________________
अष्टमोध्यायः ।
२१७
समाधिमरणार्थ शरीरोपस्कारविधिमाह-----
अनः पुष्टो मलदुष्टो देहो नान्ते समाधये ।
तत्कयो विधिना साधोः शोध्यश्चायं तदीप्सया ॥ २१ ॥ टीका-न भवति । कोऽसौ, देहः । कम्मै, समाधये समाध्यर्थ । क, अन्ते मरणसमये । किंविशिष्टो, अन्नैराहारैः पुष्ट उपचितो मलैश्च वातपित्तकफैदुष्टो विकृतः । यत एवं तत्तस्मात् कर्यः कृशीकर्तव्योऽयं देहः । कस्य, साधोः सिद्धिसाधकेनेत्यर्थः । केन, विधिना सल्लेखनाविधानेन । शोध्यश्च योग्यविरेचनबस्तिकर्मादिना निष्काशितजठरमलः कर्तव्यः । कया, तदीप्सया समाधिवाञ्छया ॥ २१ ॥ कषायकर्शनं विना कायकर्शनस्य नैष्फल्यं समर्थयते
सल्लेखनाऽसलिखतः कषायानिष्फला तनोः ।
कायोऽजडैदण्डयितुं कषायानेव दण्ड्यते ॥ २२ । टीका-भवति। काऽसौ, सल्लेखना कृशीकरण । कस्याः, तनोः शरीरस्य। किंविशिष्टा, निष्फला । किं कुर्वतः, असंलिखतः कृशानकुर्वतः साधोः । कान्, कषायान्, क्रोधादीन् । यतो दंड्यते परिकृश्यते । कोऽसौ, कायः । कैः, अजडैः बुधैः । किं कर्तु, दण्डयितुं निग्रहीतुं । कान्, कषायानेव न रसरतादिधातून् ॥ २२ ॥ आहारदृप्तमनसां कषायदुर्जयत्वं प्रकाश्य भेदज्ञानबलाज्जेतृणां जयवादपाह
अन्धोमदान्धैः प्रायेण कषायाः सन्ति दुर्जयाः ।
ये तु स्वाङ्गान्तरज्ञानात्तान् जयन्ति जयन्ति ते ॥ २३ ॥ टीका-सन्ति भवंति। के, कषायाः। किंविशिष्टाः, दुर्जया जेतुमशक्याः। कैः, अन्धोमदांधैः अन्धस आहारस्य मदः क्षीबता आहारकृतो मनोदर्प इत्यर्थः । अन्धोमदेन अन्धाः स्वपरतत्त्वज्ञानविकला: अन्धोमदान्धास्तैः । केन, प्रायेण बाहुल्येन । कदाचिद्देवदुर्योगात्तैरपि कषाया जीयन्ते इत्येवमर्थमेतत् । ये