ॥ टीका-योऽत्ति भोजनं करोति । किं कुर्वन, त्यजन् वर्जयन् । कौ, दिना, धन्समाहौ दिक्सस्यादावन्ते च द्वे घटिके। किंवत् , रात्रिवत् रात्रिं यथा। काय, सदा नित्यं । स कियत् किषन्मानं वयेत स्तू येत सद्भिः । किं कुर्वन्नयन् गमयन् । किं तत् , स्वजन्माध अर्ध निजं जन्म । केन, उपवासेन चतुर्विधाहारपरिहारेण । समांशे विषनाशे वात्रा शब्दो व्याख्येयः ॥ २९ ॥ ___ अथ रात्रिभोजनवर्जनवन्मूलव्रतविशुद्धयङ्गत्वादहिंसावतरक्षांगत्वाच्च श्रावकस्य भोजनान्तरायान लोकचतुष्टयेन व्याचष्टे --
अतिप्रसकामसितुं सस्वियितुं तपः । व्रतबीमवृतीभुक्तान्तरायान् गृही श्रयेत् ॥ ३० ॥ टीका-श्रयेत् मतिपद्येत। कोऽसौ, गृहीव्रतिको गृहस्थः। कान,अन्तरायान कस्याः, मुक्तः मोजानवर्ननहेतमित्यर्थः । किविशिष्टान्, व्रतबीजवृतीः बीजस्येव व्रतानामावेष्टकान् रक्षोलवात् अहिंसाणुवतशीलभूमानित्यर्थः । कि कर्तु, असितुं त्यक्तु । कम् , अत्तिषसङ्गं विहितातिक्रमेणोपर्युपरि प्रवृत्ति तथा परिवर्द्धयितुं समन्तादुपचेतुं । किं तत्, तपः इच्छानिरोधम् ॥३०॥ __तानेव श्लोकत्रयेण विशेषतो निर्देषु विवृणोति
अट्यापास्थिसुरामांसासम्परपूर्वकम् । स्पस्ट्वा रजस्वलाफचर्मास्थिशुनकादिकम् ॥ ३१ ॥ श्रुत्वाऽतिकर्कशाकदविवरसायनिःस्वनम् । .... मुक्ता नियमित वस्तु मोज्येऽशक्यविवेचनैः ॥ ३२ ॥
Page #109
--------------------------------------------------------------------------
________________
..
.
चतुर्थोध्यायः । संसाष्टे सति जीतद्विर्जी वर्ग बाशितः।
राई मांसमिति दृष्टारलो नाशनं त्यजेत ॥ ३३॥ टीका त्यजेत् । कोऽसौ, व्रतिकः । किं तत्, अशनं तात्कालिकमेवाहारं, न तु वैकालिकादिकं । किं कृत्वा, दृष्ट्वा । स्पृष्ट्वा चेत्यपि द्रष्टव्यं । किं तत् , आर्द्रत्यादि--आर्द्रमशुष्क चर्मा जिनं, अस्थि च कीकसं, तथा सुरां मद्य, मांसं पिशितं, असृक् शाणितं, पूयं व्रण दिगत पक्कासृक्, पूर्वशब्दादशांत्रादि। तथा स्पृष्ट्वा । किं तत् , रजस्वलां पुष्पवती स्त्री, शुष्के चर्मास्थिनी, शुनकं श्वानं, आदिशब्देन मार्जारश्वपच दि । तथा श्रुत्वा आकर्ण्य । कम्, अतिक
शनिःस्वनं अस्य मस्तकं कृन्धि इत्यादिरूपं, आक्रन्दनिःस्वनं हाहेत्याद्यातस्वरस्वभावं, विडरप्रायनिः चनं परचक्रागमनातकप्रदीपनादिविषयं । तथा भुक्त्वा अशित्वा । किं तत्, वस्तु । किंविशिष्टं, नियमितं प्रत्याख्यातं । तथा अशनं त्यजेत् । क सति, भोज्ये भोक्तव्ये द्रव्ये सति । किंविशिष्टे, संसृष्टे मिलिते। कैः,जीवै द्वित्रिचतुरिन्द्रियप्राणिभिः। किं कुर्वद्भिः,जीवद्भिःप्राणद्धिः किंविशिष्टेः सद्भिः, अशक्यविवेचनैः भोज्यद्रव्यात्पृथक्कर्तुमशक्यैः । वा अथवा संसृष्टे । कैः, मृतेर्जीवैः। कतिभिः, बहुभिस्त्रिचतुरादिभिः। तथा । इदमित्यादि इदं भुग्यमानं वस्तु मांस सादृश्यात् इदं रुधिरमिदमस्थ्ययं सर्प इत्यादिरूपेण मनसा विकल्प्यमाने भोज्यवस्तुनीत्यर्थः ॥ ३३ ॥ ... ... अथाहिंसाणुव्रतशीलत्वेन मौनव्रतं व्याचिख्यासुः पञ्चश्लोकीमाह---
गृध्यै हुँकारादिसञ्ज्ञां संक्लेशं च पुरोऽनु च । ___ मुश्चन मौनमद्न कुर्यात्तपःसंयमबृहणम् ।। ३४ ॥
टीका--कुर्याद अतिकः । किं तत् ,मौनमजल्पनं । किं कुर्वन्, अदन भोजन कुर्वन् । पुनः किं कुर्वनः मन्चन वर्जयन । कां. हुङ्कारादिसञ्जां हुङ्कारखात्कार भ्रगुलचलनादि भः स्वाभिप्रायज्ञान । कम्यै, २ च इष्टभाजपाथः ।
Page #110
--------------------------------------------------------------------------
________________
सागारधमेः ।
तनिषेधार्थ तु हुङ्कारादिना सञ्ज्ञाकरणेपि न दोषः । अथवा गृद्धयै भोजनाभिकांक्षाप्रवृत्त्यर्थ । तथा मुञ्चन्। कं, सक्लेश कोदैन्याद्यविशुद्धपरिगाम। कथं, पुराऽनु च पूर्व पश्चाच्च । किंविशिष्टं मौन, तपःसंयमबहणं इच्छानिरोधस्य प्राणेन्द्रियसंयमस्य च पुष्टिकरम् ॥ ३४ ॥
मौनस्य तपोवर्द्धकत्वं श्रेयःसञ्चायकत्वं च श्लोकद्वयेन समर्थयते__ अभिमानावने गृद्धि-रोधार्धियते तपः ।
मौन तनोति श्रेयश्च-श्रुतप्रश्रयतायनात् ।। ३५ ॥ . टीका-वर्धयते । किं तत्, मौन । किं, तपः । कस्मिन्निमित्ते सति, अभिमानावने अयाचकत्वव्रतरक्षायां सत्यां । तथा गृद्धिरोधात् भोजनलौल्यप्रतिबन्धाद्धेतोः । तथा तनोति स्फीतीकरोति । किं तत् , मौन। किं, श्रेयः पुष्यं। कस्मात्, श्रुतप्रश्रयतायनात् श्रुतज्ञानविनयानुबन्धात् ॥ ३५ ॥
शुद्धमौनान्मनःसिद्धया शुक्लध्यानाय कल्पते । वाक्सिया युगपत्साधुत्रैलोक्यानुग्रहाय च ॥ ३६ ॥ टीका-कल्पते सम्पद्यते समर्थो भवति । कोऽसौ, साधुदेशसंयतः संयतश्च । कस्मै, शुक्लध्यानाय । कया, मनःसिद्ध्या चित्तवशीकरणेन । कस्मात् जातया, शुद्धमौनात् भोजनादौ निरतिचारमौनव्रतात् । तथा साधुः कल्पते । कस्मै, त्रैलोक्यानुग्रहाय त्रिजगद्भव्यजनानुपकर्तुं । कथं, युगपत् एककालं । कया, बाक्सिया युगपत्रिजगदनुग्रहसमर्थभारतीविभूत्या ॥ ३६ ॥ नियतकालिकसार्वकालिकमौनयोरद्योतनविशेषनिर्णयार्थमाह- . . .
उद्योतनं महेनैकघण्टादानं जिनालये। असार्वकालिके मौने निर्वाहः सार्वकालिके ॥ ३७ ॥ १ हुंकारांगुलिखात्कारभूधचलनादिभिः । .. मौनं विदधता संश विधातव्या न गृद्धये ॥
भनेत्रहुंकारकरांगुलीभिद्धिप्रवृत्यै परिवयं संज्ञाम् । करोति भुक्तिं विजिताक्षवृत्तिः स शुद्धमौनव्रतवृदिकारी ॥ २ सर्वदा शस्यते जोपं भोजने तु विशेषतः । रसायनं सदा श्रेष्ठं सरोगत्वे पुनर्न किम् ।।
Page #111
--------------------------------------------------------------------------
________________
चतुर्थोध्यायः ।
१०७
। टीका-भवति विधीयते वा। किं तत्, उद्योतनं फलातिशयलाभमाहात्म्यापादन । क, मौने । किंविशिष्ट, असार्वका लके यथात्मशक्ति नियतकालं कृते । किं तत्. एकेत्यादि-एकघण्टादानं एकस्या घण्टाया दानं वितरण। क्क, जिनालये अर्हच्चैत्यगृहे। कथं, सह । केन, महेनोत्सवेन पूजया वा। तथा सार्वकालिके यावज्जीवं प्रतिपन्ने मौने उद्द्योतनं भवति । किं तत्, निर्वाहो निराकुलं वहनं । नान्यत् ॥ ३५॥ . आवश्यकादिषु शक्तितः कृत्वा मौनं सर्वदाऽपि मौन विधानेन वाग्दोषोच्छेदमाह- . ....
आवश्यके मलक्षेपे पापकार्ये च वान्तिवत् । ... मौनं कुर्वीत शश्वद्वा भूयोवाग्दोषविच्छिदे ॥ ३८ ॥ - टीका-कुर्वीत । कोऽसौ, साधुः। किं तत्, मौनं । क, आवश्यक सामायिकादिकर्मषट्के, तथा मलक्षेपे विण्मूत्रोत्सर्गे, तथा पापकार्ये हिंसादिकर्मणि
१" सन्तोष भाव्यते तेन वैराग्यं तेन दर्श्यते ।
संयम: पोष्यते तेन मौनं येन विधीयते ॥ लोल्यत्यागात्तपोवृद्धि रभिमानस्य रक्षणम् । ततश्च समवाप्नोति मनःसिद्धिं जगत्ररे ॥ श्रु प्रश्रयात् श्रेयःस द्धेः स्यात्समाश्रयः । ततो मनुजलाकस्य प्रसीदति सरस्वती । वाणी मनोरमा तस्य शास्त्रसन्दर्भगर्भिता । आदेया जायते येन क्रियते मौनमुज्ज्वलम्।। . पदानि यानि विद्यन्ते वन्दनीयानि कोविदैः । सर्वाणि तानि लभ्यन्ते प्राणिना मौनकारिणा ॥ भव्येन शक्तितः कृत्वा मौन नियतकालिकम् । जिनेन्द्रभवने देया घण्टका समहोत्सवम् ।।.. न सार्वकालिके मौने निर्वाहव्यतिरेकतः । उद्योतनं पर प्रायः किंचनापि विधीयते ॥
Page #112
--------------------------------------------------------------------------
________________
सात कदाता
हातखट
Tr
-भयसा कायदाषा
-
..-
-
.
m
y
सागारधर्मः । पुरेण किरमाणे, चशब्देन स्नानाशनमैनादौ च। यतेस्त सामीपणेऽपि । ति, डान्तिवन । ही या छतावनामाचमन योदित्यर्थः । अथवा पेक्षया बहुतराणां वाग्दोषाणां परुषादिवचनकृतपोपालवाणां विच्छेदार्थम् ३८ अथ सत्याणुव्रतरक्षणार्थमाह
कन्यांगोक्ष्मालीककूटसाक्ष्यन्यासापलापवत ।
स्यात्सत्याणुवती सत्यमपि स्वान्यापदे त्यजन् ॥ ३९ ॥ टीका-स्यातू । कोऽसौ, व्रतिकः श्रावकः। किंविशिष्टः, सत्याणुव्रती । किं कुर्वन् , त्यजन् वर्जयन् । किं तत् , सत्यमपि चोरे चोरोऽयमित्यादिरूपं तथ्यमपि । किमर्थ, स्वान्यापदे स्वपर विपत्त्यर्थ यत्तथाभृतं तत्सत्यमपि । किंवत् , कन्यालीकादिवत् । यस्मिनु के स्वपरयोर्वधबंधादिकं राजादिभ्यो भवति तत्स्थूलास य तादृक् सत्यं च स्वयमवदन् पराँश्वावादयन् सत्याणुव्रती स्यादित्यर्थः । तत्र कन्यालीकं यथा-भिन्नां कन्यामभिन्नां वा विपर्यय वा वदता भवति । इदं सर्वस्य कुमारादिद्विपदविषयकस्यालीकस्योपलक्षण । मवालीक-अल्पक्षीरां गां बहुक्षीरों विषयेय वा वदतः स्यात् । इदमपि सर्वचतुष्पदविषयालीकस्योपलक्षणे । आमालीक-परम्वकामपि भूमिमात्मस्वका विपर्यय वा वदतो भवेत् । इदं चाशेषपादपाद्यपद द्रव्यविषयालीकम्योपलक्षणं । कन्याद्यलीकानां चं लोकेऽतिगर्हितत्वेन रूढत्वात् द्विपदादिग्रहणं न क्रियते । कन्याद्यलोकत्रय लोकविरुद्धत्वान्न वाच्य । कूटसाक्ष्य-प्रमाणीकृतस्य लञ्चामत्सरादीनां कूटं वदतः स्यात् । यथाऽहमत्र साक्षीति । अस्य च परपापसमर्थकत्वविशेषेण पूर्वेभ्यो भेदः । तच्च धर्मविपक्षत्वान्न वदेत् । धर्म्य ब्रूयान्नाधर्म्यमिति विवादिभिरभ्यर्थितत्वात् । न्यासापलाप:-न्यस्यते रक्षणार्थमन्यस्मै समर्प्यत: इति न्यासः सुवर्णादिद्रव्यं . तदपलापं नालपेत विश्वसितघातकत्वात् । किं चाज्ञानसंशयादिनाऽप्यसत्यं न ब्रूयात् , कि पुना रागद्वेषाभ्याम ॥ ३९ ॥
लोकव्यवहाराविरोधेन च तदप्रयोगमुपदिशति
1153
-
-
..-
...
.
17
Page #113
--------------------------------------------------------------------------
________________
चतुर्थोध्यायः ।
लोकयात्रानुरोधित्वात्सत्यसत्यादि वाक्त्रयम् ।
ब्रूयादसत्यासत्यं तु तद्विरोधान जातुचित् ॥ ४० ॥ . टीका-यतू । कोऽौ, सत्याणुव्रती । किं तत्, सत्यसत्यादिवाक्त्रयं वक्ष्यमाणरक्षणं । कस्मात् , लाकयात्रानुरोधित्वात् लोकव्यवहारविसंवादित्वात। न तु ब्रूयात् । किं तत् , असन्यासत्यं । कथं, जातुचित् कदाचिदपि । कस्मात द्विरोधात् लोकयात्रावित्रलम्भनात् ।। ४० ॥ सत्यसत्यादीनि श्लोकत्रयेण लक्षयन्नाह
यवस्तु यदेशकाल-प्रमाकार प्रतिश्रुतम् ।
तस्मिस्तथैव संवादि सत्यसत्यं वचो वदेत् ॥४१॥ टीका-वदेत् सत्याणुव्रती। किं तत्, वचः । किविशिष्टं, सत्यसत्यं । किंलक्षण, संवादि तथाभूतं । क, तस्मिन् प्रतिज्ञाते वस्तुनि। कथं, तथैव तेनैव तद्देश कालपरिणामरूपत्वेन प्रकारेण । यत्किं, यद्वस्तु । प्रतिश्रुतं प्रतिज्ञातं । किंविशिष्ट. यद्देश कालप्रमाकारं प्रमा परिमाण संख्या च, आकारो वर्णसंस्थानादिरून, देशश्च कालश्च प्रमा च आकारश्च देशकालप्रमाकाराः प्रतिज्ञा विषयीकृता यस्य तत्तथोक्तम् ॥ ४१ ॥
असत्यं वय वासोऽन्धो रन्धयेत्यादि सत्यगम् ।
वाच्यं कालातिक्रमेण दानात्सत्यमसत्यगम् ॥ ४२ ॥ टीका-वाच्यं वक्तव्यं सत्याणुवतिना । किं तद वचः। किंविशिष्ट, असत्य किंविशिष्ट सा, सत्यगं सत्याश्रितं । असत्यमपि किञ्चित्सत्यमेवेत्यर्थः। तदेव वयेत्यादिना दर्शयति-भोः कुविन्द वय आतानवितानीभावरूपतया आसूत्रय वं । किं तत्, वासो वस्त्रं । व अनिमाणयोग्यतन्तुषु वस्त्रशब्दप्रयोगादसत्यवं। तथा भो भक्तक रन्धय पच त्वं । किं तत् , अन्ध क्रूर। अन्धोयोग्यतण्डुलेष्वन्वशब्दप्रयोगादसत्यत्वं । आदिशब्दाद्भोः पेषक कणिकां पिष्टीत्यादिरूपंग्राह्य। अत्र ततच्छब्दावाच्यत्वेऽपि लोके तथाव्यवहारात्सत्यत्वं । इदमसत्यसत्यं ॥ तथा वाच्यं । किं तत्, सत्य। किविशिष्ट, असत्यग सत्यासत्यमित्यर्थः । कुतः, सम्भवदानात् वितरणात् । केन, कालातिकमेण । यथा अर्द्धमासतमे दिवसे तवेदं देयमित्वास्थाय मास्तम संवत्सरतमे वा दिवसेददातीति । अत्र दाना
-
-
Page #114
--------------------------------------------------------------------------
________________
११०
. सागारवर्मः । व्यमिचारात्सत्यत्वं । प्रतिपन्नतत्कालव्यभिचाराच्चासत्यत्व । इदमपि लोके तथा व्यवहारात्कचिद्वक्तव्यम् । ४२।।
यत्स्वस्य नास्ति तत्कल्ये दास्यामीत्यादिसंविदा।
व्यवहारं विरुधानं नासत्यासत्यमालपेत् ॥ ४३ ॥ . टीका-न आलपेत् न ब्रूयात् सत्याणुव्रती । किं तत् , असत्यासत्यं वचः । किं कुर्वाणं, विरुन्धानं बाधमानं । कं, व्यवहारं लोकयात्रां । कया, यदित्यादियद्वस्तु नास्ति । कस्य, स्वस्यात्मनः सम्बन्धी । तद्दास्यामि तुभ्यं वितरिप्यामि । कदा, कल्ये प्रातः । इत्यादिरूपया संविदा प्रतिज्ञया ॥ ४३ ॥
सावधव्यतिरिक्तानृतपञ्चकस्य नित्यं वजनीयत्वमाह____भोक्तुं भोगोपभोगाङ्गमानं सावद्यमक्षमाः । __ ये तेऽप्यन्यत्सदा सर्व हिंसेत्युज्झन्तु वाऽनृतम् ।। ४४ ॥
टीका-अत्रायोग्या विशेषवचनवाच्यता निवृत्तावशक्तान् प्रति सावधविशे पवक्तव्यतानुवृत्त्यर्थो वाशब्दः किं बहुनेत्यर्थः। वा किं बहुना। उज्झन्तुत्यजन्तु । के, तेऽपि धर्मैषिणः । किं तत् , अनंत । किविशिष्ट, अन्यत् सावद्यव्यतिरिक्तं सदपलपनादि । कियत् , सर्व पञ्चधाऽपि । कथं, सदा नित्यं । कथं कृत्वा, हिंसेति यतः सर्वमन्तं हिंसापर्यायत्वाद्धिसैव प्रमादयोगाविशेषात् । यत्र तु प्रमत्तयोगो नास्ति तद्धियाऽनुष्ठानाद्यनुवदनं नासत्यं । एतेनेदमपि संगृहीत. 'सा मिथ्याऽपि न गीमिथ्या या गुर्वादिप्रसादिनी' इति । के ते इत्याह-ये भवंति । किविशिष्टाः, अक्षमा असमर्थाः । किं कर्तुं, मोक्तुं त्यक्तुं । किं तत् , सावध वचः क्षेत्र कृषेत्यादिरूपं प्राणिबधादिप्रवर्तकं । किंविशिष्ट सत् , भोगो, पभोगाङ्गमानं भोगो भोजनादिः, उपभोगः कामिन्यादिः भोगश्चोषभोगश्च भोगोपभोगौ तयोरङ्ग साधनं तदेव तन्मात्रं न पुनस्तदसाधनं । सावधं वचःतत्र नास्त्यात्मेत्यादि सदपलपनं । सर्वगत आत्मा श्यामाकंतण्डुलमानो वेत्यादिकमसदुद्भावनं । गामश्वमभिवदतो विपरीतं । काणं काणमभिदधानस्याप्रिय अरे बान्धकिनेय इत्यादि गर्हितं साक्रोशमित्यन्यत् ॥ ४४ ॥
Page #115
--------------------------------------------------------------------------
________________
चतुर्योध्यायः ।
मिथ्या
सत्याणुव्रतस्य पञ्चातिचारान् हेयत्वेनाह
मिथ्यादिश रहोऽभ्याख्यां कूटलेखक्रियां त्यजेत् ।
न्यस्तांशविस्मनुज्ञां मन्त्रभेदं च तद्वतः ॥ ४५ ॥ • टीका-त्यजेत् । कोऽसौ, तद्वतः । तत्स्थूलालीकादिवचनविरतिलक्षणं व्रतं यस्यासौ सत्याणुव्रतीत्यर्थः । किं तत् , मिथ्यादिशमित्यादिपञ्चकं । तत्र मिथ्यादिक् मिथ्योपदेशः । अभ्युदयनि.श्रेयसार्थेषु क्रियाविशेषेप्वन्यस्यान्यथा प्रवर्तन । परेण सन्देहापन्नेन पृष्टेऽज्ञाना दिनान्यथा कथनमित्यर्थ । अथवा प्रतिपन्नसत्यव्रतस्य परपीडाकरं वचनमसत्यमेव । ततः प्रमादात्परपीडाकरणे उपदेशे अति वारो यथा बाह्यन्तां खरोष्ट्रादयो हन्यन्तां दस्यव इति निष्प्रयोजनंवचनं।यद्वा विवादे स्वयं परेण वाऽन्यतरातिसन्धानोगायोपदेशो मिथ्योपदेशः ॥ रहोऽभ्याख्या-रहस्येकान्त स्त्रीपुम्भ्यामनुष्ठितस्य क्रियाविशेषस्याभ्याख्या प्रकाशन यया दम्पत्योरन्यस्य वा पुंसः स्त्रिया वा रागप्रकर्ष उत्पद्यते । सा च हास्यक्रीडादिनैव क्रियमाणोऽतिचारो न त्वभिनिवेशेन । तथा सति व्रतभङ्ग एव स्यात् । कूटलेखक्रिया अन्येनानुक्तमननुष्ठितं च यत्किञ्चित्तस्य परप्रयोगवशादेवं तेनोक्तमनुष्ठित चति वञ्चनानिमित्तं लेखनं । अन्यसरूपाक्षरमुद्राकरणमित्यन्ये। न्यस्तांशविस्मर्त्रनुज्ञा--न्यस्तस्य निक्षिप्तस्य हिरण्यादिद्रव्यस्य अंशमेकमंशं विस्मर्तुविस्मरणशीलस्य निक्षे-तुरनुज्ञा । द्रव्यमनुनिक्षेप्तुर्बिस्मृततत्संख्यस्याल्पसं. ख्यं तद्गृह्नत एवमित्यनुमतिवचनं । सोऽयं न्यासापहाराख्योऽतिचारः। मन्त्रभेदः अङ्गविकारभृक्षपादिभिः पराभिप्राय ज्ञात्वाऽसूयादिना तत्प्रकटनं । विश्वसितमित्रादिभिर्वा आत्मना सह मन्त्रितस्य लज्जा दिकरस्यार्थस्य प्रकाशनं । यत्तु मन्त्रभेदः परीवादः पैशुन्यं कूटलेखनम् । मुधा साक्षिपदोक्तिश्च सत्यस्यैते विघातकाः ।। इति यशस्तिलके अतिचारान्तरवचनं तत्परेऽप्यूह्यास्तदात्यया इत्यनेन संगृहीतं प्रतिपत्तव्यम् ॥ ४५ ॥ अथाचायाणुव्रतलक्षणार्थमाह- . .......
चौरव्यपदेशकरस्थूलस्तयत्रतो मृतस्वधनात् । परमुदकादेवाखिलभोग्यान हरेदीत न परस्वम् ॥ ४६॥
Page #116
--------------------------------------------------------------------------
________________
११२
'सागारधर्मः।
टीका- न हरेत् न गृह्णीयात् । नापि ददीत न परस्मै वितरेत् । कोऽसो, चौरेत्यादि-चौरोऽयमुपलक्षगाद्धर्मघातकोऽयं बधकारोय मयादिव्यपदेश नाम करोतीति चौरादिव्यपदेशकरं, स्थूलम्तयं बादरचौर्य खात्रखननादिकं, तत्पूर्वमदत्तादानं वा, तत्र व्रत नियमस्तस्माद्वा वा निवृत्तिर्यस्य स तथोक्तोऽचौर्याणुव्रतीत्यर्थः । किं तत्, परम्वं परस्य धनं चेतनमचेतनं वा द्रव्यं साम
•ददत्तं तस्यैव परस्वामिकत्वोपपत्तेदत्तस्य च स्वस्वामिकत्वसम्भवात् ॥ किंविशिष्ट, परमन्यत् । कस्मात् मृतस्वधनात् मृतश्चासौ सोज्ञातिश्च मृतस्वः अर्थासुत्र दिरहितो लोकान्तरप्राप्तो वन्धुस्तस्य धनं तस्मात् अन्यत् , जीवतां ज्ञातीनामित्यर्थः । न केवलं ततः परं उदकादेश्च तोयतृणप्रभृतेश्च । किविशिष्टात् अखिलभोग्यात् अखिलैः सर्वैः स्थिररागन्तुभिश्च लोकभाक्तुं योग्यत्वेन राजादिसमुत्कलितात् ॥ १६ ॥ प्रमत्तयोगात्परकीयतृतस्याप्यदत्तस्यादाने दाने चाचौथत्रतभङ्गं दर्शयति संक्लेशाभिनिवेशेन तृणमप्यन्यभर्तकम् ।
अदत्तभाददानो वा ददानस्तस्करो ध्रुवम् ॥ ४७॥. टीका-ध्रुवं निश्चितं भवति । कोडो, पुरुषः । कीदृशः, तस्करश्चौरः। किं कुर्वाणः, आददानः आत्मसात्कुर्वन्। ददानो वा पर मै प्रयच्छन्। किं तत्, तृ. णमपि किं पुनः सुवणादिकं। किंविशिष्ट, अन्यभर्तृकं अन्यः स्वस्मात्परो भर्ता स्वामी यस्य तदन्यभर्तकमन्यदीयमित्यर्थः। किंविशिष्ट सत्, अदत्तं तत्स्वामिना अवितीर्ण। केन, संक्लेशाभिनिवेशेन रागाद्यावेशेन। एतेनेदमुक्तं भवतिप्रमत्तयोगे सत्येवादत्तस्थादाने दाने वा चौथै स्यान्नान्यथा ॥ ४७ ॥ .. निधानादिधनं राजकीयत्वसमर्थनेन व्रतयन्नाह
नास्वामिकमिति ग्राह्य निधानादिधनं यतः।
धनस्यास्वामिकस्येह दायादो मेदिनीपतिः ॥४८॥ टीका-न प्राचं नादेयमचौर्याणुवतिना। किं तत्, निधानादि धनं नंदीगुहाविवराकरादिस्थित द्रव्यं । कथं कृत्वा, अस्वापिकमिति नास्यकश्चित् स्वामीति परस्वं न भवतीति सहस्प्याकुत इत्याह यतो यस्मात् । भाति। कोऽसी
Page #117
--------------------------------------------------------------------------
________________
चतुर्थोध्यायः ।
११३
मेदिनीपतिः राजा । कीदृशः, दायादः साधारणः स्वामी । कस्य, धनस्य । कीदृशस्य, अस्वामिकस्य स्वामिरहितस्य । क, इह लोके ॥ ४८ ॥ स्वामिसांशयिके स्वधनेऽपि नियमं कारयन्नाह
स्वमपि स्वं मम स्याद्वा न वेति द्वापरास्पदम् ।।
यदा तदाऽऽदीयमानं व्रतभङ्गाय जायते ॥ ४९ ॥ टीका- जायते सम्पद्यते । किं तत्, स्वमपि स्वं आत्मीयमपि द्रव्यं । कस्मै, व्रतभङ्गाय अचौर्यव्रतभङ्गं करोतीत्यर्थः । किं क्रियमाण, दीयमानं आकारप्रश्लेषादादीयमानं च । कदा, तदा तस्मिन् काले । यदा यस्मिन् काले भवति । किं तत, स्वमपि त्वं । किंविशिष्टं, द्वापरास्पदं संशयस्थानं । कथं कृत्वा, इदं धनं मम स्याद्भवेद्वा न वा स्यादित्येवं ॥ ४९ ॥ अचौर्याणुव्रतातिचारप्रहाणार्थमाह
चोरनयोगचोराहतग्रहावधिकहीनमानतुलम् ।
प्रतिरूपकव्यवहृति विरुद्धराज्येऽप्यतिक्रमं जह्यात् ॥ ५० ॥ टीका-जह्यात् त्यजेत् । कोऽसौ, अचौर्याणुव्रती । किं तत् , चोरप्रयोगाद्यतिचारपञ्चकमिति समन्वयः । तत्र चोरप्रयोगः-चोरयतः स्वयमन्येन वा चोरय त्वमिति चोरणक्रियायां प्रेरणं । प्रेरितस्य वा साधु करोषीत्यनुमननं । कुशिकाकर्तरिकाघर्घरिकादिचोरोपकरणानां वा समर्पणं विक्रयणं वा । अत्र च यद्यपि चौर्य न करोमि न कारयामीत्येवं प्रतिपन्नव्रतस्य चोरप्रयोगो व्रतभङ्ग एव तथाऽपि किमधुना यूयं निर्व्यापारास्तिष्ठथ। यदि वो भक्तादिकं नास्ति तदाऽहं तद्ददामि । भवदानीतमोषस्य वा यदि क्रेता नास्ति तदाऽहं विक्रेप्ये इत्येवंविधवचनैश्चौरान् व्यापारयतः स्वकल्पनया तव्यापारणं परिहरतो व्रतसापेक्षस्यासावतिचारः । चौराहतग्रहः-अप्रेरितेनाननुमतेन च चौरेणानीतस्य कनकवस्त्रादेरादानं मूल्येन मुद्रिकया वा । चौरानीतं च काणक्रयेण मुद्रिकया वा पच्छन्न गृहँश्चौरो भवति ततश्चौर्यकरणातभङ्गः। वाणिज्यमेव मया क्रियते न चौरिकेत्यध्यवसायेन व्रतसापेक्षत्वादभङ्ग इति भङ्गाभङ्गरूपोऽतिचारः ॥ अधिकहीनमानतुलं मानं प्रस्थादि हस्तादि च । तुला
Page #118
--------------------------------------------------------------------------
________________
११४
सागारधर्मः ।
उन्मानं । मानं च तुला च मानतुलं, अधिकं च हीनं चाधिकहीनं तच्च तन्मानतुलं च, अधिकमानं हीनमानं, अधिकतुला हीनतुला चेत्यर्थः । तत्र न्यूनेन मानादिनाऽन्यस्मै ददाति, अधिकेनात्मनो गृह्णातीत्येवमादिकूटप्रयोगो हीनाधिकमानोन्मानमित्यर्थः । प्रतिरूपकव्यवहृतिः-प्रतिरूपकं सदृशं वीहीणां पलंजि. घृतस्य वसा, हिङ्गोः खदिरादिवेष्टस्तैलस्य मूत्र, जात्यसुवर्णरूप्ययोर्युक्तसुवर्णरूप्ये, इत्यादिप्रतिरूपकेण व्यवहृतिर्व्यवहारो व्रीह्यादिषु पलंज्यादि प्रक्षिप्य तद्विक्रयणं । एतद् द्वयं परधनग्रहणरूपत्वाद्भङ्ग एव। केवलं खात्रखननादिकमेव चौर्य प्रसिद्धं । मया तु वणिक्कलेव कृतेति भावनया व्रतरक्षणोद्यतत्वादतिचार एवेति । _ विरुद्धराज्येप्यतिक्रमः । अपिः समुच्चये। विरुद्ध, विनष्टं विगृहीतं वा राज्य राज्ञः पृथ्वीपालनोचितं कर्म विरुद्धराज्यं छत्रभङ्गःपराभियोगो वेत्यर्थः । तत्रातिका उचितन्यायादन्येनैव प्रकारेणार्थस्य दानग्रहणं । विरुद्धराज्येल्पमूल्यलभ्यानि महाया॑णि द्रव्याणि इति प्रयततः । अथवा विरुद्धयोराद्राज्ञो राज्यं नियमिता भूमिः कटकं वा विरुद्धराज्यं तत्र । षष्टीसप्तम्योरर्थ प्रति भेदाभावात् । तस्यातिक्रमो व्यवस्थालंघनं । व्यवस्था च परस्परविरुद्धराजकत्वे एव । तल्लंघनं चान्यतरराज्यनिवासिन इतरराज्ये प्रवेशः । इतरराज्यनिवासिनो वा अन्यतरराज्ये प्रवेशः । विरुद्धराज्यातिक्रमस्य च यद्यपि स्वस्वामिनोननुज्ञातस्यादत्तादानलक्षणयोगेन तत्कारिणां च चौर्यदण्डयोगेन चौर्यरूपत्वाद्रतभङ्ग एव, तथापि विरुद्धराज्यातिक्रमं कुर्वता मया वाणिज्यमेव कृतं न चौर्य मिति भावनया व्रतसापेक्षत्वाल्लोके च चोरोयमिति व्यपदेशाभावादति चारता स्यात् । अथवा चोरप्रयोगादयः पञ्चाप्येते व्यक्तचौर्यरूपा एव । केवलं सहकारादिना वा प्रकारेण क्रियमाणास्तेतिचारतया व्यादिश्यन्ते । न चैते राज्ञा तत्सेवकादीनां वा न सम्भवन्तीति वाच्यम् । यतः प्रथमो द्वितीयः स्पट एव । तृतीयस्तुर्यश्च यदा राजा भाण्डागारे हीनाधिकमानोन्मानं द्रव्याणां विनिमयं च कारयति तदा राज्ञोप्यतिचारौ स्तः । विरुद्धराज्यातिक्रमस्तु यदा सामन्तादिः कश्चित् स्वस्वामिनो वृत्तिमुपजीवति
Page #119
--------------------------------------------------------------------------
________________
चतुर्थोध्यायः।
११५
तद्विरुद्धस्य च सहायो भवति तदा अस्या तिचारः स्यात् । सोमदेवपंडितस्तु मानन्यूनत्वाधिकत्वेन द्वावतीचारौ मन्यमान इदमाह- मानवन्न्यूनताधिक्ये तेन कर्म ततो ग्रहः । विग्रहो संग्रहोर्थस्यास्तेयस्यैते निवर्तकाः ॥ ५० ॥
अथ स्वदारसन्तोषाणुव्रतस्वीकारविधिमाह__ प्रतिपक्षभावनैव न रती रिरंसारुजि प्रतीकारः ।
इत्यप्रत्ययितमनाः श्रयत्वहिंस्रः स्वदारसन्तोषम् ॥ ५१ ॥ टीका-श्रयतु स्वीकरोतु । कोऽसौ, अहिंस्रः ईषद्धिंसनशीलोऽणुव्रती। कं, स्वदारसन्तोषं स्वदारेषु स्वभार्यायां स्वदारैर्वा सन्तोषो मैथुनसञ्ज्ञावेदनाशान्त्या देहमनसोः स्वास्थ्यापादनं । किंविशिष्टः सन्, अप्रत्ययितमनाः प्रत्ययो विश्वासः प्रत्ययः संजातोऽस्येति प्रत्ययितं न प्रत्ययितमप्रत्ययितं मनो यस्यासावप्रत्ययितमना असञ्जातविश्वासचित्त इत्यर्थः । कथं, इति अनेन सदुपदेशप्रकारेण । तमेव दर्शयति-भवति। कोऽसौ, प्रतीकारः प्रशम_ नोपायः। कम्यां रिरंसारुजि योन्यादौ रन्तुमिच्ारूपायां वेदनायां । किं प्रतीकारः, प्रतिपक्षभावनैव ब्रह्मचर्यस्य प्रागुक्तविधिना पुनश्चेतसि सन्निवेशनमेव । न पुनर्भवति तत्र प्रतीकारः । किं, रतिः स्त्रीसम्भोगः ॥ ५१ ॥ म्वदारसन्तोषिणं व्याचष्टे
सोऽस्ति स्वदारसन्तोषी योऽन्यस्त्रीप्रकटस्त्रियौ ।
न गच्छत्यंहसो भीत्या नान्यैर्गमयति त्रिधा ॥ ५२ ॥ टीका-अस्ति भवति । कोऽसौ, स गृहाश्रमी। कीदृशः, स्वदारसंतोषी स्वदारेषु निजधर्मपन्यां सन्तुष्यति मैथुनसञ्ज्ञां प्रतिचिकीर्षयन् भजतीत्येवंव्रतः । स्वदारेषु सन्तोषोऽस्यास्तीति वा । यः किं, यो न गच्छति न भजति। के, अन्यस्त्रीपकटस्त्रियौ अन्यस्त्री परदाराः परिगृहीता अपरिगृहीताश्च । तत्र परिगृहीताः सस्वामिका अपरिगृहीता स्वैरिणी प्रोषितभर्तृका कुलाङ्गना वा अनाथा । कन्या तु भाविभर्तकत्वात्पित्रा दिपरतन्त्रत्वाद्वा सनाथेत्यन्यस्त्रीतो न विशिष्यते । प्रकटस्त्री वेश्या । अन्यस्त्री च प्रकटस्त्री च अन्यस्त्रीप्रकटस्त्रियौ। ते द्वे अपि यो न भजति । कया, भीत्या भयेन। कस्मात् , अंहसः पा--
Page #120
--------------------------------------------------------------------------
________________
सागारधर्मः । पात् न राजादेः । नापियो गमयति उपभोजयति । के, ते द्वे । कैः कर्तृभिः, अन्यैः परदारादिलम्पटैः । कथं, त्रिधा मनोवाक्कायैः कृतकारिताभ्यामनुमत्याऽपि वा। तदेतद्ब्रह्माणुव्रतं निरतिचारं मद्यामिवक्षौद्रपञ्चोदुम्बरविरतिलक्षणाष्टमूलगुणान् प्रतिपन्नवतो विशुद्धसम्यग्दृशः श्रावकस्योपदिश्यते ! यस्तु स्वदारवसाधारणस्त्रियोऽपि व्रतयितुमशक्तः परदारानेव वर्जयति सोऽपि ब्रह्माणुव्रतीप्यते । द्विविधं हि तद्रतं । स्वदारसन्तोषः परदारवर्जन चेति । एतच्चान्यस्त्रीप्रगटस्त्रियाविति स्त्रीद्वयसेवाप्रतिषेधोपदेशाल्लभ्यते। तत्राद्यमभ्यस्तदेशसंयमस्य नैष्ठिकस्येप्यते । द्वितीयं तु तदभ्यासोन्मुखस्य । तदाह श्रीसोमदेवपण्डितःवधूवित्तस्त्रियो मुक्त्वा सर्वत्रान्यत्र तज्जने । माता स्वसा तनूजेति मतिब्रह्म गृहाश्रमे ॥ यस्तु-पंचुंबरसहियाई सत्त वि वसगाइ जो विवज्जेइ। सम्मत्तविसुद्धमई सो दसणसावओ भणिओ।। इति वसुनन्दिसैद्धान्तिमतन दर्शन. प्रतिमायां प्रतिपन्नस्तस्येदं । तन्मतेनैव व्रतप्रतिमां बिभ्रतो ब्रह्माणुव्रतं स्यात् तद्यथा-पव्वेसु इत्यिसेवा अणंगकीडा सया विवज्जेइ । थूळअड वंभयारी जिणेंहिं भणिदो पवयणम्हि ॥ यस्तु " सम्यग्दर्शनशुद्धः संसारशरीरभोगनिविष्णः । पञ्चगुरुचरणशरणो दर्शनिकस्तत्त्वपथगृह्य ” इति स्वामिमतेन दर्शनिको भवेत्तस्येदं ब्रम्हाणुव्रतमतिचारवर्जनार्थमेवात्रानृद्यते ॥ ५२ ॥ ___ अथ यद्यपि गृहस्थस्य प्रतिपन्नं व्रतमनुपालयतो न तादृशः पापबन्धोऽस्ति तथापि यतिधर्मानुरक्तत्वेन तत्प्राप्तेः प्राग्गार्हस्थ्येऽपि कामभोगविरक्तः सन् श्रावकधर्म प्रतिपालयति तं वैराग्यकाष्ठामुपनेतु सामान्येनाब्रह्मदोषानाह ----
सन्तापरूपो मोहाङ्गसादतृष्णानुबन्धकृत् ।
स्त्रीसम्भोगस्तथाऽप्येष सुखं चेत्का ज्वरेऽक्षमा ॥ ५३ ॥ टीका-भवति । कोऽसौ, स्त्रीसम्भोगः । कीदृशः, सन्तापरूपः स्त्रीसम्पकस्य पित्तप्रकोपहेतुत्वात्सन्तापयतीत सन्तापः सन्तापकरं रूपं यस्य स सन्तापरूपः ज्वरपक्षे तु सन्तपनं सन्तापः संज्वरः स एव रूपमस्येति विग्रहः। तथा चोक्तं सन्तापात्कोपजो ज्वर इति । पुनः कीदृशः, मोहेत्या दि-मोहो हिताहितविवेकविकलत्वं,अंगसादः शरीरनिःसहत्वं तृष्णानुबन्धः तर्षाविच्छेदः
Page #121
--------------------------------------------------------------------------
________________
चतुर्थोध्यायः ।
११७
I
पक्षे पिपासासातत्यं मोहश्चांगसादश्च तृष्णानुबन्धश्च मोहांगसाद तृष्णानुबंधास्तान् करोति । यद्यप्येवंविध एष तथाऽपि सुखं चेत् मन्यसे भो आत्मन् तदा काऽपि त्वया कार्या । काऽसौ, अक्षमा । क, ज्वरे ज्वरोप सुखं मन्तव्य इति भावः । तथा चोक्तमार्षे -- स्त्रीभोगो न सुखं चेतस्सम्मोहाद्गात्रसादनात् । तृष्णानुबन्धात्सन्तापरूपत्वाच्च यथा ज्वरः ॥ ५३ ॥ परदाररत सुखाभावमुपदिशति —
समरसरसरङ्गोद्गममृते च काचित्क्रिया न निर्वृतये ।
स कुतः स्यादनवस्थितचित्ततया गच्छतः परकलत्रम् ||५४ || टीका- न च भवति । काऽसौ क्रिया प्रवृत्तिः । किंविशिष्टा, काचित् आलिंगनचुम्बनादिका । कस्यै, निर्वृतये सुखार्थे । कथं, ऋते विना । कं, समरसरसरंगोद्गमं । समसमायोगं समानरतिमित्यर्थः । कुतः स्यान्न कुतश्चिवेदित्यर्थः । कोऽसौ समरसरसरंगोद्गम । कस्य पुंसः । किं कुर्वतो, गच्छतः सेवमानस्य । किं तत्, परकलत्रं । कया, अनवस्थितचित्ततया स्वपर जनशकात काकुलितमनस्कतया ॥ ५४ ॥
स्वदाररतस्यापि भावतो द्रव्यतश्च हिंसासम्भवं नियमयतिस्त्रियं भजन भजत्येव रागद्वेषौ हिनस्ति च ।
1
1
योनिजन्तून बहून् सूक्ष्मान् हिंस्रः स्वस्त्रीरतोऽप्यतः ॥ ५५ ॥ टीका - भवति । कोsसौ, नरः । किंविशिष्टः, हिंस्रः । भावद्रव्याभ्यां हिंसनशीलः । किंविशिष्टोऽपि स्वस्त्रीरतोऽपि स्वस्त्रियां रतं मैथुनं यस्य सोऽपि विशेषतस्तु परस्त्रीरतः । तत्र रागद्वेषयो बहुतरत्वसम्भवात्। कस्मात्, अत एतस्मात्कारणात् । यतो भजत्येव अवश्यमाश्रयति । कोऽसौ स्त्रियं भजन स्त्रियं सेवमानः पुमान् । कौ, रागद्वेषौ प्रीत्यप्रीती । तथा हिनस्ति हन्ति | कानू, योनि जन्तून् भगजीवान् । किंविशिष्टान् सूक्ष्मान् दुर्लक्ष्यान् । कति, बहून् प्रचुशन् । वात्स्यायनोऽपि योनौ जन्तूनिच्छति तथा च तद्ग्रन्थः" रक्तजाः कृमयः सूक्ष्मा मृदुमध्या दिशक्तयः । जन्मवर्त्मसु कण्डूतिं जनयन्ति तथाविधाम् " ।। ५५ ॥ ब्रह्मचर्यमहिमानमभिष्टौति-
"
Page #122
--------------------------------------------------------------------------
________________
११८
सागारधर्मः।
स्वस्त्रीमात्रेऽपि सन्तुष्टो नेच्छेद्योऽन्याः स्त्रियः सदा ।
सोऽप्यद्भुतप्रभावः स्यात् किं वयं वर्णिनः पुनः ॥ ५६ ।। टीका-यो नेच्छेत् नाभिलषेत् । काः, स्त्रियः नारीः। किंविशिष्टाः, अन्या: स्वस्त्रीतो व्यक्तिरिक्ताः । किंविशिष्टः सन्, सन्तुष्टः सन्तोषं गतः । केन, स्वस्त्रीमात्रेण निजनाथैव । स्यात् । कोऽसौ, सोऽपि स्वदारसन्तुष्टोऽपि । किंविशिष्टः, अद्भुतप्रभावो लोकविस्मयनीयमाहात्म्यः । किं वर्ण्य । किं माहात्म्यं स्तुत्य । कस्य, वर्णिनः सर्वस्त्री निवृत्तस्य । कथं, पुनः प्राग्वर्णितप्रायत्वा दित्यर्थः ॥ ५६ ॥ इदानीं स्वभर्तृमात्रसेवनव्रतायाः स्त्रिया बहुमान्यतां दृष्टान्तेन स्पष्टयति
रूपैश्वर्यकलावर्यमपि सीतेव रावणम् ।
परपूरुषमुज्झन्ती स्त्री सुरैरपि पूज्यते ॥ ५७ ॥ टीका-पूज्यते सक्रियते । काऽसौ, स्त्री । के, सुरैर्देवैः। किं पुनर्मनुष्या. दिभिरित्यपिशब्दार्थः । किं कुर्वती, उज्झन्ती तयन्ती। कं, परपूरुषं स्वभतुरन्यं पुरुषं । अत्र हेतौ शतृङ्, परपुरुषोज्झनेन सुरपूजाया अन्यत्वात् । किंविशिष्टमपि, रूपेत्यादि-रूपमाकारसौन्दर्य ऐश्वर्यं पूजार्थाज्ञाधिपत्यं कला गीतनृत्यादिका: रूयं चैश्वर्य च कलाश्च ताभिर्वर्यमुत्कुष्ट नसाधारणरूपादिमन्तमित्यर्थः । अपिर्विस्मये । केव कमित्याह-----सी तेव रावणं जानकी यथा लंकेश्वरम् ॥ ५७ ॥ ब्रह्माणुव्रतातिचारानाह---
इत्वरिकागमनं परविवाहकरण विटत्वमतिचाराः । ___ स्मरतीत्राभिनिवेशोऽनङ्गकोडा च पञ्च तुर्य यमे ।। ५८ ॥
टीका--इत्वरिकागमनादयः पञ्चा तिचारास्तुर्ययमे सार्वकालिकब्रह्मचर्या गुव्रते भवन्तीति सम्बन्धः । तत्रेत्वरिकागमनं अस्वामिका असती गणिकात्वेन पुंश्चलीत्वेन वा पुरुषानेति गच्छतीत्येवंशीला इत्वरी । तथा प्रतिपुरुषमेतीत्येवंशीलेति व्युत्पत्त्या वेश्यापीत्वरी । ततः कुत्सायां के इत्वरिका तस्यां गमनमासेवनं । इयं चात्र भावना-भाटिप्रदानान्नियतकालस्वीकारेण स्वक
Page #123
--------------------------------------------------------------------------
________________
चतुर्थोध्यायः ।
११९
लत्रीकृत्य वेश्यां वेत्वरिकां सेवमानस्य स्वबुद्धिकल्पनया स्वदारत्वेन व्रतसापेक्षचित्तत्वादल्पकालपरिग्रहाच्च न भंगो वस्तुतोऽस्वदारत्वाच्च भंग इति भंगाभंगरूपत्वादित्वरिकाया वेश्यात्वेनान्यस्यास्त्वनाथतयैव परदारत्वात् । किं चास्य भाट्यादिना परेण किञ्चित्कालं परिगृहीतां वेश्यां गच्छतो भंगः कथञ्चित्परदारस्वात्तस्या । लोके तु परदारत्वारूढेर्न भंग इति भंगाभंगरूपोऽ तिचारः । अन्ये स्वपरिगृहीतकुलांगनामप्यन्यदारवर्जिनोऽतिचारमाहुः । तत्कल्पनया परस्या भर्तुरभावेनापरदारत्वादभङ्गो लोके च परदारतया रूढे - भंग इति भङ्गाभङ्गरूपत्वात्तस्य । एतनत्वरिकापरिगृहीतापरिगृहीतागमनलक्षणमतिचारद्वयं तत्त्वार्थशास्त्रोद्दिष्टमपि संगृहीतं भवति । परविवाहकरणादयस्तु चत्वारो द्वयोरपि स्फुरन्तीति प्रथमोऽतिचारः ॥ १ ॥
परविवाहकरणं-स्वापत्यव्यतिरिक्तानां कन्याफललिप्सया स्नेहसम्बन्धादिना वा परिणयनविधानं । एतच्च स्वदारसन्तोषवता स्वकलत्रेतरदारवर्जकेन च स्वकलत्रवेझ्याभ्यामन्यत्र मनोराकार्यमथुनं न कार्य न च कारणीयमिति वतं यदा गृहीतं भवति तदाऽन्यविवाहकरणं मैथुनकरणमित्यर्थतः प्रतिषिद्धसेव च भवति । तद्रती तु मन्यते विवाह एवायं मया क्रियते न मैथुनं कार्यत इति व्रतसापेक्षत्वादतिचारः । कन्याफललिप्सा च सम्यग्दृष्टेरव्युत्पन्नावस्थायां सम्भवति । मिथ्यादृशस्तु भद्रकावस्थायामनुग्रहार्थं व्रतादाने सा सम्भवति । ननु परविवाहनवत् स्वापत्यविवाहनेऽपि समान एव दोष इति चेत् सत्यं । किं तर्हि यदि स्वकन्या विवाहो न कार्यते तदा स्वच्छन्दचा. रिणी स्यात् । ततश्च कुलसम्यलोकविरोध: स्यात । विहितविवाहात्तु पतिनियतस्त्रीत्वेन न तथा स्यात् । एष न्यायः पुत्रेऽपि विकल्पनीयः । यदि पुनः कुटुम्बचिन्ताकारकः कोऽपि स्वभ्रात्रादिभवेत्तदा स्वापत्यविवाहनेऽपि नियत एव श्रेयान् । यदा तु स्वदारसन्तुष्टो विशिष्टसन्तोषाभावात् अन्यत्कलत्रं परिणयति तदाऽप्यस्यायमतिचारः स्यात् । परस्य कलत्रान्तरस्य विवाहकरणमात्मना विवाहनमिति व्याख्यानादिति द्वितीयोऽतिचारः ॥ २ ॥
विटत्वं भण्डिमा तत्प्रधानवाक्प्रयोगः ॥ ३ ॥स्मरतीत्राभिनिवेशः कामे
Page #124
--------------------------------------------------------------------------
________________
१२०
सागारधर्मः।
तिमात्रमाग्रहः । परित्यक्तान्यसकलव्यापारस्य तद्व्यवसायितेत्यर्थः । यथा मुखकक्षोपस्थान्तरेष्ववितृप्ततया लिङ्गं प्रक्षिप्य महतीं वेलां निश्चलो मृत इवास्ते चटक इव चटकां मुहुर्मुहुः स्त्रियमारोहति । जातबलक्षयश्च वाजीकरणान्युपयुङ्क्ते । अनेन खल्वौषधादिप्रयोगेण गजप्रसेकी तुरगावमर्दी च पुरुषो भवतीति बुद्ध्या इति चतुर्थः ॥ ४ ॥ __ अनङ्गक्रीडा अङ्गं साधनं देहावयवो वा तच्चेह मैथुनापेक्षया योनिर्मेहनं चततोऽन्यत्र मुखादिप्रदेशे रतिः । यतश्च चर्मा दिमयैर्लिङ्गैः स्वलिङ्गन कृतार्थोऽपि स्त्रीणामवाच्यदेश पुनः पुनः कुद्राति । केशाकर्षणादिना वा क्रीडन् पबलरागमुत्तादयति साऽप्यनङ्गक्रीडोच्यते । इद च श्रावकोऽत्यन्तपापभीरुतया ब्रह्मचर्य चिकीर्षुरपि यदा वेदोदयासहिष्णुतया तत्कर्तुं न शक्नोति तदा याएनामात्रार्थ स्वदारसन्तोषादि प्रतिपद्यते । मैथुनमात्रेण च यापनायां सम्भवत्यां विटत्वादित्रयमर्थतः प्रतिषिद्धमेव । तत्प्रयोगे हि न कश्चिद्गुणः । प्रत्युत सद्योऽतिरागोद्दीपनं बलक्षयस्तात्कालिकी च्छिदा राजयक्ष्मादिरोगाश्च स्युः । तदुक्तं-ऐदम्पर्यमतो मुक्त्वा भोगानाहारवद्भजेत् ॥ देहदाहोपशान्त्यर्थमभिध्यानविहानये ॥ १ ॥ एवं प्रतिषिद्धाचरणाद्भङ्गो नियमाबाधनाच्चाभङ्ग इत्यतेऽपि विटत्वादयस्त्रयोऽतिचाराः। यद्वा स्वदारसन्तोषी मैथुनमेव मया वेश्यादौ प्रत्याख्यातमिति स्वकल्पनया तत्र तदेव वर्जयति न विटत्वादिकं । परदारविवर्जकोऽपि परदारेषु मैथुनमेव नाशिष्टवाक्प्रयोगालिङ्गनादीनीति तयोः कथश्चिद्रतसापेक्षत्वाद्विटत्वादयोऽतिचाराः । स्त्रियास्तु पूर्ववत्परविवाहकरणादयः। प्रथमस्तु यदा स्वकीयपतिरिकदिने सपत्न्या परिगृहीतो भवति तदा सप-- लीवारकं विलुप्य तं परिभुजानाया अतिचारोऽतिक्रमादिना च परपुरुषं ( इव ) स्वपति वा ब्रह्मचारिणमभिसरत्याः स्यात् ॥ ५८ ॥ अथ परिग्रहपरिमाणाणुव्रतं व्याचष्टे
ममेदमिति सकल्पश्चिदचिन्मिश्रवस्तुषु ।
ग्रन्थस्तत्कर्शनात्तेषां कर्शनं तत्प्रमावतम् ॥ ५९ ॥ टीका-भवति । कोऽसौ, ग्रन्थः परिग्रहः । किंलक्षणो, ममेदमिति सङ्कल्पः इदं चेतनमचेतन मिश्रं वा वस्तु मम सम्बन्धि मदीयं मत्स्वामिकमिति
Page #125
--------------------------------------------------------------------------
________________
चतुर्थोध्यायः ।
१२१
सङ्कल्पो मानसोध्यवसायो ममत्वपरिणामो मूर्च्छति यावत् । केषु, चिद्वस्तुषु कलत्रपुत्रादिषु, अचिद्वस्तुषु गृहसुवर्णादिषु । मिश्रवस्तुषु चेतनाचेतनेषु बहिः पुष्पवाटिकादिषु अन्ततश्च मिथ्यात्वादिषु । भवति । किं तत्, तत्प्रमात्रतं परिग्रहपरिमाणाख्यमणुव्रतं । किं कर्शनमल्पीकरणं । केषां तेषां चितामचितां चिदचितां च वस्तूनां । कस्मात् तत्कर्शनात् यथोक्तमूच्छीलक्षणपरिग्रहाल्पीकरणात् ॥ ५९ ॥
"
अन्तरङ्गसङ्गनिग्रहोपायमाह
उद्यत्क्रोधादिहास्यादिषट्क वेदत्रयात्मकम् ।
अन्तरङ्ग जयेत्सङ्ग प्रत्यनीकप्रयोगतः || ६० ।। टीका - जयेत् निगृह्णीयात् । कोऽसौ, पञ्चमाणुत्रतार्थी । के, सङ्ग ग्रन्थं । किंविशिष्ट, अन्तरङ्गे आध्यात्मिकं । किमात्मकं उद्यदित्यादि उद्यन्ति उच्चलन्ति विपच्यमानानि, उदितानां दुर्जयत्वात् क्रोधादयोऽनन्तानुबन्ध्यप्रत्याख्यानावरणवर्जिताः, तान्मिथ्यात्वसहितान्निगृह्यैव देशसंयमस्य प्रवृत्तत्वात् अष्टौ प्रत्याख्यानावरणसंज्वलनाख्या इह गृह्यन्ते, हास्यादिषट्कं हास्यरत्यरतिशोकभयजुगुप्साः, वेदाः स्त्रीपुन्नपुंसक वेदाः रागाख्यास्तेषां त्रयं वेदत्रयं, क्रोधादयश्च हास्यादिषट्कं च वेदत्रयं च क्रोधादिहास्यादिषट्कवेदत्रयाणि, उद्यन्ति च तानि क्रोधादिहास्यादिषट्कवेदत्रयाणि च तान्येव आत्मा स्वरूपं यस्यासौ तदात्मकस्तं । केन जयेत् प्रत्यनीकप्रयोगतः यथास्वमुत्तमक्षमा-दिभावनया ॥ ६० ॥
बहरङ्गसङ्गत्यागविधिमाह
"
अयोग्यासंयमस्या सङ्ग बाह्यमपि त्यजेत् ।
मूर्च्छाङ्गत्वादपि त्यक्तुमशक्यं कृशयेच्छनैः ।। ६१ ॥
1
टीका - त्यजेत् । कोऽसौ पश्चमाणुव्रती । कं, समं । किंविशिष्टं, बां वस्तुक्षेत्रादिकं । अन्तरङ्गसङ्गत्यागापेक्षयाऽपिशब्दः समुच्चये । किंविशिष्टम्, अङ्गं साधनं । कस्य अयोग्यासंयमस्य अयोग्यः श्रावकस्य कर्तुमनुचितोऽ संयमः स चेहानारम्भजस्त्रसवघो व्यर्थः स्थावरवधः परदारागमनादिश्व
Page #126
--------------------------------------------------------------------------
________________
१२२
सागारधर्मः ।
अयोग्यश्वासावसंयमश्वायोग्यासंयमस्तस्य । कुतो हेतोः, मूर्छाङ्गत्वात् मोहो. दयनिमित्तत्वात् । यस्त्वसौ त्यक्तुमशक्यस्तत्त्यागविधिमाह-कृशयेत् स्वल्पीकुर्यात् । कं, तं बाह्यसङ्गं । किंविशिष्टमपि, त्यक्तुमशक्यमपि अशक्यवर्जनमपि। कथं, शनैः मनाक् समयपरिपाट्या कालक्रमेण परिग्रह सज्ञाया अनादिसन्तत्या प्रवर्तमानत्वेन सहसा तत्त्यागस्य कर्तुमशक्यत्वात् कृतस्यापि तद्वापनावशाद्भङ्गसम्भावनाच्चैतदुच्यते ॥ ६१ ॥ एतदेव प्रपञ्चयन्नाह
देशसमयात्मजात्याद्यपेक्षयेच्छां नियम्य परिमायात ।
वास्त्वादिकमामरणात्परिमितमपि शक्तितः पुनः कृशयेत् ।६२ टीका-परिमायात् परिमितं कुर्यात् । किं तत्. वास्त्वादिकं वास्तुक्षेधनधान्यद्विपदचतुष्पदशयनासनयानकुप्यभाण्डलक्षणं दशभेदं बाह्यग्रन्थं । किं कृत्वा, नियम्य सन्तोषभावनया निगृह्म । कां, इच्छां परिग्रहे तृष्णां । कया, देशेत्यादि देशो वास्यमानो जनपदः, समयः कालः, आत्मा स्वात्मा, जातिः वणिक्त्वा दिः, देशश्च समयश्च आत्मा च जातिश्च ता आदयो येषां स्वान्वयवयःपदव्यादीनां ते देशाढयस्तेषामपेक्षया तानाश्रित्येत्यर्थः । कथं परिभायात्, आमरणात् मरणावधि यावज्जीवमित्यर्थः । तथा कृशयेच्छावकः । किं, तत्परिमितमपि वास्त्वा दिकं । कथ, पुनः । कस्मात् , शक्तितः नैस्सङ्गयभावनया समुत्पन्नां स्वशक्तिमपेक्ष्येत्यर्थः ॥ ६२ ॥ परिग्रह वक्रमणित्या दूषयन्नाह---
अविश्वासतमोनक्तं लोभानलघृताहुतिः।।
आरम्भमकराम्भोधिरहो श्रेयः परिग्रहः ।। ६३॥ टीका-अहो आश्चर्य । श्रेयः सेव्यः पुंसां कल्याण वा। कोऽसौ, परिग्रहः । किंविशिष्टः, अविश्वासतमोनक्तं अविश्वास एव तमो यान्तं दुःखहेतुत्वात् तत्र नक्तं रात्रिस्तद्धेतुत्वादिति अविश्वासतमोनक्तं। तथा लोभ एवानलोऽग्निश्चित्तसन्तापकत्वात् तत्र घृताहुतिः सर्पिःप्रक्षेपः प्रदीपकत्वादिति लोभानलघृताहुतिः । तथा आरम्भमकराम्भोधिः आरम्भाः कृष्यादयस्त एव मकरास्त्रासातकनिमित्तत्वात् तत्र अम्भोधिः समुद्रः उत्पत्तिनित्यप्रवृत्तिनिमि
Page #127
--------------------------------------------------------------------------
________________
चतुर्थोध्यायः ।
१२३
तत्वादित्यारम्भमकराम्भोधिः ॥ ६३ ।। पञ्चमाणुव्रता तिचारपञ्चकनिषेधविधिमाह
वास्तुक्षेत्रे योगाद्धनधान्ये बन्धनात्कनकरूप्ये ।
दानात्कुप्ये भावान गवादो गर्भतो मितिमतीयात् ।।६४।। टीका-नातीयान्नातिक्रमेत् । कोऽसौ, परिग्रहपरिमाणाणुव्रती। का, मिति व्रतविषयीकृतं परिमाण : कवास्तुक्षेत्रे वास्तुनि च क्षेत्रे च । कस्मात् योगात् वास्त्वन्तरसंयोजन क्षेत्रान्तरसंयोजन चाश्रित्य । तथा धनधान्ये धने च धान्ये च न मितिमतीयात् । कस्मात्, बन्धनात् बन्धनं रज्ज्वादिनिय. न्त्रणं सत्यङ्कारदानादि चाश्रित्य । तथा कनकरूप्ये सुवर्णे च रूप्ये च न मितिमतीयात् । कस्मात, दानात्, दानमा श्रित्य । तथा कुप्ये सुवर्णरूप्याभ्यामन्यत्र कांस्यरथा दिद्रव्ये न मितिमतीयात् । कस्मात भावात् भावं परिणामा न्तरं अभिप्राय वाश्रित्य । तथा गवादौ गोमहिषीबडवादिचतुष्पदपत्तिशुकादिद्विपदवर्गे न मितिमतीयात् । कस्मात्, गर्भतो गर्भमाश्रित्येति समन्वयः। ___ इतस्तदर्थो विस्तरतः कथ्यते - तत्र वास्तु गृहा दि ग्रामनगरादि च । तत्र गृहादि त्रेधा खातोच्छ्तितदुभयभेदात् । तत्र खातं भूमिगृहादिकं उच्छ्रित प्रासादादिकं, खातोच्छ्रितं च भूमिगृहोपरिगृहादिसन्निवेशः । क्षेत्रं सस्योत्पत्तिभूमिः । तत् त्रेधा सेतुकेतूभयभेदात् । तत्र सेतुक्षेत्रं यदरघट्टादिजलेन सिच्यते । केतुक्षेत्रं आकाशोदकपातान्निप्पा द्यस्य । उभयमुभयजलनिप्पाद्यसस्य । वास्तु च क्षेत्रं च वास्तुक्षेत्रमिति समाहारनिर्देशोऽत्रोत्तरत्र च बाह्यग्रन्थस्य पञ्चविधत्वकल्पनयाऽतीचारपञ्चकस्य सुखप्रयोजनार्थ । तत्र वास्तुक्षेत्रे योगाद्भित्तिवृत्याद्यानयेन वास्तुक्षेत्रान्तरमीलनान्तरमाश्रित्य परिमितपरिग्रहः श्रावको न मितिमतीयात् देवगुरुसाक्षिकवतग्रहणकाले यावज्जीवं. चतुर्मासादिकालावधि वा प्रतिपन्नां संख्यां नातिक्रमेत् । वास्त्वादिकमेव मया विपुली क्रियते न प्रतिपन्ना तत्संख्यातिक्रम्यत इति बुद्धया तद्विषयं वा हस्तादिपरिमाणं सहसाकारादिना नातिक्रमेत् । अन्यथा वास्तुक्षेत्रप्रमातिक्रमो नाम प्रथमोतिचारः स्यात् व्रतसापेक्षस्यैव स्वबुद्ध्या व्रतभङ्गमकुर्वतो
Page #128
--------------------------------------------------------------------------
________________
१२४
सागारधर्मः ।
तिचारत्वव्यवस्थापनात् ॥ १ ॥
धनं गणिमादिभेदात् चतुर्विधं । तत्र गणिमं पूगफलजातिफलादि । धरिमं कुंकुमकर्पूरादि । मेयं स्नेहलवणादि । परीक्ष्य रत्नवस्त्रादि । धान्य व्रीह्यादिभेदात्पञ्चदशधा । उक्तं च-व्रीहियेवो मसूरो गोधूमो मुद्माषतिलचणकाः अणवः प्रियंगुकोद्रवमयुष्टिकाशालिराढक्यः ॥ १ ॥
किं च कलायकुलित्थौ पञ्चदशधान्यानीति च । धनं च धान्यं च धनधान्यं । तत्र स्वगृहगतधनादेर्विक्रये व्यये वा कृते गृहिष्यामीति भावनया बन्धनात् रज्ज्वादिनियन्त्रणलक्षणात् सत्यङ्कारदानादिरूपाद्वा स्वीकृत्य धनधान्यं विक्रेतृगृहे एव स्थापयन्न मितिमतीयात् । अन्यथा द्वितीयोतिचारः स्यात् ॥ २!!
कनकं सुवर्ण घटितमघटित वाऽनेकप्रकारमेवं रूप्यमपि, कनकं च रूप्यं तत्र । दानात् स्वव्रतकालावधौ पूर्णे गृहिप्यामीति अभिप्रायेण तुष्टराजादितः स्वप्रतिपन्नसंख्यां ततोधिके लधेन्यस्मै वितरणान्न मितिमतीयात् अन्यथा तृतीयोतिचारः स्यात् ॥ ३ ॥
कुप्ये रूप्यसुवर्णव्यतिरिक्त कांस्यलोहताम्रसीसकत्रपुमद्भाण्डवंशविकारो दङ्किकाकाष्ठमञ्चकमञ्चिकामसूरकरथशकटहलप्रभृतिद्रव्ये-भावात् द्वयोर्द्वयोर्मेलनेनैकीकरणरूपात् पर्यायान्तराद्रतावधौ पूर्णे गृहिष्यामीति अन्यप्रदेयतया व्यवस्थापनेनार्थित्वरूपाभिप्रायाद्वा न मितिमतीयादन्यथा चतुर्थोतिचारः स्यात् । कुप्यस्य हि या संख्या कृता तस्याः कथञ्चित् द्विगुणत्वे सति व्रतभङ्गभयात् भावतो द्वयोर्द्वयोर्मीलनेनैकीकरणरूपात्पर्यायान्तरात्स्वाभाविक संख्याबाधनात् संख्यामात्रपूरणाच्चातीचारः । अथवा भावतोऽभिप्रायादर्थि त्वलक्षणाद्विवक्षितकालावधेः परतो गृहिप्याम्यतो नान्यस्मै प्रदेयतया व्यवस्थापयतोसौ स्यात् ॥ ४ ॥
गवादौ गौरादिर्यस्य द्विपदचतुष्पदवर्गस्यासौ गवादिः । आदिशब्देन हास्त्यश्वमहिष्यादिचतुष्पदानां शुकसारिकादिद्विपदानां पत्न्युपरुद्धदासपदात्यादीनां संग्रहः । तत्र गर्भतो न मितिमतीयात् । गवादीनां गर्भग्रहणादु
Page #129
--------------------------------------------------------------------------
________________
चतुर्थोध्यायः ।
१२५
पलक्षणादन्येषां यथास्वमनाभोगादिनातिक्रमादिना वा संख्यां नातिक्रमेत् । गोमहिषोवडवादेर्हि विवक्षित संवत्सराद्यवधिमध्ये एव प्रसवे अधिकगवादिभावाहूतभङ्गः स्यादिति तद्भूयात्कियत्यपि काले गते गर्भग्रहणाद्गर्भस्थगवादिभावेन बहिस्तदभावेन च कथञ्चिद् व्रतभङ्गात्पञ्चमोतिचारः स्यात् ॥ ५ ॥
एते च क्षेत्रवास्तुहिरण्यरूप्यधनधान्यदासीदासकुप्यप्रमाणातिक्रमा इति तत्त्वार्थमतेन पञ्चातिचाराः प्रपञ्चिताः । स्वामिमतेन त्विमे - अतिवाहनातिसंग्रह विस्मयलोभातिभारवहनानि । परिमितपरिग्रहस्य च विक्षेपाः पञ्च लक्ष्यन्ते ॥ १ ॥ अत्रातिवाहनं लोभावेश्वशात् वृषभादीनां शक्त्यतिक्रमेण हटान्मार्गे नयनं । अतिसंग्रहः इदं धान्यादिकमये विशिष्टं लाभं दास्यतीति लोभावेशादतिशयेन संग्रहणं । अतिविस्मयो धान्यादौ प्रपन्नलाभेन विक्रीत मूलतोऽप्यसंगृहीते वा तत्क्रयाणकेनाधिकेऽवें लब्धे लोभावेशादतिविषादः । अतिलोभो विशिष्ट लब्धेऽपि अधिकलाभाकांक्षा । अतिभारवहन लोभावेशादधिकभारारोपण || सोमदेवपण्डितस्त्विदमाह --- कृतप्रमाणाल्लोभेन धनाद्यधिकसंग्रहः ॥ पञ्चमाणुत्रतज्यानिं करोति गृहमेधिनाम् ॥ १॥ तचैतच परेऽप्ययास्तदत्यया इत्यनेन संगृहीतम् ॥ ६४ ॥
एवं निर्मलीकृतपरिग्रहव्रतपालकस्य फलं दृष्टान्तेन स्फुटयन्नाह - यः परिग्रहसंख्यानत्रतं पालयतेऽमलम् । जयवज्जित लोभोऽसौ पूजातिशयमश्रुते ॥ ६५ ॥
टीका - यः पालयते रक्षयति । किं तत्, परिग्रहसंख्यानत्रतं । कथं कृत्वा, अमलं यथोक्ता तिचाररहितं । असौ श्रावकः पूजातिशयं शक्रादिकृतामर्चनामश्नुते लभते । किंविशिष्टः यतो जितलोभः जितलोभत्वादित्यर्थः । किंवत्, जयवत् मेघेश्वराख्यकुरुराजो यथा ॥ ६५ ॥
1
★
इत्थं निरतिचाराणुव्रतपरिणत्यनुपालनाय निर्मलशीलसप्तकपालनायामुषासकमुत्थापयितुं तदनुभावमाह —
पञ्चाप्येवमणुव्रतानि समतापीयूषपानोन्मुखे सामान्येतरभावनाभिरमलीकृत्यार्पितान्यात्मनि ।
Page #130
--------------------------------------------------------------------------
________________
१२६
सागारधर्मः । त्रातु निर्मलशीलसप्तकमिदं ये पालयन्त्यादरात
ते सन्यासविधिप्रमुक्ततनवः सौर्वीः श्रियो भुंजते ॥ ६६ ॥ टीका--भुञ्जते अनुभवन्ति । के, ते निर्मलाणुव्रतशीलपालिनो भव्याः । काः, श्रियः सम्पदः । किंविशिष्टाः, सौर्वीः स्वर्भवाः यथास्वं सौधर्माद्यच्युलान्तकल्पसम्बन्धिनीः । किंविशिष्टाः सन्तः, सन्न्यासेत्यादि सन्न्यासविधिना सप्तदशाध्यायोक्तेन प्रकर्वेण सकलसङ्घसमक्षतालक्षणेन मुक्ता त्यक्ता तनुः शरीरं यैस्ते तथोक्ताः । सति साधने निस्तरणमणि तिरियं । ये के, ये पालयन्ति । किं तत् , इदमनन्तराध्याये वक्ष्यमाण। निर्मलशीलसप्तकं । कस्मात आदरात् तत्परतया । किं कर्तु, त्रातुं पालयितुं । निर्वहणार्थमिदं । कानि, अणुव्रतानि, । कति, पञ्च अपिशब्दादेक द्वे त्रीणि चत्वारि वा। कथं, एवं उक्तप्रकारेण । किं विशिष्टानि सन्ति, अर्पितानि परिणमितानि । क, आत्मनि अन्तस्तत्त्वे । उद्यपनप्रकाशनेयं । किंविशिष्ट, समतापीयूषपानोन्मुखे साम्यामृतपानाद्यभिमुखे । किं कृत्वा, अमलीकृत्य तत्तदतीचारेभ्यः प्रच्याव्य । उद्द्योतनोक्तिरियं । काभिः, सामान्येतरभावनाभिः सामान्यभावनाभिर्मेध्यादिभिर्विशेषभावनाभिः प्रतिव्रतं पञ्चशो नियमिताभिर्महाव्रताधिकारोक्ताभिरिति भद्रम् ॥ ६६ ॥
इत्याशाधरविरचितायां स्वोपज्ञधर्मामृतसागारधर्मदीपिकायां भव्यकुमुदचन्द्रिकासञ्ज्ञायामादित एकादशः प्रक्रमाच्च चतुथाऽध्यायः समाप्तः ॥ ४ ॥
अथ पञ्चमोऽध्यायः अथ शीलसप्तकं व्याकर्तुकामस्तद्विकल्पभूतानि गुणव्रतानि तावल्लक्षयति -
यद्गुणायोपकारायाणुव्रतानां व्रतानि तत् ।
गुणव्रतानि त्रीण्याहुर्दिग्विरत्यादिकान्यपि ॥ १॥ टीका-तत्तस्नादाहुब्रुवन्ति । स्वामिमतानुसारिणः । कानि, गुणव्रतानि । कति, त्रीणि। कानि, दिग्विरत्यादिकानि दिग्विातिमनर्थदण्डविरतिं भोगोप. भोगपरिमाणं । अपिशब्दः सितपटोक्तखरकर्मज्ञापनार्थः । यद्यस्मात् भवन्त्य-.
Page #131
--------------------------------------------------------------------------
________________
पंचमोध्यायः ।
१२७
मूनि व्रतानि । कस्मै, गुणाय । कोऽर्थः उपकाराय । केषाम्, अणुव्रतानाम् ॥ १॥
4
किं तद्दिग्नतमित्याह - यत्प्रसिद्धैरभिज्ञानैः कृत्वा दिक्षु दशस्वपि । नात्येत्यणुव्रती सीमां तत्स्यादिग्विरतिर्व्रतम् ॥ २ ॥ टीका - स्यात् । किं तत् गुणत्रतमित्यर्थः नामैकदेशो हि शब्दो नान्यपि वर्ततं भीमादिवत् । किं नाम, दिग्विरतिः दिक्षु विरतिर्नियमितसीम्नो बहिर्यातायात निवृत्तिः ! यत्किं यन्नात्येति नातिक्रम्य गच्छति । कोऽसौ, अणुव्रती न तु महात्रती तस्य सर्वारम्भपरिग्रहविरतत्वेन समिति परत्वेन च नृलोके यथाकामं सञ्चाराद्दिग्विरत्यनुपपत्तेः । कां नात्यति, सीमां मर्यादां । किं कृत्वा, प्रतिपद्य। कां, सीमां । कासु, दिक्षु । कतिषु, दशसु । अपिशब्दादेक द्वित्र्यादिष्वपि यावज्जीवमल्पकालं चापि । कैः, अभिज्ञानैः समुद्रनद्यादिभिश्चिन्हैः । किंविशिष्टैः, प्रसिद्धैः दिग्विरतिमर्यादाया दातुर्ग्रहीतुश्च प्रतीतैः ॥ २ ॥ दिनाणुत्र तिनोऽपि महात्र तित्वमुपपादयति
1
:
दिग्विरत्या वहिः सीम्नः सर्वपापनिवर्तनात् । तप्तायोगोलकल्पोऽपि जायते यतिवद् गृही ॥ ३ ॥ टीका-जायते भवति । गृही । किंवत्, यतिवत् महाव्रती यथा । कस्मात् सर्वपापनिवर्तनात् सर्वपापानि स्थूलेतर हिंसादीनि भोगोपभोगादीनि च तेभ्यो निवर्तनात विरमणात तेषां निवारणाद्वा । क्क, बहिः परतः । कस्याः, सीम्नः प्रतिपन्नमर्यादायाः । कया, दिग्विरत्या दिग्विरतिगुणत्रतेन । किंविशिष्टोपि गृही, तप्तायोगोलकल्पोऽपि सन्तप्तलोह पिण्ड इव आरम्भपरिग्रहपरत्वेन सर्वत्र गमनभोजनशयनादि क्रियासु जीवोपमर्दकरत्वात् ॥ ३ ॥
एतदेव दृढयन्नाहदिग्वतोद्रिक्तवृत्तघ्नकषायोदय मान्द्यतः ।
महात्रतायते ऽलक्ष्यमोहे गेहिन्यत्रतम् ॥ ४ ॥
टीका - महाव्रतायते महाव्रतमिवाचरति नियमित दिग्विभागाद्बहिः सर्व-सावद्यनिवर्तकत्वात्, न तु महात्रतं भवति तत्प्रतिबन्धकोदयसद्भावात् । किं तत्, अणुव्रतं । क्क, गेहिनि गृहस्थे । किंविशिष्ट, अलक्ष्यमोहे निश्चतुमशक्यभावे
Page #132
--------------------------------------------------------------------------
________________
१२८
सागारधर्मः।
प्रत्याख्यानावरणाख्यचारित्रमोहपरिणामे । कस्मात् , दिव्रतेत्यादि दिव्रतेनो. द्रिक्तमुत्कर्ष नीतं व्रतघ्नकषायाणां प्रत्याख्यानावरणाख्यद्रव्यकोधादीनामुदयस्य विपाकस्य मान्धमनौत्कट्यं यत्तस्मात् दिग्विरतिमन्दतरीकृतप्रत्याख्यानावरणविपाकादित्यर्थः ॥ ४ ॥ दिग्विरत्यतिचारानाह
सीमविस्मृतिरूवा॑धस्तिर्यग्भागव्यतिक्रमाः।
अज्ञानतः प्रमादाद्वा क्षेत्रवृद्धिश्च तन्मलाः ॥ ५ ॥ टीका-भवन्ति । के ते, तन्मला: दिखतातिचारा: । कति, पञ्च । कथं, सीमविस्मृतिरूवभागव्यतिक्रमोऽधोभागव्यतिक्रमस्तियग्भागव्यतिक्रमः क्षेत्रवृद्धिश्चेति । कस्मात् , अज्ञानतः प्रमादाद्वेति सक्षपः । इतो विस्तरः-तत्र सीमविस्मृतिः-नियमितमर्यादाया अज्ञानतो मत्यपाटवसन्देहादिना प्रमादाद्वाऽतिव्याकुलत्वान्यमनस्कत्वादिना स्मृतिभ्रंशः । तथाहि-केनचित्पूर्वस्यां दिशि योजनशतरूप परिमाणं कृतमासीत् । गमनकालेच स्पष्टतया न स्मरति किं शतपरिमाणं कृतमुत पञ्चाशत् तस्य चैवं पञ्चाशतमतिकामतोऽतिचारः शतमतिक्रामतो भङ्गः सापेक्षत्वनिरपेक्षत्वाच्चेति प्रथमोऽतिचारः । ऊर्श्वेत्यादि ऊर्ध्व गिरितरुशिखरादेः, अधो ग्रामभूमिगृहकूपादेः, तिर्यपूर्वादिदिक्षु येऽमी भागा नियमितप्रदेशास्तेषां व्यतिक्रमा लङ्घनानि । एते च त्रयोऽनाभोगातिक्रमादिभिरेवातिचारा भवन्ति। अन्यथा प्रवृत्तौ तु भङ्ग एव।क्षेत्रवृद्धिःक्षेत्रस्य पूर्वादिदेशस्य दिग्विरतिविषयस्य हस्वस्य सतो वृद्धिः पश्चिमादिक्षेत्रान्तरपरिमाणप्रक्षेपेण दीर्धीकरणं । तथाहि-केनचित्पूर्वापरदिशोः प्रत्येक योजनशंत परिमाणीकृत्यैकत्र क्षेत्रं गमनकाले वर्द्धयतो व्रतसापेक्षत्वादतिचारः। यदि चाप्रणिधानात् क्षेत्रपरिमाणमतिक्रान्तं भवति तदा निवर्तितव्यं ज्ञाते वा न गन्तव्यमन्योऽपि न विसर्जनीयः । अथाज्ञतया कोऽपि गतः स्यात्तदा यत्तेन लब्धं तत्त्याज्यमिति पञ्चमः ॥ ५ .. अथानर्थदण्डव्रतं लक्षयति-- पीडा पापोपदेशाद्यैदेहाद्यर्थाद्विनाङ्गिनाम् । अनर्थदण्डस्तत्त्यागोऽनर्थदण्डव्रतं मतम् ॥ ६ ॥
Page #133
--------------------------------------------------------------------------
________________
पंचमोध्यायः।
१२९
टीका-मतं सम्मतं सुरीणां । किं तत् , अनर्थदण्डव्रतं । किं तत्, तत्त्यागस्तम्यानर्थदण्डस्य वर्जन । य. किं, योऽनर्थदण्डः । किं, पीडा पीडनं । केषां, अङ्गिनां त्रसस्थाव जीवानां । कैः, पापोपदेशाद्यः पापोपदेशहिंसादानदुःश्रुत्यपध्यानप्रमादचर्याख्यापारैः । कथं, विना। कस्मात्, देहाद्यर्थात् स्वस्य स्वकीयजनानां वा शरीरवाङ्मनःप्रयोजनात् ॥ ६ ॥ पापापदेशम्वरूपं तद्विरतिं चाह
पापोपदेशो यद्वाक्यं हिंसाकृष्यादिसंश्रयम् ।
तर्ज विभ्यो न तं दद्यान्नापि गोष्ठयां प्रसञ्जयेत् ।। ७ ।। टका-भवति । कोऽसौ, स पापोपदेशः ! यत्किं, यद्वाक्य । किवि शष्टं, हिंसाकृष्यादिसंश्रयं । हिंसा मृषावादादिभिः कृषिवाणिज्यादिभिश्च संश्रयः सम्बन्धो यस्य तत्तथोक्तं तद्विषयमित्यर्थः । हिंसाद्यारम्भति पाठे तु हिंसादिधाना आरम्भा उपक्रमा इति व्याख्येयं । न दद्यात मृगास्तोयाशयमायाताः किमुपविष्टास्तिष्ठतेत्यादिरूपेण न सम्पादयेत् । कोऽसौ, अनर्थदण्डवतार्थी । कं, तं पापोपदेशं । केभ्यः, तज्जीविभ्यः व्याधवञ्चकचोरादिभ्यः कृषीवलकिरातादिभ्यश्च । नापि प्रसञ्जयेत् पुनः पुनः प्रवर्तयेत् कथान्तरसम्बन्धे वा नावतारयेत् । कं, तं । कस्यां, गोष्ठ्यां सङ्कथायाम् ॥७॥ हिंसोपकरणदानपरिहारमाह
हिंसादानं विषास्त्रादिहिंसाङ्गस्पर्शनं त्यजेत् ।
पाकाद्यर्थं च नाग्न्यादि दाक्षिण्याविषयेऽपयेत् ॥ ८ ॥ टीका त्यजेन्न कुर्यादनर्थदण्डव्रतार्थी । किं तत् , हिंसोपकरणानां दानं हिंसादानं । मयूरव्यंसकत्वात्समासः । तदेव व्याचष्ट विषास्त्रेत्यादिना विषास्वादीनां गरलपहरणहलशक टकुशिकुद्दाल दीनां हिंसांगानां प्राणिवधसाधनानां स्पर्शनं दानं विषास्त्रादिहिंसागस्पर्शनं । न चार्पयेत् नापि ढौकयेदसौ।
Page #134
--------------------------------------------------------------------------
________________
१३०
सागारधमः।
किं तत् , अग्न्यादि वन्हिघरट्टमुसलोलूखलादि। किमर्थ, पाकाद्यर्थ पचनपेषणकुट्टनादिनिमित्तं । क्क, दाक्षिण्याविषये परम्परव्यवहारविषयादन्यत्र ।।८। दुःश्रुत्यपध्यानयोः स्वरूपं परिहारं चाहचिसकालुष्यकृकामहिंसाद्यर्थश्रुतश्रुतिम् ।।
न दुःश्रुतिमपध्यानं नातरौद्रात्म चान्वियात् ॥ ९॥ टीका-नान्वियात् नानुवर्तयेत् प्रसङ्गवशादायातमपि तत्क्षणान्निवर्तयेदित्यर्थः । कोऽसौ, अनर्थदण्डव्रतार्थी । कां, दुःश्रुतिं । कीदृशी, चित्तेत्यादि। कामश्च मन्मथो हिंसा च प्राणातिपातः कामर्हिसे ते आदी येषां आरम्भादीनां ते कामहिंसादयोऽर्था अभिधेया येषां तानि कामहिंसाद्यर्थानि तानि श्रुतानि शास्त्राणि । तत्र कामशास्त्रं वात्स्यायनादि। हिंसाशास्त्रं लटका दिमतं। आरम्भपरिग्रहशास्त्रं वार्तानीतिः । साहसशास्त्रं वीरकथा। मिथ्यात्वशास्त्रं ब्रह्माद्वैतादि मतं । मदशास्त्रं वर्णानां ब्राह्मणो गुरुरित्या दिग्रन्थः । रागशास्त्रं वशीकरणादितन्त्रं । तेषां श्रुतिगकर्णनं उपलक्षणादर्जनाद्यपि । चित्तस्य मनसः कालुप्यं रागद्वेषाद्यावेशश्चित्तकालुष्य तत्करोतीति चित्तकालुष्यकृत् । सा चासौ कामहिंसाद्यर्थश्रुतश्रुतिश्च ताम् । न चान्वियादसौ । किं तत्, अपध्यानं अपकृष्टं ध्यानमेकाग्रचिंतानिरोधं । किंरूपं, आर्तरौद्रात्म आर्त ऋते दुःखे भवं। यदि वा अतिः पीडा यातना च तत्र भवं । रौद्र रोधयति अपरानिति रुद्रो दुःखहेतुस्तेन कृतं तस्य वा कर्म। आर्त च रौद्रं च आतरौद्रे ते आत्मानौ स्वभावौ यस्य तदातरौद्रात्म आतेरौद्रविकल्पमित्यर्थः । न दुःश्रुतिमपध्यानमार्तरौद्रात्म चान्वियादिति पाठे तु-दुःश्रुति कामादिशास्त्रश्रवणलक्षणां, अपध्यानं च नरेन्द्रत्वखचरत्वाप्सरोविद्याधरीपरिभोगादिविषय, आर्त वैरिघाताग्निघातादिविषयं, रौद्रं वा नान्वियादिति व्याख्येयम् ॥ ९॥
प्रमादचर्यालक्षणं तत्त्यागं च श्लोकद्वयेनाह- .
Page #135
--------------------------------------------------------------------------
________________
पंचमोध्यायः ।
प्रमादचर्या विफलं क्ष्मानिलाग्न्यम्बुभूरुहाम्।
खातव्याघातविध्यापसेकच्छेदादि नाचरेत् ॥ १० ॥ टीका-नाचरेत् न कुर्यादनर्थदण्डविरतः । कां, प्रमादचों। किंरूपां, विफल मियादि । विफलं निष्प्रयोजनं श्मादीनां खातादि विफले भूखननादिलक्षणमित्यर्थः । तत्र माया भूमेः खातं खननं विफलं नाचरेत् । अनिलस्य वातस्य व्याघात स्वयमागच्छतः कवाटा दिना प्रतिबन्ध विफलं नाचरेत् । अग्नेविध्यापं जला दिना वि-यापनं विफलं नाचरेत् । अम्बुनो जलस्य सेक सेचन भूम्यादौ प्रक्षेपं विफलं नाचरेत् । भूरुहां वनस्पतीनां छेदादि छेदनपत्रपुष्पफलत्रोटनादि विफलं नाचरेत् ॥ १० ॥
तद्वच्च न सरेद्वयर्थ न परं सारयेन्महीम् ।
जीवनजीवान स्वीकुर्यान्मार्जारशुनकादिकान् ॥ ११ ॥ टीका-न संरकरचरणा दव्यापारं न कुर्यात् । किंविशिष्टं, व्यर्थ निष्प्रयोजनं । किंवत्, तद्वच्च माखननादिवदेवं तथा न सारयेत् करचरणादिव्यापारं न कारयेत् । कं, परं भृत्यादिक । कथे, व्यर्थ वृथा। न स्वीकुर्यात् न परिगृह्णीयात् । कान्, जीवनजीवान् प्राणिघातकपाणिनः । किंविशिष्टान्, मार्जारशुनकादिकान् बिडालमण्डलनकुलकुक्कुटप्रभृतीन् । कथं, नियमेन फलवतोऽपि नात्मसात्कुर्यादित्यर्थः ॥ ११ ॥ अनर्थदंडवतातिचारपरिहारमाहमुश्चेत्कन्दपकौत्कुच्यमौखर्याणि तदत्ययान् ।
असमीक्ष्याधिकरण सेव्यार्थाधिकतामपि ॥ १२ ॥ टीका-मुञ्चेद्वर्जयेदनर्थदण्डविरतः । कान् , तदत्ययान् तद्वतातिचारान् किंविशिष्टान् , कन्दर्पादीन पञ्च । तत्र कन्दर्पः कामस्तद्धेतुस्तत्प्रधानो वाक्प्रयोगोऽपि कन्दर्पो रागोद्रेकात्प्रहासमिश्रोऽशिष्टवाक्प्रयोग इत्यर्थः । कौत्कुच्य कुदिति कुत्सायां निपातो निपातानामानन्त्यात् । कुतः, कुत्सित कुचति भून
Page #136
--------------------------------------------------------------------------
________________
१३२
सागारधर्मः ।
यनौष्ठनासाकरचरणमुखविकारः संकुचतीनि कुत्कुचः सङ्कोचादिक्रियाभाक् तद्भावः कौत्कुच्यं । प्रहासो भण्डिमवचनं च भण्डिमोपेतकायन्यापारप्रयुक्तमित्यर्थः । एष पूर्वश्च द्वावपि प्रमादचर्याविरतेरतिचारौ। मौखर्य मुखमस्यास्तीति मुखरोऽनालोचितभाषी वाचाटस्तस्य भावो धाष्टर्यप्रायमसत्यासंबद्धबहुपलापित्वं । अयं च पापो देशविरतेरतीचारो मौखर्ये सति पापोपदेशसम्भवादिति तृतीयः । असमीक्ष्याधिकरण प्रयोजनमनालोच्य कार्यम्याधिक्येन करणं । यथा बहुमपि कटमानयत, यावता मे प्रयोजनं तावदहं ऋष्यामि शेषमन्ये बहवोऽर्थिनः सन्ति तेऽपि ऋष्यन्ति अहं विक्राययिष्यामीत्येवम. नालोच्य ब्रह्वरम्भतृणाजीविभिः कारयति । एवं काष्ठच्छेदृष्ट कापाकादिष्यपि वाच्यं । तथाहि स्वोपकरण हिंसोपकरणान्तरेण संयुक्तं धारयति यथा संयुक्तमुलुखलेन मुसलं हलेन फलं शकटेन युगं धनुषा शरान इत्यादि । त्था सति यः कश्चित् संयुक्तमुलखलमुसलादिकमाददीत । वियुक्ते तु तस्मिन् सुखेन परः प्रतिषेद्धं शक्यते । एतद्धिमोरकारिदानविरतेरतीचारः । सेव्यार्थाधिकतां सेव्यस्य भोगोपभोगलक्षणस्य जनको यावानर्थस्ततोऽधिकस्य त्स्य करण भोगोपभोगानर्थक्य मत्यर्थः । अत्राय सम्प्रदायः यदि बहूनि स्नानसाधनानि तैलखल्यामलकादीनि गृह्णाति तदा लौल्येन बहवः स्नानार्थ तडागादौ गच्छन्ति । ततश्च वायुकायाप्कायिकादिवघोऽधिकः स्यात् । न चैवं युज्यते ततो गृह एव स्नातव्यं । तदपम्भवे तु तलादिभिर्गृह एव शिगे घर्षयित्वा तानि सर्वाणि सायित्वा तडागादितटे निविष्टो गालितजलेनाञ्जलिभिः स्नायात् । तथा येषु पुष्पादिषु संसत्तिः सम्भवति तानि परिहरेदिति सर्वत्र वक्तव्यमिति षष्ठोऽपि प्रमादविरतेतीचारः ॥ १२॥ .. .: अथं भोगोभोगपरिमाणास ततीयगुणवतस्वीकरणविधिमाह
भोगोऽयमियान् सेव्यः समयमियन्तं मयोपभोगाऽपि । इति परिमायानिच्छस्तावधिको तत्प्रमावतं श्रयतु ।। १३ ।।
Page #137
--------------------------------------------------------------------------
________________
पंचमोध्यायः ।
१३३ ___टीका-श्रयतु स्वीकरोतु। कोऽसौ, गुणवत्ती । किं तत्, तत्प्रमाव्रतं तयो भौगोपभोगयोः प्रमा परिमाणं तत्त्रमा तत्प्रमैव व्रतं तत्र वा व्रतं तत्प्रमावत भोगोपभोगपरिमाणव्रतमित्यर्थः । किं कुर्वन, अनेच्छन् अनाकांक्षन् । को,तो भोगोपभोगौ। किविशिष्टौ, अधिकौ सेव्यासेव्यतया प्रतिज्ञाताभ्यामतिरित्तौ। किं कृत्वा, परिमाय परिमितीकृत्य । कथं, इति, किमिति, भोग इत्यादि । अत्रैक प्रतिषेधमुखेन वाक्यमन्यच्च विधिमुखेन, तत्राचं भ.गोऽयं समयमियन्तं न सेव्य इति । द्वितीयं भोगोऽयमियान्वा समयमियन्तं सेव्य इति । तत्राद्य व्याख्यायते- न सेव्यो नोपयोत्त.व्यः। कोऽसावयं भोग्यतया प्रसिद्धो भोगो माल्यताम्बूलादिः । केन, मया । कं, समयं कालं। कियन्तम् , इयन्तं एतावन्मानं यावजीवं दिवसमासादिपरिच्छिन्नं वा कालमित्यर्थः। द्वितीयव्याख्या त्वियं । वा अथवा । सेव्यः। कोऽसौ, अयं भोगः । केन, मया।कियान्, इयान् एतावान् । कं, समयं । किंविशिष्टं, इयन्तं। तथा उपभोगोऽयं समयमियन्तं न से यो मये येकं उपभोगोऽयमियान्वा समयमियन्तं मया सेव्य इति द्वितीयं । एतयोरपि पूर्ववव्याख्या ॥ १३ ॥ ___ भोगोपभोगयोलेशणं तत्त्यागस्य च यावर्जीविकस्य नियतकालस्य च संज्ञा विशेषावाचष्ट
भोगः सेव्यः सदुपभोगस्तु पुनःपुनः स्रगम्बरवत् ।
तत्परिहारः परिमितकालो नियमो यमश्व कालान्तः ॥१४॥ टीका–स भोगो भण्यते । यः सकृदेकवार सेव्यः सेव्यते भुक्त्वा पुनर्न भुज्यते इत्यर्थः । किंवत्. सम्वत् उपलक्षणान्माल्यचन्दनताम्बूलादिर्यथा । स उपभोगो भण्यते । तुर्विशेषे। यः पुनः पुनः सेव्यो भूयोभूयः सेव्यते सेवित्वाऽपि पुनः सेव्यते इत्यर्थः । किंवत्, अम्बरवत् अत्राप्युलक्षणाद्वस्त्राभरणकामिन्यादिर्यथा । अथवा सगम्बरवञ्चेति भोगोपभोगलक्षणयोर्यथासंरूपमुदाहरणे उदाहरणस्य दिल्मात्रप्रदर्शकत्वात् । एवं तयोर्लक्षणमुक्त्वा
Page #138
--------------------------------------------------------------------------
________________
सागारधर्मः।
तत्त्यागविशेषयोः संज्ञाविशेषप्रकाशनार्थमाह तदित्यादि । व्यपदिश्यते । कोऽसौ, तत्परिहारः । किं, नियमः । नियम इति संज्ञया व्यवन्हियते इत्यर्थः । किंविशिष्टः, परिमितकालः एकद्विव्यादिसंख्यापरिच्छिन्नदिवसमासादिसमयः। तथा व्यपदिश्यते । कोऽसौ, तत्परिहारः । किं, यमः । यम इति नाम्ना व्यवन्हियत इत्यर्थः । किंविशिष्टः, कालान्तः कालो मरणमन्तोऽवसानं यस्य स कालान्तो मरणपर्यन्त इत्यर्थः ॥ १४ ॥
त्रसघातबहुवधप्रमादविषयानिष्टानुपसेव्यार्थत्यागवतपञ्चकमप्यत्रैवान्तर्भावयितुमाह
पलमधुमद्यवदखिलवसबहुघातप्रमादविषयोऽर्थः।
त्याज्योऽन्यथाऽप्यनिष्टोऽनुपसेव्यश्च व्रताद्धि फलमिष्टम् १५ टीका-त्याज्यः प्रत्याख्यातव्यः । कोऽसौ, अर्थ इन्द्रियोपभोग्यो रसश्च। केन, भोगोपभोगपरिसंख्यानव्रतिना । किंविशिष्टः । त्रसेत्यादि-त्रसा द्वीन्द्रियादिजीवाः बहवः प्रचुगस्त्रसस्थावरजीवाः त्रसाश्च बहवश्व त्रसबहवस्तेषां घातौ त्रसबहुधातौ त्रसघातो बहुघातश्चेत्यर्थः । प्रमादो धर्मभ्रंशनोपायः । त्रसबहुधातौ च प्रमादश्च त्रसबहुघातप्रमादा: ते विषया यस्य स त्रसबहुघातप्रमादविषयः । किविशिष्टः, अखिलः सर्वः । किंवत्, पलमधुमद्यवत् । यथा त्रसघाताश्रयत्वापिशितं त्यज्यते, यथा च बहुवधाश्रयत्वान्माक्षिकं त्यज्यते, यथा च प्रमादाश्रयत्वान्मद्यं त्यज्यते तथा यथासंख्यं त्रसघाताद्याश्रयोऽर्थस्त्याज्य इत्यर्थः । तत्र त्रसघातविषयोऽन्तःसुषिरप्रायं नालीनलपलक्यामृणालनालप्रमुखमागन्तुजन्तूनां सम्मूछिमजन्तूनां च योग्यमध्यावकाशं तथा बहुजन्तुयोग्यस्थानं केतकीनिम्बार्जुनारणिशिग्रुपुष्पमधूकबिल्वादिफलादि च वस्तु । बहुघातविषयो गुडूचीमूलकलशुनाशृङ्गवरादिकं । प्रमाद विषयो दृषिविषभाङ्गिकाधत्तूरकादि वस्तु। एतेन धनार्थ क्रूरव्यापाराणामपि त्याज्यत्वमुक्तं प्रतिपत्तव्यं । तथा त्याज्यो धर्मार्थिना । कोऽसौ, अखिलोऽर्थः। किंविशिष्टः, अनिष्टः कथं, अन्यथाऽपि त्रसघाताद्य
Page #139
--------------------------------------------------------------------------
________________
पंचमोध्यायः ।
विषयोऽप्यों योऽनिष्टो यदा स्वस्याप्यनभिमतः प्रकृतिसात्मको न भवति सोऽपि तदा प्रत्याख्येय इत्यर्थः । तथा त्याज्यः । कोऽसौ, अखिलोऽर्थः । किविशिष्टः,अनुपसेव्यः इष्टोऽपि शिष्टानां शीलनायोग्यः चित्रवस्त्रविकृतवेषाभरणादिरुद्गारलालामूत्रपुरीषश्लेष्मादिश्च । एतत्प्रत्याख्यानस्याप्यभिमतार्थहेतुत्वमुखेन करणीयत्वं समर्थयत व्रताद्धि फलमिष्टमिति-हि यस्माद्भवति । किं तत्, फलं साध्यं । किविशिष्टं, इष्टमभिप्रेतमभ्युदयादिकं । कस्मात, व्रतात् योग्याद्विषयादभिसन्धिकृताया विरतेः ॥ १५ ॥ उक्तमेवार्थ संव्यवहारप्रसिद्धयर्थ श्लोकत्रयेण दर्शयतिनालीसूरणकालिन्दद्रोणपुष्पादि वर्जयेत् ।।
आजन्म तद्भुजां ह्यल्पं फलं घातश्च भूयसाम् ॥ १६ ॥ टीका- वर्जयेत् धर्मार्थी त्यजेत् । किं तत्, नालीत्यादि-आदिशब्देन मूलकाकनिम्बकुसुमकेतकादि । कथं, आजन्म यावज्जीवं। कुत इत्याह-हि यस्माद् भवति । किं तत्, फलं जिव्हेन्द्रियप्रीणनमात्र । किंविशिष्टं, अल्पं स्तोकं भक्ष्यमाणक्षणमात्रभावि । केषां, तद्भुजां नालीसूरणा दिभक्षकाणां। भवति च । कोऽसौ, घातः तद्भक्षणे वधः । केषां, भूयसां बहुतराणां तदाश्रितजीवानाम् ॥ १६ ॥ उक्तमेवार्थ व्रतदाार्थ पुनर्विशेषतोऽभिवत्ते
अनन्तकायाः सर्वेऽपि सदा हेया दयापरैः।
यदेकमपि तं हन्तुं प्रवृत्तो हन्त्यनन्तकान् ॥ १७॥ टीका-हेयाः प्रत्याख्येया। सदा नित्यं । के, अनन्तकायाः। कति,सर्वेऽपि। कैः, दयापरैः अनुकम्पाप्रधानः श्रावकैः। कुत इत्याह-यद्यस्मात् । हन्ति हिनस्ति । कोऽसौ, पुरुषः। कान्, अनन्तकान् अनन्तप्रमितान जीवान कशब्देनात्र जीवार्थस्य विवक्षितत्वादनन्ताश्च ते काश्च जीवाश्चेति विग्रहः। किंविशिष्टः,प्रवृत्तः। किं कर्तु, हन्तुं भक्षणादिद्वारेण मारयितु। कं, तमनन्तकार्य। किंविशिष्टं, एक व्यवहारेणैकसंख्यमपि किं पुनद्वर्यादीन् । एतेनानन्तैर्जीवरुपलक्षितः
Page #140
--------------------------------------------------------------------------
________________
सागारधर्मः।
कायो येषां तेऽनन्तकाया मूलः दिप्रभवा वनस्पतिकायिकाः। तथा हि मूलजा आर्द्रकहरिद्राप्रभृतयः ! अग्रजा आयकोदिश्च ( ? ) प्रभृतयः । पर्वजा देवनालेखुवेत्रादयः । कन्दजाः पलाण्डुसूरणादयः। स्कन्धजाः सल्लकीकण्टकपलाशादयः । बीजजाः शालिगोधू गदयः। समूच्छिमाः । नियतब जाभावे स्वयोग्यसुद्गलैनिष्पन्न शरीराः । उक्तं च -मूलगपोरवीजा कंदा तह खदबीजबीनाहा । संतुच्छमा य भणिया पत्तेया गंतकाया य ॥ १७ ॥
आमगोरमसंयुक्त विदा प्रायशोऽजत्रम्। वर्षास्वदलितं चात्र पत्रशाकंच नाहरेत् ॥ १८ ॥ टीका-नाहरेत् न भक्षयेद्दयापरः। किं तत, द्विदलं मुद्रापदिधान्यं । किंविशिष्टं, आमेत्यादि-आमेनानमिकिन गोरसेन क्षीरेण दध्ना अक्वाथतक्षीरादिसम्भतेन तक्रेण च सम्पृक्तं मीलितं । तद्धि सूक्ष्मबहुलजन्त्वाश्रितमागमे श्रयते । तथा नाहरेत् । किं तत्, द्विदलं । किंविशिष्टं, अनवं पुराण । कथं, प्रायशः पायोग्रहणा-पुराणस्यापि चिःकालकृष्णीभूतकुलित्थादेरदृष्टजन्तुसम्मूर्छ गप्रतिषेधः । तथा नाहरेत् । कि तत्, द्विदलं। किविशिष्टं, अदलिनमकृतद्विध भावं । कदा. वर्वासु प्रावृषि हि मुद्गादीनामन्तः प्ररोहस्यायुर्वेदे प्रांसद्धत्वात् त्रससम्मूछेनस्य च दृष्टत्वेन सम्भाव्यमानत्वादभोज्यत्वं । एतेन रूढानामपि तेषां निषेध उक्तः म्यात् । तथा नाहरेत् । किं तत्, पत्रशाकं पत्ररूपं हरीतकं न तु फलादिरूपं । तत्र तत्परजन्तुभूयिष्ठत्वात् । कदा, वर्षासु तदा त्रसस्थाव संसक्तिबहुलत्वात्ात्रशाकस्पाल्पफलत्वाच॥ १८ ॥ एतद्रतस्य विशेषादानृशंस्यसिद्ध्यात्सम गदिशति
भोगोपभोगकृशत्कृशीकृतधनस्पृहः ।
धनाय कोशालादिक्रियाः क्रूगः करोति कः ॥ १९ ॥ टीका -कः करोति न कोऽप विदवाती यर्थः। किं विशिष्टः, कृशीकृतधनम्पृहः सलीकृतदविण मिरूषः। कस्पात्. भोगोपगोकगनाद भोगोपभोगयोविवेकालेनाल्पोकरणात् । काः कोशालादिक्रियाः तलारबन्दिपाल.
Page #141
--------------------------------------------------------------------------
________________
पंचमोध्यायः ।
१३७
वीतपालशौल्किकादिव्यापारान् । किंविशिष्टाः क्रूराः प्राणिघातकर्कशाः ।
किमर्थ, धनाय द्रव्यार्थम् ॥ १९ ॥ भोगोपभोगता तिचारपञ्चकं लक्षयति
सचितं तेन सम्बद्ध सम्मिश्र तेन भोजनम् ।
।
1
दुष्पक्क नप्यभिशवं भुञ्जानोऽत्येति तद्व्रतम् ॥ २० ॥ टीका - अत्यंति अविरति श्रावकः । किं तत्, तद्वतं भोगोपभोगपरिमाणव्रतं । किं कुर्राणो. भुञ्जानोऽभ्यवहरन् । किं तत्, भोजनं भुज्यत इति भोजनमाहारो भव्यं । किं किं, सचित्त तेन सम्बद्धं सम्मिश्रं तेन सचित्तेन सम्मिश्रं सम्बद्धं दुष् कमभिषवं च । अपिश्चर्थे । तत्र सचितं चेतनावद्दव्यं हरितकार्यं । अपक्त्रं कर्वय्य दि । सब घातेत्यादिना निदिद्वेऽप्यत्र प्रवृत्तौ भङ्गसद्भवेऽप्यतिचाराभियानं त्रासापेक्षस्याप्रणिधानातिकमादिना प्रवृत्तौ द्रष्टव्यमिति प्रथमः ॥ १ ॥
तेन सम्बद्ध सचित्तेनोपलि सचेतनवृक्ष दिना संबद्धं गोन्दादिकं पक्कफलादिकं वा सचितान्तर्बीजं खर्जूर म्रादि च तद्भक्षणं हि सचित्तभोजनबजे कस्य प्रादादिना सावयाहारप्रवृतिरूावादति वारः । अथवा बीजे त्यक्ष्यामि तस्यैव सचेतनत्वात् कटाई तु भक्षयिष्यामि तस्याचेतनत्वादिति बुद्धया पक्कं खजूरादिफलं मुखे प्रक्षितः सचित्तवर्जकस्य सचित्तप्रतिवद्धाहारोऽसौ द्वितीयः ॥ २ ॥
सम्मिश्रं तेन सचिन व्यतिकीर्णे विभक्तुमशक्यं सूक्ष्मजन्तुक मित्यर्थः । अथवा सचित्तशचलं तत्सं मश्रं यथा आर्द्रकदाडिमबीजचिर्भटादि मिश्र पूरणादिकं तिलमिश्रं च यवधानादिकं अयमपि पूर्ववद तिचारस्तृतीयः ॥ ३ ॥
दुष्पकं सान्तस्तण्डुलभावेन अतिक्लेदनेन वा दुष्टं पक्कं भन्दपक्कं वा दुष्पकं तच्चार्धस्विन्नं पृथुकता डुल्यवगोधूमस्थूलम डफला दिकमामदोषावहत्वेने हिक प्रत्यवायकारणं । तथा यावतांशेन तत्सचेतनं तावता तत्परलोकमप्यपहन्ति । पृथुकादेर्दुपकतया किश्चित्तचेतनावयवत्वात्पकत्वाच्च चेतना
-
Page #142
--------------------------------------------------------------------------
________________
१२८
सागारधर्मः।
चेतनमिति भुञ्जानस्यातिचारश्चतुर्थः ॥ ४ ॥
अभिषवं सौवीरादिद्रवं वा वृष्यं वा । अयमप्यतिक्रमादिनाऽतिचारः पञ्चमः ॥ ५॥
चारित्रसारे पुनः सचित्ताद्याहाराणामतिचारत्वोपपादनार्थमिदमुक्तं एतेषामभ्यवहरणे सचित्तोपयोग इन्द्रियमदवृद्धिर्वातादिप्रकोपो वा स्यात् । तत्प्रतीकारविधाने पापलेपो भवति । अतिथयश्चैनं परिहरेयुरिति ॥
अत्राह स्वामी यथा-विषयविषतोऽनुपेक्षाऽनुस्मृतिरतिलौल्यमतितृषानुभवौ ॥ भोगोपभोगपरिमा व्यतिक्रमाः पञ्च कथ्यन्ते ।। १॥ विषयविषतो विषकल्पेषु विषयेषु अनुपेक्षा आदरो विषयानुभवात्तद्वेदनाश्तीकारे जातेऽपि पुनरभीष्टाङ्गनासम्भाषणालिङ्गनाद्यवर्जनरूपः प्रथमः । अनुस्मृतिस्तु तदनुभवात्तत्प्रतीकारे जातेऽपि पुनः पुनर्विषयाणां सौन्दर्यसुखसाधनत्वाद्यनुचिन्तनमत्यासक्तिहेतुत्वादतिचारः । अतिलौल्यं अतिगृद्धिस्तत्परिहारे जातेऽपि पुनः पुनस्तदनुभवाकांक्षेत्यर्थः । अतितृषा कामिनीभोगादेरतिगृद्धया प्राप्त्याकांक्षा । अत्यनुभवो नियतक' लेऽपि यदा भोगोपभोगावनुभवति तदा अत्यासक्त्याऽनुभवति, न पुनर्वेदनाप्रतीकतयाऽतोऽतिचार इति ॥ एतेऽपि चात्र ग्रन्थे परेऽप्यूह्यास्तदत्यया इति वचनात्संगृहीता एव ॥
तद्वच्चमेऽपि श्रीसोमदेवबुधाभिमता:-दुप्पक्वस्य निषिद्धस्य जन्तुसम्बन्ध. मिश्रयोः ।। अवीक्षितस्य च प्राशस्तत्संख्याक्षतिकारणम् ॥ १॥ अत्राह सिताम्बराचार्यः-भोगोपभोगसाधनं यद्रव्यं तदुपार्जनाय यत्कर्म व्यापारस्तदपि भोगोपभोगशब्देनोच्यते कारणे कार्योपचारात् । ततः कोट्टपालनादिखरकर्मापि त्याज्यं । तत्र खरकर्मत्यागलक्षणे भोगोपभोगवते अङ्गारजीविकादीन् पञ्चदशातिचारांस्त्यजेदिति। तदचारु। लोके सावद्यकर्मणां परिगणनस्य कर्तुमशक्यत्वात् । अथोच्यते अतिमन्दमतिप्रतिपत्त्यर्थं तदुच्यते तर्हि तान् प्रतीदमप्यस्तु । मन्दमतीन् प्रति पुनस्त्रसबहुघातविषयार्थत्यागोपदेशेनैव तत्परिहारस्य प्रदर्शितत्वादिति ॥ २० ।।
Page #143
--------------------------------------------------------------------------
________________
पंचमोध्यायः ।
एतदेव श्लोकत्रयेण संगृहन्नाह
व्रतयेत्खरकर्मात्र मलान् पञ्चदश त्यजेत् । , वृत्ति वनाग्न्यनःस्फोटभाटकेर्यन्त्रपीडनम् ॥ २१ ॥ निर्लाञ्च्छनासतीपोषौ सरःशोषं दवप्रदाम् । विषलाक्षादन्तकेशरसवाणिज्यमङ्गिरुक् ॥ २२ ॥ इति केचिन्न तच्चारु लोके सावद्यकर्मणाम् ।
अगण्यत्वात्प्रणेयं वा तदप्यतिजडान् प्रति ॥ २३ ॥ टीका-व्रतयेत् प्रत्याख्यायाच्छ्रावकः । किं तत्, खरकर्म खरं क्रूरं प्राणि-- बाधकं कर्म व्यापारं । तथा त्यजेत् तद्रती। कान, मलान् कर्मादानसज्ञान् । कति, पञ्चदश वृत्तिमित्यादिना निर्दिष्टान् । क, अत्र खरकर्मत्रते । अत्र तावत् वृत्तिं जीविकां त्यजेत् । कैः, वनाग्न्यनःस्फोटभाटकैः वनं चामिश्च अनश्च स्फोटश्च भाटकं च तैः पञ्चभिः । तथा यन्त्रपीडनं त्यजेत् । तथा निर्लाञ्छनासतीपोषौ त्यजेत् निर्लाञ्छनं चासतीपोषश्चति द्वन्द्वः । तथा सरःशोषं त्यजेत् । तथा दवप्रदां दवदानं त्यजेत् । तथा विषादिवाणिज्यपञ्चकं त्यजेत् । किविशिष्टं, अङ्गिरुक् प्राणिबाधकं ।। ___ तत्र वनजीविका छिन्नस्याच्छिन्नस्य वा वनस्पतिसमूहादेविक्रयेण तथा गोधूमादिधान्यानां घरदृशिलादिना पेषणेन दलनेन वा वर्तनम् ॥१॥
अग्निजीविका अङ्गारजीविकाख्या षड्जीवनिकायविराधनाहेतुना अङ्गारकरणाद्यग्निकर्मणा जीवनं ॥ २॥ ___ अनोजीविका शकटजीविका शकटरथतच्चक्रादीनां स्वयं परेण वा निप्पादनेन वाहनेन विक्रयणेन वृनिर्बहुभूतग्रामोपमर्दिका गवादीनां च बन्धादिहेतुः ॥ ३ ॥
स्फोटजीविका उडादिकर्मणा पृथिवीकायिकाद्युपमर्दहेतुना जीवनं ॥४॥ भाटकजीविका शकटादिभारवाहनमूल्येन जीवनं ॥ ५॥ यन्त्रपीडाकर्म तिलयन्त्रादिपीडनं तिलादिकं च दत्वा तैलादिप्रतिग्रहणं.
Page #144
--------------------------------------------------------------------------
________________
१४०
. सागारधमः।
तत्कर्मणश्च पीलनाय तिलादिक्षोदात्तद्गतत्रसघाताच्च दुष्टत्वं ॥ ६ ॥ . मिर्लान्छनं निर्लाञ्छनकर्म वृषभादेर्नासावधादिना जीविका । निर्लाञ्छनं नितरां लाञ्छनमगावयवच्छेदः ॥ ७ ॥
असतीपोषः प्राणिघ्नप्राणिप.षो भाटिग्रहणार्थ दासपोषश्च ॥ ८ ॥ सरःशोषो धान्यवपनार्थ जलाशयेभ्यो जलस्य सारण्या वर्षण । तत्र च जलस्य तद्गतानां त्रसानां तत्पालितानां च षण्णां जीवनिकायानां घात इति दृष्यत्वम् ॥ ९॥
वधदानं दावा मेस्तृणा दिदहनार्थ वितरणं तच्च फलनिरपेक्षतात्पर्याद्वनेचरैन्हिज्वालन व्यसनजमुच्यते । पुण् बुद्धिजं तु यथा मदीये मरणकाले इयन्तो मम श्रेयोऽर्थ दीपोत्सवाः करणीया इति पुण्यबुद्ध्या क्रिम ण । तृणदाहे सति नवतृणांकुरोद्भेदाग वश्चरन्तीति वा क्षेत्रे वा सम्यसम्पत्तिवृद्धयेऽग्निज्वालनं अत्र जीवकोटानां वधो व्यक्त एव । १०॥
विषवाणिज्य जीवन स्तुविक्रयः ॥ ११ ॥
लाक्षावाणिज्यं लाक्षाविक्रयणं । लाक्षायाः सूक्ष्मनसजन्तुघातानन्तकायिकप्रवालजालोपमर्दाविनाभाविना स्वयो नवृक्ष दुद्धरणेन टङ्कणमनःशिलासकूमालिप्रभृतीनां बाह्यजीवघातहेतुत्वेन गुग्गुलिकाया धातकीपुष्पत्वचश्च मद्यहेतुत्वेन तद्रिक्रयस्य पापाश्रयत्वात् ॥ १२ ॥ - दन्तवाणिज्यं हस्त्य'दिदन्ताद्यवयवानां पुलिन्दादिषु द्रव्यदानेन तदुसत्तिस्थ ने वाणिज्यार्थ ग्रहणं । ते हि तथा ग्रहणे तत्प्रतिक्रयार्थ हस्त्यादिवधं कुर्वन्ति अनाकारे तु दन्तादिक्रयविक्रये न दोषः ॥ १३ ॥ - केशव णिज्यं द्विपदादिविक्रयः । तत्र च दोषः तेषां पारवश्यवधबन्धादयः क्षुत्सिगसापीडा चेति ॥ १४ ॥
रसवाणिज्यं नवनीतादिविक्रयः । नवनीते हि जन्तुसंमूर्छनं । मधुवसामद्यादौ तु जन्तुघातोद्भवलं । मद्येन मदजनक तद्गतकृमि वघातश्चेति सद्विक्रयस्य दुष्टत्वं ॥१५॥
Page #145
--------------------------------------------------------------------------
________________
पंचमोध्यायः ।
इति केचित्-एवं सिताम्बराचार्या ब्रुवते । न तच्चारु तदसुन्दरं । कुतः, अगण्यत्वात् परिसंख्या तुमशक्यत्वात् । केषां, सावद्यकर्मणां सपापक्रि ाणां । क, लोके व्यवहारार्थिजने वर्तमानानां । प्रणेयं वा प्रतिपाद्यं वा । किं तत, तदपि खग्क र्मव्रतमपि । कथ, प्रति उद्दिश्य । कान, अतिजडान् अतिमुग्धबुद्धीन् । जड न् प्रति सबहुधातेत्यादिनैवोक्तवादिति भावः ।। इति गुणब्रतपकरणम् ॥ २१।२२।२३ ॥ अथ शिक्ष व्रतविधानाथमाहशिक्षात्रतानि देशावकाशिकादीनि संश्रयेत् ।
श्रुतिचक्षुस्तानि शिक्षाप्रधानानि व्रतानि हि ॥ २४ ॥ टीका-संश्रयंत् प्रतिपद्यत श्रवकः । कानि, शिक्षाव्रतानि शिक्षा वियोपादानं, शिक्षाप्रधानानि व्रतानि शिक्ष व्रतानि । किविशिष्टानि, देशावकाशिकादीनि देशावका शिकं, सामयिक, प्रोषधोपवास, अतिथिसंविभागं च । कथम्भृतो भूत्वा, श्रुतिचक्षुः श्रुतज्ञानलोचनः । कुत इत्याह-हि यस्मात् भवन्ति । कानि तानि व्रतानि । किंविशिष्टानि, शिक्षाप्रधानानि ॥२४॥ देशावकाशिकं निरुक्त्या लक्षतिदिग्त्रतपरिमितदेशविभागेऽवस्थानमस्ति मितसमयम् ॥
यत्र निराहुर्देशावकाशिकं तद्वतं तज्ज्ञाः ॥ २५ ॥ टीका-निराहुः कृतिप्रत्ययादिविभागेन निश्चितं ब्रुवन्ति । के, तज्ञाः तद्रतनिर्वचनविदः । किं, द व्रत। किमाख्यं, देशावकाशिकं देशे दिव्रतगृहीतपरिमाणस्य क्षेत्रस्य विभागे अवकाशोऽवस्थानं देशावकाशः, सोऽस्मिन्नस्तीति । यत्र यस्मिनु ब्रो। अस्ति विद्यते । किं तदवस्थानमवस्थितिः श्रावकस्य । क, दिगित्यादि-दिबते परिमितः प्रति नपरिमाणो देशः क्षेत्र दिखतपरिमितंदशस्तस्य विभागस्तत्काले स्वावस्थानविषयीकृतोऽशस्तस्मिन् । किंविशिष्टमवस्थानं, मितसमयं परिमितकालं । २५ ॥
तब्रतयुक्तं लक्षयति---
Page #146
--------------------------------------------------------------------------
________________
सागारधर्मः। स्थास्यामीदमिदं यावदियत्कालमिहास्पदे ॥
इति सङ्कल्प्य सन्तुष्टस्तिष्ठन्देशावकाशिकी ॥ २६ ॥ टीका-भवति । कोऽसौ, श्रावकः । किंविशिष्टो, देशावकाशिकी। किं कुर्वन् , तिष्ठन् लक्षणहेत्वोः क्रियाया इति शतृच् । कालपरिच्छित्त्या नियतदेशे सन्तुष्टतयाऽवस्थानेन देशावकाश व्रतित्वपरिमाणस्य लक्ष्यमाणत्वात् । किं कृत्वा, सङ्कल्प्य मनसा संप्रधार्य । कथं, इति । किमिति,स्थास्यामि स्थिति करिप्याम्यहं । क, इहास्मिन्नाम्पदे स्थाने । कथे, इदमिदं यावत् गृहगिरिग्रामादिमवधिं कृत्वा । कियत्कालं, इयत्कालं घटिकादिप्रहरदिनादिमात्रं । किविशिष्टः सन् , सन्तुष्टः सीमभ्यो बहिनिगृहीततृष्णः सन् । दिव्रतवदस्यापि नियमितदेशाबहिर्लोभनिग्रहेण हिंसादीनां च सर्वशो निवर्तनेनात्र फलवत्त्वात् अमुत्राज्ञैश्वर्यसम्पादकत्वाच्च सुतरां करणीयत्वं चास्य शिक्षावनत्वं शिक्षाप्रधानत्वात्परि मतकालभावित्वाच्चोच्यते । न खल्वेतदिग्वतवद्यावज्जीविकमपीप्यति । यत्तु तत्त्वार्थादौ गुणवतत्वमस्य श्रूयते तदिग्वतसंक्षेपणलक्षणत्वमात्रस्यैव विवक्षितत्वाल्लक्ष्यते । दिव्रतसंक्षेपकरण चात्रागुणव्रतादिसंक्षेपकारणस्याप्युपलक्षणं द्रष्टव्यं । एषामपि संक्षपस्यावश्यकर्तव्यत्वात्यतिव्रतं च संक्षेपकरणस्य भिन्नव्रतत्वे गुणाः स्युदशेति संख्याविरोधः स्यात् ॥ २६ ॥ तद्वतातिचारत्यागार्थमाह
पुद्गलक्षेपणं शब्दश्रावणं स्वाङ्गदर्शनम् ।।
प्रैषं सीमबहिर्देशे ततश्चानयनं त्यजेत् ॥ २७॥ टीका-त्यजेत् तद्वतनैर्मल्यार्थी । किं, पुद्गलक्षेपणादिपञ्चकं। तत्र पुद्रलक्षेपणं परिगृहीतदेशाद्वहिः स्वयमगमनात्कार्यार्थितया व्यापारकारकाणां चोदनाय लोष्ठादिप्रेरणं॥१॥ शब्दश्रावणं शब्दस्याभ्युत्कशिकादेः श्रावणमाव्हानीयानां श्रोत्रेऽनुपातनं शब्दानुपातनं नामातिचारमित्यर्थः ॥२॥स्वाङ्गदर्शनं शब्दोच्चारणं विना आव्हानीयानां दृष्टौ स्करूपस्यानुपातनं रूपानुपाताख्यमतिचारं । एतत् त्रयं मायावितयाऽतिचारत्वं याति ॥३॥ प्रैषं मर्यादीकृतदेशे
Page #147
--------------------------------------------------------------------------
________________
पंचमोध्यायः ।
१५३
स्थित्वा ततो बहिः प्रेप्यं प्रत्येवं कुर्विति व्यापारणं । देशावकाशिकव्रत हिमा भूद्गमनागमनादिव्यापारजनितः प्राण्युपमर्द इत्यभिप्रायेण गृह्यते । स तु स्वयंकृतोऽन्येन कारित इति न कश्चित्फलविशे: । प्रत्युतस्वय गमने ईर्यापथविशुद्धेर्गुणः । परम्य पुनरनिपुणत्वादीर्यासमित्यभावे दोष इति प्रेष्यप्रयोग नाम चतुर्थमतिचारं त्यजेदिति सर्वत्र योज्यम् ॥ ४ ॥ ततश्चानयनं सीमबहिदेशादिष्टवस्तुनः प्रेष्येण विवक्षितक्षेत्रे प्रापणं । चशब्देन सीमबहिर्वेशे स्थितं प्रेप्यं प्रति इदं कुर्वित्याज्ञापनं वा । एतौ चाव्युत्पन्नबुद्धितया सहसाकारादिना वाऽतिचारौ स्तः । सर्वत्र च-सापेक्षस्य व्रते हि स्यादतिचारोंऽशभञ्जनम्-इत्युपजीवम् ।। २७ ॥ अप्ररूपितस्वरूपस्यानुष्ठानं न स्यादिति सामायिकस्वरूपं प्ररूपयति
एकान्ते केशवन्धादिमोक्षं यावन्मुनेरिव ।
स्वं ध्यातुः सर्वहिंसादित्यागः सामायिकनतम् ।। २८॥ टीका-भवति । किं तत्, सामायिकवतं समस्य रागद्वेषविमुक्तस्य सतः अयो ज्ञानादीनां लाभः प्रशमसुखरूपः स समायः, समाय एव सामायः सामायः प्रयोजनमस्येति वा (?) सामायिकं रागद्वेषहेतुषु मध्यस्थतेत्यर्थः अथवा समय आप्तसेवोपदेशस्तत्र नियुक्तं कर्म सामायिकं व्यवहारेण जिनस्नपना स्तुतिजपाः। निश्चयेन च स्वात्मध्यानमेव सामायिकं । सामायिकमेव व्रतं सामायिकव्रतं । किं, सर्वहिंसादित्यागः सर्वत्र सर्वेषां च हिंसादीनां प्रमत्तयोगभाविनां प्राणव्यपरोपणादिपञ्चपापानां त्यागः परिहारः सर्वत्रेति व्याख्यानाद्देशावकाशिकादस्य भेदः सूच्यते । कस्य, शिक्षाव्रतिनः । किंविशिपृस्य, ध्यातुः साधुत्वेन ताच्छील्येन वा ध्यायतः । कं, स्वमात्मानं अन्तमुहूर्तमानं धय॑ध्याननिष्ठस्येत्यर्थः । कस्येव, मुनेरिव सर्वारम्भपरिग्रहाग्रह
१ साधुत्वेनेत्यत्र साकल्येनेति पाठभेदः ।
Page #148
--------------------------------------------------------------------------
________________
सागारधर्मः । .
रहितवाद्यतिना तुल्यस्य । क, एकान्ते विावक्तस्थाने । कियत्कालं, केशबधादिमोक्षं यावत् केशबन्ध आदिर्येषां मुष्टिबंधवस्त्रग्रंथ्यादीनां गहीतनि. यमकालावच्छेदहेतूनां ते केशबन्धादयः तेषां मोक्षो मोच्नं तमवधीकृत्य स्थितस्येत्यर्थः । समायिकं हि चिकीर्षुर्यावदयं केशबन्धो वस्त्रग्रन्थ्यादि मया न मोच्यते तावत्साम्यान्न प्रचलिष्यामीति प्रतिज्ञां करोति ॥ २८ ॥ सामायिकभावनासमय नियमयन्नाहपरं तदेव मुक्त्यङ्गमिति नित्यमतन्द्रितः।
नक्तं दिनान्तेऽवश्यं तद्भावयेच्छक्तितोऽन्यदा ॥ २९ ॥ टीका-भावयेदभ्यस्येन्मुमुक्षुः । किं, तत्सामायिकवतं । क, नक्तदिनान्ते नक्तं च दिन च नक्त दिने तयोरन्ते निशावसाने दिवसावसाने चेत्यर्थः । कथं. अवश्यं नियमेन । अथवा नास्त वश्यं व्याध्यादिपारतन्ध्यं यत्र भावनकर्मणि तदवश्यं यथा भवति । किविः सन्, अतन्द्रितः अन्लसः । वयं, नित्यं सर्वकालं । कुतो हेतोः, इति यतो भवति । किं तत् , तदेव सामायिक. मेव । किवि शंष्ट, मुक्त्यङ्गं मोक्षपाधनं ! किं व शंष्ट, पग्मुत्कृष्टं । परमपक
प्राप्तचारित्रस्यैव साक्षान्म क्षहेतुत्व सिद्धः । एवं तर्हि मध्य हादौ तन्न भावयितव्यमिति शङ्कायामिदमाह-शक्तितोऽन्यदेति भावये मुमुक्षुस्तत् । कदाऽप्रदाऽन्यस्मिन्मध्याह्वादौ काले। कथं, शक्तित: स्वशक्तिमपेक्ष्य। नियतकालादन्यदाऽपि तद्भावने दोषाभावाद्गमद्भावाच्च ॥ २९ ॥
सामायिकस्थेन परीषहोपसर्गोपनिपाते सति तयोर्जयार्थ किं ध्यातव्यमिस्याह
मोक्ष आत्मा सुखं नित्यः शुभः शरणमन्यथा।
भवाऽस्मिन्वसतो मेऽन्यत्कि स्यादित्यापदि स्मरेत् ॥ ३० ॥ टीका-स्मरेत् ध्यायेत् । कोऽसौ, प्रतिनिसामायिकः । किं तत्, इति एतत् । कस्यां सत्यां, आरदि विनिपाते परीषहोपसर्गसंसर्गे इत्यर्थः । एतेन प्रतिपन्नसामायिकेन परीषहोपसर्गाः सोढव्या इत्याक्षिप्यते। किमेतदित्याह
Page #149
--------------------------------------------------------------------------
________________
पंचमोध्यायः ।
१४५
1
भवति । कोऽसौ, मोक्षः । किं, आत्मा अनन्तज्ञानादिरूपत्वात्, तथा सुखं अनाकुलचिद्रूपत्वात्, तथा नित्यः अनन्तकालभाविप्रध्वंसाभावरूपत्वात्, तथा शुभः शुभकारणप्रभवत्वाच्छुभकार्यत्वाच्च तथा शरणं समस्त विपद्गम्यतया अपायपरिरक्षणोपायत्वात् । संसारः किंरूप इत्याह-अस्ति । कोऽसौ, भवः स्वोपात्तकर्मोदयवशाच्चतुर्गतिविवर्तपरिवर्तनं । कथं, अन्यथा मोक्षविपरीतलक्षणः अनात्मा दुःखमनित्योऽशरणमित्यर्थः । अस्मिँश्च भवे वसतोऽवतिष्ठमानस्य मम किमन्यत्सुखदुःखादि स्यादभृदस्ति भविष्यति च किन्त्वा - पात एव पुनःपुनर्भवेदित्यर्थः ॥ ३० ॥
1
सामायिकसिद्धयर्थमन्यत्र श्रावकेण किं कर्तव्यमित्याह स्नपनाचस्तुतिजपान् साम्यार्थ प्रतिमार्पिते । युञ्ज्याद्यथाम्नायमाद्यादृते सङ्कल्पितेऽर्हति ॥ ३१ ॥ टीका - युञ्ज्यात्प्रयोजयेत् मुमुक्षुः । कान्. स्नपनाचस्तुतिजपान स्नपनमाश्रुत्येद्यादौ व्याख्यास्यते, अर्चादयो ज्ञानदीपिकायामत्र च प्राग्यथास्थानं व्याख्याताः । क्क, स्नपनादीन् युज्यात् अर्हति भगवदर्हदेव । किंविशिष्टे, प्रतिमार्पिते साकारस्थापनामवतारिते । कथं, यथाम्नायं उपासकाध्ययनाद्यागमानतिक्रमेण । किमर्थ, साम्यार्थ परमार्थसामायिकसिद्ध्यर्थं । अन्यत्र किं प्रयोक्तव्यमित्याह - आद्यादित्यादि - युञ्ज्यात्साम्यार्थी । किं तत्, आद्यात्स्नप - नात् ऋते विना अन्यदर्चादित्रयं । क, अर्हति । किंविशिष्ट, सङ्कल्पते निराकारस्थापनार्पिते । एतेन कृतप्रतिमापरिग्रहाः सङ्कल्पिताप्तपूजा महाश्वति ये देवसेवाधिकृता इति सूच्यते ॥ ३१ ॥ सामायिकस्य सुदुष्करत्वशक्कामपाकरोति
सामायिकं सुदुःसाधमप्यभ्यासेन साध्यते । निम्नीकरोति वार्बिन्दुः किं नामानं मुहुः पतन् ॥ ३२ ॥ टीका - साध्यते निष्पाद्यते । किं तत्, सामायिकं । केन, अभ्यासेन असकृत्प्रवृत्या । किंविशिष्टमपि दुःसाधमपि अतिशयेन निष्पादयितुमशक्यमपि ।
१०
Page #150
--------------------------------------------------------------------------
________________
सागारधर्मः ।
अत्र दृष्टान्तमाह-किं न निम्नीकरोति अनिम्न निम्नं करोति । कोऽसौ, वापिन्दुः । जलबिन्दुः । कम् . अश्म'नं शिलां । किं कुर्वन, पतन् । कथं मुहुवारंवारं । अत्र बाह्या अप्याहुः-अभ्यासो हि कर्मणां कौशलमवहति ।न हि संकृन्निपातमः त्रंणोदबिन्दुरपि प्रा लिग निम्नतामादधातीति ॥ ३१ ॥ तदतिचारपरिहारार्थमाह -
पञ्चात्रापि मलानुज्झेदनुपस्थापनं स्मृतेः ।
कायवाचनसां दुष्टप्रणिधानान्यनादरम् ॥ ३३ ॥ टीका-उज्झेत् त्यजेत् । फलार्थी । 'न् , पञ्च मलान् । क, अत्रापि व्रतान्तरवत्सामायिकेऽपि । किं किं, स्मृत्यनु स्थापनं कायबाङ्मनसां दुष्टप्रणिधानानि त्रीणि, अनादरं च । तत्र स्मनेरनुपस्थापनं सामायिके अनैकाग्य - मित्यर्थः अथवा मामायिकं मया कर्तव्यं न कर्तव्यमिति वा सामायिक मया कृतं न कृतमिति वेति प्रचलप्रमादादस्मरणमत चारः। स्मृतिमूलत्वामोक्षमार्गानुष्ठानस्य । कायेन्या द दुष्ट मणिधान सावद्ये प्रवर्तनं त्र हस्तपादादीनामनिश्चलभूतत्वावस्थापन कायदुष्प्राणधान। वर्णसंस्काराद्भवोऽर्थानवजमश्चापलं च दुष्प्रण गर्न । क्रोधलाभद्रोहाभिमानेादयः कार्यव्यासङ्गसंभ्रश्च मनादुष्प्रणिधानं । एतं त्रयोऽतीचाराः । मनोदुष्प्रणिधानम्य स्मृत्य-- नुपस्थापनस्य चायं भेदः क्रोधाद्यावेशात्सामायिके मनसश्विरमनवस्थाग्ने प्रथमं । चिन्तायाः परिस्पन्दनादैकाग्-येणानवस्थापनमन्यत् । अनादरोऽनुत्साहः प्रतिनियतवेलायां सामायिकम्य करणं यथाकथञ्चिद्वा करणं । करणानन्तरमेव भोजनादिव्यासजनं च । न चात्राविधिकृताद्वरमकृतमित्यसूयावचनं प्रमाणीकृत्य भङ्गसम्भावन्या मामायिकस्याप्रतिपत्तिः कर्तव्या। यतीनामप्यारम्भे भावितपूर्वत्वादेकदेशविराधनस्य सम्भवात् । न चैतावता तस्य भङ्गोऽपि मनसा सावध न करोमात्यादिप्रत्याख्यानेप्वेकतरभङ्गेऽपि शेपसद्भावान्न सामायिकस्यात्यन्ताभाव इत्यमीषामतिचारतैव । सुभावितसामायिकन्तु यदा श्रावको भविष्यति तदा तृतीयपदमेवाभ्युपगमिष्यतीति युक्तो व्रतिक
Page #151
--------------------------------------------------------------------------
________________
पंचमोध्यायः।
१४७
स्या तिचारपरिहाराय यत्नः ॥ ३३ ॥ अथ प्रोषधोपवासवतं लक्षयति
स प्रोषधोपवासो यच्च पव्या यथागम् ।
साम्यसंस्कारदा याय चतुभुक्त्युज्झन सदा ॥ ३४ ॥ टीका-भवति । कोऽसौ, सः प्रोषधोपचाम: प्रोषधे व युपवास: उपवसन । यकि, यच्छ्रावकेण क्रियते । किं तत् च भक्तज्झनं चतसृणां भुक्तीनां मोज्यान मशनस्वाद्यखाद्यपेयद्रव्याणां भुतिक्रियाणा च त्यागः। एका हि भुक्तिक्रिया धारणकदिने हे उपवासदिने चतुर्थी च पारणकदिने प्रत्याख्यायते । मस्या, चतुप्पा चतुर्णा पर्वणां समाहारश्चतुष्पर्वी तस्यां । मासे मासे द्वयोरष्टम्योश्चतुर्दश्योरित्यर्थः । कथं, यथागम आगमानतिक्रमेण । किमर्थ, साम्यसंस्कारदाक्य साम्यस्य सामायिकस्य संस्कार उत्कर्षस्तस्य दाय स्थिरीकरणं परिषहाद्यापातेऽपि अविचलनं तस्मै । कदा, सदा सर्वस्मिन् काले यावज्जीवमित्यर्थः ॥ ३४ ॥ एवमुत्तमं प्रोषधविधानमुक्त्वा मध्यमं जघन्यं च तदुपदेष्टुमाह -
उपवासाक्षगैः कार्योऽनुपवासस्तदक्षमैः ।
आचाम्लनिर्विकृत्यादि शक्त्या हि श्रेयसे तपः ॥ ३५ ॥ टीका-कार्यः कर्तव्यः । कोऽसौ, अनुपवासः जलवर्जनचतुविधाहारत्यागः। ईपदुपवासोऽनुपवास इति व्युत्पत्तेः । कैः, उपवासाक्षमै प्रामुक्त क्षणमुपवासं कर्तुमसमर्थः । तथा कार्य। किं तत् । आचाम्लनिर्विकृत्याद । कैः, तदशमैः अनुपवासमपि कर्तुमसमथैः । तत्राचाम्लं संस्कृतसौवीरमिश्रौदनभोजन। निर्विकृतिः विक्रिय जिह्वामसी येनेति विकृातोरसेक्षुरसफलरसधान्यरसभेदाच्चतुर्धा । तत्र गोरसः क्षीरवृतादिः, इक्षुरसः खण्ड गुडादिः, फलरसो द्राक्षाम्रादिनिम्यन्दो, धान्यरसम्तैलमण्डादिः । अथवा यथेन सह भुज्यमान स्वदते तत्तत्र विकृतिरित्युच्यते । विकृतेनिक्रान्तं भोजन निर्विकृति । आदिशब्देनैकस्थानकभक्त-रसत्यागादि। हि यस्मात् भवति । किं तत्, तपः ।
Page #152
--------------------------------------------------------------------------
________________
सागारधमः।
कस्मै, श्रेयसे पुण्याय वा । कया चरितं, शक्त्या बलेन वीर्येण च ।। ३५ ।। यथागममित्यस्यार्थ चतुःश्लोक्या व्याचष्टे
पर्वपूर्वदिनस्यार्धे भुक्त्वाऽतिथ्यशितोत्तरम् । लात्वोपवासं यतिवद्विविक्तवसतिं श्रितः ॥ ३६ ॥ धर्मध्यानपरो नीत्वा दिनं कृत्वाऽऽपराण्हिकम् ।
नयेत्रियामां स्वाध्यायरतः प्रासुकसंस्तरे ॥ ३७॥ टीका-नयेद्गम येत् पोषधोपवासी । कां, त्रियामां रात्रिं । क, प्रासुकसस्तर निर्जन्तुकायां भूमौ निर्जन्तुकैश्च तृणदर्भादिभिः कृते शयने । किंविशिष्टः सन, स्वाध्यायरतः । एतेन निद्रालस्ये त्यजेदिति लक्षयति । किं कृत्वा, विधाय। किं तत्, आपराह्निकं अपराह्न भवं कर्म सांध्य क्रियाकल्पमित्यर्थः । किं कृत्वा, नीत्वा अतिक्रम्य । किं तत्. दिनं । किंविशिष्टः सन् , धर्मध्यानपर आज्ञापायविपाकलोकसंस्थानविचर्यकाचिन्तानिरोधलक्षणधर्मध्यानपरः। ध्यानोपरमे स्वाध्यायानुप्रेक्षाचिन्तनादिकमपि कार्यमिति परशब्देन प्रधानाथेन सूच्यते । किंविशिष्टो भूत्वा, श्रितः अधिष्ठितः । कां, विविक्तवसतिं विविक्तां प्रासुकां अयोग्यजनरहितां निर्जनां वा वसतिं स्थानं । किं कृत्वा, लाचा स्वीकृत्य । कं, उपवासं । किंवत्, यतिवत् यतिना तुल्यं यथा यतिभॊजनानन्त मेवोपवासं गृह ति विधिवत्सूरेश्च समीपं गत्वा पुनरुच्चारयति । सावधव्यापारं शरीरसम्कारमब्रह्म च सदा त्यजति एवं प्रोषधे श्रावकोऽपि प्रवर्ततामित्यर्थः । किं कृत्वा, भुक्त्वा यथा वधि भोजनं कृत्वा । कथं, अतिथ्यशितोत्तरं तिथेरशिताभोजन विधापनादनन्तरमतिथिं भोजयित्वेत्यर्थः । क, अर्धे । कस्य, पर्वपूर्वदिनस्य सप्तम्यास्त्रयोदश्याश्च अर्धे प्रहरद्वये वा किञ्चिन्यूनेऽधिकऽपि वा । समेऽप्यसमेऽपि वांऽशेऽर्धशब्दस्य रूढत्वात् ३६।३७
ततः प्राभातिकं कुर्यात्तद्वद्यामान दशोत्तरान् ।
नीत्वाऽतिथिं भोजयित्वा भुञ्जीतालौल्यतः सकृत् ॥ ३८ ॥ टीका-कुर्याद्विदध्यात् प्रोषधोपवासी। किं तत्, प्राभातिक प्रभात भवं
Page #153
--------------------------------------------------------------------------
________________
पंचमोध्यायः ।
१४९
1
कर्मावश्यकादिक । कस्मात, ततो यथोक्तविधिना प्रहरषट्कनयनादनन्तरं । ततश्च भुञ्जीत भोजनं कुर्यात् असौ । कम्मादलौल्यतः भोजने आसक्तिमक्कत्वेत्यर्थः। कथं, सकृदेकवारं पारणकदिनेऽप्येकभुक्त कुर्यादित्यर्थः । किं कृत्वा, नीत्वा लङ्घयित्वा । कानू, यामान प्रहरान् । कति, दश । किंविशिष्टानुत्तरान् । अष्टावुपवासगोचराहोरात्रस्य द्वौ चात्तर दिनस्य । किवत् तद्वत् पूर्वोक्तषट्प्रहवत् ॥ ३८ ॥
पूजयोपवसन् पूज्यान् भावमय्यैव पूजयेत् ।
प्रासुकद्रव्यमय्या वा रागाङ्गं दूरमुत्सृजेत् ॥ ३९ ॥ टीका - पूजयेदयेत् असौ । उपवसन्नुपवासतपश्चरन् । कानू, पूज्यान् परमेष्ठिश्रुतगुरून् । कया, पूजया आराधनया । किंविशिष्टया, भावमय्या सानुरागतद्गुणस्मरणलक्षणया भावपूजार्थत्वात् द्रव्यपूजायाः । भावपूजा च सामायिकप्रसक्तत्वेनोपवसतः सिद्धैव । तदशक्तौ वा पूज्यान् पूजया पूजयेत् । किंविशिष्टया, प्रासुकद्रव्यमय्या अक्षतमौक्तिकमालादिप्रकृतया । तथा दृरमत्यन्तं उत्सृजेत् त्यजेदसौ । किं तत्, रागाङ्ग इन्द्रियमनःप्रीतिसाधनं गीतनृत्यादिकं ॥ ३९ ॥ एतद्वता तिचारपरिहारार्थमाह
ग्रहणास्तरणोत्सर्गाननवेक्षाप्रमार्जनान् ॥
अनादर मनैकाग्यमपि जह्यादिह व्रते ॥ ४० ॥ टीका- जह्यात् त्यजेत् श्रावकः । कानू, ग्रहणास्तरणोत्सर्गान् त्रीन् । किंविशिष्टान् अनवेक्षाप्रमार्जनान् । तथा अनादरं चतुर्थ, अनैकाम्यं च पञ्चम् । क्व, इहास्मिन् प्रोषधोपवासाख्ये व्रते । अत्र ग्रहण अर्हदादिपूजोपकरणपुस्तकादेरात्मपरिधानाद्यर्थस्य वाऽऽदानं । उपलक्षणात्तन्निक्षेपोऽपि आस्तरणं संस्तरोपक्रमणं । उत्सर्गो विण्मूत्रादीनां त्यागः । अवेक्षा जन्तवः सन्ति न सन्तीति वा चक्षुषा अवलोकन | प्रमार्जनं मृदुनोपकरणेन प्रतिलेखनं । अवेक्षा च प्रमार्जनं च अवेक्षाप्रमार्जने ते न विद्येते येषु तान् । इह चानवेक्षया दुर
1
Page #154
--------------------------------------------------------------------------
________________
१५०
सागारधर्मः ।
वेक्षणमप्रमार्जनेन च दुप्प्रमार्जन संगृह्यते नञः कुत्सार्थस्यापि दर्शनात् । यथा कुत्सितो ब्र ह्मणोऽब्राह्मणः । अनादर क्षुप डिवादावश्यक प्वनुत्साहः प्रोषधव्रत एव वा । तद्वदनैकान्यमपि अन्यमनस्कत्वम् ॥ ४० ॥ अथातिथिसंविभा व्रतं लक्षय त--
व्रतमतिथिसंविभागः पात्र विशेषाय विधिविशषेण ।
द्रव्यविशेषवितरण दातृविशेषस्य फल विशपाय : ४१ ॥ टीका-भवति। किंतत व्रतं नियमेन सेव्यता प्रतिपन्न वात् । तथा च सति अतिथ्यलाभेऽपि तद्दानफलभाक्त्वोपपत्तेः । किं नाम, अतिथिसंविभागः अतिथेः सम्यक् निर्दोषो विभागः स्वार्थकृतभक्ताद्य दानरूपः । एतदेव व्यक्तीकर्तुमाह-द्रव्यविशेषवितरण वश्यमाणलक्षण व शष्टद्रव्यदानं । कम्मै, पात्रविशेषाय। कस्य कर्तुः, दातृविशेषस्य । के न, विधिविशेषेण । कस्मै, फलविशेषाय ॥ ४१ ॥ अतिथिशब्दव्युत्पादनमुखेनातिथिलक्षणमाहज्ञानादिसिद्धयर्थतनुस्थित्यथानाय यः स्वयम् ।
यत्नेनातति गेहं वा न तिथियस्य सोऽतिथिः ॥ ४२ ॥ टीका-भवति । कोऽसौ, अतिथिः । यः किं, योऽतति सर्वदा गच्छति । किं तत्, गेहं दातृगृहं । केन, य नेन संयमाविराधनेन । कथं. स्वयं आह्वानादिना विना। किमर्थ, ज्ञानादी त्या दि-ज्ञानादीनां सिद्धिः सावनं सम्पूर्णीकरण ज्ञानादिसिद्धिरर्थः प्रयोजनं यस्याः सा ज्ञानादि सिद्धयर्था सा चासौ तनुश्च शरीरं ज्ञानादिसिद्धयर्थतनुः तस्याः स्थितिर्यावदायुरवस्थानं सैवार्थः प्रयोजनं यम्य तत्तदर्थ नच्च तदन्नं च भोजनं तम्मै वा । अथवा सोऽतिथिर्भण्यते । उपलक्षणात्पर्बोत्सवौ च । गस्ति तिथिर्यस्ये यतिथिरिति व्युत्पत्तेः । उक्तं च-" तिथिपर्वोत्सवाः सर्वे त्यक्ता येन महात्मना । अतिथिं तं विजानीयाच्छेषमभ्यागतं विदुः " ॥ ४२ ॥
पात्रस्वरूपसंख्यानिर्णयार्थमाह
Page #155
--------------------------------------------------------------------------
________________
पंचमोध्यायः ।
यत्तारयति जन्मान्धेः स्वाश्रितान्यानपात्रवत् । मुक्त्यर्थगुणसंयोगभेदात्पात्र त्रिधा मतम् ॥ ४३ ॥
टीका- -अस्ति भवति । किं तू. पात्रं । कतिधा, त्रिधा त्रिभेदं । कस्मात्. मुक्त्येति-मुक्तेरर्थो निमित्तं कारणं, मुक्तिर्वाऽर्थः प्रयोजनं येषां ते मुक्त्यर्थास्ते च ते गुणाश्च मम्याः र्शनादयो मुक्यगुणाग् तेषां संयोगः संयुज्यमानत्वं तेन भेदो विशेषस्तस्मात् । यति, यत्तारयति पारं पाययति । कान्, स्वाश्रितान् दानस्य कर्तृहेतुकनुमन्तून् । कम्मात् जन्माब्धेः संसारादणवादिव । किंवत् : यानपात्रवत् यानपात्रमम्भोधिस्थं यथा स्वाश्रितान् सांयात्रिकादीन् समुद्रातारयति तथा मादा श्रितान् यत्तारयति तत्पात्रमित्यर्थः ॥ ४३ ॥ एतदेव विशेषयन्नाह ---
-
१५१
यतिः स्यादुत्तमं पात्रं मध्यमं श्रावकोऽधमम् । सुदृष्टिस्तद्विशिष्टत्वं विशिष्टगुणयोगतः । ४४ ॥
टीका- स्यात् । किं तत्, पात्र किंविशिष्ट, उत्तममुत्कृष्टं । किं तत्, यतिः संयुज्यमान रत्नत्रयः । तथा मध्यमं पात्रं स्यात् । किं तत् श्रावकः संयुज्यमानसम्यग्दर्शनज्ञानविकल संयमः । तथा अधमं पात्र स्यात् । किं तत्. सुदृष्टि संयतसम्यग्दृष्टिः । स्वाच्च । किं तत्, तद्विशिष्टत्वं तेषामुत्तम- मध्यमाघमात्राणां विशेष: परस्परतः परेभ्यश्च भेदः । कस्मात् विशिष्टगुणयोगतः गुणविशेषसम्बन्धात् ॥ ४४ ॥
दानविधेः प्रकारान वैशिष्ट्यं चाह
प्रतिग्रहोच्चस्थानांप्रिक्षालनाचनतीर्विदुः ।
योगानशुद्धीच विधीन् नवादरविशेषितान् ॥ ४५ ॥ टीका - विदुः जानन्ति पूर्वाचार्याः । कानू, विधीन् दान योगोपायान् । कति, नव । किमाख्यान, प्रतिग्रहादीन् । किं विशिष्टान, आदरविशेषितान् आदरेण यथायोग्यभुक्त्युपचारेण वैशिष्ट्यं नीतान् । तत्र प्रतिग्रहः स्वगृहद्वारे यतिं दृष्ट्रा प्रसादं कुरुतेत्यभ्यर्थ्य नमोऽस्तु तिष्ठतेति त्रिर्भणित्वा स्वीकरण 1.
Page #156
--------------------------------------------------------------------------
________________
१५२
सागारधर्मः।
उच्चस्थानं स्वगृहान्तः स्वीकृतयति नीत्वा निरवद्यानुपहतस्थाने उच्चासन निवेशनं ॥ अप्रिक्षालनं च । अर्चा तथाक्षालितांप्रेः संयतस्य गन्धाक्षतादिभिः पादपूजनं । आनतिः तथापूजितसंयतस्य पञ्चाङ्गप्रणामकरणं । एते पञ्च । तथा योगशुद्धयो मनोवाक्कायप्रसत्तयस्तिस्रः । एका चान्नशुद्धिः । तत्र मनःशुद्धिरातरौद्रवर्जनं । वाक्शुद्धिः परुषकर्कशादिवचोवर्जनं । कायशुद्धिः सर्वत्र संवृताचारतया प्रवर्तनं ॥ अन्नशुद्धिः चतुदशमलरहितस्याहा. रस्य यतनया शोधितस्य हस्तपुटेऽर्पणम् ॥ ४५ ॥ देयद्रव्यविशेषनिर्णयार्थमाहपिण्डशुद्ध्युक्तमन्नादिद्रव्यं वैशिष्टयमस्य तु ।
रागाद्यकारकत्वन रत्नत्रयचयाङ्गता ॥ ४६ ॥ टीका-भवति । किं तत्, द्रव्यमर्थाद्देयं । किंविशिष्टमन्नादि आहारोषधावासपुस्तकपिच्छिकादि। किंविशिष्टं तत्, पिण्डद्ध्युशुक्तं पिण्डशुद्धौ पिण्डशुद्धिप्ररूपणार्थे पूर्वमनगारधर्मस्कन्धे पञ्चमाध्याये प्रतिपादितं । अस्य तु यथोक्तदेयद्रव्यस्य पुनर्भवति । किं तत्, वैशिष्टयं विशेषः । किं तत्, रत्नत्रयचयाङ्गता सम्यग्दर्शनादिवृद्धिकारणत्वं । केन, रागाद्यकारकत्वेन रागद्वेषासंयममददुःखचयाद्यजनकत्वेन ॥ ४६॥ दातृलक्षणं तद्वैशिष्टयं चाह
नवकोटीविशुद्धस्य दाता दानस्य यः पतिः ।
भक्तिश्रद्धासत्चतुष्टिज्ञानालोल्यक्षमागुणः ।। ४७॥ टीका-स दाता भण्यते पूर्वाचार्यः । यः किं, यो भवति। किंविशिष्टः, पतिः स्वामी प्रयोक्ता। कस्य,दानस्य देयस्य दत्तिक्रियाया वा । किविशिष्टस्य,नवकोटीविशुद्धस्य नवकोट्य मनोवाकायैः प्रत्येकं कृतकारितानुमतानि।अथवा देयशुद्धिस्तकृते च दातृ रात्रशुद्धी,दातृशुद्धिस्तत्कृते च देयपात्रशुद्धी,पात्रशुद्धिस्त कृते च देयदातृशुद्धी चेत्यार्पोक्ताः। नवकोटीभिर्विशुद्धमकृतपिण्डशुद्ध्युक्तदोषसम्पर्क आर्पोक्तं तत्पक्षे तु नवकोट्यो विशुद्धाः सुप्रसिद्धा यत्रेति विग्रहः ।
Page #157
--------------------------------------------------------------------------
________________
पंचमोध्यायः ।
१५३
किंविशिष्टः सन, भक्तीत्यादि भक्त्यादयः सप्तगुणाः विशेषणानि परासाधारणानि यस्य स तथोक्तः । तत्र भक्ति पात्रगुणानुरागः । श्रद्धा पात्रदानफले प्रतीतिः। सत्त्वं सत्त्वाख्यो मनोगुणः म्वल्पवित्तस्यापि स्वाट्याश्चर्यकारिदानप्रवृत्यङ्गं । तुष्टिः दत्ते दीयमाने च प्रहर्षः । ज्ञानं द्रव्यादिवदित्वं । अलौल्यं सां. सारिकफलानपेक्षा । क्षमा दुर्निवार कालुष्यका णो पत्तावपि कोपाभावः। तदुतं-भानिकं तौष्टिकं श्राद्धं सविज्ञानमलोलुपम् । सात्त्विक क्षमकं सन्तो दातारं सप्तधा विदुः॥१॥ किं च, सत्त्वादिगुणदातृकं दानमपि सात्त्विकादिभेदा त्रविधमिष्यते । तदुक्तं-आतिथयं हितं यत्र यत्र पात्रपरीक्षणम् । गुणाः श्रद्धादयो यत्र तदानं सात्त्विकं विदुः ॥१॥ यदात्मवर्णनप्राय क्षणिकाहार्यविभ्रमम् ॥ परप्रत्ययसम्भूतं दानं तद्राजसं मतम् ॥ २॥ पात्रापात्रसमावेक्षमसत्कारमसंस्तुतम् ॥ दासभृत्यकृतोद्योगं दानं तामसमूचिरे ॥ ३ ॥ उत्तम सात्त्विकं दानं मध्यम राजसं भवेत् ॥ दानानामेव सर्वेषां जघन्यं तामसं पुनः।। दानफलं तद्विशेषं च व्याचष्टे
रत्नत्रयोच्छ्रयो भोक्तुर्दातुः पुण्योच्चयः फलम् । ___ मुक्त्यन्तचित्राभ्युदयप्रदत्वं तद्विशिष्टता ॥४८॥
टीका-भवति । किं तत्, फलं दानस्य साध्य । कस्य, भोक्तुराहाराद्युपयोक्तुः । किं तत्, रत्नत्रयोच्छ्रयः सम्यग्दर्शनादीनामुद्गतिः तथा तत्फलं भवति । कस्य, दातुर्दायकस्य । किं तत्, पुण्योच्चयः, सुकृतराशिः । भवति । काऽसौ, तद्विशिष्टता तस्य दानस्य फलस्य वैशिष्टयं । कि तत् , मुक्त्यन्तेत्यादि चित्रा नानाप्रकारा इन्द्रचक्रिबलदेवतीर्थकरादिपदलक्षणाः विश्वविस्मयकराश्च अभ्युदयाश्चित्राभ्युदयाः, मुक्तिरनन्तज्ञानादिचतुष्टयप्राप्तिलक्षणं निःश्रेयस अन्ते अवसाने फलोपभोगच्छेदे येषां ते मुक्त्यन्तास्ते च ते चित्राभ्युदयाश्च मुक्त्यन्तचित्राभ्युदयास्तान् प्रकर्षणाप्रतिबन्धलक्षणेन ददाति सम्पादयतीति तत्पदं, तस्य भावस्तत्त्वम् ।।उक्तं च-पात्रदाने फलं मुख्यं मोक्षः सस्य कृषेखि ॥ पलालमिव भोगास्तु फलं स्यादानुषङ्गिकम् ॥ ४८ ॥
Page #158
--------------------------------------------------------------------------
________________
१५४
सागारधर्मः। गृहव्यापारप्रभवपातकापनोदनसामर्थ्य मुनिदानस्य दर्शयति
पञ्चमूना परः पापं गृहस्थः सचिनोति यत् ।
तदपि क्षालयत्येव मुनिदानविधानतः ॥ १९ ॥ टीका-यत्सापं सञ्चिनोति सम्बध्नाति स्थः । किविशिष्टः सन् , पञ्चसुनापरः, पेषणी कुट्टनी चुल्लो उदकुम्भी प्रमार्जनी चेति पञ्च क्रियाः सूना इति प्रसिद्धः । सूना इव सूनाः प्राणघातानसाधात् । पञ्च सनाः पराः प्रशनानि यस्य सः पञ्चसूनापरः । आसामवश्यम्भाबित्व द् गृहस्थस्य प्राधान्येनोपादानं । तेन ततो अन्यायपि पापकर्माणि गुणभावेन गृहिणः संगृह्यन्ते । क्षालयत्येव अवश्यं स्फे ति । गृहस्थः । किं तत्, तदपि पञ्चावश्यकार्यव्यापारहेतुकं पापं । अपिवि मय समुच्चये वा । न केवलं त. देव पापं क्षालयति व्यापारान्तरमभवम्पीयर्थः । कस्मात् , मुनिदानविधानतः मुनये उत्तमपात्राय दानं स्वरोकाराय स्वद्रव्यातिसर्जन मुनिदानं तस्य विधानं विधिवत्प्रयोगः तस्मात्तेन वा ॥ ४९ ॥ दानस्य कादीनां फल नि दृष्टान्तमुखेन स्पष्टयति--
यत्कर्ता किल बज्र नृपतिर्यत्कारयित्री सती श्रीमत्यप्यनुमोदका मतिवरव्याघ्रादयो यत्कलम् । आसेदुर्मुनिदानतस्तदधुनाऽप्याप्तोपदेशाब्दकव्यक्तं कस्य करोति चेतसि चमत्कारं न भव्यात्मनः ।।५०॥ टीका-किल एवं ह्याचे श्रूयते । यदासेतुः । के, तं मुनिदानस्य कादिभावमा पन्ना बज्रजङ्घमहाराज मृतः । कि, तत्फलं । कम्मात्, मुनिदानतः । तत्कस्य चेत स चमत्कार न करोती'त समुदायेनार्थकथनं । इयं तु प्रत्येकवास्यारिसमाप्तिरितनी प्रदश्यों । यत्किल बनजङ्घनृपतिरुत्पलखेटनगराधि तिर्वज्रजङ्घो नाम नृपतिराससाद प्राप्तः। किं, तत्फलं । कस्मात, मुनिदानतः । किं वशिष्टः सन्, कर्ता दानस्य स्वातंत्र्येण विधाता । यच्च
Page #159
--------------------------------------------------------------------------
________________
पंचमोध्यायः ।
१५५
आससाद । काऽसौ, सती पतिव्रता । किंनाम्नी, श्रीमती पुण्डरीकिणीनाथस्य वज्रदन्तचक्रिणः पुत्री वज्रजङ्घनृपतेः पत्नी । किं तत् . फलं । कस्मात, मुनिदानतः । किंविशिष्टा सती, कारयित्री स्वभर्तुर्दानं कुर्वतः प्रयोजयित्री। अपिः समुच्चये पूर्वोत्तस्त्र च चशब्दार्थे योज्यः । यच्च आसेदुः प्राप्ता । के. ते मतिवव्याघ्रादयो मुनेिदानतः फलं । मतियशे वज्रजवन मन्त्री आदिशब्दादानन्दो म तस्यैव पुरोहितोऽम्पनाभिधानः सेनापतिर्धनमित्रनामा च श्रेष्ठी । पुनगदिशब्दात्सूकरो वा-रो नकुलश्च गृह्यते । मतिवरश्च व्याघ्रश्च नतिवरव्याघ्रो तावादी येष मानन्दाव्यपुरोहितादीनां तद्वनवासिसकरादीनां च ते मतिवरव्याघ्रादय इति विग्रहः । किं विशिष्टाः सन्तः, अनुमोदका एष साधु करोतीति तदानस्यानुमन्तारः तत्कर्तृत्वकायितृत्व नुमोदकत्वपरिणामद्वारायातसुकृतसंघातहेतुकं मुनिदानफलं कर्तृ कम्य भव्यात्मनश्वेतसि चमत्कारं न करोति ? सर्वस्यापि करोतीत्यर्थः । कदा, अधुनाऽपि । किं पुनस्तत्काले। किंविशिष्ट सत्, आप्तोपदेशाब्दकव्यक्तं आप्तानां परापरगुरूणामुपदेशो रहस्यवाक्यमाप्तोपदेशः स एवाब्दक आदर्शः स्वविषयार्थस्पष्टप्रतीतिनिमित्तत्वादाप्तोपदेशाब्दकस्तत्र तेन वा व्यक्तं प्रतीतियोग्यतां नीतम्॥५०॥ अधुना अतिथ्यन्वेषण विधि श्लोकद्वयेनाह
कृत्वा माध्याकिं भोक्तुमुद्युक्तोऽतिथये ददे।
स्वार्थ कृतं भक्तमिति ध्यायन्नतिथिमीक्षताम् ॥ ५१ ॥ टीका-ईक्षतामतिथिसं विभागवती श्रावकः अन्वेषयतु । कं, अतिथि। किं कुर्वन्, ध्यायन एकाग्रतया चिन्तयन् । किम्, इति, एतत् । किमेतदित्याहददे प्रयच्छाम्यहं । किं तत्, भक्तमाहारं । कम्मै, अतिथये प्रागुक्तलक्षगाय । किंविशिष्टं, कृतं साधितं । किमर्थ, स्वार्थ आत्मार्थ आत्मनो निमन्त्रणादौ सत्यात्मीयार्थमपि । स्वस्मै इदं स्वार्थमित्यस्य कृता पदेन विग्रहः । कीदृशो भूत्वा, एतद्ध्यायन्नतिथिमीक्षतामित्यत्राह-उद्युक्तः उद्यतः । किं कर्तु, भोक्तु भोजनं करिष्याम्यहमित्यध्यवसानाभिमुखः । किं कृत्वा, कृत्वा विधाय । किं
Page #160
--------------------------------------------------------------------------
________________
१५६
सागारधर्मः।
तत्, माध्यान्हिकं मध्याहे भवं कर्म स्नानदेवार्चनादिकं ॥ ५१ ॥
द्वीपेष्वर्धतृतीयेषु पात्रेभ्यो वितरन्ति ये ॥
ते धन्या इति च ध्यायेदतिथ्यन्वेषणोद्यतः ॥ ५२ ॥ टीका-ध्यायेच्च चिन्तयेत् । कोऽसौ, अतिथ्यन्वेषणोद्यतः श्रावकः । किं. इति एतत् । वर्तन्ते । के, ते गृहस्थाः । किविशिष्टाः, धन्याः पुण्यवन्तः । ये किं, ये वितरन्ति यथाविधि प्रयच्छन्ति । केभ्यः, पात्रेभ्यः । केषु, द्वीपेषु किंविशिष्टेषु, अर्धतृतीयेषु जम्बूद्वीपेधातकीखण्डे पुष्करवरद्वीपस्य चार्धे अर्धतृतीयो येषां ते अर्धतृतीया इति विग्रहः ॥ ५२ ॥
भूम्यादीनां देयत्वं ग्रहणादौ च दानं नैष्ठिकस्य हिंसासम्यक्त्वोपघातहतुत्वप्रकाशनेन निषेद्धमाह
हिंसार्थत्त्वान्न भूगेहलोहगोश्वादि नैष्ठिकः।
दद्यान्न ग्रहसङ्क्रान्तिश्राद्धादौ च सुदृग्द्रुहि ॥ ५३ ॥ टीका-न दद्यान्न प्रयच्छेत् । कोऽसौ, नैष्टिको दर्शनिकादिगृही। किं तत्. भूगेहलोहगोश्वादि भूश्च भूमिर्गेहे व गृहं लोहं च शस्त्रोपादानं गौश्चानड्वाही अश्वश्च घोटको भूगेहलोहगोश्वास्ते आदयो यस्य कन्याहेमतिलदध्यन्नादेर्बादैः पुण्यार्थतया देयत्वेन समर्थितस्य द्रव्यस्य तद् भूगेहादिद्रव्यं नैष्ठिको न दद्यात् । कस्मात्, हिंसार्थत्वात् प्राणिवधनिमित्तत्त्वात् । एतस्योत्तरस्य च समर्थन ज्ञानदीपिकायां विस्तरतोऽभिहित प्रतिपत्तव्यं । न च दद्यान्नैष्ठिकः स्वद्रव्यं । कस्मिन् , ग्रहसंक्रान्तिश्राद्धादौ ग्रहःसूर्याचन्द्रमसोरुपरागः, संक्रान्तिः सूर्यस्य राश्यन्तरसंक्रमण, श्राद्धं मृतपित्राद्युद्देशेन दानं, ग्रहश्च संक्रान्तिश्च श्राद्धं च तान्यादयो यस्य वारव्यतिपातादेयैिः पुण्यार्थत्वेन समर्थितस्य पर्वणस्तग्रहादि पर्व तस्मिन् । तस्य पुण्यार्थदानविषयत्वकल्पनायांदोषसमर्थनार्थमाह-किंविशिष्ट तत्र, सुदृग्गुहि सम्यक्त्वघातके । यद्यपि च नैष्ठिक इति वचनात्याक्षिकस्यानुत्पन्नसम्यक्त्वावस्थतया भुम्यादिदानं न प्रतिषिध्यते
Page #161
--------------------------------------------------------------------------
________________
पंचमोध्यायः ।
तथापि ग्रहणादौ तस्यापि दानमविधेयमेव सम्यक्त्वोपघातस्य तेनाप्यवश्य
परिहार्यत्वात् ॥ ५३ ॥
तद्वता तिचारपरिहारार्थमाह
१५७
॥
4
त्याज्याः सचित्तीनक्षेपोऽतिथिदाने तदावृतिः । सकालातिक्रमपरव्यपदेशच मत्सरः || ४ || टीका - त्याज्याः तद्व्रतिना वर्जनीयाः । के ते सचित्त निक्षेपस्तदावृतिः कालातिक्रमपरव्यपदेशाभ्यां सह मत्तरश्चेत्यमी पञ्चातिचाराः । क्क, अतिथि - दाने अतिथिसंविभागवते । तत्र सचित्तनिक्षेपः - सचित्त सजीवे पृथिवीजलकुम्भोप (चुल्लि ) भुवल्लिधान्यादौ निक्षेपो देयस्य वस्तुनः स्थापनं ! तच्चादानबुद्ध्या तत्र निक्षेप्यमाणमतिचारः । तुच्छबुद्धिः खलु सचितनिक्षिप्तं किल संयता न गृह्णन्तीत्यभिप्रायेण देयं सचित्ते निक्षिपतीति तच्च । संयतध्वगृह्णत्सु लाभोऽयं ममेति च मन्यते इति प्रथमः ॥ १ ॥ तदावृतिः तेन सचित्तेन पत्रपुष्पादिना तथाविधयैव बुद्ध्या आवृतिराच्छादनं द्वितीयः ॥ अथवा सचित्तनिक्षिप्तं तत्पिहितं च संयतस्थाजानतः प्रयुज्यमानमतीचारः ॥ २ ॥ कालातिक्रमः साधूनामुचितस्य भिक्षासमयस्य लङ्घनं । स च यतीनयोग्ये काले भोजयतोऽनगारवेलाया वा प्रागेव पश्चाद्वा भुञ्जानस्य च तृतीयः स्यात् || ३ || परव्यपदेशः परस्यान्यस्य सम्बन्धीदं गुडखण्डादीति विशेषेणापदेशो व्याजाद्यदि वाऽयमत्र दाता दीयमानोऽप्ययमस्येति समर्पण चतुर्थः ॥ ४ ॥ मत्सरः कोपः । यथा मार्गितः सन् कुप्यति, सदपि वा मार्गितं न ददाति प्रयच्छतोऽप्यादराभावो वा अन्यदातृगुणासहिष्णुत्वं वा मत्सरः । यथाऽनेन तावच्छ्रावण मार्गितेन दत्तं किमहमस्मादपि हीनः इति परोन्नतिवैमनस्याददाति । एतच्च मत्सरशब्दस्यानेकार्थत्वात्सङ्गच्छतं ॥ तदुक्तं-मत्सरः परसम्पत्त्यक्षमायां तद्वति क्रुधि ॥ एते पूर्वे चाज्ञानप्रमादानामतिचाराः । अन्यथा तु भङ्गा एवेति विभावनीयम् ॥ ५४ ॥
7
Page #162
--------------------------------------------------------------------------
________________
१५८
सागारधर्मः
प्रकतार्थोपसंहारपुरस्सरमुक्तशेषं निर्दिशन् श्रावकस्य महाश्रावकत्वमाह -
एवं पालयितु व्रतानि विदधच्छीलानि सप्तामला-- न्यागूणः समितिघनारतमनोदीप्राप्तवाग्दीपकः । वैयावृत्यपरायणो गुणवतां दीनानतीवोद्धरं--
श्चयाँ दैव सकीमिमां चरति यः स स्यान्महाश्रावकः ॥५५॥ टीका-सात् भवेत् । काऽसौ, स गृही। किंविशिष्टो, महाश्रावकः महानिन्द्रादीनां पूज्यः । शृणोति तत्वं मुरुभ्य इति श्रावकः महांश्चासौ श्रावकश्च महाश्रावकः । यः किं. यश्च ति अनुतिष्ठति । कां, चर्या आचारं । किंविशिष्टां, देवसिकी दिवसे अहोर भवा देव सिकी तां । पुनः किंविशिष्टां, इमां अनन्तराध्याये वक्ष्यमाणां । किं कुर्वन, विदधत् आचरन् । कानि, शीलानि व्रतपरिरक्षणानि । कति, सप्त गुणन त्रिशिक्षात्रतचतुष्टयलक्षणानि । किंविशिष्टानि विदधत् , अभकानि निरत वाराण। कथं, एटमुक्तप्रकारेण । किं कर्तु, पालयितुं पालयिष्याम्यहमित्यभिप्रायेण । कानि, व्रतानि सम्यग्दर्शनपूर्णणि निरतिचार न णुव्रना न । किंविशिष्ट सन्, अ गूणः उद्यतः । कासु, समितिषु
श्रुननिरूपितक्रमणेभ षैषणादाननिक्षेपोमग प्रभृतिषु संयमरूपाणुव्रतनिष्ठ .इत्यर्थः । अणुव्रतम्हात्रतानि हि समि नसहित न स मन्तद्रहितानि विरतिर त सिद्धान्तः । तदुक्तं-अणुवयमहव्ययाइं समडीसहिदायिं संजमो समिदिहिं विणा विरदि इति पुनः किंविशिष्टः, अनारतमनोदीप्राप्तवाग्दीपकः आप्तानां पराप गुरूगां वाग्वचनमाप्तवाक् तज्जन्यश्रुतज्ञानमिह पृथते । कारणे कार्योपचारात्। आप्तवागेव दीपकः प्रदीप: स्वपरप्रकाशकत्वादाप्तवाग्दीपकः परमारमनदीपकः, अनारतं सततं मनसि चित्त दीग्रो दीपनशीलोऽनारतमलोदीप्रस्तथाविध आप्तवाग्दीपको यस्य स तथोक्तः । पुनः किंविशिष्टी, वैयावृत्यपरायणो वैवावृत्त्यं निरवद्यवृत्त्या आपत्प्रतीकारः तत्र परायणस्तत्परः। केषां, गुणवतां गुणभाजां संयमविकल्पातिशयभाजां रत्नत्रयाराधकानां वा । पुनः
Page #163
--------------------------------------------------------------------------
________________
पंचमोध्यायः ।
१५९
किं कुर्वन्, उद्धरन् दुःखाद्विमोचयन्। कान्, दीनान् अवृत्तिव्याधिशोकानि । कथे, अतीव राक्षिकाद्यपेक्षयाऽतिशयेन । एतेन सम्यग्दर्शनशुद्धत्वं व्रतभूष गभूषितत्वं निमलशीलनिधित्व संवमनिष्ठत्वं जिनागमज्ञत्वं गुरुशुश्रूषकत्वं दयादिसदाचारपरत्वं चेति सप्तगुणयोगान्महाश्रावकत्वं कस्यचित् कृ तनः कालादिलब्धिविशेषवशाद्भवतीति तात्पर्यार्थोऽत्र प्रतिपत्तव्य इति भद्रम् ।। ५५॥
इत्याशावरविरचितायां त्वोपशधर्मामृतसागारधर्मदीपकायां भव्यकुमुदचन्द्रिकासज्ञायामादितश्चतुर्दश: प्रक्रमाच्च पञ्चमोऽध्यायः समाप्तः ॥ ५ ॥
अथ षष्ठोऽध्यायः। इदानीमाहोरात्रिकमाचारं श्रावकस्योपदेणुकाम: पूर्व पौर्वाह्निकीमितिकर्तव्यतां चतुर्दशभिः श्लोका करोति--
ब्राह्म मुहर्ते उत्थाय वृत्तपंचनमस्कृतिः।
कोऽहं को मम धर्मः किं व्रतं चेति परामृशेत् ॥१॥ टीका-परामृशेत् चिन्तयेत् श्रावकः । किं, इति एतत् । तद्यथा-कोऽहं क्षत्रियो ब्राह्मणा दिवा इक्ष्वाकुवंशोद्भवोऽन्यवंशोद्भवो वाहमित्यादि चिन्तयेत् । तथा को मम धर्मा जैनोऽन्यो वा श्रावकीयो यत्यादिसंबंधी वा--मे देवादिसाक्षिक प्रतिपन्नो वृष इति चिंतयेत् । तथा किं व्रतं मूलगुणरूपमगुव्रतादिरूपं वा गम । चशब्दात् के गुरवो ममेति, कुत्र ग्रामे नगरादौ वा वसामीति, कोऽयं काल: प्रभातादिरिति चेत्यादि समुच्चीयते । स्ववर्णादिस्मृतौ हि तद्विरुद्धपरिहारं सुखेन करोति । कथम्भूतो भूत्वा, वृत्तपञ्चनमस्कृतिः अन्तर्जल्पेन बहिर्जल्पेनापि वा वृत्ता पठिता पञ्चनमस्कृतिः णमो अरिहंताणमित्यादिगाथारूपः पञ्चनमस्कारो येन स तथोक्तः । किं कृत्वा
Page #164
--------------------------------------------------------------------------
________________
१६०
सागारधर्मः ।
तेनेत्याह-उत्थाय विनिद्रीभूय । क, मुहूर्ते नाडीद्वये । किंविशिष्टे, ब्राह्मे ब्राह्मी सरस्वती देवता अस्यति ब्राह्मस्तस्मिन्निशावसानघटिकाद्वय इत्यर्थः । तदुक्तं-ब्राह्मे मुहूर्ते उत्थाय सर्वकार्याणि चिन्तयेत् । यतः करोति सान्निध्य तस्मिन् हृदि सरस्वती ॥ १ ॥ ततः
अनादौ बम्भ्रमन् घोरे संसारे धर्ममार्हतम् ।।
श्रावकीयमिमं कृच्छ्रात् किलापं तदिहोत्सहे ॥ २ ॥ टीका-फिल एवं ह्यागमे श्रूयते आपं प्राप्तोऽहं । कं, धर्म । किविशिष्टं, आहेतं अर्हता वीतरागसर्वज्ञेन प्रोक्तं । किंप्रयोक्तृकं, श्रावकीय श्रावकाणामयं श्रावकीयस्तमुपासकोपासनीयमित्यर्थः । कीदृशम, इमं इदानीमप्यतःस्फुरतं । कस्मादापं, कृच्छात् जगत्यनन्तैकेत्यादिना प्रागुक्तात् । किं कुर्वन, बम्भ्रमन् कुटिलं पर्यटन् । क, संसारे द्रव्यक्षेत्रकालभवभावपरिवर्तनरूपे आजवञ्जवभावे । किंविशिष्टे, घोरे भयङ्करे । पुनः किंविशिष्टे, अनादौ नास्ति आदिः पूर्वी यस्यासावनादिः तस्मिन् बीजाकुरन्यायेन सन्तत्या वर्तमान इत्यर्थः । तत्तम्भात् उत्सहे प्रमादपरिहारेण वर्तेऽहं । क. इहास्मिन् अत्यन्तदुर्लभे धर्मे।।२।।
इत्यास्थायोत्थितस्तल्पाच्छुचिरेकायनोऽर्हतः। निर्मायाष्टतयीमिष्टिं कृतिकर्म समाचरेत् । ३ ।। टीका-समाचरेत् सम्यगनुतिष्ठेत् वतिकः । किं तत् , कृतिकर्म योग्यकालासनेत्यादिना प्राक्प्रबन्धेन सूचितप्राय वन्दनाविधानं । किं कृत्वा, निर्माय कृत्वा । कां, इष्टिं पूजां किंविशिष्ट म्. अष्टतयीं अष्टौ जलगन्धाक्षतादयोऽवयवा यस्याः सा अष्टतयी तामष्टविधामित्यर्थः । कस्य, अर्हतोः भगवतोहदेवस्य। उपलक्षणात् श्रुतम्य गुरुचरणानां च। किंविशिष्टः सन, एकायनः एकाग्रमनाः । कथम्भृतो भूत्वा, शुचिः शरीरचिंतां कृत्वा विधिवद्विहितशौचस्नानदन्तधावनादिक्रियः । एतच्चानुवादपरं लोकप्रसिद्धत्वान्मलोत्सर्गाद्यर्थस्य नोपदेशः । परमप्राप्ते शास्त्रस्यार्थवत्त्वादेवमुत्तरत्राप्यप्राप्त आमुप्मिकादिविपये उपदेशः फलवानिति चिन्त्यं । किविशिष्टः सन, उस्थितः उत्थीभूतः
Page #165
--------------------------------------------------------------------------
________________
षष्ठोध्यायः ।
कस्मात् , तल्पात् त्यक्तशयनीय इत्यर्थः । किं कृत्वा, आस्थाय प्रतिज्ञाय। कथम्, इत्येवमनादावित्यादिना पूर्वोक्तप्रकारेण ।। ३ ।। ततश्च
समाध्युपरमे शान्तिमनुध्याय यथावलम् ।
प्रत्याख्यानं गृहीत्वेष्टं प्रार्थ्य गन्तुं नमेत् प्रभुम् ॥ ४॥ टीका-नमेत् पञ्चाङ्गप्रणामेन नमस्येत कृतक्रियः श्रावकः । कं, प्रभु अर्हदेवं । किं कर्तु, गन्तुं इष्टदेशान्तरं विहर्तु । किं कृत्वा, प्रार्थ्य याचित्वा । किं तत्, इष्टं वांछित पुनदर्शनसमाधिमरणादिकं । किं कृत्वा, गृहीत्वा प्रतिपद्य । किं तत्, प्रत्याख्यानं भोगोपभोगादिनियमविशेष । कथं, यथाबलं शस्यनतिक्रमेण । किं कृत्वा, अनुध्याय अनुचिन्त्य । कां, शान्ति येऽभ्यर्चिता मुकुटकुण्डलहाररत्नरित्या दिगंबधेन श्रूयमाणां । क सति, समाध्युपरमे समाधेरवश्यकरणीयस्य धर्म्यध्यानस्य निवृत्तौ ॥ ४ ॥ ततश्च
साम्यामृतसुधौतान्त-रात्मराजज्जिनाकृतिः ।
दैवादैश्वर्यदौर्गत्ये ध्यायन गच्छेज्जिनालयम् ॥५॥ टीका-गच्छेत् व्रजेत् तथानुष्ठितावश्यकः श्रावकः । कं, जिनालय अर्हचैत्यगृहं । किंविशिष्टः सन, सामेत्यादि साम्य जीवितमरणादौ समतापरिणामस्तदेवामृतं प्रसक्तिप्रकर्षहेतुत्वात्तन सुष्टु संस्कारदाढ्यलक्षणप्रकर्षापादनेन अतिशयन धौतः क्षालितो विशुद्धिमापादितः अन्तरात्मा स्वपरभेदज्ञानोन्मुखमन्तःकरणं तत्र राजन्ती दीप्यमाना जिनाकृतिः परमात्ममूर्तिर्यस्य सतथोक्तः। किं कुर्वन् गच्छेद्, ध्यायन् चिन्तयन् । के, ऐश्वर्यदौर्गत्ये ऐश्वर्यमद्याधिपत्यं दौर्गत्यं दारिद्यं ऐश्वर्व च दौर्गत्यं च ऐश्वर्यदौर्गत्ये सम्भवत इति ध्यायन् । कम्मात् , दैवात् पुराकृतशुभाशुभकर्मविपाकात्। इदमत्रदम्पर्य यदीश्वरो महद्धिको राजा सामन्तादिर्वा भवति तदा पुण्यविपाकप्रभवा सम्पदिय न पौरुषेयी तदस्यां कथमात्मज्ञो मदमुपयादिति भावयन् गच्छेत् । अथ दरिद्रस्तदा पापविपाकजनितमिदं दारिद्यदुःख न कनापि च्छेत्तुं
Page #166
--------------------------------------------------------------------------
________________
१६२
सागारधर्मः।
शक्यं तदत्र को बुद्धिमान् विषादमासीदतीति भावयन गच्छेदिति ॥५॥
अनुवादमुखेन चैयालयबजनविधिमाह- यथाविभवमादाय जिनाद्यर्चनसाधनम् ।
व्रजन्कौत्कुटको देशसंयतः संयतायते ॥ ६॥ टीका-संयतायते संयत यति मिवात्मानमाचरति । कोऽसौ, देशसंयतः श्रावकः । किं कुर्वन्, व्रजन्गच्छन् । किंविशिष्टः सन, कौकुटिकः पुरो युगमाप्रेक्षीत्यर्थः । कि कृत्वा, आदाय गृहीत्वा । किं तत् , जिनादीनामर्हच्छ्रता. चार्याणामचनसाधन पूजाङ्ग जलगन्धाक्षतादिकं । कथं यथाविभवं स्वसम्पदनुसारेण ॥ ६ ॥
दृष्ट्वा जगद्बोधकरं भास्करं ज्यातिराहतम् ।
स्मरतस्तद्हशिरोध्वजालोकोत्सवोऽघहत् ॥ ७ ॥ टीका-भवति । कोऽसौ, तद्गृहशिरोध्वजालोकोत्सवः जिनचैत्यालयशिखरकेतनदर्शनानंदः । किविशिष्टोऽघहत् पापहरः । कस्य, तथागच्छतः श्रावकस्य । किं कुर्वतः, स्मरतः स्मृतिविषयीकुर्वतः । किं तत्, ज्योति: ज्ञानमय वाङ्मयं वा तेजः । किविशिष्टमार्हतं जैनं । किं कृत्वा, दृष्ट्वा आलोक्य । कं भास्करमादित्यं । किविशिष्टं, जगबोधकरं जगतां दिवाचरप्राणिनां बोधं निद्रापनोदं करोतीत्येवंशील उद्यन्तमित्यर्थः । पक्षे बहिरात्मप्राणिनां मोहनिद्राप्रहरणशीलम् ॥ ७ ॥
वाद्यादिशब्दमाल्यादिगन्धद्वारादिरूपः।
चित्रैरारोहदुत्साहस्तं विशेनिसहीगिरा ॥ ८ ॥ टीका-विशेत् प्रविशेदसौ । कं, तं जिनालयं । कया, निसहीगिरा निसहीति शब्दमुच्चारयन्नित्यर्थः । किविशिष्टः सन्, आरोहदुत्साहः प्रवर्द्धमानधर्माचरणोद्योगः । कैः, वाद्यादीत्यादि वाद्यानां प्राभातिकतूर्याणामादिशब्देन स्वाध्यायस्तुतिमङ्गलगीतादीनां च शब्दैनिनादैः । तथा माल्यादीनां चम्पकपुष्पा
Page #167
--------------------------------------------------------------------------
________________
षष्ठोध्यायः।
१६३
दिमालानां आदिशब्देन धू।चूर्णादीनां च गंधैरामोदैस्तथा द्वारस्य प्रवेशमुखस्य आदिशब्देन तोरणस्तम्-शिवरादीनां च रूपकैश्चतनाचेतनप्रतिच्छन्दैः। किंविशिष्टः, चित्रैर्नानाप्रकारैविस्मयकरैश्च ।। ८ ॥
क्षालितांघ्रिस्तथवान्तः प्रविश्यानन्दनिर्भरः । __ त्रिः प्रदक्षिणयेनत्वा जिनं पुण्याः स्तुतीः पठन् ॥ ९॥
टीका-प्रदक्षिणयेत् प्रदक्षिणीकुर्यादसौ । कं, जिनं स्थापनार्हन्त । कथं, त्रिस्त्रीन् वारान् । किं कुर्वन्, पठन् निगदन । का:, स्तुतीः स्तवनवाक्यानि । किंविशिष्टाः, पुण्याः ज्ञानसंवेगादिगुणप्रव्यक्तीकरणेन अशुभकर्मनिर्जरणीः पुण्यासवणीश्च । किं कृत्वा, नत्वा त्रिःप्रणम्य जिनं । किंविशिष्टः सन्, आनन्दनिर्भरः प्रमोदपूरितसर्वोगः । किं कृत्वा, प्रविश्य आक्रम्य । किं तत् , अन्तः चैत्यालयमध्यदेश। कथं, तथैव निसहीगिरैव । कथम्भूतो भूत्वा, क्षालितानिः धौतपादः ॥९॥
सेयमास्थायिका सोऽयं जिनस्तेऽमी सभासदः।। चिन्तयन्निति तत्रोचैरनुमोदेत धार्मिकान् ॥ १०॥ टीका-अनुमोदेत साधु इमे अनुतिष्ठन्तीति मनसाऽभिनन्देदसौ । कान् धार्मिकान् धर्म चरतोऽनगारसागारभव्यजनान् । कथमुच्चैरतिशयेन मुहुर्मुहुरित्यर्थः । क्व, तत्र चैत्यालये । प्रदक्षिणीकरणे वा । किं कुर्वन, चिन्तयन परामृशन् । कथं, इति । किमिति, इयं चैत्यालयभूमिः सा आगमप्रसिद्धा आस्थायिका समवसरणभूमिः, तथा अयं प्रतिमार्पितो जिनः स आगमप्र. सिद्धोऽष्टमहाप्रातिहार्यादिविभूतिभूषितोऽर्हन् , अमी आराधकभव्यास्ते आगमप्रसिद्धाः सभासदः सभ्या यत्यादयो द्वादश साक्षादहदेवसेवावहिताः ॥१०॥ ___ अर्यापथसंशुद्धिं कृत्वाऽभ्यर्च्य जिनेश्वरम् ।
श्रुतं सूरिं च तस्याग्रे प्रत्याख्यान प्रकाशयेत् ॥ ११ ॥ टीका-प्रकाशयेत् प्रतिपादयेदेष महाश्रावकः । किं तत्, प्रत्याख्यानं
Page #168
--------------------------------------------------------------------------
________________
सागारधर्मः।
प्राग्गृहे गृहीतं । क, अग्रे । कस्य, तस्य सूरः । किं कृत्वा, अभ्यर्च्य अभिमुख पूजयित्वा। कं, जिनेश्वरं श्रुतं सूरिं च । किं कृत्वा, कृत्वा विधाय । कां, ईर्यापथसंशुद्धिं । कथं, अथ प्रणामपूर्वकपुण्यस्तुतिपाठविशेषप्रदक्षिणीकरणानंतरमिति समन्वयः । अयमत्र विशेषः-ईर्या ईरणं गमनं पन्था मार्गो यस्य तदीर्यापथं संयमविराधनं तस्य संशुद्धिः सम्यक् शोधनं प्रतिक्रमणमित्यर्थः । अभ्यर्च्य " जावरहंताणं भयवंताणं णमोकारं करोमि " इति वचनात् । प्रतिक्रमणानन्तरं नमोहऽद्भय इत्यनेन " जयति निर्जिताशेषसर्वथैकान्तनीतयः । सत्यवाक्याधिपाः शश्वविद्यानन्दा जिनेश्वगः" इत्यादिना वाचनिकनमस्कारेण जलादिपूजाष्टकेन वा अभिसुखं पूजयित्वा । एष क्रमः श्रुतसूर्योरपि यथास्वं कल्भ्यः। स एष जघन्येन वन्दनाविधिः प्रकर्षवृत्याऽस्य. प्रथममेव गृहेऽनुष्ठानोपदेशात् ॥ ११ ॥
ततश्चावर्जयेत्सर्वान्यथाहं जिनभाक्तिकान् ।। व्याख्यातः पठतश्चार्हद्वचः प्रोत्साहयेन्मुहुः ॥ १२ ॥ टीका-ततश्च प्रत्याख्यानप्रकाशनावसानक्रियाकल्पनिवर्तनानन्तरं आवजयेदनुरञ्जयेदसौ । कान, जिनभाक्तिकान् अर्हदेवाराधकान । किंविशिष्टान्, सर्वान् उत्तमादिभेदभिन्नान् । कथं, यथार्ह यथायोग्यप्रतिपत्त्या । तत्र मुनीन्नमोऽस्त्विति आर्यिका वंदे इति श्रावकानिच्छामीत्यादिप्रसिद्धविनयकर्मणोपचरेदित्यर्थः । उक्तं च-अर्हद्रूपे नमोऽस्तु स्याद्विरतौ विनयक्रिया । अन्योन्य क्षुल्लके चार्ह मिच्छाकारवचः सदा ॥ तथा प्रोत्साहयेत् प्रकर्षण उद्योगवतः कुर्यादसौ। कान्, पुरुषान् । किं कुर्वतो, व्याख्यातः पदपदार्थादिसमर्थनलक्षणेन विशेषेण आ शिष्यबोधोत्पत्तेर्वर्णयत उपाध्यायादीनित्यर्थः । किं तद्व्याख्यातः, अर्हद्वचः परमागमयुक्तयागमशब्दागमादिभेदं जिनप्रवचनं । न केवलं व्याख्यातः पठतश्च अधीयानान शिप्यादीनित्यर्थः । कथं, मुहुः पुनः पुनः ॥ १२ ॥
Page #169
--------------------------------------------------------------------------
________________
पठोध्यायः ।
१६५
स्वाध्याय विधिवत्कुर्यादुद्धरेच विपद्धतान् ।
पक्वज्ञानदयस्यैव गुणाः सर्वेऽपि सिद्धिदाः ॥ १३ ॥ टीका-कुर्यादसौ। कं, स्वाध्यायं श्रुताध्ययनं यथोचितं वाचनादिरूपं वा। किंवत,विधिवत शास्त्रोक्तविधानेन व्यंजनशुद्धयादिलक्षणाष्टविधवचनेन। तथा उद्धरेत् विपदो विमोचयेदसौ । कान्, विपद्धतान् शारीरमानसासातशातितशक्तीन् दीनानित्यर्थः । यतो भवन्ति । के ते, गुणाः काठिन्यत्यागशौर्यसौन्दर्यादयः। किंविशिष्टाः, सिद्धिदा: वाञ्छितार्थसंपादका मुक्तिप्रदा वा । किं केचिन्नेत्याह, सर्वेऽपि निःशेषाः । कस्य, पक्वज्ञानदयस्यैव पुसः ज्ञानं तत्त्वावबोधः दया सर्वपाणिषु करुणा दुःखोच्छित्त्याभिलाषलक्षणा, ज्ञानं च दया च ज्ञानदये, पक्के परिणते सात्मीभूने ज्ञानदये यस्य स पक्कज्ञानदयस्तस्यैव । न तु बहियोतिज्ञानस्य कादाचित्कानुकंपस्य चैवेत्येवशब्दार्थः ॥ १३ ॥ एवं विधेयमाचरणमुपदिश्य निषिद्धं तदुपदेष्टुमाह
मध्येजिनगृहं हास विलास दुःकथां कलिम् ।
निद्रां निष्ठ्यूतमाहारं चतुर्विधमपि त्यजेत् ॥ १४ ॥ टीका-त्यजेदसौ हास्यादीन् सप्त । के, मध्येजिनगृहं जिनगृहमत्र महाआवकापेक्षया सकलश्चैत्यालयः इतरापेक्षया तदेकदेशो गन्धकुटीमात्रं । जिनगृहस्य मध्ये मध्यजिनग्रहं । पारे मध्ये तया वेत्यनेनाव्ययीभावः । हासो हास्य विलासः शृंगारचेष्टाविशेषः । दुःकथा दुष्टा चित्तकालुप्यकारिणी कथा कामक्रोधादिकथा राजादिकथा वा । कलिः कलहः । निद्रा स्वापः । निष्ठ्यूतं मुखश्लेष्मादिनिरसनं । आहारं चतुर्विधं खाद्यस्वाद्यलेह्यपानलक्षणम् ॥१४॥ एवं प्राभातिकं धर्मकर्मोपदिश्यानन्तरविधेयमर्थार्जनादिविधिमभिधत्ते
ततो यथोचितस्थानं गत्वाऽर्थेऽधिकृतान् सुधीः ।
अधितिष्ठद्वयवस्यद्वा स्वयं धर्माविरोधतः ॥ १५ ॥ टीका-ततः प्राभातिकधर्मानुष्ठाननिष्ठापनानन्तरं अधितिष्ठेत् सनाथी
Page #170
--------------------------------------------------------------------------
________________
१६६
सागारधर्मः।
कुर्यात् । कोऽसौ, सुधीः लोकद्वयहिताहितवित्रा चतुरः श्रावकः । कान, अर्थेऽधिकृतान् अर्थस्यार्जने रक्षणे वर्द्धने च नियुक्तान् । किं कृत्वा, गत्वा प्राप्य । किं तत्, स्थानं प्रदेशं । किंविशिष्टं, यथोचिंत यद्यद्य यार्थार्जनादियोग्य तत्तत्तेन गम्यमित्यर्थः । वा पक्षांतरे । ताहक्सामग्न्यभावे। पुनः सुधी: स्वयमात्मना अर्थ व्यवस्येत् तदर्जनादौ व्याप्रीयेत् । कस्मात्, धर्माविरोधतः प्रतिपन्नजिनधर्मानुपघातेन । स च राज्ञां दरिद्रेश्वरयोर्मान्यामान्ययोरुत्तमनीचयोश्च माध्यस्थ्येन न्यायदर्शनात् नियोगिनां च राजार्थप्रजार्थसाधनेन, वणिजां च कूटतुलामानादिपरिहारेण, वनजीविकादिपरिहारेण च बोद्धव्यं ॥१५॥ पौरुषस्य वैफल्यसाफल्यादौ विषादहर्षपरिहारार्थमाह
निष्फलेऽल्पफलेऽनर्थफले जातेऽपि पौरुपे।
न विषीदेनान्यथा वा हृष्येल्लीला हि सा विधेः ।। १६ ।। टीका-न विषीदेत् न विषादं गच्छेदसावर्थानुबंधपरः । क्च सति, पौरुषे पुरुषकारे । किंविशिष्ट, जाते निष्पन्ने । कीदृशे, निष्फले चिकीर्षितप्रयोजनवन्ध्ये । तथा अल्पफले सम्भावितार्थलाभान्न्यूनार्थलाभे । तथाऽनर्थफले अनर्थोऽर्थनाशादिलक्षणपुरुषार्थभ्रंशः फलं साध्य यस्य सोऽनर्थफलस्तस्मिन् । अपिः ससुच्चये । न वा हृष्येत् हर्ष गच्छेदसौ । क्व सति, पौरुषे जाते सति। कथं, अन्यथा सफले बहुफलेऽर्थानुबन्धफले पीत्यर्थः । कुत इत्याह-हि यस्मात् वर्तते । काऽसौ, सा पौरुषस्य नैष्फल्यसाफल्या दिजननलक्षणा लीला निरंकुशप्रवृत्तिः । कस्य, विधेः पुरार्जितपापपुण्यकर्मणः ।। १६ ॥ अथ प्राणयात्राविध्यर्थ नवश्लोकीमाह
कदा माधुकरी वृत्तिः सा मे स्यादिति भावयन् ।
यथालाभेन सन्तुष्ट उत्तिष्ठेत तनुस्थितौ ॥ १७ ॥ टीका-ततश्च उत्तिष्ठेत अर्थचिन्तातो विरम्योद्यमं कुर्यादसौ । क, तनु. स्थितौ शरीरस्वास्थ्यानुवृत्तिनिमित्तप्रवृत्तौ । किविशिष्टः सन् . सन्तुष्टः धृति
Page #171
--------------------------------------------------------------------------
________________
षष्ठोध्यायः ।
१६७
गतः । केन, यथाला भेन यो यो लाभो मूलधन दधिकं धनं तेन । कि कुर्वन्, भावयन् चित्त धारयन् कि, इति तत् किमेतदित्याह, कदा कम्किाले म्याद्भविष्यति । काऽसो, सा सूत्रोक्ता वृत्तिः अर्थात् भिक्षा । कस्य, मे मम । किंविशिष्टा, माधुकरी मधुकाणां भ्रमरादीनामियं माधुकरी तत्संबंधिनीव । घुप्पाणामिव दातृणामनु पंडिनेनात्मप्रीणनहेतुत्वात् ॥ १७ ॥
नीरगोरसधान्यै शाकपुष्पाम्बरादिभिः।
क्रीतैः शुद्धयविधेिन वृत्तिः कल्प्याऽघलाघवात् ॥१८॥ टीका-कल्या सभा द्यः श्रावकेण । काऽसौ, वृत्तिः स्वास्थ्यानुवृत्तिः । कस्मात्, अघलाघव त् पाशामत्वात् । तदाश्रित्येत्यर्थः । कैः कल्प्या, नीरादिभिः । किंवि'शष्टे:. क्र तैः मूल्यदानेन गृहीतैः । केन, शुद्धयविरोधेन स्वप्रतिपन्नसम्यक्त्वव्रतानु घातन । तत्र नीरं जलं गोरसः क्षीरादिः धान्य तण्डुलादिः एधांसि इन्धनानि शाक पत्रादिहरितकं पुप्पाम्बरादि कुसुमवस्त्रग्वट्वापट्टकतृणादि ॥ १८ ॥
सधर्मिणोऽपि दाक्षिण्याद्विवाहादौ गृहेऽप्यदन् । निशि सिद्धं त्यजेद्दीनैर्व्यवहारं च नावहेत् । १९॥ टीका-त्यजेदसौ । किं तत्, सिद्धं निष्पन्नमन्नं । क, निशि रात्रौ तदा यन्नपाके त्रसघातपातौ परिहमशक्यौ । किं कुर्वन्, अदन भुञ्जानः । क्व, गृहे । कस्य, सधर्मिणोऽपि न परं पुत्रादेः । किं तदास नसाधर्मिकस्यापि । कस्मात्, दाक्षिण्यात् उपरोधवशात् । क्व, विवाहादावपि न परमिष्टभोज्यादौ । तथा नावहेत् न कुर्यात् । कं, व्यवहारं · दानप्रतिग्रहादिलक्षणं कर्म । कैः सह, हीनः सर्वधर्मधनादिना रहितैररुपैर्वा गृहि भिः सह ॥१९॥
उद्यानभोजन जन्तुयोधनं कुसुमोच्चयम् । . ___ जलक्रीडान्दोलनादि त्यजेदन्यच्च तादृशम् ॥ २० ॥ टीका-त्यजेदसौ। किं तत, उद्यानभोजनं उद्यानिकायां जेमनं । तथा
Page #172
--------------------------------------------------------------------------
________________
सामारधर्मः
१६८
जन्तुयोधनं पदातिकुक्कुटमेषादीनां परस्परसम्प्रहारं । तथा कुसुमोच्चयं पुष्पावचयं । तथा जलक्रीडां शृङ्गारादिभिः सहर्षस्पर्द्ध जलव्यात्युक्षीं तथा आन्दोन दोलाखेलनकर्म । आदिशब्देन चैत्रासितप्रतिपदादिषु भस्मव्यतिकारि परिहासादि । किं बहुना, अन्यच्च परमपि तादृशं द्रव्यभाव हिंसाबहुलं । कौमुदीमहोत्सवकुद्दननाटकावलोकन संग्रामदर्शनरासक्रीडादिकम् ॥ २० ॥ यथादोषं कृतस्नानो मध्यान्हे धौतवस्त्रयुक् । देवाधिदेव सेवेत निर्द्वन्द्वः कल्मषच्छिदे ॥ २१ ॥ टीका - सेवेत आराधयेदसौ स्नपनादिभिः । कं, देवाधिदेवं देवैरिंद्रादिभिरधिकमाचार्यादिभ्योऽतिरिक्तं दीव्यते स्तूयते आराध्यत इति देवाधिदेवो भगवानर्हन्। किंविशिष्टः सन्, निर्द्वन्द्वः समस्तव्याक्षेपमुक्तः । किमर्थ, कल्मषच्छिदे प्राचीनतात्कालीनपापच्छेदार्थ । कथम्भूतो भूत्वा यथादोषं दोषानुसारेण मध्यान्हे अनगारभ्रामरी वेलाप्रत्यासन्नसमये कृतस्नानः कृतं विहित स्नानं यथोचितमङ्गप्रक्षालनादिकं येन स तथोक्तः । तथा धौतवस्त्रयुक् धौते क्षालिते जलादिना निर्मलीकृते वस्त्र परिधानोत्तरीये युनक्ति स्वांगे सम्बन्नातीति धौतवस्त्रयुक् ॥ २१ ॥ जिनस्नपनापास्तिविधिमाह -
आश्रुत्य स्नपनं विशोध्य तदिलां पीठ्यां चतुष्कुम्भयुक्कोणायां सकुत्रियां जिनपतिं न्यस्यान्तमाप्येष्टदिक् । नीराज्याम्बुरसाज्यदुग्धदधिभिः सिक्त्वा कृतोद्वर्तनं सिक्तं कुम्भजलैश्च गन्धसलिलैः सम्पूज्य नुत्वा स्मरेत् | २२ | टीका- स्मरेत् यथाशक्ति जपेत् ध्यायेत् । कोऽसौ, माध्यान्हिक क्रियाकल्पोद्यतः श्रावकः । कं, जिनपर्ति जिनेन्द्रं । किं कृत्वा, नुत्वा नित्यवन्दनादिविधिना वन्दित्वा । किं कृत्वा, सम्पूज्य जलादिभिरष्टाभिः सम्यमर्चयित्वा । किंविशिष्टं सन्तं, सिक्तमभिषिक्तं । कै:, कुम्भजलैः पूर्वस्थापितकलशाम्भो
1
Page #173
--------------------------------------------------------------------------
________________
.. मोध्यायः ।
१६९
"
भिः । तथा गन्धसलिलैः सुरभिद्रव्यमिश्रोदकैः । कथं कृत्वा, कृतोद्वर्तनं एलादिचूर्ण कल्ककषायैरुद्वर्त्य कृतनन्द्यावर्ताद्यवतारणं । किं कृत्वा, सिक्त्वा अभिषिच्य । कैः, अम्बुरसाज्यदुग्धदधिभिः अम्बूनि तीर्थोदकानि, रसा इक्षुद्राक्षाम्रादिनिर्यासाः, आज्यानि हैयङ्गवीनादिघृतानि, दुग्धानि गव्यादिक्षीराणि, दधीनि महिषादीनि - अम्बूनि च रसाश्च आज्यानि च दुग्धानि च दधीनि चाम्बुरसादीनि पञ्च स्थानीयद्रवद्रव्याणि तैः क्रमेण जिनपतिमभिषिच्येति संबंधः । किं कृत्वा, नीराज्य पूजापुरःसरं मृत्सागोमयभूतिपि/ ण्डदूर्वादर्भपुप्पाक्षतसचन्द नोदकैर्नीराजनं प्रापय्य । कथं यथा भवति, इष्टदिक् इष्टा यज्ञांश प्रापिता जिनयज्ञमभिवर्द्धयन्तो वाऽनुमोदिता दिशस्तस्था दिकपाला दशेन्द्रादयो यत्र नीराजनकर्माणि तदिष्टदिक् । अथवा इष्टा दिशो येन सोऽयमिष्ट दिग्यष्टा । किं कृत्वा न्यस्य स्थापयित्वा । कस्यां, पीठ्यां स्नपनपीठस्योपरि । किंविशिष्टायां चतुष्कुंभयुक्कोणायां चत्वारः कुंभयुजः पूर्णकलशोपेताः कोणा यस्याः सा चतुष्कुंभयुक्कोणा तस्यां । पुनः किंविशिष्टायां, सकुशश्रियां दर्भैश्चन्दननिर्मितश्रीकाराक्षरेण च सहितायां । श्रिया -- मित्युपलक्षणं तेन हीकारोऽपि लेख्यः । अन्ये तु अक्षतनिर्मितं श्रीकरमेवाहुः । तदुक्त | निस्तुषनिर्व्रणनिर्मलजलार्द्रशालीयतण्डुला लिखिते । श्रीकामः श्रीनाथं श्रीवर्णे स्थापयाम्युच्चैः " ॥ किं कृत्वा, विशोध्य रत्नाम्बुकुशाग्निना सन्तर्पणविधिभिः शोधयित्वा । कां तदिलां स्नपनभूमिं । किं कृत्वा, आश्रुत्य कर्तव्यतया प्रतिज्ञाय । किं तत्, स्नपनमभिषेकं । अत्र आश्रुत्य । । स्नपनमिति प्रस्तावना, विशोध्येत्यादि पुराकर्म, न्यस्येति स्थापना, अन्तमायेति सन्निधापन, इष्टदिगित्यादि पूजेति प्रतिपत्तव्यम् । षड्विधं हि देवसेवनमाहुः । तद्यथा—प्रस्तावना पुराकर्म स्थापना सन्निधापनम् । पूजा पूजाफलं चेति षड्विधं देवसेवनम् ॥ १ ॥ एतज्जिनस्नपनादिविधानसूचविस्तरतस्त्वेतत्पूर्वाचार्यकृतस्नानशास्त्रेप्यस्मत्कृतनित्यमहोदयाख्य
66
"
नामात्र
-
Page #174
--------------------------------------------------------------------------
________________
सागारधर्मः
१७०
स्नानशास्त्रे च दृष्टव्यम् ॥ २२ ॥ यज्ञान्तरोपदेशार्थमाह
सम्यग्गुरूपदेशेन सिद्धचक्रादि चार्चयेत् ।
श्रुतं च गुरुपादांच को हि श्रेयसि तृप्यति ॥ २३ ॥ टीका - अर्चयेच्चासौ । किं तत्, सिद्धचक्रादि सिद्धचक्रं लघु बृहद्वा आदिशब्देन पार्श्वनाथयन्त्रं गणधरवलयं सारस्वतयन्त्रमन्यद्वा सम्यक्त्वसंयमा-विरोधेन दृष्टादृष्टफलप्रसाधकत्वेन जिनशासने प्रसिद्धं । एतच्च रहस्यभावात् पदस्थध्यान प्ररूपणावसरे प्रपंचयिष्यते । केन तत्पूजयेत, सम्यम्गुरूपदेशेन अन्यथा नैष्फल्यप्रत्यवायबाहुल्यसम्भवात् । तथा श्रुतमर्चयेत् । गुरोश्च दीक्षकाचार्यस्य पादान् तृतीयोऽपि चशब्दस्त्रयाणामपि पूज्यानां तुल्यकक्षतासूचनार्थे । कुत एतद्यज्ञान्तरप्रदर्शनं ? जिनयज्ञेनैव सर्वमनोरथपरिपूर्तिसंसिद्धेरिति शङ्कायामिदमाह - को हीत्यादि । हि यस्मात् कस्तृप्यति तृप्तमात्मानं मन्यते । कस्मिन्, श्रेयस अभ्युदयनिःश्रेयससाधनार्थे कर्मणि ॥ २३ ॥ ततः पात्राणि सन्तर्प्य शक्तिभक्त्यनुसारतः ।
सर्वांश्चाप्याश्रितान् काले सात्म्यं भुञ्जीत मात्रया ॥ २४ ॥ टीका - ततो जिनयज्ञादिनिर्वर्तनानन्तरं पात्रसन्तर्पणादि कृत्वा भुञ्जीत अभयादसौ । किं तत्, सात्म्यं वस्तु । सात्म्यलक्षणं यथा " पानाहारादयो यस्य विरुद्धाः प्रकृतेरपि । सुखित्वा वकल्पते तत्साम्यमिति कथ्यते । " कया भुञ्जीत, मात्रा सुखजरणलक्षणया यदाह - " सायं प्रातर्वा वन्हिमनवसादयन् भुञ्जीत”इति ! अपि च–“गुरूणामर्धसौहित्यं लघूनां ना तितृप्तता । मात्रप्रमाणं निर्दिष्टं सुखं तावद्विजीर्यति ।।१ क मात्रया सात्म्यं भुञ्जीत ? काले बुभुक्षाकाले । भोजनकालः तद्विस्तरशास्त्रं त्विदं-- "प्रसृष्टे विण्मूत्रे हृदि सुविमले दोषे स्वपथगे, विशुद्धे चोद्वारे क्षुदुपगमने वातेऽनुसरति । तथाऽग्नावुद्रिक्ते विशदकरणे देहे च सुलधौ, प्रयुञ्जीताहारं विधिनियमितं कालः स हि मतः । "
Page #175
--------------------------------------------------------------------------
________________
षष्ठोध्यायः।
किं कृत्वा, र :र्य सहक प्रीणयित्वा । कानि, पात्राणि प्रागुक्तलक्षणानि। कथं, ततस्तदनन्तरं । कम्मात् , शक्तिभक्यनुसा तः शक्तिभक्योरनतिक्रमेण । न केवलं पात्राणि सन्तर्प्य सर्वानप्या श्रितांश्च तिरश्वोऽपि स्वयं परिगृहीतान् सन्तर्प्य सन्तोष्येत्यर्थः । कालविकोषोपदेशेन च माध्यान्हिकदेवपूजाभोजनयोर्नास्ति कालनियम इति बोधयति । तीव्रबुभुक्षायां हि मध्याह्नादर्वागपि गृहीतप्रत्याख्यानं तिरयित्वा देवपूजा दिपूर्वकं भोजनं कुर्वन् न दुष्यति॥२४॥ . लोकद्वयाविरोधीनि द्रव्यादीनि सदा भजेत् ।
। यतेत व्याध्यनुत्सत्तिच्छेदयोः स हि वृत्तहा ॥ २५ ॥
टीका--भजेत् सेवेताय । कानि, द्रव्यादीनि द्रव्यक्षेत्रकालभावकर्मसहायादीनि। किंविशिष्टानि, लो मद्वया विरोधीनि इहलोके परलोके च पुरुषार्थानुषघातकानि । क, सदा सर्वदा तथा यतेत तात्पर्य कुर्यात् । कयोः, व्याध्यनुयत्तिच्छेदयोः व्याधेः ज्वरादिरोगस्पनु त्तावप्रादुर्भावे छदे च निवर्तने । कुत इत्याह-हि यस्मात् भवति । कोऽसौ, स व्याधिः । कथम्भूतो, वृत्तहा मंयमस्य हन्ता ॥ २५ ॥ तदुत्तरकरणीयनिर्णयार्थमाहविश्रम्य गुरुसब्रह्मचारिश्रयोऽर्थिभिः सह ।
जिनागमरहस्यानि विनयेन विचारयेत् ॥ २६ ॥ टीका- ततश्च विचारयेत् इदमित्थं भवति न वेति सम्प्रधारयेदसौ। गुरुमुखात् श्रुतान्यपि शास्त्ररहस्यानि परिशीलनाविकलानि न चेतसि सुदृढप्रतिछानि भवन्तीति मनसि कृत्वा । कानि. जिनागमरहस्या नि अर्हत्सिद्धान्तस्यैदम्पर्याणि । केन, विनयेन प्रश्रयेण । कथं, सह । कैः गुर्वादिभिः । किं कृत्वा, विश्रम्य भोजनश्रममपनीय । गुरवोऽत्र शास्त्रोपदेष्टारः । सब्रह्मचारिणः सहाध्यायिनः । श्रेयोऽर्थिन आत्महितकामाः ॥ २६ ॥ ततश्च
सायमावश्यकं कृत्वा कृतदेवगुरुस्मृतिः।
Page #176
--------------------------------------------------------------------------
________________
. सांगारपर्मः।
___ न्याय्ये कालेऽल्पशः स्वप्याच्छक्त्या चाब्रह्म वर्जयेत् ॥२७॥
टीका-स्वप्यात् शयीतासौ । कियत्, अल्पशः अल्पं । क्व, काले। किंविशिष्ट, न्याय्ये न्यायादनपेते । न्याय्यश्च कालो रात्रेः प्रथमयामोऽर्द्धरात्रं वा शरीरसात्म्येन अल्पश इति च विशेषणमिति विधिः। सविशेषेण हि वि धिनिषेधौ विशेषणमुपसंक्रामत इति न्यायात् । स्वप्यादिति च विशेष्यं । न च तत्र विधिदर्शनावरणीयकर्मोदयेन स्वापस्य स्वतः सिद्धत्वात् । अल्पमपि च प्रशस्तं यथा भवति तथा स्वप्यादिति शसा द्योत्यते । तेन रोगमार्गश्रमादौ बहपि स्वप्यादिति विधिः । किंविशिष्टः सन् , कृतदेवगुरुस्मृतिः कृता देवस्याहतो गुरूणां च तदुपदेष्ट्रणां च स्मृतिर्मनस्यारोपणं येन स तथोक्तः । किं कृत्वा, कृत्वा । किं तत्, आवश्यक देवार्चनं भूमिकौचित्त्येन च सामयिकादिषट्कं । कदा, सायं संध्यासमये । तथा वर्जयेदसौ । किं तत् , अब्रह्म मैथुन । कया, शक्त्या आत्मनः संयमसामर्थेन । उपलक्षणं चैतत् तेन यावन्न सेव्या विषयास्तावत्ताना प्रवृत्तितो व्रतयेदिति वचनाद्भोगादिनियम विना क्षणमपि स्थातुं न युक्तमिति स्मारयति ॥ २७ ॥ ___ अथ परिणतायां रात्रौ निद्राच्छेदे सति निर्वेदादिभावनां कुर्यादित्युपदेशार्थ सप्तदश श्लोकानाह
निद्राच्छेदे पुनश्चित्तं निर्वेदेनेव भावयेत् ।
सम्यग्भावितनिर्वेदः सद्यो निर्वाति चेतनः ॥ २८ ॥ टीका-भावयेत् संस्कुर्यादसौ । किं तत्, चित्तं मनः । केन, निर्वेदेन संसारशरीरविषयवैराग्येण।न पुनरर्थादिचिन्तयेत्येवशब्दार्थः। क सति, निद्राच्छेदे स्वापनिवृत्तौ । पुनःशब्दो विशेषार्थः । यतो निर्वाति प्रशमसुखमनु. भवति।कोऽसौ, चेतन आत्मा । कथं, सद्यस्तत्क्षण एव । किविशिष्टः सन, सम्यम्भावितनिर्वेदः यथावदभ्यस्तवैराग्यः ॥ २८ ॥
संसारनिर्वेदार्थमाह
Page #177
--------------------------------------------------------------------------
________________
षष्ठोध्यायः।
१७३.
दुःखावर्ते भवाम्भोधावात्मबुद्ध्याऽध्यवस्यता।
मोहादेहं हहाऽऽत्माऽयं बद्धोऽनादि मुहुर्मया ॥ २९ ॥ टीका--हहा कष्टं । बद्धो ज्ञानावरणादिकर्मपरतंत्रीकृतः। कोसौ,अवयं स्वसवेदनवेद्य आत्मा जीवः । केन, मया आत्मना । कथं, मुहुर्वारंवारं । कथं, अनादि आदिरहितं । किं कुर्वता, अध्यवस्यता निश्चिन्वता । कं, देहं । कया, आत्मबुद्धया देह एवाह मिति संकल्पेन । कस्मात्, मोहात् अविद्यासंस्कारात् ।क, भवाम्भोधौ संसारसागरे । किंविशिष्टे, दुःखावर्ते दुःखानि नारकादिभववेदना आवर्ता जलभ्रमणानीव अनियतोत्थायत्वाद् दुर्निवारत्वाच्च यत्र स दुःखावर्तम्तस्मिन् ॥ २९ ॥ तदिदानीं किं करोमीत्याह
तदेन मोहमेवाहमुच्छेत्तुं नित्यमुत्सहे । ___ मुच्येतैतत्क्षय क्षीणरागद्वेषः स्वयं हि ना ॥ ३० ॥
टीका-तत्तस्मादुत्सहे प्रयतेऽहं । किं कर्तुमुच्छेत्तुं क्षपयितुं।कं, एनं प्रतीयमानं मोहमज्ञानं । न देहादिकमित्येवशब्दार्थः । कथं, नित्यं सन्ततं हि यस्मात् मुच्येत मुक्तो भवेत् । कोऽसौ, ना पुरुषो न प्रधानादिकं । किंविशिष्टः सन, क्षीणरागद्वेषः । कथं, स्वयमात्मना प्रयत्नमन्तरेणैव । क सति, एतत्क्षये मोहापगमे सति मोहमूलत्वाद्रागद्वेषयोः ॥ ३० ॥
इदानीं बन्धमूलामनर्थपरम्परां परामृशन् पुनर्बधानुबन्धिनं विषयसेवाभिनिवेश संहर्तुं प्रतिज्ञां करोति
बन्धादेहोऽत्र करणान्येतैश्च विषयग्रहः ।
बन्धश्च पुनरेवातस्तदेंनं संहराम्यहम् ॥ ३१ ।। टीका-भवति । कोऽसौ, देहः शरीरं । कस्मात्, बन्धात् पुण्यपापास्मककर्मविपाकात् । अत्र च देहे भवन्ति । कानि, करणानि स्पर्शनादीन्द्रियाणि । भवति । काऽसौ, विषयग्रहः । स्पर्शाद्यर्थपरिच्छेदग्रहः । कैः, एतैः
Page #178
--------------------------------------------------------------------------
________________
सागारधर्मः ।
करणैः । तथा भवति । कोऽसौ, बन्धः शुभाशुभकर्मपुद्गलादानं । कस्मात्, अतः विषयग्रहात् । कथं, पुनरेव भूयोऽपि । यत एवं तत्तस्मात् संहरामि निमूलयाम्यहं । कं, एनं बन्धमूलं विषयग्रहम् ॥ ३१ ॥
विषयेप्वपि यो पदभिला घस्यात्यन्तं दुर्निवारत्वात् तन्निग्रहोपायमनु - चिन्तयन्नाह
ज्ञानिसङ्गतपोध्यानैरप्यसाध्यो रिपुः स्मरः ।
देहात्मभेदज्ञानोत्थवैराग्येणैव साध्यते ॥ ३२ ॥ टोका-साध्यते निगृह्यते । कोऽसौ, स्मरः मैथुनसंज्ञासंस्करोद्धोधः । किंविशिष्टो, रिपुः ऐहिकामुत्रिकपुरुषार्थभ्रंशहेतुतयाऽपकर्ता । केन का करणेन वा, देहेत्या दि देहश्चौदारिका दिशरीरत्रयं आत्मा जीवानंदमयः पुमान् देह. श्च आत्मा च देहात्मानौ तयोमदेन पृथक्वेन भेदस्य वा ज्ञान प्रतिपत्तिस्तस्मादुत्था उत्थानमुद्भवो यस्य तद्देदात्मभेदज्ञानोत्थं तच्च तद्वैराग्यं च भवानाभोगनिर्वेद उपेक्षा वा तेनैवापदीया॑दिसमुत्थेन वैराग्येणात्मावमाननलक्षणेन । किविशिष्टोऽसौ, असाध्यः साधयितुमशक्यो व्यभिचारदर्शनात् । कैः, ज्ञानिसंगतपोध्यानैः ज्ञानिनामात्मदर्शिनां संगः संसर्गो ज्ञानिसंगः. तपः कायक्लेशादिलक्षणमाचरणं, ध्यानं पदपदार्थादिचिन्तनं, ज्ञानिसङ्गश्च तपश्च ध्यानं च ज्ञानिसङ्गतपोध्यानानि तेर्व्यस्तैः समस्तैर्वा बाह्यलोकानां कन्दपशत्रुनिग्रहकरत्वेन प्रसिद्धः । अपिर्विस्मये ॥३२॥
आत्मदेहान्तरज्ञानार्थितया सन्यस्तसमम्तसङ्गानां प्राचां श्लाघापूर्वकमात्मानं कलत्रमात्रत्यागेऽप्यसमर्थ गर्हमाणः प्राह
धन्यास्ते येऽत्यजन् राज्य भेदज्ञानाय तादृशम् । धिमादृशकलत्रेच्छातंत्रगार्हस्थ्यदुःस्थितान् ॥ ३३ ॥ टीका-ते भरतसगरादयो भवन्ति । किविशिष्टाः, धन्याः तप:श्रुताभ्यासात्मसात्कृत-सुकृतविशेषफलोपभोगान्ते, सुदुस्त्यजसाम्राज्यलक्ष्मीपरित्या
Page #179
--------------------------------------------------------------------------
________________
षष्ठोध्यायः ।
१७५
-
गितया महतामपि श्लाघ्या. ये किं, ये अत्यजन जरत्तृणमिव त्यक्तवन्तः । किं तत् , राज्यं । किं विशिष्टं, तादृश पूजार्थाश्वर्यवीर्यपरिजनकामभोगादिभिभुवनत्रया तिशायि । कम्मै, भेदज्ञानाय देहात्मव्यतिरेकबोधार्थ । इदानीमात्मदृष्टान्तेन विषयाभिलाषपरतंत्रतया दोषभू यष्ट गार्हस्थ्य जानतोऽपि त्यक्तुमशक्तांतिरस्कुर्वन्नाह-धिगित्यादि । धिग् निन्दामीत्यर्थ. । कान्, मादृशः अहमिव दृश्यन्ते विषयाशावशवर्तितयोपलभ्यन्त इति माशः । मया सदृशानाविर्भूततत्त्वज्ञानत्वेऽपि विषयोपभोगपरित्यागासमर्थान्। किंविशिष्टान्, यतः कलत्रेच्छेत्यादि । कलत्रम्य भाया इच्छा मनोरथः छन्द इति यावत् कलत्रेच्छा सैव तन्त्रं प्रधानं यत्र तत्कलत्रेच्छातन्त्रं अथवा कलत्रे इच्छा अभिलाषः कलत्रेच्छा तस्यां तन्त्रमायत्त कलत्रेच्छातन्त्रं तदधीनवृत्ति गृहस्थस्य नित्यनैमित्तिकानुष्ठानस्थस्य द्वितीयाश्रमिणो भावः कर्म वा गार्हस्थ्य । कलंत्रेच्छा. तन्त्रं च तद्गार्हस्थ्यं च कलत्रेच्छातन्त्रगार्हस्थ्यं तेन दुःस्थिता दुरवस्था विविधदुराधिबाधाकुलितास्तान् । हेतुपरत्वेनायं निर्देशः ॥ ३३ ॥
स्वयमभिलाष्यमाणाया उपशनश्रियः स्त्रियाश्चात्माकर्षणविषये बलाबलं चिन्तयति
इतः शमश्रीः स्त्री चेतः कर्षतो मां जयेन का।
आ ज्ञातमुत्तरवात्र जेत्री या मोहराट्चमूः ।। ३४ । टीका-कर्षतः स्वस्याभिमुखं नयतो द्वे।कं, मां अतीन्द्रियैन्द्रियकसुखविशेपझं । तत्र तावत् कर्षति । काऽसौ, शमश्रीः प्रशमसुखसम्पत् । कं, मां । च, इतः अस्मिन्नेकस्मिन्पक्षे । तथा कर्षति स्त्री मां । क्व, इतोऽन्यस्मिन्पक्षे नुर्वितर्के । अनयोः का कतरा जयेत् मदाकर्षणे बलवती भवेत् । संशयोऽत्र में । अथवा आ स्मृतमाप्तोपदेशबलादनुभूतमेतयोर्बलाबलम् । सम्प्रत्यपि ज्ञानं निश्चितं । यदि वा आ संतापप्रकोपयोाख्येयः । आद्यपक्षे भविप्यति । कासो, अत्र एतयोर्मध्ये उत्तरैव स्त्री, न शमश्रीः । किंविशिष्टा,
Page #180
--------------------------------------------------------------------------
________________
१७६
सागरधर्मः ।
जेत्री मदाकर्षणे शमश्रियोऽभिभावित्री न स्त्रियाः शमश्रीः । या किं, या निश्चिता मया। किंविशिष्टा, मोहराट्चमः मोहोऽत्र चारित्रावरणोदयः स एन राड् राजा अधृष्यभावत्वात् मोहराजश्वमूः सेना । यथा राजा प्रतापित्वेव प्रतिपक्षं सेनया जयति तथा मोहः स्त्रियेति भावः ॥ ३४ ॥ कलत्रदुस्त्यजत्वं भावयंति-- चित्रं पाणिगृहीतीयं कथं मां विष्वगाविशत् ।
यत्पृथग्भावितात्माऽपि समवैम्यनया पुनः ॥ ३५ ॥ टीका-चित्रं यस्याः खलु पाणिगृह्यते सा कथं सर्वात्मना ग्राहकात्मानं प्रविशतीति विस्मयो मे । कथं केन प्रकारेण आविशत् प्रविष्टा । काऽसौ, इयं दृश्यमाना पाणिगृहीती परिणीतस्त्री । कं, मां परिणेतारं । कथं, विष्वक समन्तात् । मामात्ममयं कृतवतीत्यर्थः । अत्रोपपत्तिमाह- यद्यस्मात् । समवैमि तादाम्यं प्रतिपद्ये अहं । कथ, सह । कया, अनया अहमेवेयमियमेवाह मित्यभेदाध्यवसायपरिणतो भवामीत्यर्थः। कथं, पुनर्भूयः। किविशिष्टोऽपि सन्, पृथग्भावितात्माऽपि पृथगेतस्या भेदेन इयमन्या अहमन्य इति कोऽनया सह ममाभेदप्रत्यय इति तत्त्वज्ञानेन भावितो मुहुर्मुहुश्चिन्तित आत्मा अहंकारास्पदमन्तस्तत्त्वं येनस तथोक्तः। किं पुनर्मोहवशादभेदभावनापरिगत इत्यपिशब्दार्थः।३५ स्त्रीनिवृत्तिमात्मनो निरूप्य वित्तमुपपत्त्या प्रतिक्षिपन्नाहस्त्रीतश्चित्त निवृत्त चेन्ननु वित्तं किमीहसे ।
मृतमण्डनकल्पो हि स्त्रीनिरीहे धनग्रहः ॥ ३६॥ टीका-चेदिति पराभिप्रायद्योतने । हे चित्त अंतःकरण । यदि निवृत्तं विवेकबलाघ्यावृत्तं । किं तत् कर्तृ, त्वं । कस्मात्, स्त्रीतः स्त्रियाः सकाशात् स्त्रियं नेच्छामीत्यभिप्रेषि यदि त्वमित्यर्थः । ननुरमर्षे न मृष्याम्यहमिमं त्वदभिप्रायमित्यर्थः । तदा किमिति प्रश्नाक्षेपे तदा किमीहसे किं वाञ्छसि त्वं हे चित्त । किं तद्वित्तं धनं । स्त्रीनिवृत्तस्य धनमिच्छतः किमनुपपन्नमित्यत्राह-हि
Page #181
--------------------------------------------------------------------------
________________
षष्ठोध्यायः ।
यस्मद् भवति । कोऽसौ, धनग्रहः दविणार्जनरक्षणावर्धनाभिनिवेशो धनस्वी. कारो वा । किंविशिष्टो, मृतमण्डनकल्पः मृतस्य मण्डनमिव । क, स्त्रीनिरीहे स्त्रियां निःस्पृहे । यथा मृतकशरीरे क्रियमाणं मण्डनं तद्भोक्तुरभावान्निष्फलं तथा स्त्रिया दिविषयविमुखम्य परिगृह्यमाणं धन मिति भावः । धनस्य हि विषयसुखसाधनं फल-वेन प्रसिद्ध । तत्र च कामिन्य आलम्बनविभावत्वेन मुख्याः सौधोद्यानादयश्चोद्दीपनावभावत्वेन गौणाः । यस्य च नास्ति स्त्रियामभिलाषस्तस्य किमितरविषयरिति ॥ ३६॥ एवं निर्वेदं भावयतः परमसामायिकभावनार्थ सप्तश्लोकीमाह
इति च प्रतिसन्दध्यादुद्योगं मुक्तिवर्मनि ।
मनोरथा अपि श्रेयोरथाः श्रेयोऽनुबन्विनः ।। ३७॥ टीका-प्रतिसन्दध्यात् पुन संयोजदेदसौ। कं, उद्योगमुत्साहं । के, मुक्तिवर्मनि मोक्षमार्गे । कथं, इति वक्ष्यमाणेन प्राणकायबला स्थिरत्वाद्यनुचिन्तनलक्षणन प्रकारेण । चः समुच्चये । न केवलं संसारादिनिर्वेदं तथा भावयेदित्थं मोक्षमार्गेऽभियोग च प्रतिसन्दध्यादित्यर्थः । अनाचरणतो मनोरथाः स्वप्नराज्यसमाः इति विप्रतिपन्नं बोधयितुमिदमाह-यतो भवन्ति । के, मनोरथाः अशक्यप्राप्त्यर्थविषयाभिलाषाः । किं पुनस्तदर्थानुष्ठानप्रवृत्तय इत्यपिशब्दार्थः । कीदृशा भवन्ति. श्रेयोऽनुबन्धिनो भवे भवे अभ्युदयसम्पादिनः प्रभृतपुण्यबन्धनत्वात् । किमाश्रितास्ते तथा भवन्तीत्याह-श्रेयोरथाः श्रेयो निःश्रेयसं रथः स्यदनो येषां ते श्रेयोग्थाः मोक्षारूढा इत्यर्थः। तदुक्तंयत्र भावः शिवं धत्ते द्यौः कियगुरवर्तिनीति ॥ ३७॥
तत्रायु:कायमयत्वाज्जीवितस्य तदपायानुध्यानमुखेनजीवितव्योच्छेदं भावयन्प्रौढ्योक्त्या स्वार्थसिद्धिभ्रंशं भावयति
क्षणे क्षणे गलत्यायुः कायो हसति सौष्ठवात् । ईहे जरां नु मृत्यु नु सधीची स्वार्थसिद्धये ॥ ३८ ॥
Page #182
--------------------------------------------------------------------------
________________
१७८
सागारधर्मः।
टीका-गलति क्षीयते एकदेशेनापगच्छति । किं तत्, आयुः भवधारणकारणं कर्म । क, क्षणे क्षणे प्रतिक्षणं । तथा हसति देशतश्यवति । कोऽसौ, कायः शरीरं । कस्मात्, सौष्ठवात् स्वार्थक्रियाकरणसामर्थ्यात् । क्षणे क्षण इत्यत्रापि योज्यं । नुर्वितर्के। किमर्थ-तत्कमीहे वाञ्छाम्यहं । कां, जरां सर्वोगशक्तिक्षपणलक्षणां विसंसां । किं वा-मृत्यु निःशेषायु:क्षयलक्षणं मरणं । किंविशिष्टां, सध्रीची आत्मनः सहायभूतां . कस्यै, स्वार्थसिद्धये स्वाभिप्रेतार्थनिष्पत्त्यर्थ । पुरुषार्थसाधकेष्वायुः कायश्च प्रधानं कारण । तच्च प्रतिक्षण विशरारुतया निश्चितं चेत्सर्वथा पुरुषार्थभ्रशहेतुतया प्रसिद्धाभ्यां जरामयुभ्यां तत्संभाव्येतेति वक्रमणित्या चोदयति ॥ ३८ ॥ __ जिनधर्मसेवासहचारिणीरापदोऽभिनन्द्य तद्विरहभाविनीः सम्पदोऽपि प्रतिक्षिपन्संगत्यागे दाय भावयति
क्रियासमभिहारोऽपि जिनधर्मजुषो वरम् ।
विपदां सम्पदां नासौ जिनधर्ममुचस्तु मे ॥ ३९ ॥ टीका-वरं भवतु सोऽपि श्लाघ्य इत्यर्थः । कोऽसौ, क्रियासमभिहारः पौनःपुन्यं भृशत्वं वा । वरं सकृद्भवनं मंदत्वं चेत्यपिशब्दार्थः । कासां. विपदां शारीरमानसदुःखानां परिषहोपसर्गाणां वा । कस्य, मे मम । किंविशिष्टस्य सतो, जिनधर्मजुषः जिनोक्त जिनानुष्ठित वा धर्म शुद्धचिदानंदरूपात्मपरिणतिलक्षण प्रीत्या सेवमानस्य । न तु न पुनर्वरं । कोऽसौ, असौ क्रियासमभिहारः । कासां, संपदा सर्वेन्द्रियार्थसुखसाधनानां विभूतीनां कस्य, मे। किंविशिष्टस्य सतो, जिनधर्ममुचो यथोक्तजिनधर्मरहितस्य ॥३९॥ श्रमणकर्माभ्यासेन अन्यगम्यं सर्वत्र साम्य कामयते--
लब्धं यदिह लब्धव्यं तच्छ्रामण्यमहोदधिम् । मथित्वा साम्यपीयूष पिबेयं परदुर्लभम् ॥ ४० ॥
Page #183
--------------------------------------------------------------------------
________________
: षष्ठोध्यायः ।
१७९
टीका-लब्ध प्राप्तं तन्मया कलत्रसंपदा दिकं । यत् किं, यल्लब्धव्यं प्राप्तव्यं मया धन्यैर्वा । क्व, इह नृजन्मनि गृहाश्रमे वा। यत एवं कृतार्थोऽस्मि तत्तस्मात्पिबेयं अध्यात्ममनुभवेयं अहं । किं तत्, साम्यपीयूपं सर्वत्र समत्वममृतमिव । किं कृत्वा, मथित्वा अभ्यस्य विलोड्य च । कं, श्रामण्यमहोदधिं श्रमणानां यतीनां कर्म मूलोत्तर गुणाचरणलक्षणं श्रामण्यं महोदधिरिव अनर्ग्यरत्नोत्पत्तिनिमित्तत्वात् दुरवगाहत्वात् दुर्गमपारत्वाच्च । इयमत्र भावना-यथा किल सुरासुरैः क्षीरोदधिं विलोड्य तत उद्धृतममृतं पीतमिति श्रूयते तथा श्रामण्यं भावयित्वा उपेक्षालक्षणं चारित्रमहमात्मनि परिणमयितुमर्हामि । कीदृश द्वयमपि, परदुर्लभ परैर्जिनमार्गानभिज्ञैः सुरासुरभिन्नैश्च लोकैलब्धुमशक्यं जिनसमयामिज्ञैरपि वा परमत्यर्थं दुर्लभं कतियैरेव तैरपि प्राप्यमित्यर्थः ॥ ४० ॥ तदेव भूयो भावयति
पुरेऽरण्ये मणौ रेणौ मित्र शत्रौ सुखेऽसुखे। . जीविते मरणे मोक्षे भवे स्यां समधीः कदा ॥४१॥ टीका-कदा कस्मिन्काले। स्यां भवेयं भवितुमर्हाम्यहं भविष्यामीति वा। किंविशिष्टः, समधीः तुल्यमनाः। क क, पुरे प्रीतिकारणे चातुर्वण्यसम
यधिष्ठाननगरे । तथा तद्विपरीते अरण्ये अटव्यां। एतयोर्द्वयोरपि रागद्वेषनिवन्धनयोरुपेक्षापरिणतः कदा भविष्यामीत्यर्थः । एवमुत्तरत्रापि योज्यं । तथा मणौ वज्रादिरत्ने. रेणौ रजसि। तथा मित्रे सुहृदि शत्रौ चापकर्तरि। तथा सुखे आल्हादनाकारे असुखे च दुःखे देहमनस्तापरूपे । तथा जीविते पुरुषार्थसिद्धिहेतावायुषि मरणे च तद्विपरीते। तथा मोक्षे अनन्तसुखस्वरूपे भवे च तद्विपरीते । अयमत्र विशेषः-पुरारण्यादिषु तुल्यमतित्वमन्यस्यापि भवेत् । असौ तु परमवैराग्योपगतो मोक्षभवयोरपि निर्विशेषमति त्वमर्थयते । मोक्षे भवे च सर्वत्र निस्पृहो मुनिसत्तम ' इति श्रुतेः ॥४१॥
Page #184
--------------------------------------------------------------------------
________________
१८०
• सागारधर्मः।
यतिधर्मचर्याकाष्ठाधिरोहणमाशंसतिमोक्षोन्मुखक्रियाकाण्डविस्मापितबहिर्जनः ।
कदा लप्स्ये समरसस्वादिनां पंक्तिमात्मदृक् ॥४२॥ टीका-कदा कस्मिन्काले । लप्स्ये प्राप्स्याम्यहं । कां, पंक्तिं लक्षणया सजातीयत्वं । केषां, समरसस्वादिनां समरस ध्यातृध्येयध्यानानामेकीभावे सत्यानन्द स्वादयन्त्यभीक्ष्णं भूयोभूयोऽनुभवन्तीति समरसस्वादिनो घटमानयोगा निष्पन्नयोगा वा मुमुक्षवः समरसस्वादिनस्तेषां । किविशिष्टः सन् , आत्मदृक् आत्मदर्शी भवन् । कथंभूतो भूत्वा, मोक्षोन्मुखेत्यादि-मोक्ष अनन्तज्ञानादिचतुष्टयाविर्भावस्वभावे निःश्रेयसि उन्मुखा अभिमुखा उद्यतास्तेषां क्रियाकाण्डगुरुकुलोपासनक्लेशातापनादियोगकायक्लेशादि तेन विस्मापितोऽनन्यसम्भाव्यतया विस्मयं नीतो बहिर्जनो बहिरात्मलोको येन स तथोक्तः ॥४२॥ योगपरमकाष्ठामभिकांक्षति
शून्यध्यानकतानस्य स्थाणुबुद्ध्याऽनडुन्मृगैः । उघृष्यमाणस्य कदा यास्यन्ति दिवसा मम । ४३ ॥ टीका-कदा कस्मिन् योगाभ्याससमये । यास्यन्ति गमिप्यन्ति । के, दिवसा अहोरात्राः । कम्य, मम तत्त्वज्ञानवैराग्यसम्पन्नस्य । किंविशिष्टस्य सतः, शून्यध्यानैकतानस्य निर्विकल्पसमाधिपरिणतस्य । पुनः किं क्रियमाणस्य,उद्धृष्यमाणस्य स्कन्धशृङ्गकण्डूयनगोचरीक्रियमाणस्य । कैः,अनडुन्मृगे: अनड्वाहः उत्कृष्टपशवः मृगा अरण्यचारिणो हरिणा: अनड्वाहश्व मृगाश्च अनन्मृगास्तैः। कया, स्थाणुबुद्ध्या स्थाणुः सीमाद्यर्थ ऊर्ध्वस्थितकाष्ठविशेषः स्थाणुरिति बुद्धिः कल्पना स्थाणुबुद्धिस्तया । यदा हि पुरादहिरहं कायोत्सर्गेण स्थास्यामि तदा स्वैरचारिणो वृषभादयः स्कन्धादिकण्डूत्याकुलितास्तकण्डूयनाय मां स्थाणुरयमिति मन्यमानाः स्कन्धादिभिरुघर्षिष्यन्ति । एव
Page #185
--------------------------------------------------------------------------
________________
षष्ठोध्यायः।
१८१
मरण्ये हरिणादयोऽपि । अहं पुनः पुरारण्ययोर्मुक्ताग्रहत्वेन तिष्ठन् शुद्धचिदानन्दमयं खात्मानमेवाधिवत्स्यामीति मनोरथोऽस्य महात्मनो लक्ष्यत इति॥४३॥
महानिशायां पुराबहिः प्रोषधोपवासव्रतान् कायोत्सर्गस्थितानुपसर्गजयेन योगादचलितान् प्राच्यश्रावकान् प्रशंसयति
धन्यास्ते जिनदत्ताद्या गृहिणोऽपि न येऽचलन् ।
तत्तागुपसर्गोपनिपाते जिनधर्मतः ॥ ४४ ॥ टीका-वर्तन्ते । के, ते प्रसिद्धाः जिनदत्ताद्याः जिनदत्तो नाम श्रेष्ठी आद्यः प्रथमो येषां वारिषेणकुमारादीनां ते जिनदत्ताद्याः प्रोषधोपवासनतिनः। किंविशिष्टाः, धन्या सुकृतिनः तेभ्योऽहं स्पृहयामीत्यर्थः। ये किं, ये नाचलन न चलिताः । कस्मात्, जिनधर्मतः जिनोक्ताजिनसेविताद्वा सामायिकात् । किंविशिष्टाः मन्तो, गृहिणो द्वितीयाश्रमिणः । किं पुनरुत्तराश्रमिण इत्यपिशब्दार्थः । क सति, तदित्यादि । ते श्रुतप्रसिद्धास्तादृशोऽनन्यसदृशा उपसर्गाः शस्त्रप्रहारादयस्तेषां उप समीपे निपतनं नियतमवश्यम्भावि पतनं तत्तागुपसर्गोपनिपातस्तस्मिन् ॥ ४४ ॥ व्रतिकप्रतिमामुपसंहरंस्तदनुष्ठायिनः फलविशेषमाह
इत्याहोरात्रिकाचारचारिणि व्रतधारिणि । __ स्वर्गश्रीः क्षिपते मोक्षश्रीर्षयेव वरस्रजम् ॥ ४५ ॥ टोका-क्षिपते मुंचति। काऽसौ, स्वर्गश्रीः यथास्वं सौधर्मादिकल्पलक्ष्मीः। कां, वरस्रजं वरोऽभिमतः पतिर्वरणं वा तत्स्वीकरण वरार्था स्रक माला वरनक् तां वरमालामित्यर्थः । क, व्रतधारिणि व्रतानि प्रागुक्तानि धारयत्यात्मनि निरतिचारतया स्थिरीकरोत्यभीक्ष्णमिति व्रतधारी व्रतिकपतिमारूढः श्रावकस्तस्मिन् । किंविशिष्टे, इत्येवमुक्तप्रकारेण । आहोरात्रिकमहोरात्रभवमाचार ब्राह्ममुहूर्तोत्थानादिकं चरत्यनुतिष्ठतीत्येवंशीलस्तच्चारी तस्मिन् । अत्रोत्प्रेक्षामाह-मोक्षश्रीर्षयेवेति । मोक्षश्रियामीर्षाऽक्षान्तिर्मोक्षश्रीर्षा तया । इयमत्र
Page #186
--------------------------------------------------------------------------
________________
१८२
साखरधर्मः ।
भावना-यथा काचिन्महाकुलीनकन्या पित्रादिभिरनुज्ञाता अभीष्टपताविमं नान्या स्वीकुर्यादिति बुद्धया वरमालां क्षिपति तथा तत्तादृमहाश्राव के मोक्षश्रीर्षया स्वर्गश्रीरिति भद्रम् ॥ ४५ ॥
इत्याशाधरविरचितायां स्वोपज्ञधर्मामृतसागारधर्मदीपिकायां
भव्यकुमुदचन्द्रिकासंज्ञायामादितश्चतुर्दशः प्रक्रमाच्च षष्ठोऽध्यायः समाप्तः || ६ ||
अथ सप्तमोऽध्यायः ।
अथ सामायिकादिप्रतिमानवकस्वरूप रूपणार्थमुपक्रमते । तत्र यहूतिकप्रतिमायां सामायिकं शीलतया निर्दिष्टं तदेवेह व्रतत्वेन प्रतिपद्यमानं प्रतिमारूपतां यातीति प्ररूपयन्नाह
सुदृङ्मूलोत्तरगुणग्रामाभ्यासविशुद्धधीः ।
1
भजस्त्रिसन्ध्यं कृच्छ्रेऽपि साम्यं सामायिकी भवेत् ॥ १॥ टीका—भवेत् भवितुमहेति । कोऽसौ, व्रतिकः । कीदृशः, सामायिकी सामायिकप्रतिमावान् । किं कुर्वन्, भजन् सेवमानः । किं, तत्साम्यं मोहक्षोभविहीनमात्मपरिणामं । कथं, त्रिसन्ध्यं सन्ध्यात्रये । क सति, कृच्छ्रेऽपि परीषहोपसर्गसन्निपातेऽपि । कथम्भूतो भूत्वा सुदृगित्यादि- दृक्सम्यक्त्वं मूलोतरगुणमा : प्रागुक्तलक्षणः दृक् च मूलोत्तरगुणग्रामश्च दृङ्मूलोत्तरगुणग्रामौ प्रशस्तौ निरतिचारौ दृङ्मूलोत्तरगुणग्रामौ सुदृङ्मूलोत्तरगुणग्रामौ । तयोरभ्यासोऽसकृत्प्रवृत्तिः तेन विशुद्धा प्रतिबन्धकापायात् प्रकृतसंयमानुष्ठानसाधनसामर्थ्यं प्राप्ता धीर्ज्ञानं यस्य स तथोक्तः ॥ १ ॥
व्यवहारसामायिक विध्युपदेशपुरःसरं निश्चयसामायिकं विधेयतयोपदिशति -
Page #187
--------------------------------------------------------------------------
________________
सप्तमोध्यायः ।
१८३
कृत्वा यथोक्तं कृतिकर्म सन्ध्यात्रयेऽपि यावनियम समाधेः। यो वज्रपातेऽपि न जात्वपैति सामायिकी कस्य स न प्रशस्यः ।।
टीका–स कस्य सामायिकार्थिनः शक्रादेर्वा नप्रशस्यः सर्वस्यापि श्लाव्य इत्यर्थः । यः किं, यो नापति न प्रच्यवते। कस्मात्, समाधेः रत्नत्रयैकाग्यलक्षणाद्योगात् । कदा, जातु कदाचिदपि । क सति, वज्रेऽपि पतति सति । किं पुनरन्यत्रोपसर्गकारणे । कियत्कालमित्याह-यावन्नियमं प्रतिज्ञावधि । एतन्निश्चयसामायिकं। किं कृत्वा, अनुष्ठाय । किं तत्, कृतिकर्म। किंविशिष्टं, यथोक्तं आवश्यकाध्याये योग्यकालेत्यादिप्रबन्धेन व्याख्यातं वंदनाकर्म। क, सन्ध्यात्रयेऽपि तिसृष्वपि सन्ध्यासु शक्त्याऽन्यदाऽपि । साम्यभावनानुज्ञानार्थो वा अपिशब्दः। एतयवहारसामायिकम् । २॥
निश्चयसामायिकशिखराधिरूढाय श्लाघते____ आरोपितः सामयिकवतप्रासादमूर्धनि ।
कलशस्तेन येनैषा भूरारोहि महात्मना ॥३॥ टीका-आरोपितः स्थापितः । कोऽसौ, कलशः । केन, तेन । क्व, सामायिकेत्यादि-समयः केशबन्धादिनियमितः कालस्तत्र भवं सामायिक साम्यभावनं तदेव व्रतं सामायिकवतं तदेव प्रासादो देवगृहं दुरासदत्वात् दुरारोहत्वादिष्टसिद्धिनिबन्धनत्वाच्च तस्य मूर्धनि शिखराग्रे । येन किं कृतं, येन महास्मना गणधरचक्रधरेन्द्रादीनां स्पृहणीयेन आरोहि आरूढा । काऽसौ, एषा भूर्व्यवहारसामायिकपूर्वा निश्चयसामायिकप्रतिमा ॥ ३॥
स प्रोषधोपवासी स्याद्यः सिद्धः प्रतिमात्रये ।
साम्यान च्यवते यावत्प्रोषधानशनव्रतम् ॥ ४ ॥ टीका–स्याद्भवेत् । कोऽसौ, स श्रावकः । किंविशिष्टः, प्रोषधोपवासी प्रोषधोपवासपतिमावान् । यः कि, यो न च्यवते न भ्रश्यति । कस्मात्साम्यात् भावसामायिकात् । प्रोषधोपवासशीले तु तदुपरमे नामादिसामायिक
Page #188
--------------------------------------------------------------------------
________________
१८४
सागारधर्मः
पञ्चकस्याप्यनुचरणात् । कियत्कालं, यावत्प्रोषधानशनवतं प्रोषधोपवासतिज्ञाविषयीकृतान् षोडश यामान । किंविशिष्टः सन्, सिद्धः निष्पन्नः प्रतीतो वा । क्व, प्रतिमात्रये दर्शनव्रतसामायिकप्रतिमासु ॥ ४ ॥ प्रोषधोपवासिनो निष्ठाकाष्ठां निर्दिशति
त्यक्ताहाराङ्गसंस्कारव्यापारः प्रोषधं श्रितः ।
चेलोपसृष्टमुनिवद्भाति नेदीयसामपि ॥ ५ ॥ टीका-भाति प्रतिभासते । कोऽसौ, प्रोषधं श्रितः प्रोषधोपवासनिष्ठः ॥ किंवत् , चेलोपसृष्टमुनिवत् उपसर्गवशाद्वस्त्रेण वेष्टितो निर्ग्रन्थो यथा ब्रह्मचर्यधारणशरीरादिममत्ववर्जनयोगात् । केषां, नेदीयसां पार्श्ववर्तिलोकानां बान्धवादीनां वा । विशेषतोऽन्येषामित्यपिशब्दार्थो विस्मये वा अपिशब्दः । किंविशिष्टः सन् , त्यक्तेत्यादि-आहारोऽशनादिश्चतुर्विधः अङ्गसंस्कारः स्नानोद्वर्तनवर्णकविलेपनपुष्पगन्धविशिष्टवस्त्राभरणादि व्यापारः साहचर्यात्सावद्यारम्भः आहारश्वाङ्गसंस्कारश्च व्यापारश्वाहाराङ्गसंस्काख्यापारास्त्यक्ताः सर्वात्मना प्रत्याख्यातास्ते त्रयो येन। एतेन आहारादित्रयवर्जनाद्ब्रह्मचर्यधारणाच्च चतुर्विधं प्रोषधव्रतमुक्तम् ॥५॥ सामायिकपोषधोपवासयोः प्रतिमाभावे युक्तिमाह
यत्प्राक्सामायिकं शीलं तद्रतं प्रतिमावतः ।
यथा तथा प्रोषधोपवासोऽपीत्यत्र युक्तिवाक् ॥ ६ ॥ टीका-अस्ति । काऽसौ, युक्तिवाक् समाधानवचनं । क, अत्र सामायिकपोषधोपवासयोः प्रतिमाभावविप्रतिपत्तौ । कथं, इति । किमिति, भवति । कोऽसौ, प्राक् शीलतया अभ्यस्तः प्रोषधोपवासोऽपि । किं, व्रतं । कस्य, प्रतिमावतः चतुर्थसंयमविशेषपदमनुतिष्ठतः श्रावकस्य । कथं, तथा । यथा किं, यथा भवति । किं तत्, सामायिकं । किं भवति, व्रतं सस्यवद्रक्षणीयत्वात् । कस्य, प्रतिमावतः तृतीयसंयमविशेषपदमनुतिष्ठतः श्रावकस्य । यत्
Page #189
--------------------------------------------------------------------------
________________
सप्तमोध्यायः।
१८५
कि, यत्सामायिकं भवति । किं, शीलं सस्यस्य वृत्तिरिख मुख्यतया रक्षणीयस्य व्रतस्य रक्षणकारणत्वात् । क, प्राक् व्रतप्रतिमानुष्ठानसमये ॥ ६ ॥ परमकाष्ठाप्रतिपन्नान् प्रोषधोपवासिनः प्रशंसति
निशां नयन्तः प्रतिमायोगेन दुरितच्छिदे । __ ये क्षोभ्यन्ते न केनापि तान्नुमस्तुर्यभूमिगान् ॥ ७॥
टीका-नुमः स्तुमो वयं । कान् तान्, तुर्यभूमिगान् चतुर्थी संयमविशेषपदवीमारूढान् । ये किं, ये न क्षोभ्यन्ते समाधेर्न प्रच्याव्यन्ते । केन, केनापि परिषहेणोपसर्गेण वा। किं कुर्वन्तः, नयन्तो लङ्घयन्तः। कां, निशां पर्वरात्रिं । केन, प्रतिमायोगेन संयतवत् कायोत्सर्गावस्थानेन । कस्यै, दुरितच्छिदे अशुभकर्मनिर्जरणार्थ ॥ ७॥ अथ सचित्तविरतस्थानं चतुःश्लोक्या व्याचष्टेहरिताकुरबीजाम्बुलवणाद्यप्रासुकं त्यजन् ।
जाग्रत्कृपश्चतुनिष्ठः सचित्तविरतः स्मृतः ।। ८॥ टीका-स्मृतः । सूत्रज्ञैराम्नातः । कोऽसौ, सचित्तविरतश्रावकः । किं कुर्वन् , त्यजन् वर्जयन् अभक्षयन्नित्यर्थः । किं तत्, हरिताकुरबीजाम्बुलवणादि अङ्कुरः प्ररोहः वीज प्ररोहणद्रव्यं अम्बु जलं लवणं सैन्धवादि आदिशब्देन कन्दमूलफलपत्रकरीरादि, अंकुरश्च बीजं च अंकुरबीजमुपलक्षणात् विपत्रादि, हरितमम्लानार्द्रावस्थं । हरितं च तदकुरबीजं च हरितांकुरबीज तच्चाम्बुलवणादि च हरितांकुरबीजाम्बुलवणादि । किंविशिष्टमप्रासुकमनग्नि_ पक्वमित्यर्थः । अत्र च द्वितीयपादे नवाक्षरत्वं न दोषाय अनुष्टुभि नवाक्षरस्यापि पादस्य शिष्टप्रयोगे वापि क्वापि दृश्यमानत्वात् । यथा-ऋषभाद्या वर्द्धमानान्ता जिनेन्द्रा दश पंच चेत्यादिषु । अथवा हरिताकुरबीजाब्लवणाद्यप्रासुकं त्यजन्निति पाठः । अत्र आपो जलं। किंविशिष्टोऽसौ, जाग्रत्कृपो यतः जाग्रती नित्यं हृदि स्फुरन्ती कृपा अनुकम्पा यस्य स जाग्रत्कृपो
Page #190
--------------------------------------------------------------------------
________________
... सागारधर्मः । दयामूर्तिरित्यर्थः । कथम्भूतो भूत्वा, हरिताकुरादिकमभक्षयन्सचित्तविरतः स्मृतः। चतुनिष्ठः चतसृषु पूर्वोक्तप्रतिमासु निष्ठा निर्वाहो यस्य स चतुर्निष्ठः।।८।।
जाग्रत्क्रप इति समर्थयते___पादेनापि स्पृशन्नर्थवशाद्योऽतिऋतीयते।
हरितान्याश्रितानन्तनिगोतानि स भोक्ष्यते ॥ ९॥ टीका भोक्ष्यते काक्वा न भक्षयिष्यतीत्यर्थः । कोऽसौ, स पञ्चमसंयमस्थानसाधनोद्यतः श्रावकः। कानि, हरितानि हरिनावस्थवनस्पतीन् । किविशिष्टानि, आश्रितानन्तनिगोतानि आश्रितानि संसक्तानि अनन्तानि निगोतानि निगोताख्याः साधारणशरीरवनस्पतिकायिका येषु तानि । उक्तं चार्षे ब्राह्मणसृष्टिप्रस्तावे-सन्त्येवानन्तशो जीवा हरितेप्वंकुरादिषु । निगोता इति सार्वज्ञं देवास्माभिः श्रुतं वचः ॥ यः किं, यः अतिऋतीयते पाक्षिकाद्यपेक्षया अतिशयेन घृणां करोति । किं कुर्वन्, स्पृशन् परामृशन् । कानि, तथाभूतहरितानि । केन, पादेन चरणेन किं पुनर्हस्तादिनेत्यपिशब्दार्थः । कस्मात्, अर्थवशात् प्रयोजनानुरोधात् । किं पुनः प्रयोजनाभावात् । प्रयो. जनं विना स्थावरविराधनादपि निवृत्तिपतिज्ञानात् ॥ ९॥ सचित्तविरतेभ्यः श्लाघते---
अहो जिनोक्तिनिर्णीतिरहो अक्षजितिः सताम् ।
नालक्ष्यजन्त्वपि हरित प्सान्त्येतेऽसुक्षयेऽपि यत् ॥ १० ॥ टीका-अहो आश्चर्य वर्तते । काऽसौ,जिनोक्तिनिीतिः जिनागमनिश्चयः। केषां, सतां प्रकरणात् सचित्तविरतिप्रयतानां । तथा अहो आश्चर्य वर्तते । काऽसौ, अक्षजितिः इन्द्रियजयः । केषां, सताम् । अत्रोपपत्तिमाह-यद्यस्मात् न प्सान्ति न भक्षयन्ति । के, एते सन्तः । किं तत्, हरित् हरितं । किंविशिष्टमपि, अलक्ष्यजन्त्वपि अलक्ष्याः अस्मदाद्यपेक्षया केवलागमगम्यत्वात् प्रत्यक्षावसंवेद्या जन्तवः प्राणिनो यस्मिन् तदलक्ष्यजन्तु हरितं वस्तु । किं
Page #191
--------------------------------------------------------------------------
________________
सप्तमोध्यायः ।
पुनर्दश्यानुमेयप्राणिकमित्यपिशब्दार्थः । क सति, असुक्षयेऽपि असूनां क्षयः प्रलयः असुक्षयस्तस्मिन्नपि प्राणेषु नश्यत्स्वपि। किं पुनः प्रकारान्तरेण जीविते सम्भवतीत्यपिशब्दार्थः। अत्रालक्ष्यजन्त्वपीत्यनेन जिनागमप्रामाण्यविश्वासोऽसुक्षयेऽपीत्यनेन च जितेन्द्रियत्वं समर्थ्यते ॥ १० ॥
साम्प्रतं भोगोपभोगपरिमाणशीलातिचारत्वेनोक्तं सचित्तभोजनमिह त्यज्यमानं प्रतिमाभावं यातीत्युपदिशति
सचित्तभोजनं यत्प्राङ् मलत्वेन जिहासितम् ।
व्रतयत्यङ्गिपञ्चत्वचकितस्तच्च पञ्चमः ॥ ११ ॥ टीका-त्रतयति व्रतत्वेन प्रत्याख्याति । कोऽसौ, पञ्चमः सचित्तविरत्युद्यतः । किंतत्, तच्च तदपि । किंविशिष्टो यतः, अङ्गिपञ्चत्वचकितः अङ्गिनां भक्ष्यमाणसचित्तद्रव्याश्रितजीवानां पञ्चत्वं मरणं अङ्गिपञ्चत्वं तस्माचकितो भीतो यतः । यत्किं, यज्जिहासितं त्यक्तुमिष्टं शीलोपदेशस्याभ्यासदशाविषयत्वात् । किं तत्, सचित्तभोजनं जीवाश्रितद्रव्यवल्भनं । केन, व्रतिकेन । केन कृत्वा, मलत्वेन भोगोपभोगपरिमाणाख्यशीला तिचारत्वेन । क्व, प्राक शीलोपदेशसमये । स्वामी पुनर्भोगोपभोगपरिमाणशीलातिचारानन्यथा पठित्वा पञ्चमप्रतिमामेवमध्यगीष्ट-मूलफलशाकशाखाकरीरकन्द्रप्रसूनबीजानि । नामानि योऽत्ति सोऽयं सचित्तविरतो दयामूर्तिः ॥ ११ ॥ __ अथ रात्रिभक्तव्रतं चतुःश्लोक्या व्याकरिष्यन् आदौ तल्लक्षणमाह
स्त्रीवैराग्यनिमित्तैकचित्तः प्राग्वृत्तनिष्ठितः।
यस्त्रिधाह्नि भजेन स्त्री रात्रिभक्तवतस्तु सः ॥ १२ ॥ टीका-स तु श्रावको भवति। किंविशिष्टः, रात्रिभक्तवतः । यः किं, यो न भजेत् न सेवेत । कां, स्त्री निःशेषामपि योषां । क्व, अहि दिने । कथं, त्रिधा मनोवाकायकृतकारितानुमतैः। किंविशिष्टः सन्, स्त्रीत्यादि-स्त्रीवैराग्यनिमित्तानि कामदोषाः स्त्रीदोषा स्त्रीसङ्गदोषा अशौचमार्यसङ्गतिश्चेति पाच
Page #192
--------------------------------------------------------------------------
________________
१८८
सागारधमः ।
तेष्वेकचित्तो यः स तथोक्तः तदेकाग्रमना इत्यर्थः । कथम्भूतो भूत्वा, प्राग्वृतनिष्ठितः पूर्वोक्तप्रतिमापञ्चकाचारनिरूढः ।। १२ ।। षष्ठप्रतिमानिष्ठानभिष्टौति
अहो चित्रं धृतिमतां सङ्कल्पच्छेदकौशलम् ।
यन्नामापि मुदे साऽपि दृष्टा येन तृणायते ।। १३ ।। टीका-अहो चित्रमाश्चर्य वर्तते । किं तत् , संकल्पच्छेदकौशलं मनोव्यापारनिरोधसामर्थ्य । केषां,धृतिमतां संतोषभावनायुक्तानां पुंसां । येन किं, येन संकल्पच्छेदकौशलेन तृणायते तृणवत्प्रतिभाति अभोग्यतयाऽऽत्मानं तेषां दर्शयतीत्यर्थः । काऽसौ, साऽपि कान्ता किंविशिष्टा सती, दृष्टा चक्षुर्गोचरीकृता । तथा आवृत्या सा कान्ता दृष्टाऽपि किं पुनः श्रुता संकल्पिता चेत्यपिशब्दार्थः । गृहस्थस्य हि स्वदारान्प्रति प्रेम दृग्व्यापारश्च दुःखमुत्पादयेत् सा का, यन्नामापि यस्याः संज्ञाऽपि श्रुता भवति । कस्यै, मुदे प्रीतये । किं पुनर्दर्शनादिकमित्यपिशब्दार्थः ॥ १३ ॥ एतस्य राज्यादावपि मैथुनविनिवृत्तिमुपपादयन्नाह
रात्रावपि ऋतावेव सन्तानार्थमृतावपि । भजन्ति वशिनः कान्तां न तु पर्वदिनादिषु ॥ १४ ॥ टीका-भजन्ति सेवन्ते । के, वशिनो जितेन्द्रियाः। कां, कांतां प्रियां। क, ऋतावेव पुष्पदर्शनोत्तरभाविचतुर्थदिवसस्नानानन्तरमेव नान्यदा । क्व, रात्राबपि निश्यपि तथा ऋतावपि सन्तानार्थमेव ते भजन्ति तां न विषयसुखार्थ। एवशब्दोऽत्र सन्दर्शकन्यायेन उभयत्र योज्यः । न तु पुनः कथमपि वशिनः स्त्रियं भजन्ति । केषु, पर्वदिनादिषु पर्वदिनानिधर्मकर्मानुष्ठानदिनान्यष्टम्यादीनि आदिशब्देन अमावास्याग्रहणादीनि गृह्यन्ते ॥ १४ ॥ ___ अधुना चारित्रसारादिशास्त्रमतेन रात्रिभक्तवतं निरुक्त्या लक्षयन् रत्नकरण्डकादिप्रसिद्ध तदर्थ कथयति
Page #193
--------------------------------------------------------------------------
________________
सप्तमोध्यायः ।
रात्रिभक्तवतो रात्रौ स्त्रीसेवावर्तनादिह । निरुच्यतेऽन्यत्र रात्रौ चतुराहारवर्जनात् ॥ १५ ॥ टीका-निरुच्यते व्युत्पाद्यते । कोऽसौ, रात्रिभक्तवतः समासशब्दः । क, इह अस्मिन् चारित्रसारादिशास्त्रानुसारिणि ग्रन्थे । कस्मात्, रात्रौ निशि स्त्रीसेवाया वर्तनात् रात्रौ भक्तं स्त्रीभजनं व्रतयति रात्रिभक्तवत इति तच्छब्दस्य व्युत्पादनात् । अन्यत्र पुना रत्नकरंडकादिशास्ने रात्रिभक्तवतशब्दो निरुच्यते । कस्मात्. रात्री चतुराहारवर्जनात् रात्रौ भक्तं चतुर्विधमप्याहारं व्रतयति प्रत्याख्यातीति रात्रिभक्त वत इति तच्छब्दव्युत्पादनात् । यदाह स्वामी-अन्नं पानं खाद्य लेां नानाति यो विभावर्याम् । स च रात्रिभक्तविरतः सत्त्वेष्वनुकम्पमानमनाः ॥ १५ ॥ अथ ब्रह्मचर्यस्थानं व्याचष्टे
तत्ताडक्संयमाभ्यासक्शीकृतमनास्त्रिधा। ___ यो जात्वशेषा नी योषा भजति ब्रह्मचार्यसौ ॥ १६ ॥
टीका-भवति । कोऽसौ, अमौ श्रावकः। किंविशिष्टो, ब्रह्मचारी ब्रह्मणि चारित्रे आत्मनि ज्ञाने चरति प्रवर्तत इत्येवंत्रतः । यः किं, यो नो भजति न सेवते। काः, योषाः स्त्रीः । किंविशिष्टाः, अशेषाः मानवीदेवीस्तिरश्चीस्तत्प्रतिकृतीश्च । कदा, जातु कदाचिदिवा रात्रौ च । कथं, त्रिधा त्रिविधेन । कथम्भूतो भूत्वा तदित्या दि-स प्राक प्रतिमाषट्कनिर्दिष्टः तादृक्क्रमोपचितः संयमः प्राणेन्द्रियपरिहाररूपापहृतसंयमैकदेशस्तस्याभ्यासो भावना तेन वशीकृतं स्वाधीनतां नीत मनश्चित्तं येन स तथोक्तः ॥ १६ ॥ ब्रह्मचारिणे श्लाघते
अनन्तशक्तिरात्मेति श्रुतिर्वस्त्वेव न स्तुतिः।
यत्स्वद्रव्ययुगात्मैव जगज्जैत्रं जयेत्स्मरम् ॥ १७॥ टीका-भवति । काइसौ, श्रुतिराप्तोपदेशः। कथं, इति एवंस्वरूपा । भ
Page #194
--------------------------------------------------------------------------
________________
चति । कोसो, आत्मा पुरुषः । किविशिष्टोऽनन्तशक्तिः अनन्ता निःसीमाः शक्तयो अर्थक्रियाकारिसामर्थ्यानि यस्य सः अनन्तशक्तिः । इति श्रुतिः । किं भवति, वस्त्वेव वस्तुविषयैव । न भवति सा । किं, स्तुतिः गुणाल्पत्वे सति तद्बहुत्वकथनं । कुत इत्याह-यद्यस्मात् जयेत् प्रतिबनीयात्। कोऽसौ, आत्मैव । किंविशिष्टः, स्वद्रव्ययुक् परद्रव्यव्यावर्तनेन आत्मद्रव्यं समादधानः । कं, स्मरं कन्दर्प । किंविशिष्ट, जगज्जत्रं जगतां परद्रव्यप्रवृत्तिमतां प्राणिनां जैत्रमभिभावुकं ॥ १७ ॥ - मन्दमत्यनु जिवृक्षया ब्रह्मचर्यमाहात्म्यमाह
विद्या मन्त्राश्च सिद्धयन्ति किङ्करन्त्यमरा अपि ।।
क्रूराः शाम्यन्ति नाम्नाऽपि निर्मलब्रह्मचारिणाम् ॥ १८ ॥ टीका-सिद्धयन्ति वरप्रदा भवन्ति । काः, विद्याः साधितसिद्धाः । मन्त्राश्च पठितसिद्धाः। तथा किंकरन्ति किङ्करा इव आचरन्ति। के, अमरा देवाः। किं पुनर्मानवा स्तियञ्चो वेत्यपिशब्दार्थः। तथा शाम्यन्ति उपसर्गकरणान्निवर्तन्ते । के, क्रूराः ब्रह्मराक्षसादयः । केन, नाम्ना संज्ञोच्चारणमात्रेण । किं पुनः सन्निधानेनेत्यपिशब्दार्थः केषां, निर्मलब्रह्मचारिणां निरतिचारब्रह्मचर्यभाजाम् ॥ १८ ॥ प्रसङ्गवशाब्रह्मचर्याश्रमं किञ्चिद्याचष्टेप्रथमाश्रमिणः प्रोक्ता ये पञ्चोपनयादयः ।
तेऽधीत्य शास्त्रं स्वीकुर्युर्दारानन्यत्र नैष्ठिकात् ॥ १९ ॥ टीका-ये प्रोक्ताः परमागमे प्रतिपादिताः । के, प्रथमाश्रमिणः मौजीबन्धनपूर्वत्रतानुष्ठायिनः । कति, पञ्च। के, ते उपनयादयः उपनय आदिउँपामवलम्बादीनां तं । तत्र उपनयब्रह्मचारिणो गणधरसूत्रधारिणः समभ्यस्तागमा गृहिधर्मानुष्ठायिनो भवन्ति । अवलम्बब्रह्मचारिणः क्षुल्लकरूपेणागममभ्यम्य परिगृहीतगृहावासा भवन्ति । अदीक्षाब्रह्मचारिणो वेषमन्तरेणाभ्य
Page #195
--------------------------------------------------------------------------
________________
सप्तमोध्यायः ।
स्तागमा गृहधर्मनिरता भवन्ति । गूढब्रह्मचारिणः कुमारश्रमणाः सन्तः स्वीकृतागमाभ्यासा बन्धुभिर्दुसहपरिषहैरात्मना नृपतिभिर्वा निरस्तपरमेश्वररूपा गृहवासरता भवन्ति । नैष्ठिकब्रह्मचारिणः समधिगतशिखालक्षितशिरोलिङ्गाः तथा भिक्षावृत्तयो देवार्चनपरा भवन्ति । ते किं कुर्युरित्याह-परिगृह्णीयुः। के, ते । कान् , दारान्, पत्नीः । किं कृत्वा, अधीत्य पठित्वा । किं तत्, शास्त्रमुपासकाध्ययनादि श्रुतं । कथम् , अन्यत्र ।कस्मात् नैष्ठिकात् नैष्ठिकं वर्जयि. त्वेत्यर्थः ॥ १९ ॥ जिनदर्शने वर्णाश्रमव्यवस्था कुत्रास्तीति पृच्छन्त पत्याह...
ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्च सप्तमे ।
चत्वारोऽङ्गे क्रियाभेदादुक्ता वर्णवदाश्रमाः ॥ २० ॥ टीका-उक्ताः प्रणीताः । के, आश्रमाः आ शास्त्रोक्तकालात् श्राम्यन्ति यथास्वं तपस्यन्तीत्याश्रमाः । किंवत्, वर्णवत ब्राह्मणादयो वर्णा यथा । कमात्, क्रियाभेदात् धर्मकर्मविकल्पात् । कति, चत्वारः । क. अङ्गे । किंविशिष्ट, सप्तमे उपासकाध्ययनाख्ये। तानेवोपदेष्टुमाह-ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्चति । उक्तं च । ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च भिक्षुकः । इत्याश्रमास्तु जैनानां सप्तमाङ्गाद्विनिःसताः ॥ १ ॥ तक्रियाभेदस्तु किञ्चिदयं दयतेब्रह्मचारिणस्ताव दिमाः क्रिया: । द्विजसूनोर्गर्भाष्टमे वर्षे जिनालये कृतार्हत्पूजनस्य कृतमौण्ड्यस्य त्रिगुणमौञ्जीवन्धसप्तगुणग्रन्थितयज्ञोपवीतादिलिङ्गं विशुद्ध स्थूलहिंसाविरत्या दिव्रतं ब्रह्मचर्यापबृहितं गुरुसाक्षिकं धारणीयं । तक्रियाप्रपञ्चः पुनराः- शिखी सितांशुकः सान्तर्वासा निर्वेषविक्रियः । व्रतचिन्हें दधत्सूत्रं तदोक्तो ब्रह्मचार्यसौ ।। चरणोचितमन्यच्च नामधेयं तदाऽस्य वै। वृत्तिश्च भिक्षयाऽन्यत्र राजन्यादुधवैभवात् ॥ इत्यादिग्रन्थेनोक्तः प्रतिपत्तव्यः । पूर्वोक्तनित्यनैमित्तिकानुष्ठानस्थो गृहस्थः । स द्वेधा जातितीर्थक्षत्रियभेदात् । तत्र जातिक्षत्रियाः क्षत्रियब्राह्मणवैश्यशूद्रभेदाच्चतुर्विधाः तीर्थ
Page #196
--------------------------------------------------------------------------
________________
१९२
सागारधर्मः ।
क्षत्रियाः स्वजीवितविकल्पादनेकभेदा भिद्यन्ते । वानप्रस्था अपरिगृहीतजिनरूपा वत्रखण्डधारिणो निरतिशयतपस्युद्यता भवन्ति । भिक्षवो जिनरूपधारिणो बहुधा भवन्ति । तद्यथा देशप्रत्यक्षवित्केवलभृदिह मुनिः स्यादृषिः प्राप्तऋर्द्धिरारूढश्रेणियुग्मो जिनयतिरेनगारोऽपरः साधुवर्गः । राजा ब्रह्मा च देवः परम इति ऋषिर्विक्रियाऽक्षीणशक्तिप्राप्तो बुद्धयौषधीशो विविधनयपटुविश्ववेदी क्रमेण ॥ १ ॥ तत्क्रियाश्च प्राक्प्रबन्धेनोक्तास्तद्वद्वर्णक्रियाश्च व्याख्याताः ॥ २० ॥
अथारम्भविरतं द्वाभ्यामाह -
निरूढसप्तनिष्ठोऽङ्गिघाताङ्गत्वात्करोति न ।
न कारयति कृष्यादीनारम्भविरतस्त्रिधा ॥ २१ ॥ टीका न करोति न कारयति च कोऽसौ, आरम्भविरतः । कानू कृप्यादीन् कृषिसेवावाणिज्यादिव्यापारान् । न पुनः स्नपनदान पूजाभिघानाद्यारम्भान् । तेषामङ्गिघाताङ्गत्वाभावात् । प्राणिपीडापरिहारेणैव तत्संभवात् । वाणिज्याद्यारम्भादपि तथा सम्भवस्तर्हि विनिवृत्तिर्न स्यादिति चेदे - वमेतत् । कथं, त्रिधा । कस्मात्, अङ्गिघाताङ्गत्वात् प्राणिवध निवन्धनत्वात् । कथम्भृतो भूत्वा निरूढसप्तनिष्ठः निष्ठितप्राक् सप्तप्रतिमासंयमः पुत्रादीन् प्रत्यनुमतेः कदाचिन्निवारयितुमशक्यत्वान्मनोवाक्कायैः कृतकारिताभ्यामेव सावद्यारम्भान्निवर्तते इत्यत्र तात्पर्यार्थः ॥ २१ ॥
एतदेव समर्थयते—
यो मुमुक्षुरघाद्विभ्यत् त्यक्तुं भक्तमपीच्छति । प्रवर्तयेत्कथमसौ प्राणिसंहरणीः क्रियाः ।। २२ ॥ टीका-कथं प्रवर्तयेत् कुर्यात् कारयेच्च । कोऽसौ असावष्टमश्रावकः। काः, क्रियाः । किंविशिष्टाः, प्राणिसंहरणी: जीवघातिकाः । यः किं, य इच्छति वाञ्छति । किं कर्तुं, त्यक्तुं प्रत्याख्यातुं । किं तत्, भक्तमपि प्राणिसंहरणकारणं
3
1
Page #197
--------------------------------------------------------------------------
________________
सप्तमोध्यायः ।
१९३
भोजनमपि । कि कुर्बन, बिभ्यत् । कस्माद्, अघात्पापात् । किंविशिष्टः सन्, मुमुक्षुः कृत्स्नकर्मविप्रमोक्षमिच्छुः ॥ २२ ॥ अथ परिग्रहविरतं सप्तश्लोक्या व्याचष्ट
स ग्रन्थविरतो यः प्राग्त्रतत्रात स्फुरद्धृतिः । नैते मे नाहमेतेषामित्युज्झति परिग्रहान् ॥ २३॥ टीका - स भवति । किमाख्यो, ग्रन्थविरत । यः किं, य उज्झति त्यजति । कान, परिग्रहान् वास्तुक्षेत्रादीन दश । कथ, इति एवं संकल्प्य । न भवन्ति । के, एते वास्तुक्षेत्रादयोऽर्थाः । कस्य, मे मम स्वत्वभोग्यत्वादिना सम्बद्धाः । तथा न भवाम्यहं । कंषां, एतेषां स्वामित्वभोक्तृत्वादीनां सम्बन्धी किंविशिष्टः सन् प्रागित्यादि- प्राचां दर्शनिकादिप्रतिमा विषयाणां व्रतानां संयमविशेषाणां व्रातः सङ्घातः प्रातव्रातः तेन स्फुरन्ती जाग्रती धृतिः सन्तोषो यस्य स तथोक्तः किं च । स्वाचाराप्रातिलोम्येन लोकाचारं प्रमाणयेदिति वचनात्सर्वत्र स्वस्वस्थाना विरोधेनैव पूर्वम्थानानुष्ठान मनुष्ठेयम् ॥ २३ ॥ एतस्य सकलदत्तिमुत्तरप्रबन्धेन व्याचष्टे—
अथाय सुतं योग्यं गोत्रजं वा तथाविधम । ब्रूयादिदं प्रशान् साक्षाज्जातिज्येष्ठ धर्मणाम् ॥ २४ ॥ टीका - अथाधिकारे इतः सकलदत्तिरविक्रियत इत्यर्थः । ब्रूयात व्याहरेत् । कोsसौ, प्रशान् प्रशमपरो नवमः श्रावकः । के, सुतं पुत्रं । किंविशिष्ट, योग्य स्वभारक्षमं । किं कृत्वा, आहूय आकार्य । वा अथवा योग्यपुत्राभावे गोत्रज भ्रातृतत्पुत्रादिकं । किंविशिष्ट, तथाविधं योग्यपुत्रतुल्यं । किं ब्रूयात्, इदं वक्ष्यमाणं । कथं, साक्षात् समक्षं । केषां, जातिज्येष्ठसधर्मणां जातो ब्राह्मणत्वादौ ज्येष्ठा मुख्या जातिज्येष्ठास्ते च ते सधर्माणश्च साधर्मिकास्तेषाम् । ताताद्य यावदस्माभिः पालितोऽयं गृहाश्रमः । विरज्यैनं जिहासूनां त्वमद्यार्हसि नः पदम् ॥ २५ ॥
2
Page #198
--------------------------------------------------------------------------
________________
सागारधर्मः ।
टीका-हे तात स्वस्य पोष्यत्वसूचनगर्भ पुत्रादेः प्रियत्वामंत्रणमिदं। पालितो यथाविधि निर्वाहितः । कोऽसौ, अयं प्रस्तुतो गृहस्थाश्रमो गृहस्थाचारः। कैः,अस्माभिः नवमप्रतिमानुष्ठाननिष्ठाभ्युद्यतैः । कथं, अद्ययावत् इदंदिनावधि। अद्य सम्प्रति अर्हसि स्वीकर्तुमुचितोऽसि । कोऽसौ, त्वं । किं तत्, पदं त्रिवगंसारगृहाचारानुवर्तनलक्षण । केषां, नः अस्माकं । किं चिकीर्षुणां, जिहासूनां त्यक्तुमिच्छूनां । कं, एनं गृहाश्रमं । किं कृत्वा, विरज्य भवाङ्गभोगेषु वैराग्यं गत्वा ॥ २५ ॥
पुत्रः पुपूषोः स्वात्मानं सुविधेरिव केशवः ।
य उपस्कुरुते वस्तुरन्यः शत्रुः सुतच्छलात् ।। २६ ॥ टीका-य उत्पन्नः पुनीते वंशं स पुत्र इति वचनात् स पुत्रो भण्यते । यः किं, य उपस्कुरुते गृहादिममत्वच्छेदेनातिशयमादत्ते । कस्य, वस्तुः पितुः । किं चिकीर्षाः, पुपूषोः शोधयितुमिच्छोः । कं, स्वात्मानं स्वचिद्रूपं । क इव कस्येत्याह-सुविधेरित्यादि । यथा उपचक्रे । कोऽसौ, केशवः केशवो नाम श्रीमतीचरस्तत्पुत्रः । कस्य, सुविधेः वृषभनाथस्य पूर्वभवे सुविधिनाम्नो राज्ञः । उक्तं चार्षे-नृपस्तु सुविधिः पुत्रस्नहाद्गार्हस्थ्यमत्यजन् । उत्कृष्टोपासकस्थाने तपस्तेपे सुदुश्चरं । उक्तलक्षणवैपरीत्ये पुत्रस्यापि शत्रुत्वं वक्तुमाह-भवति । कोऽसौ, अन्यः पुत्रः । किंविशिष्टः, शत्रुः शातयिता इष्टविधा तित्वात् । कस्मात्, सुतच्छलात्पुत्रव्याजात् ॥ २६ ॥ उपसंहारमाहतदिदं मे धनं धयं पोष्यमप्यात्मसात्कुरु ।
सैषा सकलदत्तिर्हि परं पथ्या शिवार्थिनाम् ॥ २७ ॥ टीका-यत एवं तत्तस्मात् आत्मसात्कुरु स्वायत्त विधेहि त्वं । किं तत्, इदं वर्तमान मे मम सम्बंधि धनं ग्रामसुवर्णादिकं धर्म्य चैत्यालयपात्र
Page #199
--------------------------------------------------------------------------
________________
सप्तमोध्यायः ।
१९५
दानादिकं पोप्यं च गृहिणीमातृपित्रादि । कुत एतदित्याह-हि यस्माद्वर्तते। काऽसौ, सा सूत्रोक्ता एषा विधीयमाना सकलदत्तिरन्वयदत्त्यपराभिधाना । कीदृशी, पथ्या पथोऽनपेता रत्नत्रयानुगतेत्यर्थः । केषां, शिवार्थिनां मुमुक्षूणां । कथं, परं अत्यर्थम् ॥ २७ ॥
विदीणमोहशार्दूलपुनरुत्थानशकिनाम् ।।
त्यागक्रमोऽयं गृहिणां शक्त्याऽऽरम्भो हि सिद्धिकृत् ॥२८॥ टीका-वर्तते । कोऽसौ, अयं प्रकृतः त्यागक्रमः शनैः शनैबेहिरन्तःसङ्गवर्जनं । केषां, गृहिणाम् । किंविशिष्टानां, विदीर्णेत्यादि-विदीर्णस्तत्तन्निठासौष्ठवेन भिन्नः स चासौ मोहशार्दूलश्च ममकारव्याघ्रः तस्य पुनरुत्थानं भूयो निहन्तुमभियोगस्तं शङ्कन्ते विकल्पयन्त्यभीक्ष्ण मिति तच्छकिनस्तेषां । अर्थसमर्थनार्थमाह-हि यस्माद्भवति। कोसौ, आरम्भ ऐहिकमामुत्रिकं वाभिमतार्थ साधयितुमुपक्रमः । कया, शक्त्या स्वसामर्थ्येन क्रियमाणः । किंविशिष्टो भवति, सिद्विकृत् अभिप्रेतार्थसाधकः ॥ २८ ॥
एवं व्युत्सृज्य सर्वस्वं मोहाभिभवहानये । किश्चित्कालं गृहे तिष्ठदौदास्यं भावयन्सुधीः ॥ २९॥ टीका-तिष्ठदासींत । कोऽसौ, सुधीः तत्त्वज्ञानसम्पन्नः । क, गृहे । के कालं । कियन्त, किञ्चित्स्तोकं । किं कुर्वन्, भावयन्नभ्यस्यन् । तदौदास्यमुपेक्षां । कस्मै, मोहेत्यादि । मोहेन ममत्वेन अभिभव उपेक्षाशैथिल्यं येन पृष्टो वा आरम्भादौ पुत्रादेरनुमतिं दास्यते तस्य हानये निराकरणार्थ। किं कृत्वा,व्युत्सृज्य विशेषेण विधिपूर्व वा त्यक्त्वा । किं तत्, सर्वस्वं चेतनमचेतनं च स्वं वस्तु।कथं,एवमित्थं । किञ्चित्कालमित्यनेन सिताम्बरपरिकल्पितं प्रतिमासु कालनियम निराकरोति। तद्ग्रन्थानुवादस्तु ज्ञानदीपिकायां द्रष्टव्यः । गृहे तिष्ठेदित्यनेन स्वांगाच्छादनार्थ वस्त्रमात्रधारणममूर्छामस्य लक्षयति । तेन विना
Page #200
--------------------------------------------------------------------------
________________
सागारधर्मः ।
गृहेऽवस्थानानुपपत्तेः । तथा ह्यागमः “ मोत्तूण वत्तमित्तं परिग्राहं जो विबज्जदे से । तं तत्थ विमुच्छष्णं करेदि जाण सो सावओ णवमो ॥ २९ ॥ अथानुमतिविरतं सप्तश्लोक्या व्याचष्टे
१९६
-
नवनिष्ठापरः सोऽनुमतिव्युपरतः सदा ।
यो नानुमोदते ग्रन्थमारम्भं कर्म चैहिकम् ॥ ३० ॥ टीका - स भवति । किंविशिष्टः, अनुमतिव्युपरतोऽनुमतिविरत इत्यर्थः । यः किं, यो नानुमोदते नानुमन्यते । कं ग्रन्थं धनधान्यादिकं तथा आरम्भकृप्यादिकं । तथा कर्म व्यापारं । किंविशिष्टं, ऐहिकं विवाहादिकं । कथं, त्रिधा मनोवाक्कायैः । किंविशिष्टः सन् नवनिष्ठापरः दर्शनिका दिप्रतिमानवकानुष्ठाननिष्ठः ॥ ३० ॥
1
एतस्य विधिविशेषमाह—
चैत्यालयस्थः स्वाध्यायं कुर्यान्मध्यान्हबन्दनात् । ऊर्ध्वमामन्त्रितः सोऽद्याद् गृहे स्वस्य परस्य वा ॥ ३१ ॥ टीका- कुर्याद्विदध्यात् । कोसौ असावनुमतिविरतः । कं, स्वाध्यायमागमाध्ययनं । किंविशिष्टः सन्, चैत्यालयस्थः जिनगृहे तिष्ठन् । तथा अद्यात् भुञ्जीत सः । क गृहे । कस्य, स्वस्य आत्मीयस्य पुत्रादेः परस्य वा यस्य कस्य धार्मिक्रस्य। किंविशिष्टः सन्, आमंत्रित आहूतः । कथं ऊर्ध्वमुपरिष्टात् । कम्मात्, मध्याह्नवन्दनात् माध्याह्निककृतिकर्मणः पश्चात् ॥ ३१ ॥ अस्यैवोद्दिष्ट यागार्थ भावना विशेषं लोकद्वयेनाह-यथाप्राप्तमदन्देहसिद्ध्यर्थं खलु भोजनम् ।
देहश्व धर्मसिद्ध्यर्थं मुमुक्षुभिरपेक्ष्यते ।। ३२ || सा मे कथं स्यादुद्दिष्टं सावद्याविष्टमश्नतः । कर्हि मैक्षामृत भोक्ष्ये इति चेच्छेज्जितेन्द्रियः || ३३॥ युग्मम्
Page #201
--------------------------------------------------------------------------
________________
सप्तमोध्यायः ।
१९७
टीका-इच्छेच्च आकांक्षेदसौ। किं, इति एतत् । किं कुर्वन्, भुजानः । किं, यथाप्राप्तं यद्यल्लब्धं तत्तत्संयमाविरोधेनाश्नन्नित्यर्थः । किंविशिष्टो यतः, जितेन्द्रियः जितानि वशीकृतानी न्द्रियाणि स्पर्शनादीनि येन स जितेन्द्रियः । किमेतदिच्छेदित्यत्राह-खलु निश्चयेन । अपेक्ष्यते आकांक्ष्यते । किं तत्, भोजनं । कैः, मुमुक्षुभिः । किमर्थ, देहसिद्धयर्थ शरीरवर्तनार्थ । तथा अपेश्यते देहस्तैः । किमर्थ, धर्मसिद्धयर्थ रत्नत्रयनिष्पत्त्यर्थ । सा च धर्मसिद्धिः कथं, न कथमपि स्यात् । कस्य, मे मम । किं कुर्वतः, अश्नतो भुञ्जानस्य । किं तत्, उहिष्टं स्वोदेशेन साधितमाहारं । किंविशिष्टं, सावद्याविष्ट सावधेनाधःकर्मणा संसृष्टं । ततः कर्हि कस्मिन्काले । भोक्ष्ये वल्भिष्येऽहं । किं तत, भैक्षामतं भिक्ष्यन्त इति भिक्षाः याचितप्राप्ताहाराः भिक्षाणां समूहो भैक्ष भैक्षममतमिवाजरामरत्वहेतुत्वात् ॥ ३२ ॥ ३२ ॥
अस्यैव गृहत्यागविधिमाह__पञ्चाचारक्रियोयुक्तो निष्क्रमिष्यन्नसौ गृहात् ।
आपृच्छेत गुरून् बन्धून पुत्रादींश्च यथोचितम् ॥ ३४ ॥ टीका-आपृच्छेत संवदेदसौ । कान, पुत्रादीन् । कथं, यथोचितं यथार्ह । किं करिष्यन्,निष्क्रमितुमिच्छन् । कस्मात्,गृहा द्रव्यभावगेहात् । किंविशिष्टःसन, पञ्चाचारक्रियोद्युक्तः पञ्चानां ज्ञानाद्याचाराणां करणे तत्परः । अत्राय विधिःअहो कालविन्योपधानबहुमाना निन्हवार्थव्यञ्जनतदुभयसंपन्नत्वलक्षणज्ञानाचार न शुद्धस्यात्मनस्त्वमसी ति निश्चयेन जानामि, तथापि त्वां तावदाश्रयामि यावत्त्वत्प्रसादाच्छुद्धमात्मानमुपलभे। अहो निःशंकितत्वनिःकांक्षितत्वनिर्विचिकित्सितत्वनिर्मूढदृष्टि वोपबृंहणस्थितीकरणवात्सल्यप्रभावनालक्षणदर्शना - चार, शेषं पूर्ववत् । अहो मोक्षमार्गप्रवृत्तिकारणपञ्चमहाव्रतोपेतकायवाङ्मनोगुप्ती भाषेषणादाननिक्षेपणप्रतिष्ठापनसमितिलक्षणचारित्राचार, शेष पूर्ववत् । अहो अनशनावमोदर्यवृत्तिपरिसंख्यानरसपरित्यागविविक्तशय्यासनकायक्लेश,
Page #202
--------------------------------------------------------------------------
________________
१९८
सागारधर्मः।
शेष प्राग्वत् ॥ अहो समस्तेतराचारप्रवर्तकस्वशक्त्यनिगृहनलक्षणवीर्याचार, शेष प्राग्वत् । अयं यथोचितमेतदाचक्ष्महे ॥तथाहि-अहो मदीयशरीरजनकस्यात्मन् अहो मदीयशरीरजनन्यात्मन् नायं मदात्मा युवाभ्यां जनितो भवतीति निश्चयेन युवां जानीतं । तत आपृष्टौ युवामिममात्मानं विमुञ्चतं । अयमात्माऽद्योद्भिन्नज्ञानज्योतिरात्मानमेवात्मनोऽनादिजनकमुपसर्पति। तथा अहो मदीयशरीरबन्धुजनवर्तिन आत्मानः अयं मदात्मा न किञ्चनापि युष्माकं भवतीति निश्चयेन यूयं जानीथ तत आपृष्टा यूयं, शेषं पूर्ववत् । नवरं, जनकमित्यस्य स्थाने बंधुमिति पठनीयं । अहो मदीयशरीरपुत्रस्यात्मन् मदात्मनो न त्वं जन्यो भवसीति निश्चयेन त्वं जानीहि । तत आपृष्टस्त्त्वमिममात्मानं विमुञ्च, शेषं प्राग्वत् । नवरं, बंधुस्थाने जन्यं पठेत् ।। अहो मदीयशरीररमण्या आत्मन मदात्मा न त्वां रमयतीति निश्चयेन त्वं जानीहि तत आपृष्टस्त्वमिममात्मानं विमुञ्च । अयमात्माऽद्योद्भिन्नज्ञानज्योतिः स्वानुभतिमेवात्मनोऽनादिरमणीमुपसर्पतीत्यादि ॥ ३४ ॥ विनयाचारस्य भेदं विस्तरेण प्रागुक्तमिदानीं सुखस्मृत्यर्थ संक्षिप्य पुनराह
सुदृनिवृत्ततपसां मुमुक्षोर्निर्मलीकृतौ।।
यत्नो विनय आचारो वीर्याच्छुद्धेषु तेषु तु ॥ ३५ ॥ टीका-भण्यते सूरिभिः । कोऽसौ, विनयः । किं, यत्नः प्रणिधानं । क्व, निर्मलीकृतौ मलापनयने । सुदृनिवृत्ततपसां सम्यग्दर्शनज्ञानचारित्रतपसां । कस्य, मुमुक्षोः न बुभुक्षोः ।आचारस्तु भण्यते । किं, यत्नः । केषु तेषु सहगादिषु चतुषु । किंविशिष्टेषु, शुद्धेषु निर्मलीकृतेषु । कस्मात् , वीयर्यात् स्वशक्तिमनिगुह्य । एतेन पञ्चमो वीर्याचारः सूच्यते ॥ ३५ ॥ सम्प्रत्युपसंहरति
इति चर्या गृहत्यागपर्यन्तां नैष्ठिकाग्रणीः । निष्ठाप्य साधकत्वाय पौरस्त्यपदमाश्रयेत् ॥ ३६ ॥
Page #203
--------------------------------------------------------------------------
________________
सप्तमोध्यायः ।
१९९
टीका- आश्रयेत् स्वीकुर्यात् । कोऽसौ, नैष्ठिकाग्रणीः नैष्ठिकेषु दार्शनिकादिषु नवस्वग्रणीर्मुख्योऽनुमतिविरनः । किं तत्, पदं स्थानं । किंविशिष्टं पौरस्त्यं एकादशमुद्दिष्टविरत्याख्यं । कस्मै, साधकत्वाय आत्मशोधनार्थं । किं कृत्वा, निष्ठाप्य । कां चर्यो संयमाचारं । किंविशिष्टां, गृहत्यापर्यन्तां गृहत्यागः पर्यन्ते अवसाने यस्यास्तां । कथं, इत्येवम् ॥ ३६ ॥ अथोद्दिष्ट विरतस्थानं त्रयोदशभिः श्लोकैर्व्याचष्टेतत्तद्व्रतास्त्रनिर्भिन्नश्वसन्मोहमहाभटः ।
—
उद्दिष्टं पिण्डमप्युज्झेदुत्कृष्टः श्रावकोऽन्तिमः ॥ ३७ ॥ टीका-उज्झेत् त्यजेत् । कोऽसौ, अन्तिमः श्रावकः । किविशिष्टः, उत्कृष्टः अयमित्थंगतनयादुत्कृष्टोऽनुमतिविरतस्तु नैगमनयादिति ज्ञापनार्थमुभौ भिक्षू तो प्रकृष्टौ चेति प्रागुक्तमपीदं विशेषण पुनरुक्तं । किमुज्झेत्, पिण्डं भक्तं अपिशब्दादुपधिशयनासनादि । किंविशिष्ट, उद्दिष्ट आत्मोद्देशेन कल्पितं । नवकोटिविशुद्ध स्वीकुर्यादित्यर्थः । किं विशिष्टः सन् तदित्यादि - तानि पूर्वोक्तानि व्रतानि यथास्वं निवृत्तिप्रवृत्तिरूपाण्याचरणानि तत्तद्व्रतानि तान्येवास्त्राणि हरणानि तैर्भिन्नो नितरां विदारितः सचासौ श्वसन् किञ्चिज्जीवन जिनरुपताप्राप्तिं प्रतिबध्नन् मोह एव महाभटो दुर्निवारवीरो यस्य स तथोक्तः ॥ ३७ ॥ तद्वेदलक्षणार्थमाह-
"
म द्वेधा प्रथमः श्मश्रुमृर्धजानपनाययेत्
मितकौपीन संव्यानः कर्तर्या वा क्षुरेण वा ॥ ३८ ॥
1
टीका -स उत्कृष्ट श्रावको द्वेधा द्विविधो भवति । तत्राद्यस्य प्रथम इत्यादिना प्रबन्धेन विधिमभिधत्ते अपनाययेत् छेदयेत् । कोऽसौ, प्रथम आद्य उद्दिष्टविरतः । कान, मश्रुमूर्धजान् कूर्च शिरः केशान् । कया, कर्तर्या कर्तरिकया । वा क्षुरेण नापितोपकरणेन वा । अत्र कर्तर्याऽपनायनं श्लाघ्यतरं
Page #204
--------------------------------------------------------------------------
________________
२००
सागारधर्मः ।
शोभानाकांक्षणात् । तथा सितकौपीनसंव्यानो भवेत् श्वेतकक्षापटोत्तरीयपटश्वासौ स्यादित्यर्थः ॥ ____स उत्कृष्ट उद्दिष्टविरतश्रावकः द्विविधो भवति इति सम्बन्धः । तत्र तावत् प्रथमः आद्यः । किविशिष्टः, सितकौपीनसंव्यानः कौपीनं गुह्यप्रच्छादनवस्त्रं संव्यानं उत्तरीयवस्त्रं कौपीनं च संव्यानं च कौपीनसव्यानं सिते कौपीनसंव्याने यस्य स तथोक्तः। किं कुर्यात्, अपनाययेत् अन्येनोत्सारयेत् । कान, श्मश्रुमूर्धजान् । श्मश्रूणि कूर्चान् केशान् मूर्धजान् शिरःकेशान न तु कक्षादिस्थान् । कया, कर्तर्या कर्तरिकया वा अथवा क्षुरेण रोमशस्त्रविशेषेण । अत्र द्वितीयो वाशब्दः समुच्चयार्थ ज्ञातव्यो यथासम्भवमिति ॥ ३८ ॥
स्थानादिषु प्रतिलिखेत मृदूपकरणेन सः ।
कुर्यादेव चतुष्पामुपवास चतुर्विधम् ॥ ३९ ॥ टीका-प्रतिलिखेत् भूतला दिषु प्रमृज्यात् । कोसौ, स प्रथम उत्कृष्टः । केन, मृदूपकरणेन मृदुना सुकुमारेण जन्त्वबाधकेनोपकरणेन वस्त्रादिना । केषु कर्त्तव्येषु, स्थानादिषु उद्भीभावोपवेशनसंवेशनादिषु । तथा कुर्यादेव अवश्यं विदध्यादसौ । कं, उपवासमनशनं । किंविशिष्ट, चतुर्विधं चतस्रो विधा आहारास्त्याज्या यस्मिन्नसौ चतुर्विधस्तं । चतुष्पा मासि मासि द्वयोरष्टम्योर्द्वयोश्चतुर्दश्योः ॥ ३९ ॥
स्वयं समुपविष्टोऽद्यात्पाणिपात्रेऽथ भाजने । स श्रावकगृहं गत्वा पात्रपाणिस्तदङ्गणे ॥ ४० ॥ स्थित्वा भिक्षां धर्मलाभं भणित्वा प्रार्थयेत वा। मौनेन दर्शयित्वाऽङ्गं लाभालाभे समोऽचिरात् ॥ ४१ ॥ निर्गत्याऽन्यद्गृहं गच्छेद्भिक्षोद्युक्तस्तु केनचित् । भोजनायार्थितोऽद्यात्तद् भुक्त्वा यद्भिक्षितं मनाक् ॥ ४२ ॥
Page #205
--------------------------------------------------------------------------
________________
. सप्तमोध्यायः ।
२०१
प्रार्थयेतान्यथा भिक्षां यावत्स्वोदरपूरणीम् ।
लभेत प्रासु यत्राम्भस्तत्र संशोध्य तां चरेत् ॥४३।। कळापकं टीका-स प्रथमोत्कृष्टोऽद्यात् भुञ्जीत । केन, स्वयमात्मना । किंविशिष्टः सन्, समुपविष्टः निश्चलनिविष्टः । क, पाणिपात्रे हस्तपुटे । अथवा भाजने स्थाल्यादौ । इतः श्रावकेत्यादिना भिक्षणविधिमाह-प्रार्थयेत् भिक्षेत । कोऽसौ, सः । कां, भिक्षां । किं कृत्वा, भणित्वा । कं, धर्मलाभ धर्मलाभशब्दमुच्चार्येत्यर्थः। किं कृत्वा, स्थित्वा उद्भीभूत्वा । क, तदङ्गणे श्रावक गृहाग्रभागे। किंविशिष्टः सन, पात्रपाणिः भिक्षापात्रहस्तः । किं कृत्वा, गत्वा प्राप्य । किं तत्, श्रावकगृहं । वा अथवा । स प्रार्थयेत् भिक्षां । केन, मौनेन । किं कृत्वा, दर्शयित्वा दातृदृष्टिगोचरं कृत्वा । किं तत्, अङ्गं स्वशरोरं । ततश्च गच्छेत् व्रजेत् । किं तत्, गृहं । किंविशिष्टं, अन्यत् अयाचितभिक्षं । किं कृत्वा, निगत्य याचितभिक्षामहान्निष्क्रम्य । कथं, अचिरात् शीघ्रं । किंविशिष्टः, सम. रागद्वेषरहितः । क, लाभालाभे भिक्षायाः प्राप्तावप्राप्तौ च । भिक्षाद्युक्तस्तु भिक्षां याचमानः पुनः केनचिठ्ठावकेण भोजनाय भोजनं कर्तुमर्थितः उपरुद्धः सन् अद्यात् तद्गृहे भुञ्जीत । किं कृत्वा, भुक्त्वा जेमित्वा । किं तत्, तदन्नं । यत्किं, यद्भिक्षितं गृहान्तरेषु याचितं । कियत् , मनाक् स्तोकं । बहो भिक्षिते सति नान्यस्यान्नं भुञ्जीतेति भावः । अन्यथा परोपरोधाभाव प्राथेयेत याचेत सः । कां, भिक्षां । कथं, यावन्मर्यादीकृत्य । कां, स्वोदरपूरणी भिक्षां । स्वस्यैवोदरं यावत्या पूर्यते तावतीमेव प्रार्थयेत अन्यथा असंयमप्रसङ्गः । अथवा यावत् स्वोदरपूरणी भिक्षा भवति तावदेव प्रार्थयतेति वाक्यभेदेन सम्बन्धः । ततश्च चरेत् गोवद् भुजीतेति भावः । का, तां भिक्षां । किं कृत्वा, संशोध्य सम्यक् शोधयित्वा। क, तत्र श्रावकगृहे । यत्र किं, यत्र लभेत प्राप्नुयात्सः । किं तत् , अम्भः पानीयं । किंविशिष्टं, प्रासु प्रामुकं निर्जीवम् ॥ ४०॥४१॥४२॥४३ ॥
Page #206
--------------------------------------------------------------------------
________________
सागारधर्मः ।
आकांक्षन्संयमं भिक्षापात्रप्रक्षालनादिषु । स्वयं यतेत चादर्पो परथाऽसंयमो महान् ॥ ४४ ॥
टीका - स चादर्पो विद्या तिशयाद्यनाहितमदः सन् स्वयं यतेतात्मना यत्नं कुर्यात् । क, भिक्षेत्यादि भिक्षापात्रस्य प्रक्षालनं धावनमादौ येषामासनस्थापनोच्छिष्टत्यजनादीनां तानि भिक्षापात्रप्रक्षालनादीनि कर्माणि तेषु । किं कुर्वन्, आकांक्षन् अभिलषन् । कं, संयमं प्राणिरक्षणं । अपरथा अन्यथा शिष्यादिना तद्विध ने भवत्यसंयमः । कीदृशो, महान् भूयान् ॥ ४४ ॥ ततो गत्वा गुरूपान्तं प्रत्याख्यानं चतुर्विधम् । गृह्णीयाद्विधिवत्सर्वं गुरोश्वालोचयेत्पुरः || ४५ ||
टीका - ततः प्रकृतकर्म करणानन्तरं । गुरोर्धर्माचार्यस्योन्तंपा समीपं गत्वा गृह्णीयात्स्वीकुर्यात् सः । किं तत् चतुर्विधं चतुर्विधाहारविषयं । प्रत्याख्यानं नियमं । कथं, विधिवत् यथाविधि । तथा आलोचयेत् निवेदयेत्सः । किं तत्, सर्वं गमनात्प्रभृति स्वचेष्टितं । क्क, पुराऽग्रे । कस्य, गुरोः ॥ चशब्दागोचरीं प्रतिक्रमणां कुर्यात् ॥ ४५ ॥
•
एवमनेकभिक्षानियमस्य प्रथमोत्कृष्टस्य भोजनविधिमुक्त्वा सम्प्रति तस्यैवैकभिक्षा नियमस्य तदुपदिशति -
२०२
यस्त्वेकभिक्षानियमो गत्वाऽद्यादनुमुन्यसौ ।
भुक्त्यभावे पुनः कुर्यादुपवासमवश्यकम् ॥ ४६ ||
टीका - यस्तु प्रथमोत्कृष्टो भवति । कीदृशः, एकस्या मे कगृह संबंधिन्यां भिक्षायां नियमः प्रतिज्ञा यस्य स एकभिक्षानियमः । असावद्यात् भोजनं कुर्यात् । किं कृत्वा, गत्वा दातृगृहं व्रजित्वा । कथं, अनुमुनि संयतस्य पश्चात् । एतेन प्रथमोत्कृष्टो द्वेधा स्यादनेक भिक्षानियम एक भिक्षानियमश्चेत्युक्तं प्रतिपत्तय्यं । स पुनः कुर्यात् । के, उपवासं । कथं, अवश्यकं नियमेन । क सति, भुक्त्यलाभे सति तथाभोजनस्याप्राप्तौ ॥ ४६ ॥
Page #207
--------------------------------------------------------------------------
________________
तद्विधिविशेषमाह
सप्तमोध्यायः ।
२०३.
सेन्मुनिवने नित्यं शुश्रूषेत गुरूँश्चरेत् ।
तपो द्विधाऽपि दशधा वैयावृत्यं विशेषतः ॥ ४७॥ टीका- स नित्यं सर्वदा मुनिवने संयताश्रमे । वसेन्निवासं कुर्यात् । । तथा शुश्रूषेत पर्युपासीत । कानू, गुरून् घर्माचार्यादीन् । तथा चरेदतिष्ठेत् । किं तत्, तपः । कथंभूतं द्विधाऽपि बाह्यमाभ्यन्तरं च । तथा स चरेत् । किं तत्, वैयावृत्यं संयमिनामापत्प्रतीकारं । कतिधा दशधा आचार्यादिगोचरत्वेन दशप्रकारं । केन, विशेषतोऽतिशयेन अन्तरङ्गतपस्यस्य संगृहीतस्यापि पृथगुपदेश इतरतपस्त इदमतिशयेनासौ श्रावकश्चरेदिति ज्ञापनार्थम् ॥ ४७ ॥
अद्वितीयमुद्दिष्टविरतं लक्षयति-
तद द्वितीयः किन्त्वार्यसञ्ज्ञो लुञ्चत्यसौ कचान् । कौपीनमात्रयुग्धत्त यतिवत्प्रतिलेखनम् ॥ ४८ ॥
1
टीका - भवति । कोऽसौ, द्वितीय उत्कृष्टः । किंवत्, तद्वत् प्रथमेन तुल्यक्रियः । किंतु विशेषेण लुञ्चति हस्तेनोत्पाटयत्यसौ । कान्, कचान् कूर्च - शिरःकेशान् । किंनामा, आर्यसञ्ज्ञः आर्य इति सञ्ज्ञा नाम यस्यासौ । तथा भत्ते धारयत्यसौ । किं तत् प्रतिलेखनं पिच्छिकाख्यं संयमोपकरणं । किंवत्, यतिवत् संयतेन तुल्यं । किंविशिष्टः सन् कौपीनमात्रयुक् कौपीनमात्रं गुह्यप्रच्छादनचेलखण्डमात्रं युनक्त्यात्मना योजयति नोत्तरीयादिकं यः स तथोक्तः ॥ ४८ ॥
I
T
स्वपाणिपात्र वाति संशोध्यान्येन योजितम् ।
इच्छाकारं समाचारं मिथः सर्वे तु कुर्वते ॥ ४९॥
टीका - तथा अत्ति जेमत्यसावाहारं । किंविशिष्टं, योजित समर्पितं । क्व. स्वपाणिपात्र एवं निजहस्तपुटे न स्थाल्यादौ । केन, अन्येन गृहस्थादिना ।
Page #208
--------------------------------------------------------------------------
________________
सागारधर्मः
किं कृत्वा, संशोध्य । एवमसाधारणमाचारमुक्त्वा साधारण तमाह- इच्छेत्यादि । कुर्वते विदधते । के, सर्वे एकादशापि श्रावकाः । कं, समाचारं । किंविशिष्टमिच्छाकारं इच्छामीत्येवं विधोच्चारणलक्षणं । कथं, मिथः परस्परं । तुर्विशेषे ॥ ४९ ॥
इदानीं दशभिः पद्यैः शषं संगृह्णन्नाह—
२०४
श्रावको वीरचर्या प्रतिमातापनादिषु । स्यानाधिकारी सिद्धान्तरहस्याध्ययनेऽपि च ॥ ५० ॥ टीका- न स्यात् । कोऽसौ, श्रावकः । किंविशिष्टः, अधिकारी योग्यः । क, वीरेत्यादि वीरचर्या स्वयं भ्रामर्या भोजनं, अहः प्रतिमा दिनप्रतिमा आतापनात्रिकालयोगाः ग्रीष्मे सूर्याभिमुखं गिरिशिखरेऽवस्थानं, वर्षासु वृक्षमूले, शीतकाले रजन्यां चतुष्पदे, इत्येवंलक्षणास्त्रयः कायक्लेशविशेषाः । तथा सिद्धान्तस्य परमागमस्य सूत्ररूपस्य रहस्यस्य च प्रायश्चित्तशास्त्रस्याध्ययने पाठे श्रावको नाधिकारी स्यादिति सम्बन्धः ॥ ५० ॥ दानशीलोपवासाचभेदादपि चतुर्विधः ।
स्वधर्मः श्रावकैः कृत्यो भवोच्छित्त्यै यथायथम् ॥ ५१ ॥ टीका-कृत्योऽनुष्ठेयः । कोऽसौ, स्वधर्मः आत्मन आचारः । कैः, श्रावकैः देशसंयतैः । किंविशिष्टश्चतुर्विधोऽपि । कस्माद्दानशीलोपवासाचभेदात् दानं च शीलं चोपवासश्चार्चा च जिनादिपूजा ताभिर्भेदस्तस्मात् । अपिशब्दान्न केवलं दर्शनादिभेदादेकादशधेति ग्राह्यं । कथं यथायथं स्वप्रतिमाचरणाविरोधेन । किमर्थ, भवोच्छित्त्यै संसार निरासार्थं ॥ ५१ ॥
इत उत्तरं व्रतरक्षायां यत्नविधानार्थं प्रबन्धेनाभिधत्ते
――――
प्राणान्तेऽपि न भक्तव्यं गुरुसाक्षि श्रितं व्रतम् । प्राणान्तस्तत्क्षणे दुःखं व्रतभङ्गो भवे भवे ।। ५२ ।।
Page #209
--------------------------------------------------------------------------
________________
सप्तमोध्यायः ।
२०५
टीका - न भक्त य न व डनीयं श्रावकैः । किं तत्, व्रतं । किंविशिष्टं, श्रितं प्रतिपन्न । कथं, गुरुमा क्ष गुरुवोऽत्र परमेष्ठिनो दीक्षा गुरवः साधर्मिकमुख्याः स्थानवास्तुदेवताश्च गृह्यन्ते । गुरवः साक्षिणः साक्षाद्रष्टारो यत्र तद्गुरुसाक्षिकमित्यर्थः । क, प्राणान्ते व्रतभंगाकरणे प्राणनाशे सम्भवत्यपि किं पुनरितरापदि । व्रतभङ्गकरणे दुःखभूयस्त्वं दर्शयति-भवति। कोऽसौ, प्राणान्तः। किं, दुःखं । क,तत्क्षणे तस्मिन्नेव समये नोत्तरत्र । व्रतभंगः पुनर्दुःख भवति । क, भवे भवे जन्मनि जन्मनि । बुद्धिपूर्वकवतभंगकरणेन सम्यक्त्वस्यापि विराधनादनन्तसंसारित्वस्यागमे प्रतिपादनात ॥ ५२ ॥
शीलवान् महतां मान्यो जगतामेकमण्डनम् । . स सिद्धः सर्वशीलेषु यः सन्तोषमधिष्ठितः ॥ ५३ ॥
टीका-भवति कोऽसौ, शीलवान् शुचिचरत्रः श्रावको यतिर्वा । किंविशिष्टो, मान्यः सत्कृत्यः । केषां, महता मिंद्रादीनां । पुनः किंविशिष्टो, जगतां लोकानामेकमुत्कृष्टं मण्डनमलंकरणं । शीलसिद्ध्युपायमा'–स भवति । किविशिष्टः, सिद्धो निप्पन्नः प्रतीतो वा । केषु, सर्वशीलेषु सकलसदाचारेषु । यः किं,योऽधिष्ठितोऽध्यासितः। कं,सन्तोष धृति विषयवैतृष्ण्य मित्यर्थ ॥५३॥
तत्र न्यञ्चति नो विवेकतपनो नाश्चत्यविद्यातमी नाप्नोति स्खलितं कृपामृतसरिन्नोदेति दैन्यज्वरः । विस्निह्यन्ति न सम्पदो न दृशमप्यासूत्रयन्त्यापदः
सेव्यं साधुमनस्विनां भजति यः सन्तोषमंहोमुषम् ॥५४॥ टीका-योंऽहोमुषं पापापहं सन्तोषं भजति सेवते । किविशिष्टं,सेव्यं । केषां, साधूनां सिद्धिसाधकानां मनस्विनां चाभिमानिनां । तत्र सन्तोषसेवके पुंसि नो न्यञ्चति नीचैर्न भवति आरूढारूढ एव भवतीत्यर्थः कोऽसौ, विवेकतपन: युक्तायुक्तविचारभास्करः । तथा न अञ्चति न प्रचरति । काऽसौ, अविद्यातमी.
Page #210
--------------------------------------------------------------------------
________________
२०६
सागारधर्मः
अज्ञानरात्रिः । तथा नाप्नोति न लभते । काऽसौ, कृपामृतसरित् अनुकम्पापीयूषनदी। किं, स्खलितं प्रवृत्तिप्रतिबन्ध । तथा नोदेति नोद्भवति। कोऽसौ, दैन्यज्वरः देन्यं विषादो ज्वर इव देहमनस्तापहेतुत्वात् । तथा न विस्निह्यन्ति न विरज्यन्ति । काः, सम्पदः श्रियः । तथा नासूत्रयन्ति नारचयन्ति । का, आपदो विपदः । कां, दृशमपि किं पुनरालिंगनादिकम् ॥ ५४ ॥
स्वाध्यायमुत्तमं कुर्यादनुप्रेक्षाश्च भावयेत् ।।
यस्तु मन्दायते तत्र स्वकृत्ये स प्रमाद्यति ॥ ५५ ।। टीका-कुर्याच्छ्रावकः। कं, स्वाध्यायं । किंविशिष्टं, उत्तम अध्यात्मादि. विद्याविषयं प्रकृष्टशक्तिपर्यंत च । तथा भावयेत् अभ्यस्येत् । काः, अनुप्रेक्षाः अनित्यत्वादिभावना द्वादश - चशब्दादर्शनविशुद्ध्या दिभावनाश्च षोडश । यस्तु यः पुनस्तत्र स्वाध्यायादौ मन्दायते अलसो भवति स प्रमाद्यति नावधत्ते नोत्सहत इत्यर्थः । क्व, स्वकृत्ये आत्मकार्ये ॥ ५५ ॥
धर्मान्नान्यः सुहृत्पापानान्यः शत्रुः शरीरिणाम् ।
इति नित्यं स्मरेन्न स्यान्नरः संक्लेशगोचरः ।। ५६ ॥ टीका-नरः पुमान् । संक्लेशगोचरो रागद्वेषमोहविषयो न स्यात् रागादिभिर्नाभिभूयत इत्यर्थः। किं कुर्वन, इत्येवं । नित्यं सन्ततं । स्मरन् ध्यायन्। कथमित्याह-नास्ति । कोऽसौ, सुहृत् । किंविशिष्टः, अन्यः । कस्मात्, धर्मात् धर्म एवोपकर्तेत्यर्थः । तथा पापादन्यो नास्ति शत्रुरधर्म एवापकर्तेत्यर्थः । केषां, शरीरिणां देहिनां ॥ ५६ ॥
सल्लेखनां करिष्येऽहं विधिना मारणान्तिकीम् ।
अवश्यमित्यदः शीलं सन्निध्यात्सदा हृदि ॥ ५७ ॥ टीका-सन्निध्यात् संयोजयेत् । श्रावकः । किं तत्, एतत्सल्लेखनाख्य शीले । हृदि चित्त । कथे, सदा पश्चिमसल्लेखनां नित्यं भावयेदित्यर्थः ।
Page #211
--------------------------------------------------------------------------
________________
षष्ठोध्यायः ।
२०७
कथं, इति । किमिति, अवश्यं नियमेन करिष्ये विधास्येऽहं । कां, सल्लेखनां बाह्याभ्यन्तरतपोभिः सम्यक्कायकषायकृशीकरणमाचारं । किंविशिष्टां मारणांतिकीं मरणमेवान्तो मरणान्तः तद्भवमरणमित्यर्थः तत्र भवां । केन विधिना शास्त्रोक्तविधानेन ॥ ५७ ॥
सहगामि कृतं तेन धर्मसर्वस्वमात्मनः ।
समाधिमरणं येन भवविध्वंसि साधितम् ।। ५८ ।।
टीका - तेन पुंसा कृतं । किं तत्, आत्मनः स्वस्य धर्मसर्वस्वं व्यवहारनिश्चयरत्नत्रयं । किंविशिष्टं, सहगामि आत्मना सह भवान्तरगन्त । येन किं, न साधितं निर्वर्तितं । किं तत्, समाधिमरण रत्नत्रयैकाग्रतया प्राणत्यागः । किंविशिष्टं भव विध्वंसि संसारनिर्मूलनशीलं ॥ ५८ ॥
,
-
यत्प्रागुक्तं मुनीन्द्राणां वृत्तं तदपि सेव्यताम् । सम्यङ् निरूप्य पदवीं शक्ति च स्वामुपासकैः ॥ ५९ ॥ टीका — प्राक् चतुर्थाद्यध्यायषट्के । मुनींद्राणां महामुनीनां । यद्वृत्तं समि तगुप्त्याद्याचरणमुक्त तदपि न केवलं संसेव्यतामनुष्ठीयतां । केः, उपासकैः श्रावकैः । किं कृत्वा, सम्यङ् निरूप्य अविपरीतं पर्यालोच्य । कां स्वामामीयां पदवीं संयमभूमिकां शक्तिं च वीर्य ॥ ५९ ॥
1
प्रकृतमुपसंहरन्नौत्सर्गिक हिंसानिवृत्तिं प्रति देशयति प्रयुक्ते--- इत्यापवादिकीं चित्रां स्वभ्यस्यन्विरतिं सुधीः । कालादिलब्धौ क्रमतां नवधौत्सर्गिकीं प्रति ॥ ६०॥
. टीका - मतामुत्सहतां । कोऽसौ, सुधीः तत्वज्ञानसम्पन्नः श्रावकः । कथं, प्रति उद्दिश्य । कां, विरतिं । किंविशिष्टां, औत्सर्गिकीं उत्कृष्टं सर्जनमुत्सर्गः सर्वसंगत्यागः तत्र भवामौत्सर्गिकीं । कतिधा, नवधा मनोवाक्कायैः प्रत्येकं कृतकारितानुमतानां त्यागेन नवप्रकारां । कस्यां कालादिलब्धौ कालदेशबलवीर्यसहायसाधनादिसामम्यां सत्यां । किं कुर्वन्, स्वभ्वस्यन
Page #212
--------------------------------------------------------------------------
________________
२.०८
सागारधर्मः ।
सुम्यग्भावयन् । कां, विरतिं हिंसाविनिवृत्तिं किंविशिष्टां,आपवादिकी यतीनामपवादहेतुत्वादपवादो ग्रन्थस्तत्र भवां । पुनः किंविशिष्टां, चित्रां नानाप्रकारां । कथम्, इत्येवमुक्तप्रकारेण ॥ ६० ॥ साधकत्वं व्याकर्तुकामस्तत्स्वामिन निर्दिशति
इत्येकादशधाऽऽम्नातो नैष्ठिकः श्रावकोऽधुना।
सूत्रानुसारतोऽन्त्यस्य साधकत्वं प्रवक्ष्यते ॥ ६१ ॥ टीका—इत्येवं नैष्ठिकश्रावक एकादशवाऽस्माभिराम्नातः पारम्पर्योपदेशेन वर्णितः । अधुना साम्प्रतमित ऊर्ध्व प्रवक्ष्यते प्रकर्षण वर्णयिष्यते अस्माभिः। किं तत् ,साधकत्वं तृतीय साधनाख्यं पदं । अंत्यस्योद्दिष्ट विरतस्य श्रावकस्य । कस्मात् , सूत्रानुसारतः परमागममनुसृत्येति भद्रम् ६२ ॥
इत्याशावरविरचितायां स्वोपशधर्मामृतसागारधर्मटीकायां
भव्यकुमुदचन्द्रिकासंज्ञायामादित: षोडशः प्रक्रमाच सप्तमोऽध्यायः समाप्तः ।। ७ ।।
अथाष्टमोऽध्यायः। अथ सल्लेखना विधिमभिघातुकामस्तत्प्रयोक्तारं लक्षयन्नाह
देहाहारेहितत्यागात् ध्यानशुद्धयाऽऽत्मशोधनम् । ___ यो जीवितान्ते सम्प्रीतः साधयत्येप साधकः ॥ १॥
टीका-भवत्येष साधकः । यः किं, यः साधयति निर्वतयति । किं तत्, आत्मशोधनं आत्मनोऽन्तस्तत्त्वस्य शोधनं शुद्धि मोहरागद्वेषापगमं रत्नत्रयपरिणतिमित्यर्थः । क्व, जीवितान्ते प्राणनाशे प्राणेषु नश्यस्वित्यर्थः । किंविशिष्टः सन्, सम्प्रीतः सर्वाङ्गीणध्यानसमुत्थानन्दयुक्तः । कया
Page #213
--------------------------------------------------------------------------
________________
अष्टमोध्यायः ।
तत्साधयति, ध्यानशुद्ध्या ध्यानस्यैकाग्रचिन्तानिरोधस्य शुद्धिगतरौद्रपरित्यागेन स्वात्मन्यवस्थानं निर्विकल्पसमाधिरित्यर्थः । कस्मात्, देहाहारहितत्यागात् देहत्यागः शरीरममत्ववर्जनमाहारत्यागश्चतुर्विधाहारप्रत्याख्यानमीहितत्यागो मनोवाकायव्यापारव्यावर्तनं देहश्चाहारश्च ईहित च देहाहारेहितानि तेषां त्यागस्तस्मात् ॥ १ ॥ ___ कस्य श्रावकत्वेन कम्य च यतित्वेन मोक्षमार्गप्रवृत्तिः कर्तव्येति पृच्छन्तं प्रत्याह
सामग्रीविधुरस्यैव श्रावकस्यायमिष्यते ।
विधिः सत्यां तु सामग्यां श्रेयसी जिनरूपता ॥२॥ टीका-इष्यते अभिमन्यते पूर्वाचार्यैः । कोसौ अयमुक्तो वक्ष्यमाणश्च विधिः क्रियाकल्पः । कम्य, श्रावकस्य । किंविशिष्टस्य, सामग्री विधुरम्यैव जिनलिङ्गग्रहणयोग्यत्रिस्थानदोषादियुक्तस्य नान्यस्य । सामां तु सत्यां भवति । काऽसौ, जिनरूपता जिनलिङ्गग्रहणं । किं विशिष्टा, श्रेयसी प्रशस्यतरा ॥ २ ॥ जिनलिङ्गस्वीकारकारणमाह
किश्चित्कारणमासाद्य विरक्ताः कामभोगतः ।
त्यक्त्वा सर्वोपधिं धीराः श्रयन्ति जिनरूपताम् ॥ ३॥ टीका-श्रयन्ति स्वीकुर्वन्ति । के ते, धीराः श्रावकाः परीषहोपसर्गसहने बद्धकक्षाः । कां, जिनरूपतां : किं कृत्वा, त्यक्त्वा व्युत्सृज्य । कं, सर्वोपधिं बाह्याभ्यन्तरसङ्गं । किंविशिष्टाः सन्तः, विरक्ता व्यावृत्तचेतसः । काभ्यां, कामभोगत: कामः स्पर्शनासनविषयानुभवः भोगो ब्राणचक्षुःश्रवणविषयानुपः कामञ्च भागश्च कामभोगौ ताभ्यां। किं कृचा, आसाद्य प्राप्य । किं, कारणं । किविशिष्ट, किञ्चित् तत्त्वज्ञानेप्ववियोगशत्रुपराजयादीनामन्यतमम् ॥ ३ ॥
Page #214
--------------------------------------------------------------------------
________________
सागारधर्मः ।
जिनरूपतास्वीकारमाहात्म्यमाह - अनादि मिथ्यादृगपि श्रत्वाद्रूपतां पुमान् ।
1
साम्यं अपन्नः स्वं ध्यायन् मुच्यतेऽन्तर्मुहूर्ततः ॥ ४ ॥ टीका - मुच्यते द्रव्यभावकर्मभिः स्वयमेव विलिप्यते । कोऽसौ पुमान् द्रव्यतः पुल्लिंग एव । कस्मात् अन्तर्मुहूर्ततः किञ्चिदूननाडीद्वयमात्रात् । किं कुर्वन्, ध्यायन् समादधानः । के स्वमात्मानं । किंविशिष्टः सन, प्रपन्नः प्राप्तः । किं तत्, साम्यं माध्यस्थ्यं । किं कृत्वा, श्रित्वा । कां, अर्ह - द्रूपतां निर्मन्थलिङ्गं । किविशिष्टोऽपि, अनादि मिध्यादृगपि न केवलं सादिमिथ्यादृष्टिरविरतसम्यग्दृष्टः श्रावको वेत्यपिशब्दार्थः । उक्तं च-" आराध्य चरणमनुपममनादि मिथ्यादृशोऽपि यत्क्षणतः । दृष्टा विमुक्तिभाजस्ततोऽपि चारित्रमत्रष्टम् "
शरीरस्य स्थायिनः पातने पातोन्मुखस्य च शोचने निषेधमुपपादयतिन धर्मसाधनमिति स्थास्नु नाश्यं वपुर्बुधैः ।
न च केनापि नो रक्ष्यमिति शोच्य विनश्वरम् ॥ ५ ॥ टीका-न नाश्यं विश्लेष्यं । किं तत्, वपुः शरीरं । कैः, बुधैः तत्त्वज्ञैः । किंविशिष्टं, स्थास्नु साधुत्वेन रत्नत्रयानुष्ठानसाधकत्वलक्षणेन तिष्ठत् । कथं कृत्वा, धर्मसाधनमिति रत्नत्रयसिद्ध्युपायो यतः । न च नापि शोच्यं शोचनीय पुर्बुधैः । किंविशिष्टं विनश्वरं विशेषेण नश्यत् तद्भवमरणं प्राप्नुवदित्यर्थः कथं कृत्वा, केनारिनो रक्ष्यमिति योगीन्द्रदेवेन्द्रदानवेन्द्रादिनाऽपि रक्षयितुमशक्यं यतः । उक्तं च-" गहनं न शरीरस्य हि विसर्जनं किं तु गहनमिह वृत्तम् । तन्न स्थास्नु विनाश्यं न नश्वरं शोच्यमिदमाहुः " ॥ ५ ॥ कायस्यानुवर्तनोपचरणपरिहरणयोग्यतोपदेशार्थमाह
1
२१०
9
कायः स्वस्थोऽनुवर्त्यः स्यात् प्रतिकार्यश्व रोगितः । उपकारं विपर्यस्य - स्त्याज्यः सद्भिः खलो यथा ॥ ६ ॥
Page #215
--------------------------------------------------------------------------
________________
अष्टमोध्यायः ।
1
टीका– स्यात् । कोसौ, कायः । किंविशिष्टः, अनुवर्त्यः पथ्याहारविहाराभ्यां स्वास्थ्य एव स्थापनीयः । कैः सद्भिः साधुभिः । किंविशिष्टः सन् स्वस्थोऽविकृतः । तथा प्रतिकार्य योग्यौषधादिनोपचरणीयः । कोऽसौ, कायः । कैः, सद्भिः । किंविशिष्टः सन्. रोगितः संजातरोगः । तथा त्याज्यः । कोऽसौ, कायः सद्भिः । किं कुर्वन्, विपर्यस्यन् अन्यथा कुर्वन् । के, उपकारं स्वास्थ्यायारोग्याय चेक्रीयमाणमुपक्रमं अधर्मसाधनं व्याधिं तद्वृद्धिं च गच्छन्नित्यर्थः । क इव, स्वलो दुर्जनः पिण्याको वा यथा ॥ ६ ॥ शरीरार्थं धर्मोपघातस्यात्यन्तनिषेधमाह
२११
arasi नाशिने हिस्यो धर्मो देहाय कामदः । देहो नष्टः पुनर्लभ्यो धर्मस्त्वत्यन्तदुर्लभः ॥ ७ ॥
टीका-न हिंस्यो नोपहन्तव्यः सद्भिः । कोऽसौ, धर्मः । कस्मै, देहाय । किंविशिष्टाय, अवश्यं नाशिने निश्चितनाशाय । किंविशिष्टः, कामदः समीहितार्थप्रदो यतः । किञ्च । लभ्योऽवश्यप्राप्यः । कोऽसौ, देहः । कथं, पुनः । किंविशिष्टो, नष्टो नाश गतः । देहमात्रापेक्षयेदमुच्यते, धर्मस्तु प्रक्रमात्समाधिमरणोऽत्यन्तदुर्लभो भवति । यत्नशतेनापि लब्धुमशक्य इत्यर्थः ॥ ७ ॥ विधिवत्प्राणांस्त्यजत आत्मघातशङ्कामपनुदति
-
1
न चात्मवातोऽस्ति वृषक्षतौ वपुरुपेक्षितुः । कपायावेशतः प्राणान् विषाद्यैर्हिसतः स हि ॥ ८ ॥ टीका- - न चास्ति । कोसौ, आत्मघातः स्ववधलक्षणो दोषः । कस्य, उपेक्षितुः यथाविधि भक्तप्रत्याख्यानादीनां साधुत्वेन त्यजतः साधोः । किं तत्, वपुः शरीरन् । कयां सत्यां वृषक्षतौ प्रतिपन्नत्रतविनाशहेतौ उपस्थित सतीत्यर्थः । हि यस्माद्भवति । कोऽसौ स आत्मघातः । कस्य, पुंसः । किं कुर्वतो, हिंसतो व्यपरोपयतः । कानू, प्राणान् । कैः, विषाद्यैः गरलशस्त्रश्वासनिरोधजलाभिप्रवेशलंघनादिभिः । कस्मात् कषायावेशतः क्रोधादिपरिणामवशात् ॥ ८ ॥
"
9
Page #216
--------------------------------------------------------------------------
________________
२१२
सागारधर्मः ।।
एवं संयमविनाशहेतुसन्निधाने कायत्यागं समर्थेदानी कालोपसर्गमरणनिर्णयपूर्वकपायोपवेशनेन ततन्निष्ठासाफल्यविधापनार्थमाह
कालेन वोपसर्गेण निश्चित्यायुः क्षयोन्मुखम् । ..
कृत्वा यथाविधि प्रायं तास्ताः सफलयेत् क्रियाः ॥९॥ टीका- सफलयेत् फलवतीः कुर्यात् साधुः। काः,क्रियाश्चेष्टाः। किंविशिष्टाः, तास्ताः दर्शनिकादिप्रतिमाविषया नित्यनैमित्तिकीश्च । किं कृत्वा, यथाविधि विधिना प्राय संन्यासयुक्तानशनं कृत्वा । किं कृत्वा, निश्चित्य सम्यम् निर्णीय । किं तत्, आयुर्जीवित । किविशिष्टं, क्षयोन्मुखं प्रत्यासन्नविनाशं । केन, कालेन स्थितिबन्धच्छेदहेतुना समयेन । वा अथवा उपसर्गेण दुर्निवाराधका रिरोगशत्रुप्रहादिलक्षणेन कृच्छ्रेण सुनिश्चिते मरणे ॥ ९ ॥ स्वाराधनापरिणत्या कारत्यागे मुक्तिः कास्थेत्युपदेशार्थमाह
देहादिवैकृतैः सम्यङ निमित्तैस्तु सुनिश्चिते ।
मृत्यावाराधना मग्नमतेदूरे न तत्पदम् ॥ १० ॥ टीका--नास्ति ! कि, तदशरीरता प्राप्तिरक्षणं पदं । क, दूरे विप्रकर्षे । कतिपयभवलभ्यं निगमित्यर्थः । कस्य, आराधनामनमतेः निश्चयाराधनापरिणतननसः पुंसः । क सात, मृत्यौ । किंविशिष्ट, सुनिश्चिते । कैः, देहादिवैकृतैः शरीरसंशीलादिविकृतिभिः स्वस्थातुररिरित्यर्थः । न केवलं तैः सम्यङ् निमित्तैश्च समीचीनभाविशुभाशुभज्ञानोपायैश्च कर्णपिशाचिकादविद्याज्योतिषोश्रुतिशकुनादिभिः . ० ॥ उपसर्गमग्णोपनिपाते प्रायविधिमाहभृशापवर्तकवशात् कदलीवातवत्सकृत् ।
विरमत्यायुषि प्रायमविचारं समाचरेत् ॥ ११ ॥ टीका-समाचरेत्सम्यक्कुर्यान्मुमुक्षुः । किं, प्राय । किंविशिष्टं, अविचार विचरणं नानागमनमर्दादिनानाप्रकारप्रवृत्तिपरिणमनं विचारस्तंन रहितं प्रायं
Page #217
--------------------------------------------------------------------------
________________
अष्टमोध्यायः।
२१३
भक्तप्रत्याख्यानं सार्वकालिकसंन्यास शुद्धस्वात्मध्यानपरत्वमित्यर्थः । क सति,आयुषि भवधारणकारणे कर्मणि। किं कुर्वति, सकृदक्रमेण विरमत्यावर्तनाने नश्याते । कस्मात् , भृशापवर्तकवशात् अगाढापमृत्युकारणसामर्थ्यात् । किंवत्, कदलीघातवत् छिद्यमानकदलीकाण्डे यथा ॥ ११ ॥ स्वपाकच्युत्या स्वयं पातोन्मुखे देहे सल्लेखना विधेयेत्युपदिशात
क्रमेण पक्त्या फलवत् स्वयमेव पतिष्यति ।।
देहे प्रीत्या महासत्वः कुर्यात्सल्लेखनाविधिम् ॥ १२ ॥ टीका-कुर्यात् । कोसौ,महासत्त्वः अनिवार्यधैर्यवीर्यः। कं,सल्लेखनाविधि। कया, प्रीत्या प्रमोदेन । क्व सति, देहे। किं करिष्यति, पतिष्यति विनाशयि'प्यति सति । केन, स्वयमेव कारणान्तरमन्तरेणैव । किं कृत्वा, पक्त्वा परिणम्य पतनयोग्यतामासाद्य । केन, क्रमेण कालानुपूर्व्या । किंवत्, फलवद् वृक्षफलेन तुल्यं । पातोन्मुखकायलिंगं यथा-"प्रतिदिवस विजहबलमुज्झद् मुक्तिं त्यजत्प्रतीकारं । वपुरेव नृणां निगदति चरमचरित्रोदय समयम्”॥१२॥ कायनिर्ममत्वभावना विधिमाह
जन्ममृत्युजरातङ्काः कायस्यैव न जातु मे।।
न च काऽपि भवत्येष ममेत्यङ्गेऽस्तु मिर्ममः ।। १३ ॥ टीका ... अस्तु समाधिमरणार्थी भवतु । किंविशिष्टो, निर्ममो ममेदमिति सङ्कल्परहितः । क, अङ्गे । कथे, इत्येवं । भवन्ति । के, जन्ममृत्युजरातङ्काः जन्म च मृत्युश्च जरा च आतङ्कश्च ज्वरादिव्याधिस्ते रोगपुद्गलविवनेकत्वात्कायस्यैव पुद्गलस्तूपस्य । न जातु कदाचिदपि । मे शुद्धचिद्रूपमात्रस्यात्मनः । न च नापि भवति । कोसौ, एष कायः । किविशिष्टः, कोपि कश्चिदुपकर्ता अपकर्ता वा। कस्य, मम शुद्धचिदानन्दमयस्य ॥ १३ ॥
आहारहापनसमयमाह
Page #218
--------------------------------------------------------------------------
________________
सागारधर्मः ।
पिण्डे जात्याsपि नाम्नाऽपि समो युक्त्याऽपि योजितः । पिण्डोस्ति स्वार्थनाशार्थो यदा तं हापयेत्तदा ॥ १४ ॥ टीका -- हापयेत्परिचारकादिभिस्त्याजयेत् समाधिमरणोद्यतः । कं, पिण्डमाहारं । कदा, तदा तस्मिन्काले । यदा किं, यदा पिण्ड आहारोऽस्ति भवति । किंविशिष्टः, स्वार्थनाशार्थः आहारस्य हि स्वार्थी बलोपचयौजोलक्षणं देहकार्य, देहस्य च धर्मसिद्धिलक्षणमात्मकार्य स्वार्थस्य नाशो विनाशोऽर्थः प्रयोजनं फलं यस्य स तथोक्तः किंविशिष्टः, समस्तुल्यः । कया, जात्या पुद्गलवलक्षणया । अपिर्विस्मये आश्चर्ये । यत्सजातीयोऽपि स्वार्थी नाशयति । तथा नाम्ना सञ्ज्ञयाऽपि समः आहारदेहयोरुभयोरपि पिण्ड - शब्दाभिधेयत्वम् । जातिनामभ्यां साम्येऽपि सति विधिव्यतिक्रमे प्रयुक्तः स्वार्थनाशाय स्यादित्यत्राह - युक्त्या शास्त्रोक्तविधिना योजितोऽपि प्रयुक्तोऽपि । क्क, पिण्डे शरीरे ॥ १४ ॥
सल्लेखना विधिपूर्वकं समाधिमरणोद्योगविधिमाहउपवासादिभिः कार्य कषायं च श्रुतामृतैः ।
संलिख्य गणमध्ये स्यात समाधिमरणोद्यमी ॥ १५ ॥ टीका-समाधिमरणोद्यमी साधको गणमध्ये चतुर्विधसङ्घसमक्ष स्याद् । किं कृत्वा, संलिख्य सम्यक् कृशीकृत्य । कं, कार्य । कैः, उपवासादिभिरनशनादिबाह्यतपोविशेषैः । कषायं च क्रोधादिकं संलिख्य । कैः, श्रुतामृतैः श्रुतज्ञानसुधाभिः ॥ १५ ॥
1
२१४
मृत्युकाले धर्मविराधनाराधनयोः फलविशेषमाह-आissy चिरं धर्मो विराद्धो मरणे मुधा :
स त्वराद्धस्तत्क्षisहः क्षिपत्यपि चिरार्जितम् ॥ १६ ॥ टीका - भवति । कोसौ, धर्मः । किंविशिष्टो, मुधा निष्फलः । किंविशिष्टः सन् विराद्धः अतिवर्तितः । क, मरणे मृत्युसमये । किंविशिष्टोऽपि, आराद्धोऽपि
Page #219
--------------------------------------------------------------------------
________________
अष्टमोध्यायः ।
२१५
2
आराधितोपि । कियत् चिरं दीर्घकालं । स तु धर्मस्तत्क्षणे मरणसमये । आराधितो भावितः क्षिपति निराकरोति । किं तत्, अहः पापं । किंविशिष्टं, चिरार्जितमपि असंख्यातभवको ट्युपार्जितमपि ॥ १६ ॥
चिरकालभावितश्रामण्यस्यापि विराध्य म्रियमाणस्याकीर्तिदुष्परिपाकां स्वार्थक्षतिं दर्शयति
नृपस्येव यतेर्धर्मो चिरमभ्यस्तिनोऽस्त्रवत् । gata स्खलतो मृत्यt स्वार्थभ्रंशोऽयशः कटुः ॥ १७ ॥ टीका - भवति । कोऽसौ स्वाभिमतार्थभ्रंशः स्वाभिमतार्थनाशः । कस्य यतेः । कस्येव, नृपस्येव राज्ञो यथा । किंविशिष्टः, अयशः कटुः अकीर्तिदुःखदः । किं कुर्वतः स्खलतः प्रमाद्यतः । कस्मिन् धर्मे । क्क, मृत्यौ मरणक्षणे । कस्याभिव. युधीव युद्धसमये यथा । किंविशिष्टस्य चिरं दीर्घकालं धर्मे अस्त्रवत् शस्त्रे यथा अभ्यस्तिनः कृताभ्यासस्य । अभ्यस्तं पूर्वमनेनेति विगृह्य श्राद्धं भुक्तं ठोऽनेन वेत्यनेन इन्प्रत्ययः ॥ १७ ॥
"
ननु सुभावितमार्गस्यापि कस्यचित्समाधिमरणं न दृश्यते कस्यचित्पुनरभावित मार्गस्यापि तदुपलभ्यते, तदनाप्तीयमिति वदन्तं प्रति श्लोकद्वयमाहसम्यग्भावित मार्गोऽन्ते स्यादेवाराधको यदि ।
प्रतिरोधि सुदुर्वारं किञ्चिन्नोदेति दुष्कृतम् ॥ १८ ॥ टीका - स्यादेव अवश्यं भवेत् । कोऽसौ सम्यम्भावितमार्गः सम्यक् सम्पूर्ण चिरं भावितोऽभ्यस्तो मार्गो रत्नत्रयं येन स तथोक्तः । 'कंविशिष्टः स्यात्, अन्ते जन्ममान्ते आराधकस्तदा । यदि चेन्नोदेति नोद्भवति । किं तत्, दुष्कृतं पुराकृतमशुभं कर्म । किंविशिष्ट, प्रतिरोध समाधिप्रतिखण्डकं । पुनः किं विशिष्ट, सुदुर्वारं यत्नशतेनापि प्रतिषेद्धुमशक्यं । पुनरपि किंविशिष्टं, किञ्चिदनिर्दिष्टनामकं । उक्तं च- मृतिकाले नरा हन्त सन्तोपि चिरभाविताः । पतन्ति दर्शनादिभ्यः प्राकृताशुभगौरवात् । या त्वभावितमार्गस्य कस्या
Page #220
--------------------------------------------------------------------------
________________
प्याराधना मृतौ । आराधना रत्नत्रयैकापवा स्यात् । अयमन्धनिधिलाभों भाक्ति कऽनिर्वचनाराधनपरे न विष्टभ्यो नाभिनिवेष्टव्योऽत्र दुराग्रहो न कर्तव्यो जिनवचनं प्रमाणीकृत्य समाधिमरणाय प्रयतितव्यमित्यर्थः । उक्त च-पूर्वमभावितयोगो यद्यप्याराधयन्मतौ कश्चित् । स्थाणो निधानलाभो निदर्शनं नैव सर्वत्र ॥ १८ ॥
ननु दुरभव्यस्थ व्रतं चरतोऽपि न मुक्तिः स्यत्तदलं तदवीयस्त्वे व्रतयत्नेनेत्यारेकायां समाधत्ते. कार्यों मुक्तौ दवीयस्यामपि यत्नः सदा व्रते।
वरं स्वः समयाकारो व्रतात्र नरकेऽवतात् ॥ १९ ॥ टीका-कार्यः सदा जिनभाक्तिकैः कर्तव्यः । कोसौ, यत्नस्तात्पर्य । क्व, व्रते । कस्यां सत्यां, मुक्तौ निर्वृतौ । किविशिष्टायां, दवीयस्थां दुरतरायां चिरभाविन्यामपि । किं पुनरितरस्यां । अत्रोपपत्तिमाह-वरं भद्रं भवतु । कोऽसौ, स्वः स्वर्गे समयाकारः मुक्तरक्किालयापना कस्मात्, व्रतात् बतानुष्ठानार्जितपुण्यविपाकात् । न वरं। कोसौ, समयाकारः । क्व, नरके नरकादिदुर्गतौ । कस्माद् अव्रतात् हिंसाद्याचरणार्जितपापविपाकात् ॥ १९ ॥ भक्तपत्याख्यानयोग्यतामाह
धर्माय व्याधिदुर्भिक्षजरादौ निष्प्रतिक्रिये ।
त्यक्तुं वपुः स्वपाकेन तच्च्युतौ चाऽशनं त्यजेत् ॥ २० ॥ टीका-त्यजेत् प्रत्याख्यायात् श्रावको यमी वा । किं तत, अशनं भक्तं भक्तप्रत्याख्यानं कुर्यादित्यर्थः । किं कर्तु, त्यक्तुं मोक्तुं । किं तद्, वपुः शरीरं । कस्मै धर्माय आत्मना सह धर्म भवान्तरं नेतुं । क सति, व्याधिदुर्भिक्षज्वरोपसर्गादौ धर्मध्वंसहेतावुपस्थिते । किंविशिष्टे, निष्पतिक्रिये प्रतीकाररहित तथा स्वपाकेन स्वयं कालक्रमेण परिणम्यायुःक्षये । तच्च्युतो तस्य वपुषश्च्यवने । चशब्दात् घोरोपसर्गादिना च्याव्यमाने च सत्यशनं त्यजेत् । एतेन शरीरत्यजनच्यवनच्यावनविषय त्रिविधं भक्त प्रत्याख्यानं मरणमन्वाख्यातं बोद्धव्यम्॥२०॥
Page #221
--------------------------------------------------------------------------
________________
अष्टमोध्यायः ।
२१७
समाधिमरणार्थ शरीरोपस्कारविधिमाह-----
अनः पुष्टो मलदुष्टो देहो नान्ते समाधये ।
तत्कयो विधिना साधोः शोध्यश्चायं तदीप्सया ॥ २१ ॥ टीका-न भवति । कोऽसौ, देहः । कम्मै, समाधये समाध्यर्थ । क, अन्ते मरणसमये । किंविशिष्टो, अन्नैराहारैः पुष्ट उपचितो मलैश्च वातपित्तकफैदुष्टो विकृतः । यत एवं तत्तस्मात् कर्यः कृशीकर्तव्योऽयं देहः । कस्य, साधोः सिद्धिसाधकेनेत्यर्थः । केन, विधिना सल्लेखनाविधानेन । शोध्यश्च योग्यविरेचनबस्तिकर्मादिना निष्काशितजठरमलः कर्तव्यः । कया, तदीप्सया समाधिवाञ्छया ॥ २१ ॥ कषायकर्शनं विना कायकर्शनस्य नैष्फल्यं समर्थयते
सल्लेखनाऽसलिखतः कषायानिष्फला तनोः ।
कायोऽजडैदण्डयितुं कषायानेव दण्ड्यते ॥ २२ । टीका-भवति। काऽसौ, सल्लेखना कृशीकरण । कस्याः, तनोः शरीरस्य। किंविशिष्टा, निष्फला । किं कुर्वतः, असंलिखतः कृशानकुर्वतः साधोः । कान्, कषायान्, क्रोधादीन् । यतो दंड्यते परिकृश्यते । कोऽसौ, कायः । कैः, अजडैः बुधैः । किं कर्तु, दण्डयितुं निग्रहीतुं । कान्, कषायानेव न रसरतादिधातून् ॥ २२ ॥ आहारदृप्तमनसां कषायदुर्जयत्वं प्रकाश्य भेदज्ञानबलाज्जेतृणां जयवादपाह
अन्धोमदान्धैः प्रायेण कषायाः सन्ति दुर्जयाः ।
ये तु स्वाङ्गान्तरज्ञानात्तान् जयन्ति जयन्ति ते ॥ २३ ॥ टीका-सन्ति भवंति। के, कषायाः। किंविशिष्टाः, दुर्जया जेतुमशक्याः। कैः, अन्धोमदांधैः अन्धस आहारस्य मदः क्षीबता आहारकृतो मनोदर्प इत्यर्थः । अन्धोमदेन अन्धाः स्वपरतत्त्वज्ञानविकला: अन्धोमदान्धास्तैः । केन, प्रायेण बाहुल्येन । कदाचिद्देवदुर्योगात्तैरपि कषाया जीयन्ते इत्येवमर्थमेतत् । ये
Page #222
--------------------------------------------------------------------------
________________
२१८
सागारधर्मः।
तु ये पुरुषाः पुनस्तान् कषायान् जयन्ति । कस्मात्स्वानान्तरज्ञानात् स्व आत्मा अङ्गं देहः स स्वाङ्गं स्वाङ्गे स्वाङ्गयोरन्तरं भेदः स्वाङ्गान्तरं तस्य ज्ञानमहमन्यो देहोऽन्य इति बोधस्तस्मात् ते पुरुषा जयन्ति सर्वोत्कर्षण वर्तन्ते । जगदुपरि स्फुरन्तीत्यर्थः ॥ २३ ॥ ____ एवं देहाहारत्यागं विधाप्येदानीमीहितत्यागेन स्वात्मसमाधये क्षपक प्रेरयम्नाह
गहनं न तनोर्हानं पुसः किन्त्वत्र संयमः ।
योगानुवृत्तेावर्त्य तदात्माऽऽत्मनि युज्यताम् ॥ २४ ॥ टीका-न भवति । किं तत्, हानं त्यजनं । कस्यास्तनोः शरीरस्य । किंविशिष्टं गहनं कष्टं दुष्करमित्यर्थः । कस्य, पुंसः पुरुषस्य । काभिश्चिस्त्रीभिरपि प्रियविप्रयोगादौ क्रियमाणस्य शरीरत्यजनस्य दृश्यमानत्वात् । के तु भवति । कोऽसौ, संयमः । किंविशिष्टो, गहनः । क्व, अत्र तनुहाने क्रियमाणे । यत एवं तत्तस्माद्युज्यतां समाधीयतां क्षपकेण । कोऽसौ, आत्मा कस्मिन, आत्मनि । किं कृत्वा, व्याव| निवर्त्य । कम्याः, योगानुवृत्तेः मनोवाक्कायव्यापारानुगमात् । भावतो निजनिजव्यापारेषु मनोवाकायान प्रवत्येत्यर्थः ॥ २४॥
यतिद्वयस्य समाधिमरणफलविशेषमभिधत्ते - __ श्रावकः श्रमणो वाऽन्ते कृत्वा योग्यां स्थिराशयः।
शुद्धस्त्रात्मरतः प्राणान् मुक्त्वा स्यादुदितोदितः ॥ २५ ॥ टीका-श्रावकः श्रमणो वा स्यात् । किंविशिष्टः, उदितोदितः विविधाधुताभ्युदयानुभवपूर्वकनिःश्रेयसभाग्भवेत् । किं कृत्वा, मुक्त्वा त्यक्त्वा । कान, प्राणान् । कथम्भूतः सन्, शुद्धस्वात्मरतः निर्मलनिजचिद्रूपलीनः । कथम्भूतो भूत्वा, स्थिराशयः निश्चलचितः । क, अन्ते प्रत्यासन्ने मरणे । किं कृत्वा, कृत्वा । कां, योग्यां प्रायार्थीत्यादिना प्रबन्धेन वक्ष्यमाण परिकर्म ॥ २५ ॥
Page #223
--------------------------------------------------------------------------
________________
अष्टमोध्यायः ।
निर्यापकबलाद्भावितात्मनः समाधिमरणेऽन्तरायाभावं दर्शयति. समाधिसाधनचणे गणेशे च गणे च न । .
दुर्दैवेनापि सुकरः प्रत्यूहो भावितात्मनः ॥ २६ ॥ टीका-न भवति। कोऽसौ, प्रत्यूहो विघ्नः। किंविशिष्टः, सुकरः सुखेन कर्तुं शक्यः । केन, दुर्दैवेन प्राकृताशुभकर्मणा । किं पुनः प्रतिपक्षा दिनेत्यपिशब्दार्थः । कस्य, भावितात्मनः भावितात्मानं समाधेश्चालयितुं दुर्दैवमपि न शक्नोतीत्यर्थः । कसति, गणेशे निर्यापकाचार्ये च । गणे च सधे । किंविशिष्टे, समाधिसाधनचणे समाधे रत्नत्रयैकाग्रतायाः साधन सम्पादनं तेन वित्ते–अनेकशः क्षपकाणां समाधिसाधनेन प्रसिद्ध इत्यर्थः ॥ २६ ॥ श्लोकद्वयेन समाधिमरणमाहात्म्यं स्तुवन्नाह
प्राग्जन्तुनामुनाऽनन्ताः प्राप्तास्तद्भवमृत्यवः ।
समाधिपुण्यो न परं परमश्चरमक्षणः ॥ २७ ॥ टीका-प्राप्ताः । के, तद्भवमृत्यवः भवान्तरप्राप्तेरनन्तरोपश्लिष्टपूर्वभवविगमनं तद्भवमरण नाख्यायते । कियन्तः, अनन्ताः । केन, अमुना संसारिणा। जन्तुना जीवेन । कथं, प्राक् इतः पूर्वं । परं केवलं न प्राप्तः कोऽसौ, चरमक्षणः भवपर्यायविगमान्त्यसमयः । किंविशिष्टः, समाधिपुण्यः रत्नत्रयैकाग्रतया पवित्रः । संसारकारणकर्मनिर्मूलनसमर्थत्वात्परमः इतरसर्वक्षणेभ्य उत्कृष्टश्च ॥ २७ ॥
परं शंसन्ति माहात्म्य सर्वज्ञाश्वरमक्षणे ।
यस्मिन्समाहिता भव्या भञ्जन्ति भवपञ्जरम् ॥ २८ ॥ टीका-परमुत्कृष्टं माहात्म्यं महिमा सर्वज्ञाः शंसन्ति स्तुवन्ति । क, चरमक्षणे । यस्मिन् यत्र चरमक्षणे समाहिताः समाधि गता भव्याः भञ्जन्ति विघटयन्ति । किं तत्, भवपञ्जरं भवः संसारः पञ्जरमिव शुक्रादिपक्षिण इव जीवस्य पारतंत्र्यनिमित्तत्वात् ॥ २८ ॥
Page #224
--------------------------------------------------------------------------
________________
२२०
सागारधर्मः।
संन्यासार्थ क्षेत्रविशेषस्वीकारमाह
प्रायार्थी जिनजन्मादिस्थान परमपावनम् । __आश्रयेत्तदलाभे तु योग्यमहद्हादिकम् ॥ २९ ॥
टीका-आश्रयेदुपसर्पत । कोऽसौ, प्राय.र्थी संन्यासानशनकामः । किं तत्, जिनजन्मादिस्थानं । किंविशिष्ट, परमपावनं परं पवित्रीकरणं । तत्र जन्मस्थानं वृषभनाथस्यायोद्धया। निष्क्रमणस्थानं सिद्धार्थवनं । ज्ञानस्थान शकटमुखोद्यानं । निर्वाणस्थानं कैलासः । एवमन्येषामपि जन्मादिस्थानानि यथागममधिगम्यानि । तदलाभे तु तस्याप्राप्तौ पुनराश्रयेदसौ। किं तत्, अहहादिकं जिनचैत्यालयसयताश्रमादिकं । किविशिष्ट, योग्यं समाधिसाधनसमर्थम् ॥ २९ ॥ तीर्थ प्रति चलितस्यावान्तरमार्गेऽपि मृतस्याराधकत्वं दर्शयति
प्रस्थितो यदि तीर्थाय म्रियतेवान्तरे तदा।
अस्त्येवाराधको यस्माद्भावना भवनाशिनी ॥ ३० ॥ टीका-यदि म्रियते समाध्यर्थी । क, अवान्तरे स्वस्थानतीर्थस्थानयोरन्तराले । उपलक्षणमेतत् । तेन निर्यापकाचार्यमरणमप्याराधकं स्यादेव । किंविशिष्टः सन्, प्रस्थितो गन्तुमारब्धः । कस्मै, तीर्थाय जिनजन्मादिस्थानाय नर्यापकाचार्याय वा । तदा अस्त्येव अवश्यं भवत्यसौ। किविशिष्टः, आराधकः यस्मात्कारणाद्भवति । काऽसौ, भावना समाधिसाधनप्रणिधानं । किविशिष्टा, भवनाशिनी संसारनिरसनी ॥ ३०॥ तीर्थ गमिष्यन् क्षमापनं क्षमणं च कुर्यादित्युपदिशति
रागाद् द्वेषान्ममत्वाद्वा यो विराद्धो विराधकः ।
यश्च तं क्षमयेत्तस्मै क्षाम्येच्च त्रिविधेन सः॥ ३१ ॥ टीका-क्षमयेत् क्षमां कारयेत्स तीर्थ जिगमिषु । कं, तं । यः किं, यो विराद्धो दुःखे स्थापितः । कस्मात्, रागात् स्नेहात द्वेषात् क्रोधात् ममत्वात्
Page #225
--------------------------------------------------------------------------
________________
अष्टमोध्यायः ।
२२१
ममकाराद्वा । यश्च रागादेविराधकः स्वस्य वैमनस्योत्पादकः सम्पन्नस्तस्मै । क्षाम्यच्च क्षमा कुर्यात्सः । केन, त्रिविधेन मनोवाकायेन ॥ ३१ ॥ क्षमणकरणाकरणयोः फलमाहतीर्णो भवार्णवस्तैर्ये क्षाम्यन्ति क्षमयन्ति च।
क्षाम्यन्ति न क्षमयतां ये ते दीर्घाजवजवाः॥ ३२ ॥ टीका-तैः पुम्भिः । तीर्णो लचितः । कोऽसौ, भवार्णवः संसाराब्धिः । ये किं, ये क्षाम्यन्ति विराधकाय क्षमां कुर्वन्ति । ये च क्षमयन्ति विराद्धं क्षमां कारयन्ति । ये पुनर्न क्षाम्यन्ति । केषां क्षमयतां क्षमां कारयतां । ते भवन्ति । किंविशिष्टाः, दीर्घाजवजवाः चिरसंसाराः ॥ ३२ ॥ क्षपकस्यालोचनाविधिमाह
योग्यायां वसतौ काले स्वागः सर्व स सूरये । निवेद्य शोधितस्तन निःशल्यो विहरेत्पथि ॥ ३३ ॥ टीका-विहरेत् प्रवर्तेत । कोऽसौ, स क्षपकः । क्व, पथि रत्नत्रये । किंविशिष्टः सन्, निःशल्यो मायादिशल्यरहितः । कथं भूतो भूत्वा, शोधितः प्रतिक्रमणेन प्रायश्चित्तादिविधिना निष्कासितदोषः। केन, तेन का । किं कृत्वा, निवेद्य आलोच्य । किं तत्, स्वाग आत्मनो व्रतादावतीचारं। किंविशिष्टं, सर्व । कस्मै, सूरये निर्यापकाचार्याय । क, वसतौ स्थाने । किविशिष्टायां, योग्यायां आलोचनोचितायां, तथा कालेऽपि योग्ये ॥ ३३ ॥ स्तरारोहणविधिमाहविशुद्धिसुधया सिक्तः स यथोक्तं समाधये ।
प्रागुदग्या शिरः कृत्वा स्वस्थः संस्तरमाश्रयेत् ॥ ३४ ॥ टीका. आश्रये आरोहयेत्सः । कं, संस्तरं । किंविशिष्टं, यथोक्तं येन प्रकारणागमे कथित । कस्मै, समाधये समाधिनिमित्त । किंविशिष्टः सन, स्वस्थः निर्व्याक्षेपः। किं कृत्वा, कृत्वा । किं तद्, शिरः शीर्ष । क, प्राक् पूर्व
Page #226
--------------------------------------------------------------------------
________________
२२२
सागारधेमः ।
म्यां दिशि । उदग्वा उत्तरस्यां । कथं भूतो भूत्वा, सिक्तो निर्वापितः । कया, विशुद्धिसुधया विशुद्धिर्मनःशरीरनैर्मल्यं प्रायश्चित्तविधान वा सैव सुधा अमृतं तया ॥ ३४ ॥ संस्तरारोहणकाले महाव्रतमर्थयमानस्यार्यस्याचेलक्यलिङ्गविधानार्थमाहत्रिस्थानदोषयुक्तायाप्यापवादिकलिङ्गिने ।
महानतार्थिने दद्याल्लिङ्गमौत्सर्गिकं तदा ॥ ३५ ॥ टीका-दद्या द्वितरेत निर्यापकाचायः। कि तत.लिंगं आचेलक्यादि चतुर्विधं । किंविशिष्टं,औत्सर्गिक उत्सर्गे सकलपरिग्रहत्यागे भवं नाग्न्यमित्यर्थः । क्व, तदा मस्तरारोहणकाले । कस्मै, आफ्वादिकलिङ्गिने सग्रन्थलिङ्गाय आर्या येत्यर्थः । किंविशिष्टाय, त्रिस्थानदोषयुक्त'यापि त्रिस्थानेषु दोषो वृषणयोः कुरण्डलातिलम्बमानत्वादिर्मेहने च चमरहितत्वातिदीर्घत्वासकृदुत्थानशीलत्वादिस्तेन सहितायापि । पुनः किंविशिष्टाय, महावतार्थिने महाव्रतं याचमानाय॥३५॥ उत्कृष्टस्यापि श्रावकस्योपचरितायापि महाव्रतायापभुत्वमाह ----
कौपीनेऽपि समृछत्वान्नार्हत्यार्यो महाव्रतम् ।
अपि भाक्तममूर्छत्वात् साटकेऽप्यार्थिकार्हति ॥ ३६॥ टीका-नाह ति न गृहीतुमुचितो भवति । कोऽसौ,आर्यः परमोत्कृष्ट श्रावकः । किं तत्, महाव्रतं । किंविशिष्टमपि भाक्तमुपचरितमपि । कुतः, समूर्छत्या. न्ममेदमितिग्रहाविष्टत्वात् । क, कौपीने गुह्यप्रच्छादनवस्त्रखण्डमात्रे । अपि_ विस्मये। आर्यिका पुनरर्ह ति। भाक्तमेव महाव्रतं । कस्माद्, अमूर्छत्वात् । क माटकेऽपि।संस्तरारोहणकालादन्यदातनमेतद्विधानं प्रसङ्गादन्वाख्यातम्।३६ प्रशस्तमुप्कमेहनस्य सर्वस्य सर्वत्र प्रशस्तमौत्सर्गिकमपवदन्नाह -
हीमान्महर्द्धिको यो वा मिथ्यात्वप्रायवान्धवः ।
सोऽविविक्त पदे नाग्न्यं शस्तलिङ्गोऽपि नार्हति ।। ३७॥ टीका-स श्रावको नार्हति । किं तद्, नाग्न्यं नग्मत्वं । क, पदे स्थाने । किविशिष्टे, अविविक्त बहुजने एकान्तस्थाने सोऽप्यर्हतीत्यर्थः । किंविशिष्टो
Page #227
--------------------------------------------------------------------------
________________
अष्टमोध्यायः ।
२२३
ऽपि, शस्तलिङ्गोऽपि लिङ्गं पुंस्त्वचिह्न मुष्कमेहनमित्यर्थः शतं प्रशस्त प्रागुक्तदोषवियुक्तं लिंगं यस्य स शस्तलिंगः । यः किं, यो हीमान् । लज्जावान् । महर्द्धिकः श्रीमान्। मिथ्यात्वप्रायबान्धवो वा भवति। मिथ्यात्वं प्रायेण बाहुल्यन येषां ते मिथ्यात्वप्राया बान्धवा ज्ञातयो यस्य स तथोक्तः ॥ ३७॥ संस्तरारोहणसमये स्त्रिया लिङ्ग विकल्पमतिदिशन्नाह
यदौत्सर्गिकमन्यद्वा लिङ्गमुक्तं जिनैः स्त्रियाः।
पुंवत्तदिष्यते मृत्युकाले स्वल्पीकृतोपधेः ॥ ३८॥ टीका-यल्लिङ्गमौत्सर्गिकमन्यद्वा पदादिकं स्त्रिया जिनरुक्तं तन्मृत्युकाले तस्याः स्वल्पीकृतोपधेः विविक्तवसत्यादिसम्पत्तौ सत्यां वस्त्रमात्रमपि त्यक्तवत्याः श्रुतज्ञैरिप्यते अभिमन्यते । कस्येव, पुंवत् । अयमर्थः । पुंसो यदौसर्गिकलिंगस्य मृत्यावौत्सर्गिकमेव लिंगमिष्यते आपवादिकलिंगस्य चानंतरमेव व्याख्यातप्रकार, तदा योषितोऽपि ॥ ३८ ॥ : मुमुक्षोलिगग्रहत्यागेन स्वद्रव्यग्रहपरत्वमुपदिशति
देह एव भवो जन्तोर्यल्लिङ्गं च तदाश्रितम् ।
जातिवत्तद्ग्रहं तत्र त्यक्त्वा स्वात्मग्रहं विशेत् ॥ ३९ ॥ टीका-यद्यस्माजन्तोजीवस्य भवः संसारो भवति। कोऽसौ, देह एव न क्षेत्रादिकं । यच्च लिंगं नाग्न्यादिकं भवति । किविशिष्टं, तदाश्रितं देहसंबंधि । किंवत् , जातिवत् ब्राह्मणत्वा दिजातियथा । तत्तस्मात्तत्र लिंग जाताविव ग्रहमभिनिवेश त्यक्त्वा विशेत् प्रविशेत् क्षपकः । कं, स्वात्मग्रहं. स्वशुद्धचिद्रूपनिबन्धं ॥ ३९॥ परद्रव्यग्रहस्य बन्धहेतुत्वात्तत्प्रतिपक्षभावनामुपदिशति
परद्रव्यग्रहेणैव यवद्धोऽनादिचेतनः ।
तत्स्वद्रव्यग्रहेणैव मोक्ष्यतेऽतस्तमावहेत् ॥ ४० ॥ टीका-यद्यस्मात् आत्मा परद्रव्यस्य शरीरादेर्ग्रहेण निबन्धेनैवानादि. वद्धो ज्ञानावरणादिकर्मपारतन्त्र्यमापन्नः । तत्तस्मात्स्वद्रव्यग्रहेणैव शुद्धस्वा
Page #228
--------------------------------------------------------------------------
________________
२२४
सागारधर्मः
स्माभिनिवेशेनैव मोक्ष्यते मुक्तो भविष्यति । यत एवं तत एतस्मात्कारणात् तं स्वदेहग्रहमावहेत्कुर्यान्मुमुक्षुः ॥ ४० ॥ शुद्धिविवेकपाप्तिपूर्वकं समाधिमरण प्रणौति
अलब्धपूर्व किं तेन न लब्धं येन जीवितम् ।
त्यक्तं समाधिना शुद्धिं विवेक चाप्य पञ्चधा ॥ ४१ ॥ टीका- तेन महामव्येन । किमलब्धपूर्वमनादिकालमप्राप्तं सम्यक्त्वसहचारि महाभ्युदयादिकं न लब्धं तत्सर्व प्राप्तमित्यर्थः । येन जीवितं समाधिना रत्नत्रयैकाग्रतया त्यक्तं । किं कृवा, पञ्चधा पञ्चप्रकारं शुद्धिं पञ्चप्रकारं च विवेकमाप्य ॥ ४१ ॥ बहिरंगान्तरंगविषयभेदात्पञ्चविधां शुद्धिमाह
शय्योपध्यालोचनान्नवैयावृत्येषु पञ्चधा ।
शुद्धिः स्यात दृष्टिधीवृत्तविनयावश्यकेषु वा ॥ ४२ ॥ टीका—स्यादसौ शुद्धिः । कतिधा, पञ्चधा । केषु, शय्यादिषु विषयेषु । तत्र शाय्या वसतिसंस्तरौ उपधिः सयमसाधनं । आलोचना गुरवे दोषनिवेदनं । अन्नं चतुर्विगहाराः । वैयावृत्यं परिचारकैः क्रियमाण पादमर्दनादिक । तेषु पञ्चसु शुद्धिः प्राणेन्द्रियसंयमेन प्रवृत्तिरेषा बाह्या । इयं त्वन्तरङ्गा पञ्चधा शुद्धिः स्यात् । याऽसौ दृष्टयादिषु पंचसु । दृष्टौ दर्शने धियां ज्ञाने, वृत्ते चारित्रे, विनये प्रश्रये, आवश्यक सामयिकादिषटकाचरणे च निरतिचारतया प्रवृत्तिः ॥ ४२ ॥ शुद्धिवन्तद्वयेन पञ्चधा विवेकमाहविवेकोऽक्षकपायाङ्गभक्तोपधिषु पञ्चधा ।
स्याच्छय्योपधिकायानवयावृत्यकरेषु वा ।। ४३ ॥ टीका--विवेक आत्मनः पृथग्भावः साध्यवसायः पञ्चधा स्यात् । केषु, अक्षादिषु विषयेषु । तत्रेन्द्रियेभ्यः कषायेभ्यश्चात्मनः पृथक चिन्तनं द्विविध)
Page #229
--------------------------------------------------------------------------
________________
अष्टमोध्यायः।
१२५
भावविवेकः । द्रव्यविवेकस्तु शरीराहारसंयमोपकरणेभ्यः स्वस्य पृथक् चिन्तनेन त्रिविधः । तमेव मन्तरेणाह--शय्येत्यादि शय्यादयः प्रत्याख्याताः तेभ्यः पृथक् चिन्तनेन कैश्चिद्विवेकः पञ्चधोक्तः ।। ४३ ॥ निश्चलसचेलयोमहावतभावनाविशेषमाह-- निर्यापके समर्प्य स्वं भक्त्यारोप्य महाव्रतम् ।
निश्चलो भावयेदन्यस्त्वनारोपितमेव तत् ॥ ४४ ॥ टीका--भावयेद्भूयो भूयो मनसि प्रणिदध्यात् । कोऽसौ, निश्चलस्त्यक्तसमस्तवस्त्रादिपारग्रहः। कि तत्, महाव्रतं । कि कृत्वा, आरोग्य निर्यापकाचार्यवचनेनात्मनि स्थापयित्वा । कया, भक्त्या पंचतय्या हिंसादिविरत्या, पंचतय्या समित्या, त्रितय्या च गुप्त्या, व्रतममितिगुप्ति भस्त्रयोदशप्रकारं चारित्रमात्मनि व्यवस्थाप्य । किं कृत्वा, समर्प्य आयत्त कृत्वा । किं, स्वमात्मानं । कस्मिन्, निर्यापके संसारान्निर्यान्तं क्षपक प्रयोजयतीति निर्यापकः षट्त्रिंशगुणोपेतो धर्माचार्यस्तम्मिन् । कया, भक्त्या शुभवृत्त्या । भक्त्य म्य संन्दशकन्यायेनोभयत्र संबंधः । अन्यस्तु सचेलः पुनस्तन्महाव्रतं भावयेत् । किंविशिष्टं, अनारोपितमेव सग्रन्थस्य तदारोपणेऽनधिकारात् ।। ४४ ॥ अतिचारपञ्चकपरिहारेण सल्लेखना विधिना संस्तरम्थस्य प्रवृत्तिमुपदिशति
जीवितमरणाशंसे सुहृदनुरागं सुखानुबन्धमजन् ।
सनिदानं संस्तरगश्चरेच्च सल्लेखनाविधिना ॥ ४५ ॥ टीका-- न केवलमारोपितमनारोपितं वा महावतं संस्तरगो भावयेच्चरेच चष्टेत । केन, सल्लेखनाविधिना जन्ममृत्युजरातङ्का इत्यादिना प्रबन्धेन प्रागुतेन । किं कुर्वन, अजन् क्षिपन् निराकुर्वन्नित्यर्थः । के, जीवितमरणाशंसे जीविताकांक्षा । मरणाकांक्षां च । तथा मुहृदनुरागं मित्रानुरागं, तथा सुखानुबन्ध । किंविशिष्ट, सनिदानं निदानेन सह । पंचमं निदानमप्यजन्नित्यर्थः । इतो विशेषेणैषामर्थः प्रकाश्यते । तत्र जीविताशंसा शरीरमिदमवश्यहे
Page #230
--------------------------------------------------------------------------
________________
२२६
सागारधर्मः ।
जलबुबुदवदनित्यमित्यादिकमस्मरतोऽस्यावस्थानं कथं स्यादित्यादरः। पूजाविशेषदशनात्प्रभुतपरिचारावलोकनात्सर्वलोकश्लाघाश्रवणाच्चैवं हि मन्यते प्रत्याख्यातचतुर्विधाहारस्यापि मे जीवितमेव श्रेयः। यत एवंविधा मदुद्देशेनेयं विभूतिर्वर्तत इत्याकांक्षेति यावत् । मरणाशंसा रोगोपद्रवाकुलतया प्राप्तजीवनसंक्लशस्य मरण प्रति चित्तप्रणिधानं । यदा न कश्चित्त प्रतिपन्नाशनं प्रति सपर्यथा आद्रियते, न च कश्चित् श्लाघते, तदा तस्य यदि शीघ्रं म्रीयेय तदा भद्रकं स्यादित्येवं विविधपरिणामोत्पत्तिर्वा । सुहृदनुरागो बाल्ये सहपांशु क्रीडनादि व्यसने सहायत्वमुत्सवे सम्भ्रम इत्येवमादेश्च मित्रमुकृतस्यानुस्मरणं । बाल्याद्यवस्थासहकाडित मित्रानुस्मरणं वा । सुखानुबन्ध एवं मया भुक्तमेवं शयितमेवं क्र. डितमित्येवमादि प्रीतिविशेष प्रति स्मृतिसमन्वाहारः। निदानमस्मात्तपसः सुदुश्चराज्जन्मान्तरे इन्द्रश्चक्रवर्ती धरणेन्द्रो वा स्यामहमित्येवमाधनागताभ्युदयाकांक्षा ॥ ४५ ॥ एवं संस्तगरूढस्य क्षपकस्य निर्यापकाचार्य एतत्कृत्वदं कुर्यादित्याह
यतीनियुज्य तत्कृत्ये यथार्ह गुणवत्तमान् ।। __ सूरिस्त भूरि संस्कुर्यात् स ह्यार्याणां महाक्रतुः ॥ ४६ ॥
टीका-संस्कुर्यात् रत्नत्रयसंस्कारयुतं कुर्यात् । कोऽसौ, सूरिः । क, तं क्षयकं । कथं, भूरि बहु । किं कृत्वा, नियुज्य अधिकृत्य । कान्, यतीन् साधून् । क, तत्कृत्ये आराधकस्यामर्शनादिशरीरकार्ये विकथानिवारणे धर्मकथायां भक्तपानतत्पशोधनमलोत्सर्जनादौ च । कथं, यथार्ह यथायोग्यं । किंविशिष्टान्, गुणवत्तमान् मोक्षकारणगुणातिशयशालिनः । हि यस्मात् क्षप. कसमाधिसाधनविधिरार्याणां यतीनां महाक्रतुः परमयज्ञः स्यात् ॥ ४६॥ क्षपकस्याहारविशेषप्रकाशनात् भोजनासक्तिनिषेधार्थमाह
योग्यं विचित्रमाहारं प्रकाश्यष्टं तमाशयेत । तत्रासजन्तमज्ञानाज्ञानाख्याननिवर्तयेत् ॥४७॥
Page #231
--------------------------------------------------------------------------
________________
अष्टमोध्याय ।
२२७
टीका- आशयेोजयेत्सुरिः । कं, क्षपकं । कं, इष्टं किंचित्सर्वं वा क्षपकेगाकांक्ष्यमाणमाहारं । किं कृत्वा, प्रकाश्य दर्शयित्वा । कं, आहारं । किविशिष्ट, योग्य कल्प्यं । पुनः किंविशिष्ट, विचित्र नानाप्रकारं कश्चिद्धि भोज्यविशेषान दृष्ट्वा तीरं प्राप्तस्य किं ममैभिरिति प्राप्तवैराग्यः संवेगपरो भवति । कश्चिच्च किमपि भुक्त्वा, अपरश्च सर्वे भुक्त्वा तथा भवति । कश्चित्तु तानास्वाद्य तद्सासक्तिपरो भवति, चित्रत्वान्मोहनीय कर्म विलासानां । तत्र चेष्टतया भोज्यमाने भोजने अज्ञानात्तत्वानवबोधादासजन्तमासक्तिं कुर्वन्तं क्षपकं निवर्तयेत् ततो विरमयेत्सूरिः । कैः, ज्ञानाख्यानैर्बोधप्रचोदकप्रसिद्धोपाख्यानैः ॥४७॥ नवभिः श्लोकैराहार विशेषगृद्धिप्रतिषेधपुरःसरं तत्परिहारक्रममाह-भो निर्जिताक्ष विज्ञातपरमार्थ महायशः ।
किमद्य प्रतिभान्तीमे पुद्गलाः स्वहितास्तव ॥ ४८ ॥ टीका - भो अहो । निर्जिताक्ष निःशेषवशीकृतहृषीक । भो विज्ञातपरमार्थ अनन्यसाधारणतया निश्चितनिश्चतव्यवस्तुतत्त्व | भो महायशः सकलदिक्चक्रविसृत्वरकीर्ते आराधकराज । अद्य सम्प्रति । इमे भाजनशयनाद्युपकल्पिताः पुद्गला मूर्त पदार्थाः । किं तव प्रतिभान्ति प्रतिभासन्ते । किंविशिष्टाः, स्वहिता आत्मन उपकारकाः । किंशब्दः प्रश्न वितर्फे आक्षेपे वा ॥ ४८ किं कोपि पुद्गलः सोस्ति यो भुक्त्वा नोज्झितस्त्वया । न चैष मूर्तमृर्तस्ते कथमप्युपयुज्यते ।। ४९ ।।
1
I
टीका - किमस्ति । कोऽसौ सः कोऽपि कश्चित्पुद्गलो यो नोज्झितो न व्यक्तस्त्वया । किं कृत्वा, भुक्त्वा अनादिकाले इंद्रियप्रणालिकाभिरुपभुज्य न च नैव एष पुद्गलो मूर्ती रूपादिमानमूर्त रूपादिरहितस्य ते तव कथमपि केनापि प्रकारेणोपयुज्यते उपकरोति । गगनस्येव तवैतत्कृतोपकारागोचरत्वात् ॥ ४९ ॥
Page #232
--------------------------------------------------------------------------
________________
२२८
सागारधर्मः।
केवलं करणैरेनमलं ह्यनुभवन्भवान् ।
स्वभावमेवेष्टमिदं भुजेहमिति मन्यते ॥ ५० ॥ टीका-केवलं परं मन्यते प्रतिपद्यते । कोऽसौ, भवान् । किं, इष्टमभिरुचितमिदं पुरोवर्ति वस्त्वहं भुञ्ज अनुभवामीत्येतत् । किं कुर्वन्, अनुभवन् भुञ्जानः । कं, स्वभावमेव आत्मपरिणाममेव वस्तुतस्तस्यैवात्मना भोग्यत्वात् । किं कृत्वा, अलं विषयीकृत्य। कं, एनं पुद्गलं । कैः, करणैः चक्षुरादीन्द्रियैः।।५०
तदिदानी'ममां भ्रान्तिमभ्याजोन्मिषतीं हदि।। __स एष समया यत्र जाग्रति स्वहिते बुधाः ॥ ५१ ॥
टीका-तत्तस्मात्कारणात् । अभ्याज निवारय त्वं । कां, इमां प्रतीयमानां प्रांतिं अभोग्ये पुद्गले भोग्यबुद्धिं । किं कुर्वती, उन्मिषतीमुदयोन्मुखीभवन्तीं। क, हृदि हृदये अन्तश्चेतसि । कदा, इदानीमद्य । यतो वर्तते । कोसौ, एषोयं । स समयः कालः । यत्र किं, यत्र यस्मिञ्जाग्रति सावधाना भवन्ति । के, बुधा दृष्टतत्त्वाः । के, स्वहिते ॥ ५१ ।।
अन्योऽहं पुद्गलश्चान्य इत्येकान्तेन चिन्तय ।
येनापास्य परद्रव्यग्रहवेश स्वमाविशेः ॥ ५२ ॥ टीका-अहमस्मि । किंविशिष्टः, अन्यः पुद्गलाद्भिन्नः । पुद्गलश्वास्ति । किंविशिष्टः, अन्यो मत्तो भिन्न इत्येतदेकान्तेन सर्वथा चिंतय भावय त्वं । येनात्मपुद्गलयोः पृथक्त्वचिन्तनेन परद्रव्यग्रहवेशमनात्मद्रव्यनिर्बन्धोपयोगमपास्य त्यक्त्वा स्वमात्मद्रव्यं त्वमाविशेरुपयुञ्जीथाः ।। ५२ ॥
क्वाऽपि चेत्पुद्गले सक्तो म्रियेथास्तद् ध्रुवं चरेः ।
तं कृमीभूय सुस्वादुचिर्भटासक्तभिक्षुवत् ।। ५३ ॥ टीका-कापि क्वचिद्रोजनाधुपयोगिनि पुद्गले सक्त आसक्तः सन् म्रियेथाः प्राणांस्त्यजेस्त्वं चेत्तत्ततो ध्रुवं निश्चितं चरेभक्षयेर्भक्षयिष्यसि त्वं । कं, तं पुद्गलं । किं कृत्वा, कृमीभूय तत्रैव क्षुद्रजन्तुर्भूत्वा त्वमासाद्य । किंवत् ,
Page #233
--------------------------------------------------------------------------
________________
अष्टमोध्यायः ।
२२९
सुस्वा द्वित्यादि । सुस्वादुनि रसनेन्द्रियातिगृद्धिकारिणि चिर्भटे फलविशेषे आसक्तो भिक्षुः संन्यासोन्मुखः संयतो यथा ॥ ५३ ॥
कि चाङ्गस्योपकार्यं न न चैतत्तत्प्रतीच्छति ।
1
तच्छिन्धि तृष्णां भिन्धि स्वं देहाद् रुन्धि दुरास्रवम् ||५४ || टीका-किं च अत्यधिकं चोच्यते त्वां प्रति । भवति । किं तद्, अन्नं भोज्यद्रव्यं । किंविशिष्ट, उपकारि उपकारकं । कस्य, अङ्गस्य शरीरस्य । मूर्तेन मूर्तस्यैवोपकार्यत्वदर्शनात् । न च नैव एतदङ्गं । तदन्नं प्रतीच्छति उपकारकत्वेन गृह्णाति । तत्तस्माच्छिन्धि नाशय त्वं । कां, तृष्णां अन्ने वाञ्छानुबन्धं । तथा भिन्धि भेदेन भावय त्वं । कं, स्वमात्मानं । कस्माद, देहात् । तथा रुन्धि प्रतिबधान त्वं । कं, दुरात्रवं पापकर्मास्रवणकारणम् ||५४ || इत्थं पथ्यष्टथासारैर्वितृष्णीकृत्य तं क्रमात् । त्याजयित्वाsशनं सूरिः स्निग्धपानं विवर्धयेत् ॥ ५५ ॥ टीका-विवर्धयेत्परिपूर्ण दद्यात् सूरिः । किं तत्, स्निग्धपानं दुग्धादि । किं कृत्वा, त्याजयित्वा परिहार्य । किं तद्, अशनं कवलाहारं । कस्मात् क्रमात् क्रमेण शनैः शनैः । किं कृत्वा, वितृष्णीकृत्य अन्ने निवृत्तेच्छं कृत्वा । कं, तं श्चपकं । पथ्यपृथासारैर्हितप्रकाशधारासम्पातैः । कथं, इत्थमनेन प्रकारण ॥५५॥ पानं पोढा घनं लेपि ससिक्थं सविपर्ययम् ।
I
प्रयोज्य हापयित्वा तत् खरपानं च पूरयेत् ॥ ५६ ॥ टीका - पूरयेद्विवर्धयेत्सूरिः । किं तत्, खरपानं प्रथमं शुद्धका ञ्जिकादिरूप पश्चाच्च शुद्ध पानीयरूपं । किं कृत्वा, प्रयोज्य परिचारकैर्दापयित्वा हापयित्वा च त्याजयित्वा क्षण । किं तत्पानं पेयद्रयं । कतिधा, पोढा षट्प्रकारं । तदेवाह घनमित्यादिना धनं बहुलं दध्यादि । सविपर्ययमिति वचनादच्छं तिंत्रिकादिफलरससौवीरको प्णजलादि । लेपि यद्धस्ततलं लिम्पति तद्विपरीतमलेपि । ससिक्थं सिक्थसहितं पयादि तद्विपरीतम सक्थ मण्डकादि ॥ ५६॥
1
Page #234
--------------------------------------------------------------------------
________________
२३०
सागारधर्मः
इत्थं च निर्यापकाचार्यः क्षपकं शिक्षयदिति षड्भिः श्लोकैराह---....
शिक्षयेच्चेति तं सेयमन्त्या सल्लेखनेर्यते । ___ अतीचारपिशाचेभ्यो रक्षनामतिदुलभाम् ॥ ५७ ॥ टीका-शिक्षयच्च सूरिग्नुशिष्यात्तं क्षपकं । इति वक्ष्यमाणेन प्रकारेण । अयं पूर्वोक्तश्च द्वौ चशब्दौ तुल्यकक्षतां द्योतयतः । खरपानं पूरयेच्च तमिति शिक्षयेच्चेति सम्बन्धः । तदेव शिक्षणमाह सेयमित्यादि । हे आर्य गुणैर्गुणवद्भिश्चाश्री यमाणा सा परमागमे प्रसिद्धा इयं वर्तते । काऽसौ, सल्लेखना । किंविशिष्टा, अन्त्या मारणान्तिकी । कस्य, ते तव । तद्वद्रक्ष पालय त्वमेनां । केभ्यः, अतीचारपिशाचेभ्यः अतीचारा जीविताशंसादयः प्रागुक्तास्त एव पिशाचाश्छिद्रं प्राप्य प्रभविष्णुत्वात् । किंविशिष्टामेनाम् , अतिदुर्लभां आसंसारमप्राप्तपूर्वत्वादत्यन्तं प्राप्तुमशक्याम् ॥ ५७ ॥ क्रमेणातिचारपञ्चकपरिहारं शिक्षयन्नाह
प्रतिपत्तौ सजन्नस्यां मा शंस स्थास्नु जीवितम् ।
भ्रान्त्या रम्यं बहिर्वस्तु हास्यः को नाऽऽयुराशिषा ॥५८॥ टीका मा शंस मा वाञ्छस्व त्वं । किं तत, जीवितं । किविशिष्टं, स्थास्नु स्थिरतरं । किं कुर्वन्, सजन आसक्तो भवन् । कस्यां, अस्यां दृश्यमानायां प्रतिपत्तौ आचार्यादिभिः क्रियमाणे परिचर्यादिविधौ महद्धिकैः पुरुषैश्च गौरवादरादिके। अत्रोपपत्तिमाह-यतो मवाते। किं तद् , बहिर्वस्तु बाह्यविषयजातं। किंविशिष्ट, रम्यमात्मनः प्रीणनं । कया, भ्रान्त्या भ्रमेण । कश्च हास्यो हसनीयो लौकिकपरीक्षकाणां न भवति । कया, आयुगशिषा जीवितं मे भूया . दित्याशंसया । स एष जीविताशंसाख्योऽतीचारः पुनरनृद्योपपत्तिविशेषेण त्याज्यतयोपदिष्टः । एवमुत्तरेऽपि ॥ ५८ ॥
परिहासभयादाशुमरणे मा मतिं कृथाः। दुःखं सोढा निहन्त्यंहो ब्रह्म हन्ति मुमूर्षकः ॥ ५९॥
Page #235
--------------------------------------------------------------------------
________________
अष्टमोध्यायः ।
२३१
टीका-मा कृथाः मा कुरु त्वं । कां, मति इच्छां क, आशुमरणे शीघ्र जीवितच्छेदे । कस्मात्परीषहभयात् दुःसहक्षुधादिवेदनाभीत्या । यतो निहन्ति निरुद्धास्रवं क्षपयति, विपाकान्तत्वात्कर्मणां । कोसौ, दुःखं बाधां सोढा साधुत्वेन संक्लेशपरिणामलक्षणेन सहमानः। किं तद् , अंहः पुरार्जितपापं । तथा हंति हिनस्ति । कोसौ, मुमूर्षकः कुत्सितविधिना मर्तुमिच्छन् । किं तद् , ब्रह्म ज्ञानं मोक्ष वा आत्मघाततो दीर्घसंसारो भवतीत्यर्थः ॥ ५९ ॥
सहपांसुक्रीडितेन स्वं सख्या माऽनुरञ्जय ।
ईदृशैबहुशो भुक्तैर्मोहदुर्ललितैरलम् ॥ ६० ॥ टीका-माऽनुरञ्जय मा स्नेहय मा प्रीणय वा त्वं । के, स्वमात्मानं । केन, सख्या मित्रण किंविशिष्टेन, सहपांसुक्रीडितेन बालावस्थायाँ सह मिलित्वा पांसुना रजसा क्रीडितं क्रीडनं येन स तथोक्तः । अतो व्यावर्तनाथेमाह-अलं पर्याप्त । तव परलोकोद्यतस्य । कैः, ईदृशैरेवंविधैर्मित्रानुरागस्मरणप्रायैः परिणामैः । किविशिष्टः, बहुशोऽनेको भुक्तैरनुभूतपूर्वैः । पुनः किंविशिष्टः, मोहदुर्ललितैर्मोहनीयकर्मविपाकजन्यदुरध्यवसायैः ॥ ६० ॥
मा समन्वाहर प्रीतिविशिष्टे कुत्रचित्स्मृतिम् ।।
वासितोऽक्षसुखोव बम्भ्रमीति भवे भवी ॥ ६१ ॥ टीका-मा समन्बाहर माऽनुबन्धिनीं कुरु त्वमुत्पद्यमानामेव निवारयेत्यर्थः । कां, स्मृति चेतोवृत्तिं । क, कुत्रचित् चक्षुरादीनामन्यतमेनानुभूयमाने विये पूर्व प्रवृत्ते श्रीतिविशिष्टे प्रमोदातिशये, इत्थं मया रम्यकामिन्यादिकमीक्षितमित्थमालिंगितमित्यादिरूपेण मा स्मृतिसमन्वाहारं कुरुष्वेत्यर्थः । यतो बम्भ्रमीति कुटिलं पर्यटति कष्ट परिवर्तते । कोऽसौ, भवी जीवः । क्व, भवें आजवजवभावे । किंविशिष्टः सन्, वासितो दृढाहितसंस्कारः । कैः, अक्षसुखैरिन्द्रियसुखैरेव नात्मज्ञानसंस्कारैः ॥ ६१ ॥
Page #236
--------------------------------------------------------------------------
________________
२३२
सागारधर्मः।
-
मा कांक्षी विमोगादीन रोगादीनिव दुःखदान् । वृणीते कालकूट हि कः प्रमाबेष्टदेवताम् ॥ ६२ ॥ टीका-मा कांक्षीस्तपोमाहात्म्यादिना ममैते भूयासुरिति नाऽभिलष त्वं । कान्, भाविभोगादीन् भाविनो भोगानिष्टविषयान् । आदिशब्देन चाज्ञश्वर्यादीन् । किंविशिष्टान्, दुःखदान दुरन्तदुःखदायकान्। कानिव,रोगादीनिव ज्वरादिव्याधीष्टवियोगप्रभृतीन् यथा । हि यस्मात् कः कश्चित् वृणीते प्रार्थयते । किं तत्, कालकूटं सद्यःप्राणहरं विषं । किं कृत्वा, प्रसाद्य वरदानोन्मुखी कृत्वा । कां, इष्टदेवतामभिमतार्थप्रसादनसमर्थी देवी देवं वा ॥ ६२ ॥ क्षपकस्य चतुर्विधाहारसन्न्यासविधि कोकद्वयेनाइइति व्रतशिरोरत्नं कृतसंस्कारमुगृहन् । खरपानक्रमत्यागात् प्रायेऽयमुपवेक्ष्यति ॥ ६३ ॥ एवं निवेद्य संघाय मूरिणा निपुणेक्षिणा ।
सोऽनुज्ञातोऽखिलाहारं यावज्जीवं त्यजेत् त्रिधा॥६४॥ युम्भ। टीका-त्यजेत् । कोसौ, क्षपकः। कं, अखिलाहारं चतुर्विधमपि भोजनं । कथ, त्रिधा मनोवाकायैः । कियत्कालं, यावजीवं । किं कुर्वन, उद्वहन् उत्कृष्ट धारयन् । किं तद्व्रतशिरोरत्न सल्लेखनां । तस्या एव सर्वत्रतानां साफल्यसंपादकत्वेनोपरि भ्राजमानत्वाच्चूडामणिरिवाभरणानां । किविशिष्टं, कृतसंस्कारं आहितातिशयं । कथं, इत्यनेन प्रतिपत्तौ सजन्नस्यामित्या दिग्रन्थोक्तपकारेण । किविशिष्टः सन्नखिलाहारं स त्यजेत्, अनुज्ञातोऽनुमतः। केन, सूरिणा निर्यापकाचार्येण । किविशिष्टेन, निपुणेक्षिणा निपुण सूक्ष्म व्याधिदेशादितत्वमीक्षते पश्यत्यभीक्ष्णमिति निपुणेक्षी तेन, व्याधिदेशकालसत्त्वसाम्यबलपरीषहक्षमत्वसंवेगवैराग्यादीनां सूक्ष्मेक्षिकया विचारकेणेत्यर्थः । किं कृत्वा, निवेद्य ज्ञापयित्वा । कस्मै, संघाय चातुर्वर्ण्यश्रमणगणाय । कथं, एवं । अयं क्षपक उपवेक्ष्यति निश्चलं स्थास्यति दृढप्रतिज्ञो भविष्यतीत्यर्थः । क, प्राये
Page #237
--------------------------------------------------------------------------
________________
अष्टमोध्यायः ।
२३३
चतुर्विधाहारसंन्यासे । कस्मात्, खरपानक्रमत्यागात् खरपानस्य शुद्धोदकमात्रोपयोगस्य क्रमेण शनैः शनैस्त्यागः प्रत्याख्यानं तस्मात् । अत्रायं विधिरार्याद्वयेन-"त्यक्ष्यति सर्वाहारं । यावज्जीवं निरम्बरस्त्रिविधम् । निर्यापकसरिपरः संघाय निवेदयेदेवम् ॥१॥ क्षपयति यः क्षपकोसौ पिण्डं तस्येति संयमधनम्य । दर्शयितव्यं नीत्वा संघावसथेषु सर्वेषु " ॥ ६३।६४ ॥ ___ एवमतिशयेन परिषहबाधाक्षमं प्रति चतुर्विगहारप्रत्याख्यानमुपदिश्येदानीमतथाभूतस्य क्षपकम्य पानीयमात्र विकल्पनपूर्वकं त्रिविधप्रत्याख्यानमुपदिशश्चतुर्विधपत्याख्यानावसरनिरूपणार्थमाह
व्याध्याधपेक्षयाम्भो वा समाध्यर्थ विकल्पयेत् ।
भृशं शक्तिक्षये जह्यात्तदप्यासन्नमृत्युकः ।। ६५ ॥ टीका-या अथवा विकल्पयेत् गुरुनियोगेन पेयतया प्रतिजानीते क्षपकः। किं तद् , अम्भ: पानीयं। किमर्थ, समाध्यर्थ । कया, व्याध्याद्यपेक्षया यदि पैत्तिको व्याधिर्वा ग्रीष्मादिः कालो वा मरुस्थलादिदेशो वा पैतिकी प्रकृ. तिर्वा अन्यदप्येवंविधं तृष्णापरिषहोद्रेकासहनकारण वा भवेत् तदा गुर्वनुज्ञया पानीयमुपयोक्ष्येहमिति प्रत्याख्यानं प्रतिपद्यतेत्यर्थः । भृशमत्यर्थ शक्तिक्षये बलनाशे पुनरासन्नमृत्युकः प्रत्यासन्नमरणः क्षपकस्तदप्यम्भोपि जगात् प्रत्याख्यायात् ॥ ६५ ॥ तत्कालोचितं क्षमकोपकारि संघस्यावश्यकरणीयमाह
तदाखिलो वर्णिमुखग्राहितक्षमणो गणः ।।
तस्याविनसमाधानसिद्धयै तद्यात्तनूत्सृतिम् ।। ६६ ॥ टीका-तदा तस्मिन्काले तद्यात्कुर्यात् । कोसौ, अखिलः सवों गणः संघः । का, तनूत्सृति कायोत्सर्ग । कस्यै, अविघ्नसमाधानसिद्धयै । कस्य. तस्य प्रत्याख्यातचतुर्विधभक्तस्य क्षपकम्य, क्षपकस्योपसर्गा मा भूवन सिद्धयतु चाराधनेत्येवमर्थ । किविशिष्टः सन, वर्णिमुखग्राहितक्षमणः वर्णिनो
Page #238
--------------------------------------------------------------------------
________________
सागारधर्मः ।
२३४
ब्रह्मचारिणो मुखेन ग्राहितो लापितो यथाकथञ्चित्कृतानपराधान् मम यूयं क्षमध्वमहं च भवत्कृतांस्तान् क्षम्ये इति क्षमणं यः स तथोक्तः । एतच्च एवं निवेद्य संघायेति प्रागुक्तमेव विशेष्य पुनरुक्तम् ॥ ६६ ॥ एवमाराधनापताकाग्रहणोद्यतस्य क्षपकस्य निर्यापकाः किं कुर्युरित्याहaat निर्यापकः कर्णे जपं प्रायोपवेशिनः । दधुः सस रभयदं प्रीणयन्तो वचोमृतैः ॥ ६७ ॥ टीका ततो यथोक्तकरणीयकरणानन्तरं । दद्युः सम्पादयेयुः । के निर्यापकाः समाधिविधायिनो सुनयः । कं जपं । किंविशिष्टं, संसारभयदं संसारभयं संवेगमुपलक्षणान्निवेदं च ददानं । ऋ, कर्णे श्रुतिमार्गे । कस्य, प्रायोपवेशिनः सन्यासिनः । किं कुर्वन्तः प्रीणयन्तः सन्तर्पयन्तः । कैः, वचोऽ
"
PEN
पीयूषसमैर्वाक्यैः || ६७ ॥
अथातो निर्यापकाचार्य कार्यों क्षपकस्य महतीमंनुशिष्टिमुत्तरत्र प्रबन्धेनोपदिशति
मिथ्यात्वं
सम्यक्त्वं भजोर्जय जिनादिषु ।
भक्ति भावनमस्कारे रमस्व ज्ञानमाविश ६८ ॥
टीका - भो आराधकराज वम निःशेषयत्वं । किं तत्, मिथ्यात्वं विपरीताभिनिवेश । तथा भज भावय त्वं । किं तत्, सम्यक्त्वं तत्त्वार्थश्रद्धानं । तथा ऊर्जय बलवतीं जीवन्तीं वा कुरु त्वं । कां, भक्ति । केषु, जिनादिषु अर्हदादिषु परमेष्ठिषु तचैत्येषु व्यवहारनिश्चयरत्नत्रये च । तथा रमस्व रतिं कुरु त्वं भावनमस्कारे अर्हदादिगुणानां सानुगगानुध्याने तथा आविश उपर्युक्ष्व त्वं । कि तत् ज्ञानं बाह्यमाध्यात्मिकं च तत्त्वबोधम् ॥ ६८ ॥ महात्रतानि रक्षोच्चैः कषायान् जय यन्त्रय । अक्षाणि पश्य चात्मानमात्मनात्मनि मुक्तये ॥ ६९ ॥ टीका - तथा रक्ष पालयत्वं । कानि, महाव्रतानि । तथा जय निगृहाण
ܕ
Page #239
--------------------------------------------------------------------------
________________
अष्टमोध्यायः ।
त्वं । कान्, कषायान् क्रोधादीन् । कथं, उच्चैरत्यर्थ, तज्जये सुतरां यत्नं कुरुप्वत्यर्थः । तथा यन्त्रय निजनिजविषयेषु प्रवर्तमानानि त्वं निरुन्धि । कानि. अक्षाणि स्पर्शनादीनि । तथा पश्य अवलोकय त्वं । कं, आत्मानं । केन, आत्मना स्वयं । क, आत्मनि स्वस्मिन् । कस्यै, मुक्तये मोक्षाय न संसारसुखाय ॥ ६९ ।। मिथ्यात्वस्यापायहेतुत्वं श्लोकद्वयेन स्पष्टयति--
अधोमध्यो लोकेषु नाभून्नास्ति न भावि वा।
तद् दुःखं यन्न दीयेत मिथ्यात्वेन महारिणा ॥ ७० ॥ टीका-तद् दुखमधोलोके मेरोरधः सप्तसु भूमिषु, मध्यलोके जम्बूद्वीपादिस्वयम्भूरमणसमुद्रान्ते तिर्यग्लोके, ऊर्ध्वलोके मेरुचूलिकान्ततःपभृति तनुवातवलयपर्यन्ते । नाभृत् न भृतं । नास्ति न भवति । न भावि वा न वा भविष्यति । यन्न दीयते न सम्पाद्येत जीवस्य । केन, मिथ्यात्वेन । किंविशिष्टन, महारिणा परमशत्रुणा, तस्मिन् सत्येव बाह्याभ्यन्तरशत्रूणामपकारकत्वोपपत्तेः ॥ ७० ॥
सङ्घश्रीर्भावयन्भूयो मिथ्यात्वं वन्दकाहितम् ।
धनदत्तसभायां द्राक्स्फुटिताक्षोऽभ्रमद्भवम् ॥ ७१ ॥ टीका-अभ्रमत् पर्यटति स्म । कोऽसौ, सङ्घश्रीर्धनदत्तनृपतिमन्त्री । कं, भवं संसारं । दीर्घसंसारोऽभृदित्यर्थः । कथम्भृतो भूत्वा, द्राक स्फुटिताक्षः झटिति स्फुटितचक्षुः । कस्यां, धनदत्तसभायां धनदत्तस्य स्वस्यामिनः परिपदि । किं कुर्वन्, भावयन् अध्यात्ममभ्यस्यन् । किं तत्. मिथ्यात्वं । किविशिष्ट, भृयो वन्दकेन पुनरारोपितं । इयमन्याश्च सर्वाः कथाः कथाकोशादिशास्त्रेषु द्रष्टव्या, ग्रंथगौरवभयादिह नोक्ताः ॥ ७१ ॥
सम्यक्त्वस्योपकारकत्वं श्लोकद्वयेनाह
Page #240
--------------------------------------------------------------------------
________________
२३६
सागारधर्मः अधोमध्योर्ध्वलोकेषु नाभूनास्ति न भावि वा। तत्सुखं यन्त्र दीयेत सम्यक्त्वेन सुबन्धुना ।। ७२ ॥ टीका-अस्यापि पूर्ववव्याख्या। सुबन्धुत्वं पुनः सम्यक्त्वस्य सर्वत्र सर्वदा सर्वेषामुपकारकत्वात्समस्तविनिपातप्रतिबन्धकत्वाच्च निश्चयम् ॥ ७२ ॥
प्रन्हासितकुदृग्बद्धश्वभ्रायुःस्थितिरेकया।
दृग्विशुद्धयाऽपि भविता श्रेणिकः किल तीर्थकृत् ॥ ७३ ।। टीका-किल एवं ह्यागमे श्रूयते-श्रेणिको नाम मगधमहामंडलेश्वरो भविता भविष्यति। किंविशिष्टः, तीर्थकृत् धर्मतीर्थकरः । कया, इग्विशुद्धया। किंविशिष्टया, एकया असहायया विनयसम्पन्नतादितीर्थकरत्वकारणान्तररहितया । अपिविस्मये । किविशिष्टः सन्, प्रेत्यादि श्वभ्रे सप्तमनरकभूमावायुषो भवधारणकारणकर्मणः स्थितिः कालावधारणेन बन्धः श्वनायुःस्थितिः कुदृशा तीव्रमिथ्यात्वपरिणामेन बद्धा आत्मसात्कृता श्वभ्रायुःस्थितिः कुदृम्बद्धश्वभ्रायुःस्थितिः प्रहासिता त्रयस्त्रिंशत्सागरोपमपरिमाणादपकृष्य रत्नप्रभायां चतुरशीतिवर्षसहस्रपरिमाणा कृता कुदृम्बद्धा श्वभ्रायुःस्थितिर्यस्य एकयाऽपि दृग्विशुद्धया स तथोक्तः ॥ ७३ ॥
अद्भक्तेर्माहात्म्य द्वाभ्यामाह___ एकैवास्तु जिने मक्तिः किमन्यैः स्वेष्टसाधनैः।
या दोग्धि कामानुच्छिद्य सद्योऽपायानशेषतः ॥ ७४॥ टीका-भोः सुविहित साधो । अस्तु भवतु । काऽसौ, भक्तिर्भावविशुद्ध आन्तरोऽनुरागः । क्व, जिने भगवदहदेवे । किविशिष्टा, एकैव असहायैव ! किं कार्य । कैः, स्वेष्टसाधनैः स्वाभिमतार्थसिद्ध्युपायैः। किं विशिष्टैः अन्यैर्जिनभक्तिव्यतिरिक्तैः । सर्वपुरुषार्थसाधनानां तया विना तदाभासत्वनिश्चयात् । या कि, या दोन्धि प्रपूरयति । कान्, कामान् मनोरथान् । किं कृत्वा, उच्छिद्य निरस्य । कान, अपायान, अभ्युदयनिःश्रेयस_शिनोऽपायान् । कथं, अशेषतः
Page #241
--------------------------------------------------------------------------
________________
अष्टमोध्यायः ।
सर्वतः सर्वान्वा । कथ. मद्यः म्वाविर्भावनानन्तरमेव ॥ ७४ ॥
वासुपूज्याय नम इत्युक्त्वा तत्संसदं गतः । द्विदेवारब्धविघ्नोऽभूत पनः शक्रार्चितो गणी ॥ ७५ ॥ टीका-अभूत्सम्पन्नः। कोऽसौ, पद्मः पमरथो नाम मिथिलाधिपतिः । किंविशिष्टो. गणी गणधरदेवः । किविशिष्टः सन, शक्रार्चितः इन्द्रकृतप्रातिहार्यः । पुनः किंविशिष्टः सन् , द्विदेवारब्धविघ्नः द्वाभ्यां देवाभ्यां धन्वंतरिविश्वानुलोमचराभ्यामारब्धाः कर्तुमुपक्रान्ता विघ्नाः काक–कारककृष्णसर्पमार्गखण्डनप्रभृतयोऽपशकुना: समवसरण मनान्तराया यस्य स तथोक्तः । कथम्भूतो भूत्वा, गतः प्राप्त । कां, तत्ससदं वासुपूज्यसमवसरणं । किं कृत्वा, उक्त्वा उच्चार्य ( किं, वासुपूज्याय नम इति ) ॥ ७५ ॥
एकोऽप्यर्हन्नमस्कारश्चेद्विशेन्मरणे मनः ।
सम्पाद्याभ्युदयं मुक्तिश्रियमुत्कयति द्रुतम् ॥ ७ ॥ टीका-चेद्यदि । विशेत् भावरूपतया व्याप्नुयात् । कोऽसौ, एकोऽपि केवलोऽपि अर्हतो भगतो नमस्कारः प्रणामः । किं तत्. मनश्चित्त । क, मरण प्राणत्यागलक्षणे । तदा द्रुतं शीघ्रमुत्कयत्युत्कंठयति । कां, मुक्तिश्रिय मोक्षलक्ष्मी । अनन्तभवेषु द्वित्रिभवेषु वा परमपदं सम्पादयतीत्यर्थः । किं कृत्वा, सम्पाद्य सम्पूर्ण प्रापथ्य । कं, अभ्युदयं महर्द्धिम् ।। ७६ ॥
स णमो अरहताणमित्युच्चारणतत्परः।
गोपः सुदर्शनीभूय सुभगाह्वः शिवं गतः ॥ ७७ ।। टीका-गतः । कोसौ, आगमे प्रसिद्धः सुभगाव्हः सुभगो नाम गोपा गोपालः । किं तत्, शिवं परममुक्तिं । किं कृत्वा, सुदर्शनीभ्य वृषभदासश्रेठिपुत्रः सुदर्शनाख्यः सुरूपः सुसम्यक्त्वश्च भूत्वा । किंविशिष्टः सन, णमो अरहंताणमित्येतस्याहन्नमस्कारम्योच्चारण संशब्द तत्परम्तन्निष्टस्तदकाग्रमना इत्यर्थः ।। ७७ ॥
Page #242
--------------------------------------------------------------------------
________________
२३८
सागारमः ।
ज्ञानोपयोगमाहात्म्यं त्रिभिः श्लोकैराह
स्वाध्यायादि यथाशक्ति भक्तिपीतमनाश्वरन् ।
तत्कालिकाद्भुतफलादुदर्के तर्कमस्यति ॥ ७८ ॥ टीका-अस्यति क्षिपति निवारयतीत्यर्थः । कोऽसौ, पुरुषः । कं, तर्क विकल्पं संशयरूपं विमर्शमित्यर्थः । कस्मिन्विषये, उदर्के उत्तरफले स्वाध्यायाद्यनुष्ठानसाध्यभागमे यदद्भुतं फलमुक्तं तन्मे भविष्यति न वेति सन्देहं । कस्मात्, तत्तत्कालिकाद्भुतफलात् क्रियमाणत्वाध्यायाद्याचरणसमयभवासम्भाव्येष्टसाध्याद् दृष्टेनादृष्टस्यासम्भाव्यस्यापि निश्चेतुं शक्यत्वात् । किं कुर्वन्, चरन् अनुतिष्ठन् । किं तत्. स्वाध्यायादि स्वाध्यायं वन्दनां प्रतिक्रमणादिकमपि मुनीनां नित्यमाचरण । कथं, यथाशक्ति अनिगृहितबलवीर्य यथा भवति । किंविशिष्टः सन् भक्तिपीतमनाः भक्त्या पीतं स्वान्तं पीतमनुरंजितं वा मनश्चित्त यस्य स तथोक्तः ॥ ७८ ॥ ___ शुले प्रोतो महामन्त्रं धनदत्तार्पितं स्मरन् । ___ दृढशूर्पो मृतोऽभ्येत्य सौधर्मात्तमुपाकरोत् ॥ ७९ ॥ ___टीका-अतिनिर्भयमुपाकरोत् स्वस्वाभिनुपतिकार्यमाणोपसर्गनिराकरणपूर्वकसत्कारकरणेनोपाकृतवान् । कोऽसौ, दृढशूर्पो नाम चोरः । कं, तं धन- . इत्तवेष्ठिन । किं कृत्वा, अभ्येत्य आगत्य । कस्मात्, सौधर्मात् सौधर्मकल्प - विमानात् । सौधर्मे महर्द्धिकदेवत्वं प्राप्त इत्यर्थादापन्नमत्र बोध्य । कथम्भृतः सन्, मृतः । किं कुर्वन्, स्मरन् । चिन्तयन् । कं, महामन्त्रं पञ्चनमस्कारं तदनुचिन्तनस्योत्कृष्ट स्वाध्यायत्वात् । किविशिष्टं, धनदत्तार्पितं धनदत्ताख्येन श्रेष्टिना ढौकित। किंविशिष्टः स्थितः, शूले प्रोतः शूलिकायामारोपितः!॥७९॥
खण्डश्लोकैस्त्रिभिः कुर्वन् स्वाध्यायादि स्वयंकृतैः। .. मुनिनिन्दाप्तमौग्ध्योऽपि यमः सप्तर्द्धिभूरभूत् ॥ ८० ॥ टीका--अभृत् । कोऽसौ, यमः यमो नाम राजा, राज्यं त्यक्त्वा प्रवजितः।
Page #243
--------------------------------------------------------------------------
________________
अष्टमोध्यायः ।
२३९
1
किंविशिष्टः, सप्तर्द्धिभूः । बुद्धि तवो विथ रिद्धी विडउणरिद्धी तहेव ओसहिया रसबलअक्खीणा वि य रिद्धीओ सत्त पण्णत्ता || इत्यासां सप्तानामृद्धीनां भृः स्थानं सप्तर्धिप्राप्तोऽभूदित्यर्थः । किंविशिष्टोऽपि, मुनि निन्दाप्तमौग्ध्योऽपि मुनिनिन्दया प्राप्तमूढभावोऽपि । किं कुर्वन् स तथा अभूत् कुर्वन् । किं तत्, खाध्यायादि | कैः, खण्डश्लोकैः । किंविशिष्टैः, स्वयंकृतैः स्वयमात्मना निर्मितैः। कतिभिः, त्रिभिः । तद्यथा - " कंडसि पूणुर्ण सेवसि रेगदहा । जवं पत्थेसि खादिदुं ॥१॥ अण्णत्थ किं फलोवहा तुह्मी इत्थ बुद्धिया छिंदे | अंके च्छेदइ कोणिय ||२|| अह्मादो मंदिभ्यं दिहादोदिसराभयं तुझ " ॥ ८० ॥ अहिंसाहिंसयोर्माहात्म्यं द्वाभ्यामाह---
I
1
1
अहिंसाप्रत्यपि दृढं भजन्नो जायते रुजि । स्वध्यहिंसा सर्वस्वस सर्वाः क्षिपते रुजः ॥
,
८१ ॥ टीका -- ओजायते ओजस्वीवाचरति दुःखेन नाभिभूयत इत्यर्थः । कोसौ, पुरुषः । कस्यां रुजि उपसर्गादिपीडायामुपस्थितायां । किं कुर्वन, दृढं भजन् गाढं सेवमानः । किं तत्, अहिंसाप्रत्यपि अहिंसायाः स्तोकमहिंसाप्रति । स्तोके पनेित्यनेनाव्ययीभावः ॥ स्तोकामप्यहिंसामित्यर्थः । यस्तु भवति । कथं, अधि अधीश्वरः । क्र, अहिंसायाः सर्वस्वे अहिंसायाः सर्वस्वं साकल्यमहिंसासर्वस्वं तस्मिन । ईश्वरेऽधीत्यनेन सप्तमी । सकलाऽहिंसाया अधीधरो भवतीत्यर्थः । स क्षिपत निराकरोति । काः, सर्वाः समस्ताः रुजो दुःखानि ॥ ८१ ॥
यमपालो देसिने काहं पूजितोऽप्सुरैः । धर्मस्तत्रैव मेण्घ्नः शिशुमारैस्तु भक्षितः || ८२ ॥
टीका - पूजितः । कोऽसौ, यमपालः वाराणस्यां मातङ्गः । कैः, अप्पुरः जलदेवताभिः । क हदे शिशुमारहदे । किं कुर्वन्, एकाहमेक दिनमहिंसन्
Page #244
--------------------------------------------------------------------------
________________
२४०
सागारधर्मः ।
चतुर्दशीदिने हिंसामकुर्वन्नित्यर्थः । धर्मस्तु श्रेष्ठिपुत्रो भक्षितः । कैः, शिशुमारैः । क, तत्रैव तस्मिन्नेव हदे। किंविशिष्टः सन् ? मेण्दनः कृतराजमेण्टकबधः ॥ ८२॥ असत्यकृतापायं द्वाभ्यामाह
मा गां कामदुधां मिथ्यावादव्याघ्रोन्मुखी कृथाः।
अल्पोऽपि हि मृषावादः श्वभ्रदुःखाय कल्पते ॥ ८३ ॥ टीका-हे क्षाक मा कृथाः मा कुरु त्वं । कां, गां वाच । पक्षे अनड्वाहीं। किंविशिष्टां, कामदुघां कामं प्रार्थ्यमानमर्थ दोग्धि क्षरत्याविर्भावयतीत्येवम्भूतां सत्यवाचं कामधेनुं चेत्यर्थः । किंविशिष्टां मा कृथाः, मिथ्यावादव्याघ्रोन्मुखीं मिथ्यावादोऽसत्यजल्पः स एव व्याघ्रः कामधेनोरिव सत्यवाचः संहरणशीलत्वात्, मिथ्यावादव्याघ्रस्य उन्मुखी संमुखीं मिथ्यावादं कर्तुमुद्युक्तां व्याघ्रं च प्रतिवर्तमानां । हि यस्मादल्पोऽपि स्तोकोऽपि किं पुनर्भूयान मृषाशदो वितथव्याहारः श्वभ्रदुःखाय कल्पते सम्पद्यते, नरकदुःख सम्पादयतीत्यर्थः ॥ ८३ ॥
अजैर्यष्टव्यमित्यत्र धान्यस्त्रैवार्षिकैरिति । व्याख्यां छागैरिति परावांगानरकं वसुः ॥ ८४ ॥ टीका-अगात् गतः । कोऽसौ, वसुर्नाम राजा। किं तत्, नरकं । किं कृत्वा. परावर्त्य अन्यथा कृत्वा । कां, धान्यैस्त्रैवार्षिकैरिति व्याख्यां । कथं परावर्त्य, छागौरिति । क्व, अजैर्यष्टव्यमित्यत्र परमागमे वाक्ये । अयमर्थः । न जायंत इत्यजा वर्षत्रयवृत्तयो व्रीहयस्तैर्यष्टव्य शान्तिकपौष्टिकार्था क्रिया कार्येति क्षीरकदंबाचायः कृतं व्याख्यानं परावर्त्य अजैरजात्मकर्यष्टव्यं हव्यकव्यार्थी विधिविधातव्य इत्यन्यथा कृत्वा पर्वतनारदविसंवादे वसुराजः श्वभ्रमगमदित्यर्थः ॥ अजैोतव्यमिति कचित्पाठः ॥ ८४ ॥
Page #245
--------------------------------------------------------------------------
________________
अष्टमोध्यायः ।
स्तेयानुभाव द्वाभ्यामाह
आस्तां स्तेयमभिध्याऽपि विध्याप्याऽमिरिव त्वया । हरन परस्वं तदसून् जिहीर्षन् स्वं हिनस्ति हि ॥ ८५ ॥ टीका-भोः समाधिमरणार्थिन । आस्तां तिष्ठतु । किं तत्कथनेनेत्यर्थः । किं तत्, स्तेयं परधनापहरणं । विध्याप्या रामयितव्या त्वया । काऽसौ, अभिध्याऽपि परधनेच्छाऽपि । क इव, अमिरिव वन्हियथा तापहेतुत्वात् । हि यस्मात् हिनस्ति हन्ति । कोऽसौ, पुरुषः । कं, स्वमात्मानं । किं चिकीर्षन, जिहीर्षन् हर्तुमिच्छन् । कान, तदसुन् परप्राणान । किं कुर्वन्, हरन् अदतं गृहन् । किं तत, परस्वं परद्रव्यं । अयमत्राभिप्रायः-परधनं मुष्णतः परप्राणोपघातेच्छा अवश्य भाविनी, परजिघांसा चात्मनो हिंसा परमार्थतस्तम्या एव हिंसात्वात् । भावहिंसायामेव हि सत्यां द्रव्यहिंसा दुरन्तसंसारदुःखलक्षणं स्वफलं प्रयच्छतीति ॥ ८५ ॥
रात्रौ मुषित्वा कौशाम्बी दिवा पञ्चतपश्चरन् ।
शिक्यस्थस्तापसोऽधीगात् तलारकृतदुर्मतिः ॥८६॥ टीका-अघोऽगान्नरकं गतः । कोऽसौ, तापसो भौतिकः । किंविशिष्टः सन्, तलारकृतदुर्मतिः तलवरेण प्रवर्तितप्रकृष्टरौद्रध्यानाविष्टमरणः । किं कुवन, शिक्यस्थः परभूमिं न स्पृशामीति लम्बमाने शिक्ये स्थितः । पञ्जतपश्चरन् पञ्चाग्निसाधनं कुर्वन् । क्व, दिवा दिने । किं कृत्वा, मुषित्वा मुषितधनां कृत्वा । का, कौशाम्बी कौशाम्बीसज्ञनगरी तन्नगरीवास्तव्यलोकं । क्व. रात्रौ ।। ८६ ॥ ब्रह्मचर्यदायविधापनार्थमाह
पूर्वेऽपि बहवो यत्र स्खलित्वा नोगताः पुनः ।
तत्परं ब्रह्म चरितुं ब्रह्मचर्य परं चरेत् ॥ ८७ ॥ टोका बहवः प्रभता: पूर्वे रुद्रादयः किं पुनरद्यतना मुनय इत्यपिश.
१६
Page #246
--------------------------------------------------------------------------
________________
२४२
सागारधमः ।
ब्दार्थः । यत्रं यस्मिन् ब्रह्मचर्याख्ये व्रते, स्वलित्वा अतिचारं प्राप्य, न पुनरुद्ता न तंत्रात्मानमुपस्थापितवन्तोऽनाचारं चरितवन्त इत्यर्थः । तद्ब्रह्मचर्य चतुर्थवतं परमुत्कृट मनांगप्यतीचाररहितं कृत्वा चर धारय त्वं । किं कर्तुं, चरितुमनुभवितुं । किं तत्, परमुत्कृष्टं निर्विकल्पं प्रत्यग्ज्योतिराख्य, ब्रह्म ज्ञानं शुद्धस्वात्मानं स्वात्मना संवेदयितुमित्यर्थः ॥ ८७.॥ - नैर्ग्रन्थ्य व्रतं द्रढयितुपाह---
मिथ्येष्टस्य स्मरन् श्मश्रुनवनीतस्य दुर्मतेः ।
मोपेक्षिष्ठाः क्वचिद् ग्रन्थे मनो मूर्छन्मनागपि ।। ८८ ॥ टीका-भोः सुवि हतसाधो मा उपे क्षष्ठा: माऽवधीरय त्वं । किं तत्,मनः। किं कुर्वत्, मूर्छन् मुह्यत् ममेदमि त संकल्पं गच्छत् । क, क्वचित् कापि अन्थे परिग्रहे । काथ, ननागपि सर्व स्मन् संगे चित्तं व्यासजदभ्याजत्व मित्यर्थः । किं कुर्वन, स्मरन् । स्थ, मश्रु विनीतस्य कस्यचिच्छ्रेष्ठिपुत्रस्य । किंविशिटस्य, मिथ्येष्टम्य वितथमनोरथस्य ! पुनः किंविशिष्टस्य, दुर्मतेः रौद्रध्यानमृतस्य ॥ ८८ ॥ निश्चयनयेन नैर्ग्रन्थ्यप्रतिपत्यर्थमाह
बाह्यो ग्रन्थोङ्गमक्षाणामान्तरो विषयैषिता । निर्मोहस्तत्रं निर्ग्रन्थः पान्थः शिवपुरेऽर्थतः ॥ ८९ ॥ टीका-भवति । कोसौ, बाह्यो बहिरङ्गा, ग्रन्थः परिग्रहः । किं, अङ्गं शरीरं । तथा आंतरोऽन्तरङ्गः सङ्गो भवति । किं, अक्षाणां स्पर्शनादीनां विषयैषिता स्पर्शादिविषयेप्वभिलाषः । तत्र द्वयोरपि ग्रन्थयोनिर्मोहो निर्मूछः साधुरर्थतः परमार्थेन निग्रन्थो निष्परिग्रहो भवति । तथा शिवपुरे निर्वाणनगरे पान्थो नित्यं प्रस्थायी स्यात् निर्ग्रन्थस्यैव मोक्षमार्गेऽविच्छिन्नं पस्थातुं समर्थत्वात् ॥ ८९ ॥
कषायेन्द्रियकृतापायाननुस्मारयन्नाह
Page #247
--------------------------------------------------------------------------
________________
अष्टमोध्यायः ।
कषायेन्द्रियतन्त्राणां तत्तादग्दुःखभागिताम् ।
परामृशन्मा स्म भवः शसितव्रत तद्वशः ॥ ९० ॥ __टीका-भोः शंसितानि मह द्भिरपि स्तुतानि व्रतानि यस्य स शंसितवत मा स्म भवः मा भूस्त्वं । किंविशिष्टः, तद्वशः कषायेन्द्रियपरतन्त्रः । किं कुर्वन्, परामृशन चिन्तयन् । कां, तत्ताहग्दुःखभागितां सा षष्ठाध्याये निर्दिष्टा तादृगनन्यसाधारणी दु.खभागिता क्लेशानुभूतिस्तां । केषां, कषायेन्द्रियेषु आयत्तानां तद भभूतानामित्यर्थः ।। ९० ॥ __ एवं व्यवहाराराधनानिष्ठतां विध्याप्य निश्चयाराधनामुपदिशति
श्रुतस्कन्धस्य वाक्यं वा पर बाऽक्षरमेव वा ।
यत्किश्चिद्रोचते तत्रालम्ब्य चित्तलयं नय ॥ ९१.॥ टीका-अहो व्यवहार रावनापरिणत आराधकराज । यत्किंचिद्य किमपि रोचते तुभ्यं रुचिनुत्पादयति च । किं तत्, वाक्यं वा बाह्यमाध्यात्मिकं वा णमो अरहंताणमित्यादिकं, पदं वा अहमित्यादिकमक्षरमेव वा अ सि आ उ सा इत्यादीनामेकतमं । कस्य सम्बन्धि, श्रुतस्कन्धस्य श्रुतस्याङ्गप्रविष्टस्य आचाराङ्गादिद्वादशविकल्पस्य अङ्गबाह्यस्य च सा नायिकादिभेदस्य प्रकीर्णकाख्यस्य स्कन्धः सङ्घातस्तस्य मध्ये यत्किंचिद्वाक्यादिकमिदानी क्षीणशक्तस्तवानुराग जनयति तत्र इष्टे वाक्यादीनामन्यतमे आलम्ब्य आसज्य चित्तमन्तःकरणं लय श्लेषं तन्मयीभावं नय प्रापय त्वमित्यर्थः । त्रयोपि वाशब्दा वाक्यादीनां तुल्यकक्षतां सूचयन्ति । रुचिरत्र भवतः प्रमाणं श्रुतस्कन्धवाक्यादीनां त्रयाणामपि भक्त्या भाव्यमानानां परमार्थाराधनासाधनसामWनिर्णयात् । अक्षरमेवेत्यत्र एवशब्दश्च स्वयोग्यव्यवस्थापकः ॥ ९१ ॥
शुद्धं श्रुतेन स्वात्मानं गृहीत्वार्य स्वसंविदा।।
भावयंस्तल्लयापास्तचिन्तो मृत्वैहि निवृतिम् ॥ ९२ ॥ टीका है आर्य आराधनातत्पर । एहि गच्छ त्वं । कां, निर्वृति मुक्तिं ।
Page #248
--------------------------------------------------------------------------
________________
२४१
सागारधर्मः।
किं कृत्वा, मृत्वा प्राणान् विसृज्य । कथम्भूतो भूत्वा, तल्लयापास्तचिन्तः तत्र शुद्धस्वात्मनि लयः श्लेषस्तल्लयस्तन्मयीभावस्तेन आस्ता निराकृता चिन्ता संकल्पश्चित्तं वा मनो यस्य स तथोक्तः। किं कुर्वन्, भावयन् ।कं, शुद्धं रागद्वेषमोहरहितं स्वात्मानं निजचिद्रूपं । कया, स्वसंविदा स्वसंवेदनेन। किं कृत्वा, गृहीत्वा निश्चित्य । केन, श्रुतेन ' एगो मे सासदो आदा' इत्यादिश्रुतज्ञानेन। मृत्वहीत्यत्र ओमाङोरित्यनेन परस्वरूपं । उक्तं च-क्षेत्रे पात्रे द्वे ज्ञातव्ये । आराधनोपयुक्तः सन् सम्यक्कालं विधाय च । उत्कर्षात्रीभवान्नीत्वा प्रयाति परिनिर्वृतिम् ॥ ९२ ॥ उक्तमेवार्थ परमार्थसंन्यासोपदेशद्वारण समर्थयते
संन्यासो निश्चयेनोक्तः स हि निश्चयवादिभिः ।
यः स्वस्वभावे विन्यासो निर्विकल्पस्य योगिनः ॥ ९३ ॥ टीका-हिं यस्मान्निश्चयवादिभिर्व्यवहारनयसापेक्षनिश्चयनयप्रयोगचतुरैः सरिभिनिश्चयेन परमार्थेन स संन्यास उक्तः मुमुक्षूणामग्रे प्ररूपितः । यः किं, यो विन्यासो विविपूर्वकमात्मनः स्थापनं । क्व, स्वस्वभावे शुद्धचिदानन्दमये स्वात्मनि । कस्य, योगिनः समाधिमतः । किविशिष्टस्य, निर्विकल्पस्य अन्तर्जल्पसंपृक्तोत्प्रेक्षाजालनिष्क्रान्तस्य ॥ ९३ ॥ ___ परिवहादिना विक्षिप्यमाणचित्तस्य क्षपकस्य निर्यापकाचार्यः किं कुर्यादित्याह
परीषहोऽथवा कश्चिदुपसर्गो यदा मनः ।
क्षपकस्य क्षिपेज्ज्ञानसारैः प्रत्याहरेत्तदा ॥ ९४ ॥ टीका--यदा यस्मिन्काले क्षिपेद्यत्र तत्र भ्रमयेत् । कोऽसौ, कश्चित् कोऽपि क्षुदादीनामन्यतमः परिषहोऽथवा कश्चिदचेतनकृतादीनामन्यतम उपसर्गो वा। किं तत्, मनः। कस्य, आराधकस्य । तदा प्रत्याहरेत् व्यावर्तयेत् शुद्धस्वात्मोन्मुखं तत्कुर्यादाचार्यः । कैः, ज्ञानसारैः श्रुतज्ञानरहस्योपदेशः १९४॥
Page #249
--------------------------------------------------------------------------
________________
अष्टमोध्यायः ।
ज्ञानसाररित्येतत् प्रपंचयितुमुत्तरप्रवन्धमाह___ दुःखानिकीलैराभीलैनरकादिगतिष्वहो। ... तप्तस्त्वमङ्गसंयोगात् ज्ञानामृतसरोऽविशन् ॥ ९५ ॥
टीका-अहो भावकप्रवेक तप्तः संतप्तस्त्वं । कैः, दुःखानिकीलैः शारीरमानसाशान्तदहनज्वालाभिः । किंविशिष्टैः, आभीलैः कष्टैः प्रतिकर्तुमशक्यैरित्यर्थः । कासु, नरकादिगतिषु नारकतिर्यङ्मनुप्यदेवभवग्रहणेषु । कस्माद्, अंगसंयोगात् शरीरसंश्लेषात्, शरीरमात्मबुद्ध्याध्यवस्यन्नित्यर्थः । किं कुर्वन्, अदिशन् अप्रविशन् अनवगाहमानः । किं तत्, ज्ञानामृतसरः अन्यच्छरीरमन्योऽहमित्यादिभेदोपलम्भपीयूषतडागम् ॥ ९५ ॥ __ इदानीमुपलब्धात्मदेहभेदाय साधुभिः ।
सदाऽनुगृह्यमाणाय दुःख ते प्रभवेत्कथम् ॥ ९६ ।। टीका-इदानी सम्प्रति । कथं प्रभवेत् । किं तत्, दुःखं । कस्मै, ते तुभ्यं । केनापि प्रकारेण त्वामभिभवितुं परिषहादिदुःख न शक्नुयादित्यर्थः । किंविशिष्टाय ते, उपलब्धात्मदेहभेदाय निश्चितस्वात्मशरीरव्यतिरेकाय । पुनः किविशिष्टाय, अनुगृह्यमाणाय उपक्रियमाणाय । कैः, साधुभिः संयतैः । कथं, सदा नित्यम् ॥ ९६ ॥ - दुःख संकल्पयन्ते ते समारोप्य वपुर्जडाः ।
स्वतो वपुः पृथक्कृत्य भेदज्ञाः सुखमासते ॥ ९७ ॥ टीका-संकल्पयन्ते ममेदमिति व्यवस्यन्ति । के, ते जडा बहिरात्मानः । किं तत्, दुःख अहं दुखवानस्मीति प्रतिपद्यन्त इत्यर्थः । किं कृत्वा, समा-- रोप्य सन्मुख योजयित्वा । किं तद्, वपुः शरीरं । क, स्वे आत्मनि स्वदेहं स्वात्मतया निश्चित्यत्यर्थः । भेदज्ञा आत्मशरीरविवेकविदः । पुनरासते तिष्ठति । कथं, सुख स्वात्मदर्शनोत्थमानन्दमनुभवन्तीत्यर्थः । किं कृत्वा, पृथऋत्य मेदेनाध्यवसाय्य । किं तद्, वपुः । कस्मात्, स्वतः शरीरमात्मनो भिन्न
Page #250
--------------------------------------------------------------------------
________________
२४६
• सागारधर्मः।
निश्चित्य । तद्भेदभावना यथा-न मे मृत्युः कुतो भीतिर्न मे व्याधिः कुतो व्यथा । नाहं बालो न वृद्धोहं न युवैतानि पुद्गले ॥ जीवोन्यः पुद्गलश्वान्य इत्यादि ॥ ९७ ॥
परायत्तेन दुःखानि बाढं सोढानि संसृतौ ।
त्वयाऽद्य स्ववशः किञ्चित् सहेच्छनिर्जरां पराम् ।। ९८ ॥ टीका-त्वया समाधिसाधनोद्यतेन भवता बाढमत्यर्थ सोढानि अनुभूता नि कानि, दुःखानि ।क, संसृतौ अनादिसंसारे। किंविशिष्टेन सता, परायत्तेन परवशेन ।. अद्य सम्प्रति प्रत्यासन्नमृत्युसमये सह : साम्यभावनयाऽनुभव । कानि, दुःखानि । कथे, किंचित् स्तोकं अल्पकालं । किं विशिष्ट. सन् , स्ववशः स्वाधीनः । किं कुर्वन, इच्छन् वांछन् निर्जराम्शुभकर्मक्षयं । किविशिष्टां, परां उत्कृष्टामन्त्यां वा अलब्धपूर्वी संवरसहभाविनीम् ।। ९८ ॥
यावद् गृहीतसंन्यासः स्वं ध्यायन संस्तरे बसेः । . तावनिहन्याः कर्माणि प्रचुराणि क्षणे क्षणे ॥ ९९ ॥ 'टीका-यावत् यावन्तं .कालं, गृहीतसंन्यासः प्रतिपन्नभक्तप्रत्याख्यानस्त्वं स्वमात्मानं ध्यायन्नेकाग्रतया चिन्तयन् संस्तरे प्रस्तर वसेस्तिष्ठेस्तावत् तावन्तं कालं क्षणे क्षणे प्रचुराणि कर्माणि निहन्या नियतमवश्यं क्षपयेः ।९९
पुरुषायान बुभुक्षादिपरीषहजये स्मर।
घोरोपसर्गसहने शिवभूतिपुरःसरान् ॥ १० ॥ • टीका-किं च बुभुक्षादिपरीषहजये कर्तव्ये स्मर चिन्तय त्वं । कान्, पुरुषायान् वृषभदवादीन् । तथा घोरोपसर्गसहने कर्तव्ये शिवभूतिप्रभृतीन स्मर ॥ १०० ॥ . . . . . अचेतनकृतोपसर्गसहने दृष्टान्तः
तृणपूलबृहत्पुञ्ज संक्षोभ्योपरि पातिते । । वायुभिः शिवभूतिः स्वं ध्यात्वाऽभूदाशु केवली ॥ १०१॥
Page #251
--------------------------------------------------------------------------
________________
अष्टमोध्यायः।
२४७
टीका-अभूत्सम्पन्नः । कोऽसौ, शिवभूतिः शिवभूतिसंज्ञो मुनिः । किविशिष्टः, केवली केवलज्ञानी। कथं, आशु सद्यः । किं कृत्वा, ध्यात्वा प्रणिधाय । कं, स्वमात्मानं । व सति, तृणपूलबृहत्पुञ्ज लोके गंजी इति प्रसिद्ध । किविशिष्टे, पातिते । कैः, वायुभिः । क, उपरि उपरिष्टात् । किं कृत्वा, संक्षोभ्य समन्तादितस्ततः क्षोभयित्वा संचाल्य ।। १०१ ॥ मनुष्यकृतोपसर्गसहनोपाख्यानमिदम्
न्यस्य भूषाधियाङ्गेषु संतप्ता लोहशृङ्खलाः। .. द्विट्पक्ष्यैः कीलितपदाः सिद्धा ध्यानेन पाण्डवाः । १०२॥ टीको-सिद्धाः परममुक्तिं गताः । के, ते पाण्डवाः साक्षाद्युधिष्ठिरभीमसेनार्जुनास्त्रयः सिद्धाः। कुलसहदेवो त्वसाक्षात् सर्वार्थसिद्धयादिजन्मनोः व्यवधानात् । केन, ध्यानेन शुद्धस्वात्मप्रसंख्यानेन । किंविशिष्टा: संतः, कीलि. तपदा: लोहकीलकैर्भूम्या सह यत्रितपादाः । कैः, द्विट्पक्ष्यैः द्विषां कौरवाणां पक्षे भवैः तद्भागिनेयादिभिः । किं कृत्वा, न्यस्य निक्षिप्य । काः, लोहशङ्खलाः। किविशिष्टाः, तप्ता ज्वलज्ज्वालीकृताः। केषु, अङ्गेषु पाण्ड. वानां कण्ठादिप्रदेशेषु । कया, भूषाधिया भूषणकल्पनया । युष्मान् हेमाभरणानीमानि परिदापयाम इति कथयित्वेत्यर्थः ॥ १०२॥ तिर्यक्कृतोपसर्गसहनोदाहरणमिदम्शिरीषसुकुमाराङ्गः खाद्यमानोतिनिर्दयम् ।
शृगाल्या सुकुमारोसून विससर्ज न सत्पथम् ॥ १०३ ॥ " टीका-विससर्ज त्यक्तवान् । कोऽसौ, सुकुमारः सुकुमारस्वामी । कान, असून प्राणान् न पुनः सत्पथं शुद्धस्थात्मध्यानरूपं सिद्ध्युपायं विससर्ज । किं क्रियमाणः, खाद्यमानो भक्ष्यमाणः । कया, गाल्या जम्बुकस्त्रिया। कथम्, अतिनिर्दयं प्रकामनिष्कृपं । किविशिष्टः सन् , शिरीषसुकुमाराङ्गः शिरीषकुसुमसमानकोमलकायः ॥ १०३ ॥ .. .
Page #252
--------------------------------------------------------------------------
________________
२१८
सागारधर्मः
सुरकतोपसर्गसहने निदर्शनमिदम् - तीनदुःखैरतिकुद्धभतारूवरितस्ततः ।
भग्नेषु मुनिषु प्राणानौज्मद्विघुवरः स्वयुक ॥१०४॥ टीका-ओमत्त्यजति स्म।.कोऽसौ, विद्युञ्चरः । कान, प्राणान् । किविशिष्टः सन् . स्वयुक् आत्मानं समादधानः । केषु सत्सु, मुनिषु तपोधनेषु । किंविशिष्टेषु, भमेषु प्रपलायितेषु । क, इतस्ततः यत्र तत्र । कैः, तीबदुःखैः नितान्तासघबाधाभिः । किविशिष्टः, अतिक्रुद्धभूतारब्धैः अत्यन्तकुपिताधमन्यन्तरोपक्रान्तः ॥ १०४ ॥ ____अचेन्नृतिर्यग्देवोपसृष्टासंक्लिष्टमानसाः।
सुसत्त्वा बहवोऽन्येऽपि किल स्वार्थमसाधयन् ॥ १०५ ।। टीका-किल भागमे घेवं श्रयते । सुसत्त्वा महासात्त्विका अन्येऽपि शिवभूत्यादिभ्योऽपरेपि, बहवो भूयांसः, स्वार्थ पुरुषार्थ प्रकरणान्मोक्षलक्षणमसाधयन् निष्पादितवन्तः । कथम्भूता भूत्वा, अचेदित्यादि। अचेतोऽचेतनाः पृथिव्यादयः, नरो मनुष्याः, तिर्यको तैर्यग्योना, देवाः सुराः अचेतश्च नरश्च तिर्यञ्चश्व देवाश्च अचेन्नृतिर्यग्देवास्तैरुपसृष्टाः कृतोपसर्गास्ते च ते असंक्लिष्टमानसाश्च रागद्वेषमोहानाविष्टचेतसः शुद्धस्त्वात्मध्यानपरिणताः अचेन्नृतिर्यग्देवोपसृष्टासंक्लिष्टमानसाः ॥ १०५ ॥
तत् त्वमप्यङ्ग सङ्गत्य निःसङ्गेन निजात्मना।
त्यजाङ्गमन्यथा भूरिभवक्लेशैर्लपिष्यसे ॥ १०६ ॥ टीका-अंग अहो महात्मन् । यत एवं महानुभावैर्मुमुक्षुभिर्भगवच्छिवभूतिप्रभृतिभिरत्यन्तविनिपातोपनिपातेऽपि स्वार्थः साधितस्तत्तस्मात्त्वमपि भवानपि त्यज मुश्च। किं तत्, अझं देहं । किं कृत्वा, सनत्य संयुज्य। केन सह, निजात्मना आत्मीयेन नित्येन वा चिद्रूपेण । किंविशिष्टेन, निःसङ्गन कर्मविविक्तेन । अन्यथा अन्येन सक्लेशावेशप्रकारेण अनत्यागे ग्लपिष्यसे
Page #253
--------------------------------------------------------------------------
________________
अष्टमोध्यायः ।
२१९
विक्लवीकरिष्यसे त्वं । कैः कर्तृभिः, भरिभवक्लेशः प्रचुरसंसारदुःखैः । उक्तंच 'विराद्धे मरणे देव दुर्गतिर्दूरबोदिता । अनन्तश्चापि संसारः पुनरप्यागमिष्यति । ॥ १०६ ॥
श्रद्धा स्वात्मैव शुद्धः प्रमदवपुरुपादेय इत्याजसी दृक् । तस्यैव स्वानुभूत्या पृथगनुभवनं विग्रहादेश्व संवित् ॥ सत्रैवात्यन्ततृप्त्या मनसि लयमितेऽवस्थितिः स्वस्य चर्या ।
स्वात्मानं भेदरत्नत्रयपरपरमं तन्मयं विद्धि शुद्धम् ॥१०७॥ टीका- किं च उपदिश्यते सद्गुरुभिः। कासौ, दृक् दृष्टिः । किंविशिष्टा, आंजसी पारमार्थिकी । किं, श्रद्धा अभिनिवेशः । कथं, भवति । कोऽसौ, स्वात्मैव न परात्मा । किविशिष्टः, शुद्धो द्रव्यभावकमरहितः । पुनः किंविशिष्टः, प्रमदवपुरानन्दरूपः । किंविशिष्टो भवति, उपादेयो मुमुक्षूणामुपेयः । इत्येवंरूपा श्रद्धैव निश्चयसम्यक्त्वमाख्यायते । तथा संविदांजसी निश्चयज्ञानं सद्गुरुभिरुपदिश्यते । किं, अनुभवनमनुभूतिः । कस्य, तस्यैव शुद्धप्रमदवपुम्त्वेनोपादीयमानस्य स्वात्मन एव । कथं, पृथग भेदेन ! कस्माद्, विग्रहादेः कायवाङ्मनस्त्रयात् । कया, स्वानुभूत्त्या स्वसवित्त्या । तथा सद्गुरुभिराजसी चर्या निश्चयचारित्रं चोपदिश्यते । किं, अवस्थितिरवस्थानं । कस्य, स्वस्यात्मनः । क, तत्रैव तथाप्रतीयमानेऽनुभयमाने स्वात्मन्येव । क सति, मनस्यन्तःकरणे। किंविशिष्टे, इते गते प्राप्ते । कं, लयं तन्मयीभावं । क, तत्रैव । कया, अत्यन्ततृप्त्या अतिमात्रवैतृष्ण्येन । उक्तं च-दर्शनमात्मविनिश्चितिरात्मपरिज्ञानमिष्यते बोधः । स्थितिरात्मनि चारित्रं कुत एतेभ्यो भवति बन्धः ॥ २ ॥ तन्मयं तेन निश्चयरत्नत्रयेण निर्वतं तदात्मकं स्वात्मानं, परम शुद्धं परमप्रकर्षशुद्धि प्राप्त । अहो भेदरत्नत्रयपर व्यवहाररत्नत्रयप्रधान आराधकोत्तम विद्धि जानीहि संवेदय ॥ १०७ ॥
Page #254
--------------------------------------------------------------------------
________________
सागारधर्मः ।
"
मुहुरिच्छामणुशोऽपि प्राणिहत्य श्रुतपरां श्रुतद्रव्ये | स्वात्मनि यदि निर्विघ्नं प्रतपसि तदसि ध्रुवं तपसि ॥ १०८ ॥ टीका - तथा यदि चेत् प्रतपसि दीप्यसे त्वं । क्क, स्वात्मनि । कथं, निर्विघ्नं निप्प्रत्यूह । किं कृत्वा प्रिहत्य प्रकर्षेण नियतं हत्वा । कां, इच्छां कांक्षां । क, परद्रव्ये पुद्गलादौ । किंविशिष्टां, अणुशोऽपि स्वरूपामपि । किंविशिष्टः सन्, मुहुरसकृत् श्रुतपरः श्रुतज्ञानभावना परिणतो भवन्नित्यर्थः । तदा निश्चितं तपसि अव्याहतं स्फुरसि त्वं क, तपसि तरःसंज्ञे साक्षान्मोक्षोपाये | आभ्यां निश्चयाराधनाचातुर्विध्यमुपदि प्रतितव्यं ॥ १०८ ॥ इदानीं व्यवहारेतराराधना साध्यमा नपरमानन्दलामा विप्करणलक्षणेनाशीर्वादानेन क्षपके निर्यापकाचार्य: प्रोल्लासयन्नाह - नैराश्यारब्धनैः संग्य सिद्धसाम्यपरिग्रहः । निरुपाधिसमाधिस्थः पिनानन्द सुधारसम् ।। १०९ ॥ टीका - भोः सुविहितशिरोरत्न पत्र उपर्युश्व त्वं । के, आनन्दसुधारसं प्रमोदपीयूपनियस । किंविशिष्टः सन् निरुपाधिसमाधिस्थः निरुपाधिनिर्विशेषो ध्यातध्यानध्येयविकल्पशून्यः समाधियोगो निरुपाधिसमाधिस्तत्र स्थितः । कथम्भतो भूत्वा नैराश्येत्यादि । नैराश्येन जीवितधनाद्याकांक्षानिग्रहेणाब्धमुपक्रान्तं नै संभ्यं बहिरङ्गान्त ङ्गपरिग्रहनिष्क्रान्तत्वं तेन सिद्धो निष्पन्नः साम्यपरिग्रहः परमसामायिकस्वीकारो यस्य स तथोक्तः ॥ १०९ ॥
,
1
साम्प्रतमध्यायार्थमशेषमुपसंगृह्णन्नाराधन्स्याराधनासहितमरणफल विशेषमु
पदिशति
२५०
संलिख्येति वपुः कषायवदलङ्कमणनिपकन्यस्तात्मा श्रमणस्तदेव कलयेल्लिंगं तदीयं परः । सद्रत्नत्रयभावनापरिणतः प्राणान् शिवाशाधरFree पञ्चमस्क्रियास्मृति शिवी स्यादष्टजन्मान्तरे ॥११०॥
Page #255
--------------------------------------------------------------------------
________________
अष्टमोध्यायः ।
२५१
"
टीका - शिवी स्यादशिवः शिवः सम्पद्यते परममुक्तो भवेदित्यर्थः । कोसौ. शिवाशाधरः मोक्षायाभिलाषभृन्मुमुक्षुरित्यर्थः । किं कृत्वा त्यक्वा । कान् प्राणान् । किंविशिष्टः सन् सदित्यादि । सत्या यथागुणस्थानं सम्भवत्या रत्नत्रयभावनया निश्चयरत्नत्रयाभ्यासेन परिणतो योगी चरमसमयवर्ती समुच्छिन्न क्रियाप्रतिपातिशुक्लध्यानारूढः । किं कुर्वन्, कल्यन् धारयन् ! किं तत्, लिङ्गं निरूपतां । किं तदेव पूर्वगृहीतमौत्सर्गिकमेव । किमाख्योसौ, श्रमणः श्रमण इति व्यपदेशभाक् । कथंभृतो भूत्वा, अलंकर्मी निर्यापकन्यस्तात्मा कर्मणे प्रकृतत्वात्संसारार्णव निस्तारणलक्षणाय अलं समर्थोलंकमणः निर्यापको व्यवहारेण सुस्थिताचार्यो निश्चयेन तु शुद्धस्वात्मानुभूतिपरिणामोन्मुख आत्मैव तस्यैव दुःखाद् दुःखहेतोर्वात्मनो निष्कासकत्वोपपत्तेः 1 यदाह - स्वस्मिन्सदभिलाषित्वादभीष्टज्ञायकत्वतः । स्वयं हितप्रयोक्तृत्वादात्मैव गुरुरात्मनः ॥ १ ॥ अलंकमणश्चासौ निर्यापकश्च अलंकर्मी निर्या पकस्तत्र न्यस्तो निक्षिप्तः समर्पित आत्मा येन स तथोक्तः । किं कृत्वा संलिख्य सम्यक् कृशीकृत्य । किं तंत्, वपुः शरीरं । किंवत्, कषायवत् कषायान् शरीरं च बाह्याभ्यंतरतपोभिम्तनुकृत्य । कथं, इत्येवमुक्तप्रकारेण । एतदुत्कृष्टाराधनापक्षे व्याख्यानं ॥ मध्यमाराधनापक्षे संप्रति व्याख्यायते श्रमणोनगारः शिवाशाधरो मुमुक्षुः सन् तदेव लिङ्गमा चेलक्यादिचतुर्विकल्पं क्लयन् सत्यां समीचीनायां संबरसहभाविपापकर्मनिर्जरासमर्थायां रत्नत्रयभावनायां सम्यग्दर्श नादिरत्नत्रयाभ्यासे परिणत उपयुक्तः सन् प्राणांस्त्यक्वा शिवी स्यात् शिवमन्द्रादिपदप्राप्तिलक्षणो भ्युदयः । शिवमस्यास्तीति शिवी अर्श आदेरित्यनेन मत्त्वर्थीयः अः प्रत्ययः । शेषं पूर्ववद् व्याख्येयं । ऐदयुगीनापेक्षया जघन्याराधनापक्षे तदेवेत्थं व्याख्येयं श्रमणः प्राख्याख्यातार्थ विशेषणविशिष्टः पंचनमस्क्रियायां पंचनमस्कारे स्मृतिः चिंता उच्चारणं यत्र तत्पंचनम स्त्रियास्मृति यथा भवत्येवं प्राणांस्त्यक्त्वा शिवी स्यात् । क, अष्टजन्मांतरे अष्टानां भवान
"
1.
Page #256
--------------------------------------------------------------------------
________________
२५२
सागारधर्मः ।
मध्ये उत्कृष्टमध्यमजयन्याराधनानुभवादन विभागः कर्तव्यः । तथा चागमः । कालाई अहिऊण च्छित्तूणं अट्ठकम्मसंखलयं । केवलणाणपहाणा केई सियति तमि भवे ॥१॥ आराहिऊण केई चउन्विहाराहणावि जं सारं । उव्वरियसेसपुण्णो सव्वणिवासिणो होति ॥२॥ जेसिं होज्ज जहण्णा चउव्विहाराहणा हु भवियाणं । सत्तठ्ठभवे गंतुं ते विय पावंति णिव्वाणं ॥३॥ अपि च-येपि जघन्या तेजोलेश्यामाराधनामुपनयंति । तेपि च सौधर्मादिषु भवंति देवाः सुकल्पस्थाः॥१॥ अथवा-ध्यानाभ्यासप्रकर्षण त्रुट्यन्मोहस्य योगिनः। चरमांगस्य मुक्तिः स्यात्तदैवान्यस्य च क्रमात् ॥ १ ॥ तथा ह्यचरमांगस्य ध्यानमभ्यस्यतः सदा । निर्जरा संवरश्च स्यात्सकलाशुभकर्मणां ॥ २ ॥ आस्रवति च पुण्यानि प्रचुराणि प्रतिक्षण । यैर्महद्भिर्भवत्येष त्रिदशः कल्पवासिषु ॥ ३ ॥ तत्र सर्वेन्द्रियाह्लादि मनसः प्रीणनं परं ।। सुखामृतं पिबन्नास्ते सुचिरं सुरसेवितः ॥ ४ ॥ ततोवतीर्य म]पि चक्रव
ादिसंपदः । चिर भुक्त्वा स्वयं मुक्त्वा दीक्षां दैगंबरीं श्रितः ॥५।। वज्रकायः स हि ध्यात्वा शुक्लध्यानं चतुर्विधं । विधूयाष्ट च कर्माणि श्रयते मोक्षसंपदम् ॥६॥ तदेतच्छ्रमणधर्मधारिणः प्रति फलमुपदिष्टं, तदितरान् प्रति पुनरिदमुपदिश्यते । तदीयं पर इत्यस्य ब्याख्यानेन परः श्रावकोन्यो वा सदृष्टिस्तदीयं श्रमणसंबंधि लिंगं कलयन् पंचनमस्क्रियास्मृति प्राणांस्त्यक्त्वा शिवी स्यादिति संबंधः । शेषं पूर्ववत् यथास्व विकलव्य व्याख्येयं ॥ यत् स्वामी-खरपानहापनामपि कृत्वा कृत्वोपवासमपि शक्त्त्या । पंचनमस्कारम-. नास्तनु त्यजेत्सर्वयत्नेन ॥ इति भद्रम् ॥ ११० ॥
इत्याशाधरविरचितायां स्वोपशधर्मामृतसागारधर्मटीकायां
भव्यकुमुदचन्द्रिकासंज्ञायामादितः सप्तदशः प्रक्रमाचाष्ठमोऽध्यायः समाप्तः ॥ ८॥
Page #257
--------------------------------------------------------------------------
________________
अथ प्रशस्तिः ।
श्रीमानस्ति सपादलक्षविषयः शाकंभरीभूषणस्तत्र श्रीरतिधाम मण्डलकरं नामास्ति दुर्ग महत् । श्रीरत्न्यामुदपादि तत्र विमलव्याघ्रेरवालान्वयाच्छ्रीसलक्षणतो जिनेन्द्रसमय श्रद्धालु शाधरः || १ ॥ श्रीमान त्रिवर्गसंपत्तियुक्तः । शाकंभरी लवणाकरविशेषः । श्रीरतिधाम लक्ष्मीक्रीडागृहं श्रीरत्न्यां रत्नीति कविमातुः संज्ञा । उदपादि उत्पन्नः ॥ १ ॥ सरस्वत्यामिवात्मानं सरस्वत्यामजीजनत् ॥
यः पुत्रं छाहडं गुण्यं रञ्जितार्जुनभूपतिम् ॥ २ ॥ व्याघ्रैरवालवरवंशसरोजहंसः काव्यामृतौघरसपानसुतृप्तगात्रः । सल्लक्षणस्य तनयो नयविश्वचक्षुराशाधरो विजयतां कलिकालिदासः ३ स्पष्टं ।
इत्युदयसेनमुनिना कविसुहृदा योभिनन्दितः प्रीत्या । प्रज्ञापुञ्जोसीति च योभिमतो मदनकीर्तियतिपतिना ४ स्पष्टं । म्लेच्छेशेन सपादलक्षविषये व्याप्ते सुवृत्तक्षतित्रासाद्विन्ध्यनरेन्द्रदोः परिमलस्फूर्जत्रिवर्गौजसि । प्राप्तो मालवमण्डले बहुपरीवारः पुरीमावसन् यो धारामपठज्जिनप्रमितिवाकशास्त्रे महावीरतः ॥ ५ ॥ म्लेच्छेशेन साहिवुदीनतुरुष्कराजेन । सुवृत्तक्षतिः सदाचारनाशः | दो:परिमलः परिमलो लक्षणावृत्त्या बलं बाहुबलातिशय इत्यर्थः । ओज उत्साहोsन्तः सारो बा । जिनप्रमितिवाकशास्त्रे जैनेंद्रप्रमाणशास्त्र जैनेंद्रव्याकरणं च । महावीरतः वादिराजपण्डितश्री मद्धरसेनशिप्यात्पण्डितमहावीरात् ॥ ५॥ आशारत्वं मयि विद्धि सिद्धं निसर्गसौदर्यमजर्यमार्यं । सरस्वतीपुत्रतया यदेतदर्थे परं वाच्यमयं प्रपञ्चः ॥ ६ ॥
Page #258
--------------------------------------------------------------------------
________________
२५४
सागारधर्मः
अजय मैत्री सरस्वतीपुत्रतया निसर्गसौदर्य प्रकृत्या सहोदरत्वं ॥ ६ ॥ इत्युपश्लोकितो विद्वद्विल्हणेन कवींशिना।।
श्रीविन्ध्यभूपतिमहासान्धिविग्रहिकेण यः॥ ७॥ इति उपश्लोकितः श्लोकेनोपस्तुतः । श्रीविंध्यभूपतिः विजयवर्मा नाम मालवाधिपतिः ॥ ७॥
श्रीमदर्जुनभूपालराज्ये श्रावकसंकुले । जिनधर्मोदयार्थ यो नलकच्छपुरेऽवसत ।। ८ । स्पष्टं । यो द्राग्व्याकरणाब्धिपारमनयच्छुश्रूषमाणान्न कान् सत्तीपरमास्त्रमाप्य न यतः प्रत्यर्थिनः केऽक्षिपन् । चेरुः केऽस्खलितं न येन जिनवाग्दीपं पथि ग्राहिताः पीत्वा काव्यसुधां यतश्च रसिकेप्यापुः प्रतिष्ठां न के ॥९॥ कान, पंडितदेवचंद्र दीन प्रत्यर्थिनः प्रतिवादिनः । के, वादींद्रविशालकीर्त्यादयः अक्षिान् जयति स्म | चेरुः प्रवृत्ताः । के, भट्टारकदेव विनयभद्रादयः। अस्खलितं निरतिचारं । जिनवाक् अर्हत्यवचनं । पथि मोक्षमार्गे ग्राहिताः स्वीकारिताः । रसिकेषु सहृदयविदग्धेषु मध्ये । आपुः प्राप्ताः । के, बालसरस्वतीमहाकविमदनादयः ॥ ९ ॥
स्याद्वादविद्याविशदप्रसादः प्रमेयरत्नाकरनामधेयः । तर्कप्रबन्धो निरवद्यविद्यापीयूषपूरो वहति स्म यस्मात् ॥१०॥ सिद्धयत भरतेश्वराभ्युदयसत्काव्यं निबन्धोज्ज्वलं यस्त्रैविद्यकवीन्द्रमोहनमयं स्वश्रेयसेरीरचत् । योऽर्हद्वाक्यरसं निबन्धरुचिरं शास्त्रं च धर्मामृतं निर्माय न्यदधान्मुमुक्षुविदुषामानन्दसान्द्रे हृदि ॥ ११ ॥ सिद्धयंक सिद्धिः सिद्धशब्दोऽङ्कश्चिन्हं सर्गप्रांतवृत्तेषु यत्य तत्। निबंयोज्ज्वलं स्वयंकृतनिबंधनेन स्फुटप्रतिभास । अरीरचत् रचयति स्म । अर्हद्वा
Page #259
--------------------------------------------------------------------------
________________
प्रशस्तिः ।
२५५
क्यरसं जिनागमनिर्यासभूतं निबंधरुचिरं । स्वयंकृतज्ञानदी पिकाख्यपंजिकया रमणीयं धर्मामृतं धर्मामृताख्यं न्यदधात् स्थापयति स्म ॥ ११ ॥
आयुर्वेदविदामिष्टां व्यक्तं वाग्भटसंहिताम् ।
अष्टाङ्गहृदयोद्योतं निवन्धमसृजच्च यः ॥ १२ ।। व्यक्तुं प्रकटीकर्तु । वाग्भटसंहितां अष्टांगहृदयनाम्नीं ॥ १२ ॥
यो मूलाराधनेष्टोपदेशादिषु निबन्धनम् ।। व्यधत्तामरकोशे च क्रियाकलापमुज्जगौ ॥ १३ ॥ आदिः आराधनासारभूपालचतुर्विशतिस्तवनाद्यर्थः । उज्जगो उत्कृष्ट कृतवान् ॥ १३ ॥
रौद्रटस्य व्यधात्काव्यालङ्कारस्य निबन्धनम् ।
सहस्त्रनामस्तवन सनिबन्धं च योहताम् ।। १४ ॥ रौद्रटस्य रुद्रटाचार्यकृतस्य । अहेतां अनंतजिनानां ॥१४॥
सनिबन्धं यश्च जिनयज्ञकल्पमरीरचत् ।
त्रिषष्टिस्मृतिशास्त्रं यो निबन्धालंकृतं व्यधात् ॥ १५ ॥ सनिबन्धं स्वयंकृतेन जिनयज्ञकल्पदीपकाख्येन निबन्धेन सहित जिनयज्ञकल्पं जिनयज्ञकल्पाख्यं जिनप्रतिष्ठाशास्त्रं अरीरचत् निर्मितवान् । त्रिषष्टिस्मृतिशास्र आर्षमहापुराणशास्त्रोद्धतत्रिषष्टिशलाकापुरुषवृत्तगोचरं त्रिषष्टिस्मृतिसंज्ञ संक्षिमशास्त्रं । निबन्धालङ्कृतं स्वयंकृतनिबन्धेन भूषितं ॥ १५ ॥
योहन्महाभिषेका_विधि मोहतमोरविम् ।
चक्रे नित्यमहोद्योतं स्नानशास्त्रं जिनेशिनाम् ॥ १६ ॥ नित्यमहोद्योतं नित्यमहोद्योताख्यं ॥ १६ ॥
रत्नत्रयविधानस्य पूजामाहात्म्यवर्णनम । रत्नत्रयविधानाख्यं शास्त्रं वितनुते स्म यः ॥ १७ ॥ सोऽहमाशाधरो रम्यामेतां टीकां व्यरीरचम् ।
धर्मामृतोक्तसागारधर्माष्टाध्यायगोचराम् ॥ १८ ॥ धर्मामृतोक्ताः म्वकृतधर्मामृताख्यशास्त्रे निगदिताः ॥ १८ ॥ .
Page #260
--------------------------------------------------------------------------
________________ 256 सागारधर्मः / प्रमारवंशवाधीन्दुदेवपालनृपात्मजे / श्रीमज्जैतुगिदेवेऽसिस्थेम्नाऽवन्तीमवत्यलम् // 19 // भसिस्थेम्ना खड्गजलेन अवति रक्षति सति।। 19 // नलकच्छपुरे श्रीमन्नेमिचैत्यालयेसिधत् / टीकेयं भव्यकुमुदचन्द्रिकेत्युदिता बुधैः / / 20 // असिधत् सिद्धा // 20 // षण्णवद्वथेकसंख्यानविक्रमाकसमात्यये / सप्तम्यामसिते पौषे सिद्धेयं नन्दताचिरम् // 21 // समाः संवत्सराः 1296 वर्षे पौषवदि सप्तमी तत्र दिने इत्यर्थः // 21 श्रीमान् श्रेष्ठिसमुद्धरस्य तनयः श्रीपोरपाटान्वयव्योमेन्दुः सुकृतेन नन्दतु महीचन्द्रो यदभ्यर्थनात् / चके श्रावकधर्मदीपकमिमं ग्रन्थं बुधाशाधरो ग्रन्थस्यास्य च लेखितो मलभिदे येनादिमः पुस्तकः // 22 // स्पष्टं अलमतिप्रसङ्गेन // 22 // यावत्तिष्ठति शासनं जिनपतेश्छि दानमन्तस्तमो यावच्चार्क निशाकरौ प्रकुरुतः पुंसां दृशामुत्सवम् / तावत्तिष्ठतु धर्मसूरिभिरियं व्याख्यायमानानिशं भव्यानां पुरतोऽत्र देशविरताचारप्रचारोद्धरा // 23 // इत्याशाधरविरचिता स्वोपज्ञधर्मामृतसागारधर्मटीका भव्यकुमुदचन्द्रिकानाम्नी समाप्ता। ग्रंथसंख्या / अनुष्टुप्छन्दसां पञ्चशताग्राणि सतां मता। सहस्राण्यस्य चत्वारि ग्रन्थस्य प्रमितिः किल / / 24 // अङ्काग्रतो ग्रन्थप्रमाण 4500 / शुभं भवतु लेखकपाठकयोः॥२४: ॥समाप्तोऽयं ग्रंथः // १-प्रबोधोद्धुरा इति च पाठः /