________________
१८८
सागारधमः ।
तेष्वेकचित्तो यः स तथोक्तः तदेकाग्रमना इत्यर्थः । कथम्भूतो भूत्वा, प्राग्वृतनिष्ठितः पूर्वोक्तप्रतिमापञ्चकाचारनिरूढः ।। १२ ।। षष्ठप्रतिमानिष्ठानभिष्टौति
अहो चित्रं धृतिमतां सङ्कल्पच्छेदकौशलम् ।
यन्नामापि मुदे साऽपि दृष्टा येन तृणायते ।। १३ ।। टीका-अहो चित्रमाश्चर्य वर्तते । किं तत् , संकल्पच्छेदकौशलं मनोव्यापारनिरोधसामर्थ्य । केषां,धृतिमतां संतोषभावनायुक्तानां पुंसां । येन किं, येन संकल्पच्छेदकौशलेन तृणायते तृणवत्प्रतिभाति अभोग्यतयाऽऽत्मानं तेषां दर्शयतीत्यर्थः । काऽसौ, साऽपि कान्ता किंविशिष्टा सती, दृष्टा चक्षुर्गोचरीकृता । तथा आवृत्या सा कान्ता दृष्टाऽपि किं पुनः श्रुता संकल्पिता चेत्यपिशब्दार्थः । गृहस्थस्य हि स्वदारान्प्रति प्रेम दृग्व्यापारश्च दुःखमुत्पादयेत् सा का, यन्नामापि यस्याः संज्ञाऽपि श्रुता भवति । कस्यै, मुदे प्रीतये । किं पुनर्दर्शनादिकमित्यपिशब्दार्थः ॥ १३ ॥ एतस्य राज्यादावपि मैथुनविनिवृत्तिमुपपादयन्नाह
रात्रावपि ऋतावेव सन्तानार्थमृतावपि । भजन्ति वशिनः कान्तां न तु पर्वदिनादिषु ॥ १४ ॥ टीका-भजन्ति सेवन्ते । के, वशिनो जितेन्द्रियाः। कां, कांतां प्रियां। क, ऋतावेव पुष्पदर्शनोत्तरभाविचतुर्थदिवसस्नानानन्तरमेव नान्यदा । क्व, रात्राबपि निश्यपि तथा ऋतावपि सन्तानार्थमेव ते भजन्ति तां न विषयसुखार्थ। एवशब्दोऽत्र सन्दर्शकन्यायेन उभयत्र योज्यः । न तु पुनः कथमपि वशिनः स्त्रियं भजन्ति । केषु, पर्वदिनादिषु पर्वदिनानिधर्मकर्मानुष्ठानदिनान्यष्टम्यादीनि आदिशब्देन अमावास्याग्रहणादीनि गृह्यन्ते ॥ १४ ॥ ___ अधुना चारित्रसारादिशास्त्रमतेन रात्रिभक्तवतं निरुक्त्या लक्षयन् रत्नकरण्डकादिप्रसिद्ध तदर्थ कथयति