SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ सप्तमोध्यायः । रात्रिभक्तवतो रात्रौ स्त्रीसेवावर्तनादिह । निरुच्यतेऽन्यत्र रात्रौ चतुराहारवर्जनात् ॥ १५ ॥ टीका-निरुच्यते व्युत्पाद्यते । कोऽसौ, रात्रिभक्तवतः समासशब्दः । क, इह अस्मिन् चारित्रसारादिशास्त्रानुसारिणि ग्रन्थे । कस्मात्, रात्रौ निशि स्त्रीसेवाया वर्तनात् रात्रौ भक्तं स्त्रीभजनं व्रतयति रात्रिभक्तवत इति तच्छब्दस्य व्युत्पादनात् । अन्यत्र पुना रत्नकरंडकादिशास्ने रात्रिभक्तवतशब्दो निरुच्यते । कस्मात्. रात्री चतुराहारवर्जनात् रात्रौ भक्तं चतुर्विधमप्याहारं व्रतयति प्रत्याख्यातीति रात्रिभक्त वत इति तच्छब्दव्युत्पादनात् । यदाह स्वामी-अन्नं पानं खाद्य लेां नानाति यो विभावर्याम् । स च रात्रिभक्तविरतः सत्त्वेष्वनुकम्पमानमनाः ॥ १५ ॥ अथ ब्रह्मचर्यस्थानं व्याचष्टे तत्ताडक्संयमाभ्यासक्शीकृतमनास्त्रिधा। ___ यो जात्वशेषा नी योषा भजति ब्रह्मचार्यसौ ॥ १६ ॥ टीका-भवति । कोऽसौ, अमौ श्रावकः। किंविशिष्टो, ब्रह्मचारी ब्रह्मणि चारित्रे आत्मनि ज्ञाने चरति प्रवर्तत इत्येवंत्रतः । यः किं, यो नो भजति न सेवते। काः, योषाः स्त्रीः । किंविशिष्टाः, अशेषाः मानवीदेवीस्तिरश्चीस्तत्प्रतिकृतीश्च । कदा, जातु कदाचिदिवा रात्रौ च । कथं, त्रिधा त्रिविधेन । कथम्भूतो भूत्वा तदित्या दि-स प्राक प्रतिमाषट्कनिर्दिष्टः तादृक्क्रमोपचितः संयमः प्राणेन्द्रियपरिहाररूपापहृतसंयमैकदेशस्तस्याभ्यासो भावना तेन वशीकृतं स्वाधीनतां नीत मनश्चित्तं येन स तथोक्तः ॥ १६ ॥ ब्रह्मचारिणे श्लाघते अनन्तशक्तिरात्मेति श्रुतिर्वस्त्वेव न स्तुतिः। यत्स्वद्रव्ययुगात्मैव जगज्जैत्रं जयेत्स्मरम् ॥ १७॥ टीका-भवति । काइसौ, श्रुतिराप्तोपदेशः। कथं, इति एवंस्वरूपा । भ
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy