SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ चतुर्थोध्यायः। ११५ तद्विरुद्धस्य च सहायो भवति तदा अस्या तिचारः स्यात् । सोमदेवपंडितस्तु मानन्यूनत्वाधिकत्वेन द्वावतीचारौ मन्यमान इदमाह- मानवन्न्यूनताधिक्ये तेन कर्म ततो ग्रहः । विग्रहो संग्रहोर्थस्यास्तेयस्यैते निवर्तकाः ॥ ५० ॥ अथ स्वदारसन्तोषाणुव्रतस्वीकारविधिमाह__ प्रतिपक्षभावनैव न रती रिरंसारुजि प्रतीकारः । इत्यप्रत्ययितमनाः श्रयत्वहिंस्रः स्वदारसन्तोषम् ॥ ५१ ॥ टीका-श्रयतु स्वीकरोतु । कोऽसौ, अहिंस्रः ईषद्धिंसनशीलोऽणुव्रती। कं, स्वदारसन्तोषं स्वदारेषु स्वभार्यायां स्वदारैर्वा सन्तोषो मैथुनसञ्ज्ञावेदनाशान्त्या देहमनसोः स्वास्थ्यापादनं । किंविशिष्टः सन्, अप्रत्ययितमनाः प्रत्ययो विश्वासः प्रत्ययः संजातोऽस्येति प्रत्ययितं न प्रत्ययितमप्रत्ययितं मनो यस्यासावप्रत्ययितमना असञ्जातविश्वासचित्त इत्यर्थः । कथं, इति अनेन सदुपदेशप्रकारेण । तमेव दर्शयति-भवति। कोऽसौ, प्रतीकारः प्रशम_ नोपायः। कम्यां रिरंसारुजि योन्यादौ रन्तुमिच्ारूपायां वेदनायां । किं प्रतीकारः, प्रतिपक्षभावनैव ब्रह्मचर्यस्य प्रागुक्तविधिना पुनश्चेतसि सन्निवेशनमेव । न पुनर्भवति तत्र प्रतीकारः । किं, रतिः स्त्रीसम्भोगः ॥ ५१ ॥ म्वदारसन्तोषिणं व्याचष्टे सोऽस्ति स्वदारसन्तोषी योऽन्यस्त्रीप्रकटस्त्रियौ । न गच्छत्यंहसो भीत्या नान्यैर्गमयति त्रिधा ॥ ५२ ॥ टीका-अस्ति भवति । कोऽसौ, स गृहाश्रमी। कीदृशः, स्वदारसंतोषी स्वदारेषु निजधर्मपन्यां सन्तुष्यति मैथुनसञ्ज्ञां प्रतिचिकीर्षयन् भजतीत्येवंव्रतः । स्वदारेषु सन्तोषोऽस्यास्तीति वा । यः किं, यो न गच्छति न भजति। के, अन्यस्त्रीपकटस्त्रियौ अन्यस्त्री परदाराः परिगृहीता अपरिगृहीताश्च । तत्र परिगृहीताः सस्वामिका अपरिगृहीता स्वैरिणी प्रोषितभर्तृका कुलाङ्गना वा अनाथा । कन्या तु भाविभर्तकत्वात्पित्रा दिपरतन्त्रत्वाद्वा सनाथेत्यन्यस्त्रीतो न विशिष्यते । प्रकटस्त्री वेश्या । अन्यस्त्री च प्रकटस्त्री च अन्यस्त्रीप्रकटस्त्रियौ। ते द्वे अपि यो न भजति । कया, भीत्या भयेन। कस्मात् , अंहसः पा--
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy