SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ ... सागारधर्मः । दयामूर्तिरित्यर्थः । कथम्भूतो भूत्वा, हरिताकुरादिकमभक्षयन्सचित्तविरतः स्मृतः। चतुनिष्ठः चतसृषु पूर्वोक्तप्रतिमासु निष्ठा निर्वाहो यस्य स चतुर्निष्ठः।।८।। जाग्रत्क्रप इति समर्थयते___पादेनापि स्पृशन्नर्थवशाद्योऽतिऋतीयते। हरितान्याश्रितानन्तनिगोतानि स भोक्ष्यते ॥ ९॥ टीका भोक्ष्यते काक्वा न भक्षयिष्यतीत्यर्थः । कोऽसौ, स पञ्चमसंयमस्थानसाधनोद्यतः श्रावकः। कानि, हरितानि हरिनावस्थवनस्पतीन् । किविशिष्टानि, आश्रितानन्तनिगोतानि आश्रितानि संसक्तानि अनन्तानि निगोतानि निगोताख्याः साधारणशरीरवनस्पतिकायिका येषु तानि । उक्तं चार्षे ब्राह्मणसृष्टिप्रस्तावे-सन्त्येवानन्तशो जीवा हरितेप्वंकुरादिषु । निगोता इति सार्वज्ञं देवास्माभिः श्रुतं वचः ॥ यः किं, यः अतिऋतीयते पाक्षिकाद्यपेक्षया अतिशयेन घृणां करोति । किं कुर्वन्, स्पृशन् परामृशन् । कानि, तथाभूतहरितानि । केन, पादेन चरणेन किं पुनर्हस्तादिनेत्यपिशब्दार्थः । कस्मात्, अर्थवशात् प्रयोजनानुरोधात् । किं पुनः प्रयोजनाभावात् । प्रयो. जनं विना स्थावरविराधनादपि निवृत्तिपतिज्ञानात् ॥ ९॥ सचित्तविरतेभ्यः श्लाघते--- अहो जिनोक्तिनिर्णीतिरहो अक्षजितिः सताम् । नालक्ष्यजन्त्वपि हरित प्सान्त्येतेऽसुक्षयेऽपि यत् ॥ १० ॥ टीका-अहो आश्चर्य वर्तते । काऽसौ,जिनोक्तिनिीतिः जिनागमनिश्चयः। केषां, सतां प्रकरणात् सचित्तविरतिप्रयतानां । तथा अहो आश्चर्य वर्तते । काऽसौ, अक्षजितिः इन्द्रियजयः । केषां, सताम् । अत्रोपपत्तिमाह-यद्यस्मात् न प्सान्ति न भक्षयन्ति । के, एते सन्तः । किं तत्, हरित् हरितं । किंविशिष्टमपि, अलक्ष्यजन्त्वपि अलक्ष्याः अस्मदाद्यपेक्षया केवलागमगम्यत्वात् प्रत्यक्षावसंवेद्या जन्तवः प्राणिनो यस्मिन् तदलक्ष्यजन्तु हरितं वस्तु । किं
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy