________________
चतुर्थोध्यायः ।
११३
मेदिनीपतिः राजा । कीदृशः, दायादः साधारणः स्वामी । कस्य, धनस्य । कीदृशस्य, अस्वामिकस्य स्वामिरहितस्य । क, इह लोके ॥ ४८ ॥ स्वामिसांशयिके स्वधनेऽपि नियमं कारयन्नाह
स्वमपि स्वं मम स्याद्वा न वेति द्वापरास्पदम् ।।
यदा तदाऽऽदीयमानं व्रतभङ्गाय जायते ॥ ४९ ॥ टीका- जायते सम्पद्यते । किं तत्, स्वमपि स्वं आत्मीयमपि द्रव्यं । कस्मै, व्रतभङ्गाय अचौर्यव्रतभङ्गं करोतीत्यर्थः । किं क्रियमाण, दीयमानं आकारप्रश्लेषादादीयमानं च । कदा, तदा तस्मिन् काले । यदा यस्मिन् काले भवति । किं तत, स्वमपि त्वं । किंविशिष्टं, द्वापरास्पदं संशयस्थानं । कथं कृत्वा, इदं धनं मम स्याद्भवेद्वा न वा स्यादित्येवं ॥ ४९ ॥ अचौर्याणुव्रतातिचारप्रहाणार्थमाह
चोरनयोगचोराहतग्रहावधिकहीनमानतुलम् ।
प्रतिरूपकव्यवहृति विरुद्धराज्येऽप्यतिक्रमं जह्यात् ॥ ५० ॥ टीका-जह्यात् त्यजेत् । कोऽसौ, अचौर्याणुव्रती । किं तत् , चोरप्रयोगाद्यतिचारपञ्चकमिति समन्वयः । तत्र चोरप्रयोगः-चोरयतः स्वयमन्येन वा चोरय त्वमिति चोरणक्रियायां प्रेरणं । प्रेरितस्य वा साधु करोषीत्यनुमननं । कुशिकाकर्तरिकाघर्घरिकादिचोरोपकरणानां वा समर्पणं विक्रयणं वा । अत्र च यद्यपि चौर्य न करोमि न कारयामीत्येवं प्रतिपन्नव्रतस्य चोरप्रयोगो व्रतभङ्ग एव तथाऽपि किमधुना यूयं निर्व्यापारास्तिष्ठथ। यदि वो भक्तादिकं नास्ति तदाऽहं तद्ददामि । भवदानीतमोषस्य वा यदि क्रेता नास्ति तदाऽहं विक्रेप्ये इत्येवंविधवचनैश्चौरान् व्यापारयतः स्वकल्पनया तव्यापारणं परिहरतो व्रतसापेक्षस्यासावतिचारः । चौराहतग्रहः-अप्रेरितेनाननुमतेन च चौरेणानीतस्य कनकवस्त्रादेरादानं मूल्येन मुद्रिकया वा । चौरानीतं च काणक्रयेण मुद्रिकया वा पच्छन्न गृहँश्चौरो भवति ततश्चौर्यकरणातभङ्गः। वाणिज्यमेव मया क्रियते न चौरिकेत्यध्यवसायेन व्रतसापेक्षत्वादभङ्ग इति भङ्गाभङ्गरूपोऽतिचारः ॥ अधिकहीनमानतुलं मानं प्रस्थादि हस्तादि च । तुला