________________
११४
सागारधर्मः ।
उन्मानं । मानं च तुला च मानतुलं, अधिकं च हीनं चाधिकहीनं तच्च तन्मानतुलं च, अधिकमानं हीनमानं, अधिकतुला हीनतुला चेत्यर्थः । तत्र न्यूनेन मानादिनाऽन्यस्मै ददाति, अधिकेनात्मनो गृह्णातीत्येवमादिकूटप्रयोगो हीनाधिकमानोन्मानमित्यर्थः । प्रतिरूपकव्यवहृतिः-प्रतिरूपकं सदृशं वीहीणां पलंजि. घृतस्य वसा, हिङ्गोः खदिरादिवेष्टस्तैलस्य मूत्र, जात्यसुवर्णरूप्ययोर्युक्तसुवर्णरूप्ये, इत्यादिप्रतिरूपकेण व्यवहृतिर्व्यवहारो व्रीह्यादिषु पलंज्यादि प्रक्षिप्य तद्विक्रयणं । एतद् द्वयं परधनग्रहणरूपत्वाद्भङ्ग एव। केवलं खात्रखननादिकमेव चौर्य प्रसिद्धं । मया तु वणिक्कलेव कृतेति भावनया व्रतरक्षणोद्यतत्वादतिचार एवेति । _ विरुद्धराज्येप्यतिक्रमः । अपिः समुच्चये। विरुद्ध, विनष्टं विगृहीतं वा राज्य राज्ञः पृथ्वीपालनोचितं कर्म विरुद्धराज्यं छत्रभङ्गःपराभियोगो वेत्यर्थः । तत्रातिका उचितन्यायादन्येनैव प्रकारेणार्थस्य दानग्रहणं । विरुद्धराज्येल्पमूल्यलभ्यानि महाया॑णि द्रव्याणि इति प्रयततः । अथवा विरुद्धयोराद्राज्ञो राज्यं नियमिता भूमिः कटकं वा विरुद्धराज्यं तत्र । षष्टीसप्तम्योरर्थ प्रति भेदाभावात् । तस्यातिक्रमो व्यवस्थालंघनं । व्यवस्था च परस्परविरुद्धराजकत्वे एव । तल्लंघनं चान्यतरराज्यनिवासिन इतरराज्ये प्रवेशः । इतरराज्यनिवासिनो वा अन्यतरराज्ये प्रवेशः । विरुद्धराज्यातिक्रमस्य च यद्यपि स्वस्वामिनोननुज्ञातस्यादत्तादानलक्षणयोगेन तत्कारिणां च चौर्यदण्डयोगेन चौर्यरूपत्वाद्रतभङ्ग एव, तथापि विरुद्धराज्यातिक्रमं कुर्वता मया वाणिज्यमेव कृतं न चौर्य मिति भावनया व्रतसापेक्षत्वाल्लोके च चोरोयमिति व्यपदेशाभावादति चारता स्यात् । अथवा चोरप्रयोगादयः पञ्चाप्येते व्यक्तचौर्यरूपा एव । केवलं सहकारादिना वा प्रकारेण क्रियमाणास्तेतिचारतया व्यादिश्यन्ते । न चैते राज्ञा तत्सेवकादीनां वा न सम्भवन्तीति वाच्यम् । यतः प्रथमो द्वितीयः स्पट एव । तृतीयस्तुर्यश्च यदा राजा भाण्डागारे हीनाधिकमानोन्मानं द्रव्याणां विनिमयं च कारयति तदा राज्ञोप्यतिचारौ स्तः । विरुद्धराज्यातिक्रमस्तु यदा सामन्तादिः कश्चित् स्वस्वामिनो वृत्तिमुपजीवति