________________
चति । कोसो, आत्मा पुरुषः । किविशिष्टोऽनन्तशक्तिः अनन्ता निःसीमाः शक्तयो अर्थक्रियाकारिसामर्थ्यानि यस्य सः अनन्तशक्तिः । इति श्रुतिः । किं भवति, वस्त्वेव वस्तुविषयैव । न भवति सा । किं, स्तुतिः गुणाल्पत्वे सति तद्बहुत्वकथनं । कुत इत्याह-यद्यस्मात् जयेत् प्रतिबनीयात्। कोऽसौ, आत्मैव । किंविशिष्टः, स्वद्रव्ययुक् परद्रव्यव्यावर्तनेन आत्मद्रव्यं समादधानः । कं, स्मरं कन्दर्प । किंविशिष्ट, जगज्जत्रं जगतां परद्रव्यप्रवृत्तिमतां प्राणिनां जैत्रमभिभावुकं ॥ १७ ॥ - मन्दमत्यनु जिवृक्षया ब्रह्मचर्यमाहात्म्यमाह
विद्या मन्त्राश्च सिद्धयन्ति किङ्करन्त्यमरा अपि ।।
क्रूराः शाम्यन्ति नाम्नाऽपि निर्मलब्रह्मचारिणाम् ॥ १८ ॥ टीका-सिद्धयन्ति वरप्रदा भवन्ति । काः, विद्याः साधितसिद्धाः । मन्त्राश्च पठितसिद्धाः। तथा किंकरन्ति किङ्करा इव आचरन्ति। के, अमरा देवाः। किं पुनर्मानवा स्तियञ्चो वेत्यपिशब्दार्थः। तथा शाम्यन्ति उपसर्गकरणान्निवर्तन्ते । के, क्रूराः ब्रह्मराक्षसादयः । केन, नाम्ना संज्ञोच्चारणमात्रेण । किं पुनः सन्निधानेनेत्यपिशब्दार्थः केषां, निर्मलब्रह्मचारिणां निरतिचारब्रह्मचर्यभाजाम् ॥ १८ ॥ प्रसङ्गवशाब्रह्मचर्याश्रमं किञ्चिद्याचष्टेप्रथमाश्रमिणः प्रोक्ता ये पञ्चोपनयादयः ।
तेऽधीत्य शास्त्रं स्वीकुर्युर्दारानन्यत्र नैष्ठिकात् ॥ १९ ॥ टीका-ये प्रोक्ताः परमागमे प्रतिपादिताः । के, प्रथमाश्रमिणः मौजीबन्धनपूर्वत्रतानुष्ठायिनः । कति, पञ्च। के, ते उपनयादयः उपनय आदिउँपामवलम्बादीनां तं । तत्र उपनयब्रह्मचारिणो गणधरसूत्रधारिणः समभ्यस्तागमा गृहिधर्मानुष्ठायिनो भवन्ति । अवलम्बब्रह्मचारिणः क्षुल्लकरूपेणागममभ्यम्य परिगृहीतगृहावासा भवन्ति । अदीक्षाब्रह्मचारिणो वेषमन्तरेणाभ्य