________________
१९२
सागारधर्मः ।
क्षत्रियाः स्वजीवितविकल्पादनेकभेदा भिद्यन्ते । वानप्रस्था अपरिगृहीतजिनरूपा वत्रखण्डधारिणो निरतिशयतपस्युद्यता भवन्ति । भिक्षवो जिनरूपधारिणो बहुधा भवन्ति । तद्यथा देशप्रत्यक्षवित्केवलभृदिह मुनिः स्यादृषिः प्राप्तऋर्द्धिरारूढश्रेणियुग्मो जिनयतिरेनगारोऽपरः साधुवर्गः । राजा ब्रह्मा च देवः परम इति ऋषिर्विक्रियाऽक्षीणशक्तिप्राप्तो बुद्धयौषधीशो विविधनयपटुविश्ववेदी क्रमेण ॥ १ ॥ तत्क्रियाश्च प्राक्प्रबन्धेनोक्तास्तद्वद्वर्णक्रियाश्च व्याख्याताः ॥ २० ॥
अथारम्भविरतं द्वाभ्यामाह -
निरूढसप्तनिष्ठोऽङ्गिघाताङ्गत्वात्करोति न ।
न कारयति कृष्यादीनारम्भविरतस्त्रिधा ॥ २१ ॥ टीका न करोति न कारयति च कोऽसौ, आरम्भविरतः । कानू कृप्यादीन् कृषिसेवावाणिज्यादिव्यापारान् । न पुनः स्नपनदान पूजाभिघानाद्यारम्भान् । तेषामङ्गिघाताङ्गत्वाभावात् । प्राणिपीडापरिहारेणैव तत्संभवात् । वाणिज्याद्यारम्भादपि तथा सम्भवस्तर्हि विनिवृत्तिर्न स्यादिति चेदे - वमेतत् । कथं, त्रिधा । कस्मात्, अङ्गिघाताङ्गत्वात् प्राणिवध निवन्धनत्वात् । कथम्भृतो भूत्वा निरूढसप्तनिष्ठः निष्ठितप्राक् सप्तप्रतिमासंयमः पुत्रादीन् प्रत्यनुमतेः कदाचिन्निवारयितुमशक्यत्वान्मनोवाक्कायैः कृतकारिताभ्यामेव सावद्यारम्भान्निवर्तते इत्यत्र तात्पर्यार्थः ॥ २१ ॥
एतदेव समर्थयते—
यो मुमुक्षुरघाद्विभ्यत् त्यक्तुं भक्तमपीच्छति । प्रवर्तयेत्कथमसौ प्राणिसंहरणीः क्रियाः ।। २२ ॥ टीका-कथं प्रवर्तयेत् कुर्यात् कारयेच्च । कोऽसौ असावष्टमश्रावकः। काः, क्रियाः । किंविशिष्टाः, प्राणिसंहरणी: जीवघातिकाः । यः किं, य इच्छति वाञ्छति । किं कर्तुं, त्यक्तुं प्रत्याख्यातुं । किं तत्, भक्तमपि प्राणिसंहरणकारणं
3
1