________________
सागारधर्मः ।
टीका-हे तात स्वस्य पोष्यत्वसूचनगर्भ पुत्रादेः प्रियत्वामंत्रणमिदं। पालितो यथाविधि निर्वाहितः । कोऽसौ, अयं प्रस्तुतो गृहस्थाश्रमो गृहस्थाचारः। कैः,अस्माभिः नवमप्रतिमानुष्ठाननिष्ठाभ्युद्यतैः । कथं, अद्ययावत् इदंदिनावधि। अद्य सम्प्रति अर्हसि स्वीकर्तुमुचितोऽसि । कोऽसौ, त्वं । किं तत्, पदं त्रिवगंसारगृहाचारानुवर्तनलक्षण । केषां, नः अस्माकं । किं चिकीर्षुणां, जिहासूनां त्यक्तुमिच्छूनां । कं, एनं गृहाश्रमं । किं कृत्वा, विरज्य भवाङ्गभोगेषु वैराग्यं गत्वा ॥ २५ ॥
पुत्रः पुपूषोः स्वात्मानं सुविधेरिव केशवः ।
य उपस्कुरुते वस्तुरन्यः शत्रुः सुतच्छलात् ।। २६ ॥ टीका-य उत्पन्नः पुनीते वंशं स पुत्र इति वचनात् स पुत्रो भण्यते । यः किं, य उपस्कुरुते गृहादिममत्वच्छेदेनातिशयमादत्ते । कस्य, वस्तुः पितुः । किं चिकीर्षाः, पुपूषोः शोधयितुमिच्छोः । कं, स्वात्मानं स्वचिद्रूपं । क इव कस्येत्याह-सुविधेरित्यादि । यथा उपचक्रे । कोऽसौ, केशवः केशवो नाम श्रीमतीचरस्तत्पुत्रः । कस्य, सुविधेः वृषभनाथस्य पूर्वभवे सुविधिनाम्नो राज्ञः । उक्तं चार्षे-नृपस्तु सुविधिः पुत्रस्नहाद्गार्हस्थ्यमत्यजन् । उत्कृष्टोपासकस्थाने तपस्तेपे सुदुश्चरं । उक्तलक्षणवैपरीत्ये पुत्रस्यापि शत्रुत्वं वक्तुमाह-भवति । कोऽसौ, अन्यः पुत्रः । किंविशिष्टः, शत्रुः शातयिता इष्टविधा तित्वात् । कस्मात्, सुतच्छलात्पुत्रव्याजात् ॥ २६ ॥ उपसंहारमाहतदिदं मे धनं धयं पोष्यमप्यात्मसात्कुरु ।
सैषा सकलदत्तिर्हि परं पथ्या शिवार्थिनाम् ॥ २७ ॥ टीका-यत एवं तत्तस्मात् आत्मसात्कुरु स्वायत्त विधेहि त्वं । किं तत्, इदं वर्तमान मे मम सम्बंधि धनं ग्रामसुवर्णादिकं धर्म्य चैत्यालयपात्र