SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ षष्ठोध्यायः। १८१ मरण्ये हरिणादयोऽपि । अहं पुनः पुरारण्ययोर्मुक्ताग्रहत्वेन तिष्ठन् शुद्धचिदानन्दमयं खात्मानमेवाधिवत्स्यामीति मनोरथोऽस्य महात्मनो लक्ष्यत इति॥४३॥ महानिशायां पुराबहिः प्रोषधोपवासव्रतान् कायोत्सर्गस्थितानुपसर्गजयेन योगादचलितान् प्राच्यश्रावकान् प्रशंसयति धन्यास्ते जिनदत्ताद्या गृहिणोऽपि न येऽचलन् । तत्तागुपसर्गोपनिपाते जिनधर्मतः ॥ ४४ ॥ टीका-वर्तन्ते । के, ते प्रसिद्धाः जिनदत्ताद्याः जिनदत्तो नाम श्रेष्ठी आद्यः प्रथमो येषां वारिषेणकुमारादीनां ते जिनदत्ताद्याः प्रोषधोपवासनतिनः। किंविशिष्टाः, धन्या सुकृतिनः तेभ्योऽहं स्पृहयामीत्यर्थः। ये किं, ये नाचलन न चलिताः । कस्मात्, जिनधर्मतः जिनोक्ताजिनसेविताद्वा सामायिकात् । किंविशिष्टाः मन्तो, गृहिणो द्वितीयाश्रमिणः । किं पुनरुत्तराश्रमिण इत्यपिशब्दार्थः । क सति, तदित्यादि । ते श्रुतप्रसिद्धास्तादृशोऽनन्यसदृशा उपसर्गाः शस्त्रप्रहारादयस्तेषां उप समीपे निपतनं नियतमवश्यम्भावि पतनं तत्तागुपसर्गोपनिपातस्तस्मिन् ॥ ४४ ॥ व्रतिकप्रतिमामुपसंहरंस्तदनुष्ठायिनः फलविशेषमाह इत्याहोरात्रिकाचारचारिणि व्रतधारिणि । __ स्वर्गश्रीः क्षिपते मोक्षश्रीर्षयेव वरस्रजम् ॥ ४५ ॥ टोका-क्षिपते मुंचति। काऽसौ, स्वर्गश्रीः यथास्वं सौधर्मादिकल्पलक्ष्मीः। कां, वरस्रजं वरोऽभिमतः पतिर्वरणं वा तत्स्वीकरण वरार्था स्रक माला वरनक् तां वरमालामित्यर्थः । क, व्रतधारिणि व्रतानि प्रागुक्तानि धारयत्यात्मनि निरतिचारतया स्थिरीकरोत्यभीक्ष्णमिति व्रतधारी व्रतिकपतिमारूढः श्रावकस्तस्मिन् । किंविशिष्टे, इत्येवमुक्तप्रकारेण । आहोरात्रिकमहोरात्रभवमाचार ब्राह्ममुहूर्तोत्थानादिकं चरत्यनुतिष्ठतीत्येवंशीलस्तच्चारी तस्मिन् । अत्रोत्प्रेक्षामाह-मोक्षश्रीर्षयेवेति । मोक्षश्रियामीर्षाऽक्षान्तिर्मोक्षश्रीर्षा तया । इयमत्र
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy