SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ सप्तमोध्यायः । १९३ भोजनमपि । कि कुर्बन, बिभ्यत् । कस्माद्, अघात्पापात् । किंविशिष्टः सन्, मुमुक्षुः कृत्स्नकर्मविप्रमोक्षमिच्छुः ॥ २२ ॥ अथ परिग्रहविरतं सप्तश्लोक्या व्याचष्ट स ग्रन्थविरतो यः प्राग्त्रतत्रात स्फुरद्धृतिः । नैते मे नाहमेतेषामित्युज्झति परिग्रहान् ॥ २३॥ टीका - स भवति । किमाख्यो, ग्रन्थविरत । यः किं, य उज्झति त्यजति । कान, परिग्रहान् वास्तुक्षेत्रादीन दश । कथ, इति एवं संकल्प्य । न भवन्ति । के, एते वास्तुक्षेत्रादयोऽर्थाः । कस्य, मे मम स्वत्वभोग्यत्वादिना सम्बद्धाः । तथा न भवाम्यहं । कंषां, एतेषां स्वामित्वभोक्तृत्वादीनां सम्बन्धी किंविशिष्टः सन् प्रागित्यादि- प्राचां दर्शनिकादिप्रतिमा विषयाणां व्रतानां संयमविशेषाणां व्रातः सङ्घातः प्रातव्रातः तेन स्फुरन्ती जाग्रती धृतिः सन्तोषो यस्य स तथोक्तः किं च । स्वाचाराप्रातिलोम्येन लोकाचारं प्रमाणयेदिति वचनात्सर्वत्र स्वस्वस्थाना विरोधेनैव पूर्वम्थानानुष्ठान मनुष्ठेयम् ॥ २३ ॥ एतस्य सकलदत्तिमुत्तरप्रबन्धेन व्याचष्टे— अथाय सुतं योग्यं गोत्रजं वा तथाविधम । ब्रूयादिदं प्रशान् साक्षाज्जातिज्येष्ठ धर्मणाम् ॥ २४ ॥ टीका - अथाधिकारे इतः सकलदत्तिरविक्रियत इत्यर्थः । ब्रूयात व्याहरेत् । कोsसौ, प्रशान् प्रशमपरो नवमः श्रावकः । के, सुतं पुत्रं । किंविशिष्ट, योग्य स्वभारक्षमं । किं कृत्वा, आहूय आकार्य । वा अथवा योग्यपुत्राभावे गोत्रज भ्रातृतत्पुत्रादिकं । किंविशिष्ट, तथाविधं योग्यपुत्रतुल्यं । किं ब्रूयात्, इदं वक्ष्यमाणं । कथं, साक्षात् समक्षं । केषां, जातिज्येष्ठसधर्मणां जातो ब्राह्मणत्वादौ ज्येष्ठा मुख्या जातिज्येष्ठास्ते च ते सधर्माणश्च साधर्मिकास्तेषाम् । ताताद्य यावदस्माभिः पालितोऽयं गृहाश्रमः । विरज्यैनं जिहासूनां त्वमद्यार्हसि नः पदम् ॥ २५ ॥ 2
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy