________________
१६६
सागारधर्मः।
कुर्यात् । कोऽसौ, सुधीः लोकद्वयहिताहितवित्रा चतुरः श्रावकः । कान, अर्थेऽधिकृतान् अर्थस्यार्जने रक्षणे वर्द्धने च नियुक्तान् । किं कृत्वा, गत्वा प्राप्य । किं तत्, स्थानं प्रदेशं । किंविशिष्टं, यथोचिंत यद्यद्य यार्थार्जनादियोग्य तत्तत्तेन गम्यमित्यर्थः । वा पक्षांतरे । ताहक्सामग्न्यभावे। पुनः सुधी: स्वयमात्मना अर्थ व्यवस्येत् तदर्जनादौ व्याप्रीयेत् । कस्मात्, धर्माविरोधतः प्रतिपन्नजिनधर्मानुपघातेन । स च राज्ञां दरिद्रेश्वरयोर्मान्यामान्ययोरुत्तमनीचयोश्च माध्यस्थ्येन न्यायदर्शनात् नियोगिनां च राजार्थप्रजार्थसाधनेन, वणिजां च कूटतुलामानादिपरिहारेण, वनजीविकादिपरिहारेण च बोद्धव्यं ॥१५॥ पौरुषस्य वैफल्यसाफल्यादौ विषादहर्षपरिहारार्थमाह
निष्फलेऽल्पफलेऽनर्थफले जातेऽपि पौरुपे।
न विषीदेनान्यथा वा हृष्येल्लीला हि सा विधेः ।। १६ ।। टीका-न विषीदेत् न विषादं गच्छेदसावर्थानुबंधपरः । क्च सति, पौरुषे पुरुषकारे । किंविशिष्ट, जाते निष्पन्ने । कीदृशे, निष्फले चिकीर्षितप्रयोजनवन्ध्ये । तथा अल्पफले सम्भावितार्थलाभान्न्यूनार्थलाभे । तथाऽनर्थफले अनर्थोऽर्थनाशादिलक्षणपुरुषार्थभ्रंशः फलं साध्य यस्य सोऽनर्थफलस्तस्मिन् । अपिः ससुच्चये । न वा हृष्येत् हर्ष गच्छेदसौ । क्व सति, पौरुषे जाते सति। कथं, अन्यथा सफले बहुफलेऽर्थानुबन्धफले पीत्यर्थः । कुत इत्याह-हि यस्मात् वर्तते । काऽसौ, सा पौरुषस्य नैष्फल्यसाफल्या दिजननलक्षणा लीला निरंकुशप्रवृत्तिः । कस्य, विधेः पुरार्जितपापपुण्यकर्मणः ।। १६ ॥ अथ प्राणयात्राविध्यर्थ नवश्लोकीमाह
कदा माधुकरी वृत्तिः सा मे स्यादिति भावयन् ।
यथालाभेन सन्तुष्ट उत्तिष्ठेत तनुस्थितौ ॥ १७ ॥ टीका-ततश्च उत्तिष्ठेत अर्थचिन्तातो विरम्योद्यमं कुर्यादसौ । क, तनु. स्थितौ शरीरस्वास्थ्यानुवृत्तिनिमित्तप्रवृत्तौ । किविशिष्टः सन् . सन्तुष्टः धृति