________________
पठोध्यायः ।
१६५
स्वाध्याय विधिवत्कुर्यादुद्धरेच विपद्धतान् ।
पक्वज्ञानदयस्यैव गुणाः सर्वेऽपि सिद्धिदाः ॥ १३ ॥ टीका-कुर्यादसौ। कं, स्वाध्यायं श्रुताध्ययनं यथोचितं वाचनादिरूपं वा। किंवत,विधिवत शास्त्रोक्तविधानेन व्यंजनशुद्धयादिलक्षणाष्टविधवचनेन। तथा उद्धरेत् विपदो विमोचयेदसौ । कान्, विपद्धतान् शारीरमानसासातशातितशक्तीन् दीनानित्यर्थः । यतो भवन्ति । के ते, गुणाः काठिन्यत्यागशौर्यसौन्दर्यादयः। किंविशिष्टाः, सिद्धिदा: वाञ्छितार्थसंपादका मुक्तिप्रदा वा । किं केचिन्नेत्याह, सर्वेऽपि निःशेषाः । कस्य, पक्वज्ञानदयस्यैव पुसः ज्ञानं तत्त्वावबोधः दया सर्वपाणिषु करुणा दुःखोच्छित्त्याभिलाषलक्षणा, ज्ञानं च दया च ज्ञानदये, पक्के परिणते सात्मीभूने ज्ञानदये यस्य स पक्कज्ञानदयस्तस्यैव । न तु बहियोतिज्ञानस्य कादाचित्कानुकंपस्य चैवेत्येवशब्दार्थः ॥ १३ ॥ एवं विधेयमाचरणमुपदिश्य निषिद्धं तदुपदेष्टुमाह
मध्येजिनगृहं हास विलास दुःकथां कलिम् ।
निद्रां निष्ठ्यूतमाहारं चतुर्विधमपि त्यजेत् ॥ १४ ॥ टीका-त्यजेदसौ हास्यादीन् सप्त । के, मध्येजिनगृहं जिनगृहमत्र महाआवकापेक्षया सकलश्चैत्यालयः इतरापेक्षया तदेकदेशो गन्धकुटीमात्रं । जिनगृहस्य मध्ये मध्यजिनग्रहं । पारे मध्ये तया वेत्यनेनाव्ययीभावः । हासो हास्य विलासः शृंगारचेष्टाविशेषः । दुःकथा दुष्टा चित्तकालुप्यकारिणी कथा कामक्रोधादिकथा राजादिकथा वा । कलिः कलहः । निद्रा स्वापः । निष्ठ्यूतं मुखश्लेष्मादिनिरसनं । आहारं चतुर्विधं खाद्यस्वाद्यलेह्यपानलक्षणम् ॥१४॥ एवं प्राभातिकं धर्मकर्मोपदिश्यानन्तरविधेयमर्थार्जनादिविधिमभिधत्ते
ततो यथोचितस्थानं गत्वाऽर्थेऽधिकृतान् सुधीः ।
अधितिष्ठद्वयवस्यद्वा स्वयं धर्माविरोधतः ॥ १५ ॥ टीका-ततः प्राभातिकधर्मानुष्ठाननिष्ठापनानन्तरं अधितिष्ठेत् सनाथी