SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ तृतीयोध्यायः । वर्णनाणकपुस्ता दि-न्यस्तजीवच्छिदादिकम् । न कुर्यात्परूपापर्द्धि-स्तद्धि लोकेऽपि गर्हितम् ॥ २२ ॥ टीका- न कुर्यात् । कोऽसौ, त्यक्तपापर्द्धिः । किं तत्, वस्त्रेत्यादि, वस्त्राणि पञ्चरङ्गपटादीनि नाणकोनि सीतारामटकादीनि पुस्तादीनि च लेप्यचित्रकाष्ठाश्मदन्तधात्वा दिशिल्पानि, वस्त्राणि च नाणकानि च पुस्तादीनि च वस्त्रनाणकपुंस्तादीनि तेषु न्यस्तो नामोच्चारणपूर्वकः सोऽयमिति स्थापितो जीवः प्राणी गजतुरगादिस्तस्य छिदादिकं खण्डनावर्तनभञ्जनादि । हि यस्मात् भवति । किं तत्, वस्त्रादिन्यस्तजीवच्छिदादिकं । किंविशिष्टं, गर्हितं निन्दितं । क, लोकेऽपि व्यवहर्तृजनमध्येऽपि न परं शास्त्रे ॥२२॥ परदारव्यसनदोष निषेधार्थमाह ८१ कन्यादूषणगान्धर्व-विवाहादि विवर्जयेत् । परस्त्रीव्यसन त्यागत्रतशुद्धिविधित्सया || २३ || टीका-विवर्जयेत् । कोऽसौ, परदारवर्जी । किं तत् कन्येत्यादि । 1 कन्यादूषणं कुमार्या अभिगमनं स्वविवाहनार्थं दोषोद्भावनं वा, गान्धर्वविवाहो यो मातुः पितुर्बन्धूनां चाप्रामाण्यात्परस्परानुरागेण मिथः समवायाद्वधूवराभ्यां क्रियते, आदिशब्देन हर विवाहो हरणादि । कया, परस्य स्त्री परस्त्री तत्र तदेव वा व्यसनं तस्य त्यागः स एव व्रतं तस्य शुद्धिर्निर्दोषता तत्र विधित्सा कर्तुमिच्छा तया ॥ २३ ॥ मद्यमांसव्यसननिवृत्त्योस्त्वतीचाराः प्रागेवोक्ताः । इदानीं यतो लोकद्वयविरुद्धबुद्धया आत्मना विरतिः क्रियते परस्मिन्नपि तत्प्रयोगं तद्व्रतविशुद्धधर्थ न विदध्यादित्यनुशास्ति — त्यते यदिहामुत्रा - प्यपायावद्यकृत्स्वयम् । तत्परेऽपि प्रयोक्तव्यं नैव तद् व्रतशुद्धये ॥ २४ ॥ १ पंचुंबर सहियाइ सत्तइ वसणाइ जो विवज्जेइ । सम्मत्तविसुद्ध मह सो दंसणसावयो भणियो ॥
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy