________________
: षष्ठोध्यायः ।
१७९
टीका-लब्ध प्राप्तं तन्मया कलत्रसंपदा दिकं । यत् किं, यल्लब्धव्यं प्राप्तव्यं मया धन्यैर्वा । क्व, इह नृजन्मनि गृहाश्रमे वा। यत एवं कृतार्थोऽस्मि तत्तस्मात्पिबेयं अध्यात्ममनुभवेयं अहं । किं तत्, साम्यपीयूपं सर्वत्र समत्वममृतमिव । किं कृत्वा, मथित्वा अभ्यस्य विलोड्य च । कं, श्रामण्यमहोदधिं श्रमणानां यतीनां कर्म मूलोत्तर गुणाचरणलक्षणं श्रामण्यं महोदधिरिव अनर्ग्यरत्नोत्पत्तिनिमित्तत्वात् दुरवगाहत्वात् दुर्गमपारत्वाच्च । इयमत्र भावना-यथा किल सुरासुरैः क्षीरोदधिं विलोड्य तत उद्धृतममृतं पीतमिति श्रूयते तथा श्रामण्यं भावयित्वा उपेक्षालक्षणं चारित्रमहमात्मनि परिणमयितुमर्हामि । कीदृश द्वयमपि, परदुर्लभ परैर्जिनमार्गानभिज्ञैः सुरासुरभिन्नैश्च लोकैलब्धुमशक्यं जिनसमयामिज्ञैरपि वा परमत्यर्थं दुर्लभं कतियैरेव तैरपि प्राप्यमित्यर्थः ॥ ४० ॥ तदेव भूयो भावयति
पुरेऽरण्ये मणौ रेणौ मित्र शत्रौ सुखेऽसुखे। . जीविते मरणे मोक्षे भवे स्यां समधीः कदा ॥४१॥ टीका-कदा कस्मिन्काले। स्यां भवेयं भवितुमर्हाम्यहं भविष्यामीति वा। किंविशिष्टः, समधीः तुल्यमनाः। क क, पुरे प्रीतिकारणे चातुर्वण्यसम
यधिष्ठाननगरे । तथा तद्विपरीते अरण्ये अटव्यां। एतयोर्द्वयोरपि रागद्वेषनिवन्धनयोरुपेक्षापरिणतः कदा भविष्यामीत्यर्थः । एवमुत्तरत्रापि योज्यं । तथा मणौ वज्रादिरत्ने. रेणौ रजसि। तथा मित्रे सुहृदि शत्रौ चापकर्तरि। तथा सुखे आल्हादनाकारे असुखे च दुःखे देहमनस्तापरूपे । तथा जीविते पुरुषार्थसिद्धिहेतावायुषि मरणे च तद्विपरीते। तथा मोक्षे अनन्तसुखस्वरूपे भवे च तद्विपरीते । अयमत्र विशेषः-पुरारण्यादिषु तुल्यमतित्वमन्यस्यापि भवेत् । असौ तु परमवैराग्योपगतो मोक्षभवयोरपि निर्विशेषमति त्वमर्थयते । मोक्षे भवे च सर्वत्र निस्पृहो मुनिसत्तम ' इति श्रुतेः ॥४१॥