________________
४८
सागारधर्मः ।
साम्प्रतं पात्राणि तर्पयेदित्यादिपूर्वोद्दिष्टदानादिविधिप्रपञ्चार्थमाह -
पात्रागमविधिद्रव्य-देशकालानतिक्रमात् ।
दान देयं गृहस्थेन तपश्चर्य च शक्तितः ॥४८॥ टीका-देयं दातव्यं । किं तत् , दानं रत्नत्रयानुग्राहकं वस्तु। केन, गृहस्थेन । कस्मात्, पात्राद्यनतिक्रमात् यथापात्रं यथाऽऽगमं यथाविधि यथाद्रव्यं यथादेशं यथाकालं चेत्यर्थः । तथा चर्यमनुष्ठेयं गृहस्थेन। किं तत, तपोऽनश . नादि । कस्मात् , शक्तितः निजसामर्थ्यानुसारेण दानतपसी कुर्यादित्यर्थः।४८॥
सम्यग्दृशो नित्यमवश्यतया विधीयमानयोदनितपसोरवश्यम्भाविन फलविशेषमाह. नियमेनान्वहं किञ्चिद्यच्छतो वा तपस्यतः ।
सन्त्यवश्यं महीयांसः परे लोका जिनश्रितः ॥ ४९ ॥ टीका--अवश्यं निश्चितं । सन्ति भवन्ति । के ते. लोकाः। किंविशिष्टाः, परे जन्मान्तराणीत्यर्थः । किंविशिष्टाः सन्ति, महीयांसः इंद्रादिपदलक्षणाः । कस्य, जिनश्रितः परमात्मानं सेवमानस्य भव्यस्य । किं कुर्वतो, यच्छतो ददतः तपस्यतो वा तपश्चरतः । किं, किञ्चित् यद्वा तद्वा शास्त्रविहितं । केन, नियमेन अवश्यतया । कथ,-मन्वहं दिने दिने ॥ ४९॥ यदर्थ यद्दानं कर्तव्यं तत्तदर्थमाह--
धर्मपात्राण्यनुग्राह्या-ण्यमुत्र स्वार्थसिद्धये ।
कार्यपात्राणि चात्रैव कीत्य त्वौचित्यमाचरेत् ॥ ५० ॥ टीका-अनुग्राह्याणि उपकार्याणि श्रेयोऽर्थिना । कानि, धर्मपात्राणि रत्नत्रयसाधनपगः नराः । किमर्थ, स्वार्थसिद्धये । क्व, अमुत्र परलोके स्वर्गादिसुखसम्पत्यर्थमित्यर्थः । तथा अनुग्राह्याणि । कानि, कार्यपात्राणि त्रिवर्गसाधनसहायाः । कस्य, अत्रैव जन्मनि स्वार्थसिद्धये पुरुषार्थसम्प्राप्तये । तथा आचरेदनुतिष्ठेत् गृही । किं तत्, औचित्यं दानप्रियवचनाभ्यामन्यस्य सन्तोषोत्पादनं । कस्यै कोत्यै यशोऽर्थम् ॥ ५० ॥ । १ वर्यमध्यजघन्यानां पात्राणामुपकारकम् ।
दानं यथायथं देयं वैयावृत्यविधायिना ।।