________________
सप्तमोध्यायः ।
पुनर्दश्यानुमेयप्राणिकमित्यपिशब्दार्थः । क सति, असुक्षयेऽपि असूनां क्षयः प्रलयः असुक्षयस्तस्मिन्नपि प्राणेषु नश्यत्स्वपि। किं पुनः प्रकारान्तरेण जीविते सम्भवतीत्यपिशब्दार्थः। अत्रालक्ष्यजन्त्वपीत्यनेन जिनागमप्रामाण्यविश्वासोऽसुक्षयेऽपीत्यनेन च जितेन्द्रियत्वं समर्थ्यते ॥ १० ॥
साम्प्रतं भोगोपभोगपरिमाणशीलातिचारत्वेनोक्तं सचित्तभोजनमिह त्यज्यमानं प्रतिमाभावं यातीत्युपदिशति
सचित्तभोजनं यत्प्राङ् मलत्वेन जिहासितम् ।
व्रतयत्यङ्गिपञ्चत्वचकितस्तच्च पञ्चमः ॥ ११ ॥ टीका-त्रतयति व्रतत्वेन प्रत्याख्याति । कोऽसौ, पञ्चमः सचित्तविरत्युद्यतः । किंतत्, तच्च तदपि । किंविशिष्टो यतः, अङ्गिपञ्चत्वचकितः अङ्गिनां भक्ष्यमाणसचित्तद्रव्याश्रितजीवानां पञ्चत्वं मरणं अङ्गिपञ्चत्वं तस्माचकितो भीतो यतः । यत्किं, यज्जिहासितं त्यक्तुमिष्टं शीलोपदेशस्याभ्यासदशाविषयत्वात् । किं तत्, सचित्तभोजनं जीवाश्रितद्रव्यवल्भनं । केन, व्रतिकेन । केन कृत्वा, मलत्वेन भोगोपभोगपरिमाणाख्यशीला तिचारत्वेन । क्व, प्राक शीलोपदेशसमये । स्वामी पुनर्भोगोपभोगपरिमाणशीलातिचारानन्यथा पठित्वा पञ्चमप्रतिमामेवमध्यगीष्ट-मूलफलशाकशाखाकरीरकन्द्रप्रसूनबीजानि । नामानि योऽत्ति सोऽयं सचित्तविरतो दयामूर्तिः ॥ ११ ॥ __ अथ रात्रिभक्तव्रतं चतुःश्लोक्या व्याकरिष्यन् आदौ तल्लक्षणमाह
स्त्रीवैराग्यनिमित्तैकचित्तः प्राग्वृत्तनिष्ठितः।
यस्त्रिधाह्नि भजेन स्त्री रात्रिभक्तवतस्तु सः ॥ १२ ॥ टीका-स तु श्रावको भवति। किंविशिष्टः, रात्रिभक्तवतः । यः किं, यो न भजेत् न सेवेत । कां, स्त्री निःशेषामपि योषां । क्व, अहि दिने । कथं, त्रिधा मनोवाकायकृतकारितानुमतैः। किंविशिष्टः सन्, स्त्रीत्यादि-स्त्रीवैराग्यनिमित्तानि कामदोषाः स्त्रीदोषा स्त्रीसङ्गदोषा अशौचमार्यसङ्गतिश्चेति पाच