SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ सागारधर्मः। हारनिश्चयरूपं रत्नत्रयं । कानिव, जिनानिव अर्हतो यथा । कुत इत्याह-यद्य स्मात् । वर्तनो। के ते, अपि सिद्धसाधुधर्माः किंविशिष्टाः, लोकोत्तमाः लोकेषूत्कृष्टाः, तथा शरणमातिहरणमपायपरिरक्षणोपाया इत्यर्थः । तथा मङ्गलं पापापहाः पुण्यप्रदाश्च । किंवत्, तद्वत् जिनवत् ॥ ४२ ॥ ___ सकलपूज्यपूजाविधिप्रकाशनेनानुग्राहिकायाः सम्यक्श्रुतदेवतायाः पूजायां सज्जयन्नाह - यत्प्रसादान जातु स्यात् पूज्यपूजाव्यतिक्रमः । तां पूजयेज्जगत्पूज्यां स्यात्कारोड्डमरां गिरम् ॥ ४॥ टीका-पूजयेच्छ्रेयोऽर्थी यजेत। कां, तां गिरं श्रुतदेवतां । किंविशिष्टां, स्यात्कारोड्डुमरां स्यात्पदप्रयोगेण सर्वथैकान्तवादिभिरजय्यां। पुनः किंविशिष्टां जात्पूज्यां विश्वलोकानामा यत्प्रसादात् यम्या अनुग्रहात् न स्यात् न भवेत् । कोऽसौ, पूज्यपूजाव्यतिक्रमः पूज्यानां अर्ह सिद्धसाधुधर्माणां पूजायां व्यतिक्रमो यथोक्तविधिलंघनं । कथं, जातु कदाचिदपि ॥ ४३ ॥ श्रुतपूजकाः परमार्थतो जिनयूजका एवेत्युपदिशति ये यजन्ते श्रुतं भक्त्या ते यजन्तेऽञ्जसा जिनम् । न किश्चिदन्तरं प्राहु-राप्ता हि श्रुतदेवयोः ॥ ४४ ॥ टीका-यजन्ते पूजयन्ति। के ते, पुमांसः । कं, जिनं । केन, अञ्जसा पर मार्थेन । ये किं, ये यजन्ते । किं तत् , श्रुतं । कया, भक्त्या । हि यस्मात् । न पाहुः न ब्रुवन्ति । के ते, आप्ता: गुरवः । किं तत् , अन्तरं भेदं । कयोः. श्रुतदेवयोः प्रवचनपरमात्मनोः । कीदृशं, किञ्चित् यदेव श्रुतं स एव देवो य एव च देवस्तदेव श्रुतमित्यर्थः ।। ४४ ॥ ___ एवं देवपूजाविधि संक्षपेणोपदिश्य साक्षादुपकारकत्वेन गुरूणामुपासने नित्यं नियुङ्क्ते उपास्या गुरवो नित्य-मप्रमत्तः शिवार्थिभिः । तत्पक्षताक्ष्यपक्षान्तःश्वरा विघ्नोरगोत्तराः ॥ ४५ ॥ . टीका-उपास्याः सेव्याः । के ते, गुरवः धमोराधनायां प्रयोक्तारः । कैः, शिवार्थिभिः परमकल्याणकामैः । किविशिष्टैः, सद्भिरप्रमत्तैः प्रमादरहितैः।
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy