SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ अष्टमोध्यायः । तत्साधयति, ध्यानशुद्ध्या ध्यानस्यैकाग्रचिन्तानिरोधस्य शुद्धिगतरौद्रपरित्यागेन स्वात्मन्यवस्थानं निर्विकल्पसमाधिरित्यर्थः । कस्मात्, देहाहारहितत्यागात् देहत्यागः शरीरममत्ववर्जनमाहारत्यागश्चतुर्विधाहारप्रत्याख्यानमीहितत्यागो मनोवाकायव्यापारव्यावर्तनं देहश्चाहारश्च ईहित च देहाहारेहितानि तेषां त्यागस्तस्मात् ॥ १ ॥ ___ कस्य श्रावकत्वेन कम्य च यतित्वेन मोक्षमार्गप्रवृत्तिः कर्तव्येति पृच्छन्तं प्रत्याह सामग्रीविधुरस्यैव श्रावकस्यायमिष्यते । विधिः सत्यां तु सामग्यां श्रेयसी जिनरूपता ॥२॥ टीका-इष्यते अभिमन्यते पूर्वाचार्यैः । कोसौ अयमुक्तो वक्ष्यमाणश्च विधिः क्रियाकल्पः । कम्य, श्रावकस्य । किंविशिष्टस्य, सामग्री विधुरम्यैव जिनलिङ्गग्रहणयोग्यत्रिस्थानदोषादियुक्तस्य नान्यस्य । सामां तु सत्यां भवति । काऽसौ, जिनरूपता जिनलिङ्गग्रहणं । किं विशिष्टा, श्रेयसी प्रशस्यतरा ॥ २ ॥ जिनलिङ्गस्वीकारकारणमाह किश्चित्कारणमासाद्य विरक्ताः कामभोगतः । त्यक्त्वा सर्वोपधिं धीराः श्रयन्ति जिनरूपताम् ॥ ३॥ टीका-श्रयन्ति स्वीकुर्वन्ति । के ते, धीराः श्रावकाः परीषहोपसर्गसहने बद्धकक्षाः । कां, जिनरूपतां : किं कृत्वा, त्यक्त्वा व्युत्सृज्य । कं, सर्वोपधिं बाह्याभ्यन्तरसङ्गं । किंविशिष्टाः सन्तः, विरक्ता व्यावृत्तचेतसः । काभ्यां, कामभोगत: कामः स्पर्शनासनविषयानुभवः भोगो ब्राणचक्षुःश्रवणविषयानुपः कामञ्च भागश्च कामभोगौ ताभ्यां। किं कृचा, आसाद्य प्राप्य । किं, कारणं । किविशिष्ट, किञ्चित् तत्त्वज्ञानेप्ववियोगशत्रुपराजयादीनामन्यतमम् ॥ ३ ॥
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy