________________
षष्ठोध्यायः ।
२०७
कथं, इति । किमिति, अवश्यं नियमेन करिष्ये विधास्येऽहं । कां, सल्लेखनां बाह्याभ्यन्तरतपोभिः सम्यक्कायकषायकृशीकरणमाचारं । किंविशिष्टां मारणांतिकीं मरणमेवान्तो मरणान्तः तद्भवमरणमित्यर्थः तत्र भवां । केन विधिना शास्त्रोक्तविधानेन ॥ ५७ ॥
सहगामि कृतं तेन धर्मसर्वस्वमात्मनः ।
समाधिमरणं येन भवविध्वंसि साधितम् ।। ५८ ।।
टीका - तेन पुंसा कृतं । किं तत्, आत्मनः स्वस्य धर्मसर्वस्वं व्यवहारनिश्चयरत्नत्रयं । किंविशिष्टं, सहगामि आत्मना सह भवान्तरगन्त । येन किं, न साधितं निर्वर्तितं । किं तत्, समाधिमरण रत्नत्रयैकाग्रतया प्राणत्यागः । किंविशिष्टं भव विध्वंसि संसारनिर्मूलनशीलं ॥ ५८ ॥
,
-
यत्प्रागुक्तं मुनीन्द्राणां वृत्तं तदपि सेव्यताम् । सम्यङ् निरूप्य पदवीं शक्ति च स्वामुपासकैः ॥ ५९ ॥ टीका — प्राक् चतुर्थाद्यध्यायषट्के । मुनींद्राणां महामुनीनां । यद्वृत्तं समि तगुप्त्याद्याचरणमुक्त तदपि न केवलं संसेव्यतामनुष्ठीयतां । केः, उपासकैः श्रावकैः । किं कृत्वा, सम्यङ् निरूप्य अविपरीतं पर्यालोच्य । कां स्वामामीयां पदवीं संयमभूमिकां शक्तिं च वीर्य ॥ ५९ ॥
1
प्रकृतमुपसंहरन्नौत्सर्गिक हिंसानिवृत्तिं प्रति देशयति प्रयुक्ते--- इत्यापवादिकीं चित्रां स्वभ्यस्यन्विरतिं सुधीः । कालादिलब्धौ क्रमतां नवधौत्सर्गिकीं प्रति ॥ ६०॥
. टीका - मतामुत्सहतां । कोऽसौ, सुधीः तत्वज्ञानसम्पन्नः श्रावकः । कथं, प्रति उद्दिश्य । कां, विरतिं । किंविशिष्टां, औत्सर्गिकीं उत्कृष्टं सर्जनमुत्सर्गः सर्वसंगत्यागः तत्र भवामौत्सर्गिकीं । कतिधा, नवधा मनोवाक्कायैः प्रत्येकं कृतकारितानुमतानां त्यागेन नवप्रकारां । कस्यां कालादिलब्धौ कालदेशबलवीर्यसहायसाधनादिसामम्यां सत्यां । किं कुर्वन्, स्वभ्वस्यन