________________
सागारधर्मः।
प्राग्गृहे गृहीतं । क, अग्रे । कस्य, तस्य सूरः । किं कृत्वा, अभ्यर्च्य अभिमुख पूजयित्वा। कं, जिनेश्वरं श्रुतं सूरिं च । किं कृत्वा, कृत्वा विधाय । कां, ईर्यापथसंशुद्धिं । कथं, अथ प्रणामपूर्वकपुण्यस्तुतिपाठविशेषप्रदक्षिणीकरणानंतरमिति समन्वयः । अयमत्र विशेषः-ईर्या ईरणं गमनं पन्था मार्गो यस्य तदीर्यापथं संयमविराधनं तस्य संशुद्धिः सम्यक् शोधनं प्रतिक्रमणमित्यर्थः । अभ्यर्च्य " जावरहंताणं भयवंताणं णमोकारं करोमि " इति वचनात् । प्रतिक्रमणानन्तरं नमोहऽद्भय इत्यनेन " जयति निर्जिताशेषसर्वथैकान्तनीतयः । सत्यवाक्याधिपाः शश्वविद्यानन्दा जिनेश्वगः" इत्यादिना वाचनिकनमस्कारेण जलादिपूजाष्टकेन वा अभिसुखं पूजयित्वा । एष क्रमः श्रुतसूर्योरपि यथास्वं कल्भ्यः। स एष जघन्येन वन्दनाविधिः प्रकर्षवृत्याऽस्य. प्रथममेव गृहेऽनुष्ठानोपदेशात् ॥ ११ ॥
ततश्चावर्जयेत्सर्वान्यथाहं जिनभाक्तिकान् ।। व्याख्यातः पठतश्चार्हद्वचः प्रोत्साहयेन्मुहुः ॥ १२ ॥ टीका-ततश्च प्रत्याख्यानप्रकाशनावसानक्रियाकल्पनिवर्तनानन्तरं आवजयेदनुरञ्जयेदसौ । कान, जिनभाक्तिकान् अर्हदेवाराधकान । किंविशिष्टान्, सर्वान् उत्तमादिभेदभिन्नान् । कथं, यथार्ह यथायोग्यप्रतिपत्त्या । तत्र मुनीन्नमोऽस्त्विति आर्यिका वंदे इति श्रावकानिच्छामीत्यादिप्रसिद्धविनयकर्मणोपचरेदित्यर्थः । उक्तं च-अर्हद्रूपे नमोऽस्तु स्याद्विरतौ विनयक्रिया । अन्योन्य क्षुल्लके चार्ह मिच्छाकारवचः सदा ॥ तथा प्रोत्साहयेत् प्रकर्षण उद्योगवतः कुर्यादसौ। कान्, पुरुषान् । किं कुर्वतो, व्याख्यातः पदपदार्थादिसमर्थनलक्षणेन विशेषेण आ शिष्यबोधोत्पत्तेर्वर्णयत उपाध्यायादीनित्यर्थः । किं तद्व्याख्यातः, अर्हद्वचः परमागमयुक्तयागमशब्दागमादिभेदं जिनप्रवचनं । न केवलं व्याख्यातः पठतश्च अधीयानान शिप्यादीनित्यर्थः । कथं, मुहुः पुनः पुनः ॥ १२ ॥