________________
१७८
सागारधर्मः।
टीका-गलति क्षीयते एकदेशेनापगच्छति । किं तत्, आयुः भवधारणकारणं कर्म । क, क्षणे क्षणे प्रतिक्षणं । तथा हसति देशतश्यवति । कोऽसौ, कायः शरीरं । कस्मात्, सौष्ठवात् स्वार्थक्रियाकरणसामर्थ्यात् । क्षणे क्षण इत्यत्रापि योज्यं । नुर्वितर्के। किमर्थ-तत्कमीहे वाञ्छाम्यहं । कां, जरां सर्वोगशक्तिक्षपणलक्षणां विसंसां । किं वा-मृत्यु निःशेषायु:क्षयलक्षणं मरणं । किंविशिष्टां, सध्रीची आत्मनः सहायभूतां . कस्यै, स्वार्थसिद्धये स्वाभिप्रेतार्थनिष्पत्त्यर्थ । पुरुषार्थसाधकेष्वायुः कायश्च प्रधानं कारण । तच्च प्रतिक्षण विशरारुतया निश्चितं चेत्सर्वथा पुरुषार्थभ्रशहेतुतया प्रसिद्धाभ्यां जरामयुभ्यां तत्संभाव्येतेति वक्रमणित्या चोदयति ॥ ३८ ॥ __ जिनधर्मसेवासहचारिणीरापदोऽभिनन्द्य तद्विरहभाविनीः सम्पदोऽपि प्रतिक्षिपन्संगत्यागे दाय भावयति
क्रियासमभिहारोऽपि जिनधर्मजुषो वरम् ।
विपदां सम्पदां नासौ जिनधर्ममुचस्तु मे ॥ ३९ ॥ टीका-वरं भवतु सोऽपि श्लाघ्य इत्यर्थः । कोऽसौ, क्रियासमभिहारः पौनःपुन्यं भृशत्वं वा । वरं सकृद्भवनं मंदत्वं चेत्यपिशब्दार्थः । कासां. विपदां शारीरमानसदुःखानां परिषहोपसर्गाणां वा । कस्य, मे मम । किंविशिष्टस्य सतो, जिनधर्मजुषः जिनोक्त जिनानुष्ठित वा धर्म शुद्धचिदानंदरूपात्मपरिणतिलक्षण प्रीत्या सेवमानस्य । न तु न पुनर्वरं । कोऽसौ, असौ क्रियासमभिहारः । कासां, संपदा सर्वेन्द्रियार्थसुखसाधनानां विभूतीनां कस्य, मे। किंविशिष्टस्य सतो, जिनधर्ममुचो यथोक्तजिनधर्मरहितस्य ॥३९॥ श्रमणकर्माभ्यासेन अन्यगम्यं सर्वत्र साम्य कामयते--
लब्धं यदिह लब्धव्यं तच्छ्रामण्यमहोदधिम् । मथित्वा साम्यपीयूष पिबेयं परदुर्लभम् ॥ ४० ॥