________________
सागारधर्मः ।
८२
टीका व्रत्यते संकल्पपूर्व प्रत्याख्यायते । किं तत् यत् वस्तु । किंविशिष्टं अपायावद्यकृत् अपायोऽभ्युदयनिःश्रेयसभ्रंशनोपायः, अवद्यं गर्छ, अपायश्चावद्यं चापायावद्ये ते करोति तत् व, इहा स्मिञ्जन्मनि । तथाऽमुत्र परजन्मनि केन । व्रत्यते, स्वयं आत्मना । किं तत्,व्रतविषयीकृतं वस्तु । नैव प्रयोक्तव्यं प्रयोज्यं । क्क, परेऽपि आत्मनीव पुरुषान्तरेऽपि । कस्यै, व्रतशुद्धये प्रकृतत्रतनिर्मलीकरणार्थम् ॥ २४ ॥ एवं प्रतिपन्नदर्शनप्रतिमस्य श्रावकस्य स्वप्रतिज्ञानिर्वाहार्थमुत्तरेण प्रबन्धेन शिक्षां प्रयच्छन्नाह
-
अनारम्भबधं मुञ्चेच्चरेन्नारम्भमुद्धरम् ।
स्वाचाराप्रतिलोम्येन लोकाचारं प्रमाणयेत् ।। २५ ।। टीका - मुश्चेत् त्यजेत् । दर्शनिकः । कम्, अनारम्भवधं तपः संयमादिसाधनतनुस्थित्यर्थायाः कृष्यादिक्रियाया अन्यत्र प्राणिहिंसां । एतेन यदुक्तं स्वामिसमन्तभद्रदेवैः - ' दर्शनिकस्तत्त्वपथगृह्य' इति दर्शनप्रतिमालक्षणं तदपि संगृहीतं तथाविध हिंसाविरतिविध्युपदेशेन पञ्चाणुत्रतानुसरणविधानोपदेशात् । तथा न चरेत् न कुर्यात् । कम्, आरम्भं कृप्यादिकं । किंविशिष्टम्, उद्धुरम् आत्मनिर्वाह्यभरं । परेण हि कृष्यादिक्रियां कारयतो द्वन्द्वलाघवान्न तादृशी प्रतिज्ञातधर्मकर्मानुष्ठाने गृहिणो विहंस्तता भवति यादृशी तामात्मना कुर्वतः सा स्यात् द्वन्द्वावर्तविवर्तनात् । तथा प्रमाणयेत् प्रमाणं कुर्यात् न विसंवादयेदित्यर्थः । कं, लोकाचारं स्वामिसेवा क्रयविक्रयादिकं । केन, स्वाचारामतिलोम्येन आत्मप्रतिपन्नत्रतानुष्ठानानुपघातेन ॥ २५ ॥
धर्मे पन्याः सुतरां व्युत्पादनविधिमुपदिशतिव्युत्पादयेत्तरां धर्मे पत्नीं प्रेम परे नयन् ।
सा हि मुग्धा विरुद्वा वा धर्माद् भ्रंशयते तराम् || २६ ।। टीका - व्युत्पादयेत् तरां | अर्था दिव्युत्पाद्यात् धर्मेऽतिशयेन व्युत्पन्नां कुर्यात् अथवा धर्म॑विषये सर्वमपि परिवारं च पत्नीं च व्युत्पादयन् पत्नीं ततोऽतिशयेन तत्र व्युत्पादयेदिति व्याख्येयं । कोऽसौ दर्शनिकः । कां, पत्नीं भार्या ।
----