________________
२०६
सागारधर्मः
अज्ञानरात्रिः । तथा नाप्नोति न लभते । काऽसौ, कृपामृतसरित् अनुकम्पापीयूषनदी। किं, स्खलितं प्रवृत्तिप्रतिबन्ध । तथा नोदेति नोद्भवति। कोऽसौ, दैन्यज्वरः देन्यं विषादो ज्वर इव देहमनस्तापहेतुत्वात् । तथा न विस्निह्यन्ति न विरज्यन्ति । काः, सम्पदः श्रियः । तथा नासूत्रयन्ति नारचयन्ति । का, आपदो विपदः । कां, दृशमपि किं पुनरालिंगनादिकम् ॥ ५४ ॥
स्वाध्यायमुत्तमं कुर्यादनुप्रेक्षाश्च भावयेत् ।।
यस्तु मन्दायते तत्र स्वकृत्ये स प्रमाद्यति ॥ ५५ ।। टीका-कुर्याच्छ्रावकः। कं, स्वाध्यायं । किंविशिष्टं, उत्तम अध्यात्मादि. विद्याविषयं प्रकृष्टशक्तिपर्यंत च । तथा भावयेत् अभ्यस्येत् । काः, अनुप्रेक्षाः अनित्यत्वादिभावना द्वादश - चशब्दादर्शनविशुद्ध्या दिभावनाश्च षोडश । यस्तु यः पुनस्तत्र स्वाध्यायादौ मन्दायते अलसो भवति स प्रमाद्यति नावधत्ते नोत्सहत इत्यर्थः । क्व, स्वकृत्ये आत्मकार्ये ॥ ५५ ॥
धर्मान्नान्यः सुहृत्पापानान्यः शत्रुः शरीरिणाम् ।
इति नित्यं स्मरेन्न स्यान्नरः संक्लेशगोचरः ।। ५६ ॥ टीका-नरः पुमान् । संक्लेशगोचरो रागद्वेषमोहविषयो न स्यात् रागादिभिर्नाभिभूयत इत्यर्थः। किं कुर्वन, इत्येवं । नित्यं सन्ततं । स्मरन् ध्यायन्। कथमित्याह-नास्ति । कोऽसौ, सुहृत् । किंविशिष्टः, अन्यः । कस्मात्, धर्मात् धर्म एवोपकर्तेत्यर्थः । तथा पापादन्यो नास्ति शत्रुरधर्म एवापकर्तेत्यर्थः । केषां, शरीरिणां देहिनां ॥ ५६ ॥
सल्लेखनां करिष्येऽहं विधिना मारणान्तिकीम् ।
अवश्यमित्यदः शीलं सन्निध्यात्सदा हृदि ॥ ५७ ॥ टीका-सन्निध्यात् संयोजयेत् । श्रावकः । किं तत्, एतत्सल्लेखनाख्य शीले । हृदि चित्त । कथे, सदा पश्चिमसल्लेखनां नित्यं भावयेदित्यर्थः ।