SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ सप्तमोध्यायः । स्तागमा गृहधर्मनिरता भवन्ति । गूढब्रह्मचारिणः कुमारश्रमणाः सन्तः स्वीकृतागमाभ्यासा बन्धुभिर्दुसहपरिषहैरात्मना नृपतिभिर्वा निरस्तपरमेश्वररूपा गृहवासरता भवन्ति । नैष्ठिकब्रह्मचारिणः समधिगतशिखालक्षितशिरोलिङ्गाः तथा भिक्षावृत्तयो देवार्चनपरा भवन्ति । ते किं कुर्युरित्याह-परिगृह्णीयुः। के, ते । कान् , दारान्, पत्नीः । किं कृत्वा, अधीत्य पठित्वा । किं तत्, शास्त्रमुपासकाध्ययनादि श्रुतं । कथम् , अन्यत्र ।कस्मात् नैष्ठिकात् नैष्ठिकं वर्जयि. त्वेत्यर्थः ॥ १९ ॥ जिनदर्शने वर्णाश्रमव्यवस्था कुत्रास्तीति पृच्छन्त पत्याह... ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्च सप्तमे । चत्वारोऽङ्गे क्रियाभेदादुक्ता वर्णवदाश्रमाः ॥ २० ॥ टीका-उक्ताः प्रणीताः । के, आश्रमाः आ शास्त्रोक्तकालात् श्राम्यन्ति यथास्वं तपस्यन्तीत्याश्रमाः । किंवत्, वर्णवत ब्राह्मणादयो वर्णा यथा । कमात्, क्रियाभेदात् धर्मकर्मविकल्पात् । कति, चत्वारः । क. अङ्गे । किंविशिष्ट, सप्तमे उपासकाध्ययनाख्ये। तानेवोपदेष्टुमाह-ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्चति । उक्तं च । ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च भिक्षुकः । इत्याश्रमास्तु जैनानां सप्तमाङ्गाद्विनिःसताः ॥ १ ॥ तक्रियाभेदस्तु किञ्चिदयं दयतेब्रह्मचारिणस्ताव दिमाः क्रिया: । द्विजसूनोर्गर्भाष्टमे वर्षे जिनालये कृतार्हत्पूजनस्य कृतमौण्ड्यस्य त्रिगुणमौञ्जीवन्धसप्तगुणग्रन्थितयज्ञोपवीतादिलिङ्गं विशुद्ध स्थूलहिंसाविरत्या दिव्रतं ब्रह्मचर्यापबृहितं गुरुसाक्षिकं धारणीयं । तक्रियाप्रपञ्चः पुनराः- शिखी सितांशुकः सान्तर्वासा निर्वेषविक्रियः । व्रतचिन्हें दधत्सूत्रं तदोक्तो ब्रह्मचार्यसौ ।। चरणोचितमन्यच्च नामधेयं तदाऽस्य वै। वृत्तिश्च भिक्षयाऽन्यत्र राजन्यादुधवैभवात् ॥ इत्यादिग्रन्थेनोक्तः प्रतिपत्तव्यः । पूर्वोक्तनित्यनैमित्तिकानुष्ठानस्थो गृहस्थः । स द्वेधा जातितीर्थक्षत्रियभेदात् । तत्र जातिक्षत्रियाः क्षत्रियब्राह्मणवैश्यशूद्रभेदाच्चतुर्विधाः तीर्थ
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy