________________
सागारधर्मः ।
आकांक्षन्संयमं भिक्षापात्रप्रक्षालनादिषु । स्वयं यतेत चादर्पो परथाऽसंयमो महान् ॥ ४४ ॥
टीका - स चादर्पो विद्या तिशयाद्यनाहितमदः सन् स्वयं यतेतात्मना यत्नं कुर्यात् । क, भिक्षेत्यादि भिक्षापात्रस्य प्रक्षालनं धावनमादौ येषामासनस्थापनोच्छिष्टत्यजनादीनां तानि भिक्षापात्रप्रक्षालनादीनि कर्माणि तेषु । किं कुर्वन्, आकांक्षन् अभिलषन् । कं, संयमं प्राणिरक्षणं । अपरथा अन्यथा शिष्यादिना तद्विध ने भवत्यसंयमः । कीदृशो, महान् भूयान् ॥ ४४ ॥ ततो गत्वा गुरूपान्तं प्रत्याख्यानं चतुर्विधम् । गृह्णीयाद्विधिवत्सर्वं गुरोश्वालोचयेत्पुरः || ४५ ||
टीका - ततः प्रकृतकर्म करणानन्तरं । गुरोर्धर्माचार्यस्योन्तंपा समीपं गत्वा गृह्णीयात्स्वीकुर्यात् सः । किं तत् चतुर्विधं चतुर्विधाहारविषयं । प्रत्याख्यानं नियमं । कथं, विधिवत् यथाविधि । तथा आलोचयेत् निवेदयेत्सः । किं तत्, सर्वं गमनात्प्रभृति स्वचेष्टितं । क्क, पुराऽग्रे । कस्य, गुरोः ॥ चशब्दागोचरीं प्रतिक्रमणां कुर्यात् ॥ ४५ ॥
•
एवमनेकभिक्षानियमस्य प्रथमोत्कृष्टस्य भोजनविधिमुक्त्वा सम्प्रति तस्यैवैकभिक्षा नियमस्य तदुपदिशति -
२०२
यस्त्वेकभिक्षानियमो गत्वाऽद्यादनुमुन्यसौ ।
भुक्त्यभावे पुनः कुर्यादुपवासमवश्यकम् ॥ ४६ ||
टीका - यस्तु प्रथमोत्कृष्टो भवति । कीदृशः, एकस्या मे कगृह संबंधिन्यां भिक्षायां नियमः प्रतिज्ञा यस्य स एकभिक्षानियमः । असावद्यात् भोजनं कुर्यात् । किं कृत्वा, गत्वा दातृगृहं व्रजित्वा । कथं, अनुमुनि संयतस्य पश्चात् । एतेन प्रथमोत्कृष्टो द्वेधा स्यादनेक भिक्षानियम एक भिक्षानियमश्चेत्युक्तं प्रतिपत्तय्यं । स पुनः कुर्यात् । के, उपवासं । कथं, अवश्यकं नियमेन । क सति, भुक्त्यलाभे सति तथाभोजनस्याप्राप्तौ ॥ ४६ ॥