SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ २.०८ सागारधर्मः । सुम्यग्भावयन् । कां, विरतिं हिंसाविनिवृत्तिं किंविशिष्टां,आपवादिकी यतीनामपवादहेतुत्वादपवादो ग्रन्थस्तत्र भवां । पुनः किंविशिष्टां, चित्रां नानाप्रकारां । कथम्, इत्येवमुक्तप्रकारेण ॥ ६० ॥ साधकत्वं व्याकर्तुकामस्तत्स्वामिन निर्दिशति इत्येकादशधाऽऽम्नातो नैष्ठिकः श्रावकोऽधुना। सूत्रानुसारतोऽन्त्यस्य साधकत्वं प्रवक्ष्यते ॥ ६१ ॥ टीका—इत्येवं नैष्ठिकश्रावक एकादशवाऽस्माभिराम्नातः पारम्पर्योपदेशेन वर्णितः । अधुना साम्प्रतमित ऊर्ध्व प्रवक्ष्यते प्रकर्षण वर्णयिष्यते अस्माभिः। किं तत् ,साधकत्वं तृतीय साधनाख्यं पदं । अंत्यस्योद्दिष्ट विरतस्य श्रावकस्य । कस्मात् , सूत्रानुसारतः परमागममनुसृत्येति भद्रम् ६२ ॥ इत्याशावरविरचितायां स्वोपशधर्मामृतसागारधर्मटीकायां भव्यकुमुदचन्द्रिकासंज्ञायामादित: षोडशः प्रक्रमाच सप्तमोऽध्यायः समाप्तः ।। ७ ।। अथाष्टमोऽध्यायः। अथ सल्लेखना विधिमभिघातुकामस्तत्प्रयोक्तारं लक्षयन्नाह देहाहारेहितत्यागात् ध्यानशुद्धयाऽऽत्मशोधनम् । ___ यो जीवितान्ते सम्प्रीतः साधयत्येप साधकः ॥ १॥ टीका-भवत्येष साधकः । यः किं, यः साधयति निर्वतयति । किं तत्, आत्मशोधनं आत्मनोऽन्तस्तत्त्वस्य शोधनं शुद्धि मोहरागद्वेषापगमं रत्नत्रयपरिणतिमित्यर्थः । क्व, जीवितान्ते प्राणनाशे प्राणेषु नश्यस्वित्यर्थः । किंविशिष्टः सन्, सम्प्रीतः सर्वाङ्गीणध्यानसमुत्थानन्दयुक्तः । कया
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy