________________
१८०
• सागारधर्मः।
यतिधर्मचर्याकाष्ठाधिरोहणमाशंसतिमोक्षोन्मुखक्रियाकाण्डविस्मापितबहिर्जनः ।
कदा लप्स्ये समरसस्वादिनां पंक्तिमात्मदृक् ॥४२॥ टीका-कदा कस्मिन्काले । लप्स्ये प्राप्स्याम्यहं । कां, पंक्तिं लक्षणया सजातीयत्वं । केषां, समरसस्वादिनां समरस ध्यातृध्येयध्यानानामेकीभावे सत्यानन्द स्वादयन्त्यभीक्ष्णं भूयोभूयोऽनुभवन्तीति समरसस्वादिनो घटमानयोगा निष्पन्नयोगा वा मुमुक्षवः समरसस्वादिनस्तेषां । किविशिष्टः सन् , आत्मदृक् आत्मदर्शी भवन् । कथंभूतो भूत्वा, मोक्षोन्मुखेत्यादि-मोक्ष अनन्तज्ञानादिचतुष्टयाविर्भावस्वभावे निःश्रेयसि उन्मुखा अभिमुखा उद्यतास्तेषां क्रियाकाण्डगुरुकुलोपासनक्लेशातापनादियोगकायक्लेशादि तेन विस्मापितोऽनन्यसम्भाव्यतया विस्मयं नीतो बहिर्जनो बहिरात्मलोको येन स तथोक्तः ॥४२॥ योगपरमकाष्ठामभिकांक्षति
शून्यध्यानकतानस्य स्थाणुबुद्ध्याऽनडुन्मृगैः । उघृष्यमाणस्य कदा यास्यन्ति दिवसा मम । ४३ ॥ टीका-कदा कस्मिन् योगाभ्याससमये । यास्यन्ति गमिप्यन्ति । के, दिवसा अहोरात्राः । कम्य, मम तत्त्वज्ञानवैराग्यसम्पन्नस्य । किंविशिष्टस्य सतः, शून्यध्यानैकतानस्य निर्विकल्पसमाधिपरिणतस्य । पुनः किं क्रियमाणस्य,उद्धृष्यमाणस्य स्कन्धशृङ्गकण्डूयनगोचरीक्रियमाणस्य । कैः,अनडुन्मृगे: अनड्वाहः उत्कृष्टपशवः मृगा अरण्यचारिणो हरिणा: अनड्वाहश्व मृगाश्च अनन्मृगास्तैः। कया, स्थाणुबुद्ध्या स्थाणुः सीमाद्यर्थ ऊर्ध्वस्थितकाष्ठविशेषः स्थाणुरिति बुद्धिः कल्पना स्थाणुबुद्धिस्तया । यदा हि पुरादहिरहं कायोत्सर्गेण स्थास्यामि तदा स्वैरचारिणो वृषभादयः स्कन्धादिकण्डूत्याकुलितास्तकण्डूयनाय मां स्थाणुरयमिति मन्यमानाः स्कन्धादिभिरुघर्षिष्यन्ति । एव