________________
षष्ठोध्यायः ।
यस्मद् भवति । कोऽसौ, धनग्रहः दविणार्जनरक्षणावर्धनाभिनिवेशो धनस्वी. कारो वा । किंविशिष्टो, मृतमण्डनकल्पः मृतस्य मण्डनमिव । क, स्त्रीनिरीहे स्त्रियां निःस्पृहे । यथा मृतकशरीरे क्रियमाणं मण्डनं तद्भोक्तुरभावान्निष्फलं तथा स्त्रिया दिविषयविमुखम्य परिगृह्यमाणं धन मिति भावः । धनस्य हि विषयसुखसाधनं फल-वेन प्रसिद्ध । तत्र च कामिन्य आलम्बनविभावत्वेन मुख्याः सौधोद्यानादयश्चोद्दीपनावभावत्वेन गौणाः । यस्य च नास्ति स्त्रियामभिलाषस्तस्य किमितरविषयरिति ॥ ३६॥ एवं निर्वेदं भावयतः परमसामायिकभावनार्थ सप्तश्लोकीमाह
इति च प्रतिसन्दध्यादुद्योगं मुक्तिवर्मनि ।
मनोरथा अपि श्रेयोरथाः श्रेयोऽनुबन्विनः ।। ३७॥ टीका-प्रतिसन्दध्यात् पुन संयोजदेदसौ। कं, उद्योगमुत्साहं । के, मुक्तिवर्मनि मोक्षमार्गे । कथं, इति वक्ष्यमाणेन प्राणकायबला स्थिरत्वाद्यनुचिन्तनलक्षणन प्रकारेण । चः समुच्चये । न केवलं संसारादिनिर्वेदं तथा भावयेदित्थं मोक्षमार्गेऽभियोग च प्रतिसन्दध्यादित्यर्थः । अनाचरणतो मनोरथाः स्वप्नराज्यसमाः इति विप्रतिपन्नं बोधयितुमिदमाह-यतो भवन्ति । के, मनोरथाः अशक्यप्राप्त्यर्थविषयाभिलाषाः । किं पुनस्तदर्थानुष्ठानप्रवृत्तय इत्यपिशब्दार्थः । कीदृशा भवन्ति. श्रेयोऽनुबन्धिनो भवे भवे अभ्युदयसम्पादिनः प्रभृतपुण्यबन्धनत्वात् । किमाश्रितास्ते तथा भवन्तीत्याह-श्रेयोरथाः श्रेयो निःश्रेयसं रथः स्यदनो येषां ते श्रेयोग्थाः मोक्षारूढा इत्यर्थः। तदुक्तंयत्र भावः शिवं धत्ते द्यौः कियगुरवर्तिनीति ॥ ३७॥
तत्रायु:कायमयत्वाज्जीवितस्य तदपायानुध्यानमुखेनजीवितव्योच्छेदं भावयन्प्रौढ्योक्त्या स्वार्थसिद्धिभ्रंशं भावयति
क्षणे क्षणे गलत्यायुः कायो हसति सौष्ठवात् । ईहे जरां नु मृत्यु नु सधीची स्वार्थसिद्धये ॥ ३८ ॥