SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ षष्ठोध्यायः। १६३ दिमालानां आदिशब्देन धू।चूर्णादीनां च गंधैरामोदैस्तथा द्वारस्य प्रवेशमुखस्य आदिशब्देन तोरणस्तम्-शिवरादीनां च रूपकैश्चतनाचेतनप्रतिच्छन्दैः। किंविशिष्टः, चित्रैर्नानाप्रकारैविस्मयकरैश्च ।। ८ ॥ क्षालितांघ्रिस्तथवान्तः प्रविश्यानन्दनिर्भरः । __ त्रिः प्रदक्षिणयेनत्वा जिनं पुण्याः स्तुतीः पठन् ॥ ९॥ टीका-प्रदक्षिणयेत् प्रदक्षिणीकुर्यादसौ । कं, जिनं स्थापनार्हन्त । कथं, त्रिस्त्रीन् वारान् । किं कुर्वन्, पठन् निगदन । का:, स्तुतीः स्तवनवाक्यानि । किंविशिष्टाः, पुण्याः ज्ञानसंवेगादिगुणप्रव्यक्तीकरणेन अशुभकर्मनिर्जरणीः पुण्यासवणीश्च । किं कृत्वा, नत्वा त्रिःप्रणम्य जिनं । किंविशिष्टः सन्, आनन्दनिर्भरः प्रमोदपूरितसर्वोगः । किं कृत्वा, प्रविश्य आक्रम्य । किं तत् , अन्तः चैत्यालयमध्यदेश। कथं, तथैव निसहीगिरैव । कथम्भूतो भूत्वा, क्षालितानिः धौतपादः ॥९॥ सेयमास्थायिका सोऽयं जिनस्तेऽमी सभासदः।। चिन्तयन्निति तत्रोचैरनुमोदेत धार्मिकान् ॥ १०॥ टीका-अनुमोदेत साधु इमे अनुतिष्ठन्तीति मनसाऽभिनन्देदसौ । कान् धार्मिकान् धर्म चरतोऽनगारसागारभव्यजनान् । कथमुच्चैरतिशयेन मुहुर्मुहुरित्यर्थः । क्व, तत्र चैत्यालये । प्रदक्षिणीकरणे वा । किं कुर्वन, चिन्तयन परामृशन् । कथं, इति । किमिति, इयं चैत्यालयभूमिः सा आगमप्रसिद्धा आस्थायिका समवसरणभूमिः, तथा अयं प्रतिमार्पितो जिनः स आगमप्र. सिद्धोऽष्टमहाप्रातिहार्यादिविभूतिभूषितोऽर्हन् , अमी आराधकभव्यास्ते आगमप्रसिद्धाः सभासदः सभ्या यत्यादयो द्वादश साक्षादहदेवसेवावहिताः ॥१०॥ ___ अर्यापथसंशुद्धिं कृत्वाऽभ्यर्च्य जिनेश्वरम् । श्रुतं सूरिं च तस्याग्रे प्रत्याख्यान प्रकाशयेत् ॥ ११ ॥ टीका-प्रकाशयेत् प्रतिपादयेदेष महाश्रावकः । किं तत्, प्रत्याख्यानं
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy