SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ प्याराधना मृतौ । आराधना रत्नत्रयैकापवा स्यात् । अयमन्धनिधिलाभों भाक्ति कऽनिर्वचनाराधनपरे न विष्टभ्यो नाभिनिवेष्टव्योऽत्र दुराग्रहो न कर्तव्यो जिनवचनं प्रमाणीकृत्य समाधिमरणाय प्रयतितव्यमित्यर्थः । उक्त च-पूर्वमभावितयोगो यद्यप्याराधयन्मतौ कश्चित् । स्थाणो निधानलाभो निदर्शनं नैव सर्वत्र ॥ १८ ॥ ननु दुरभव्यस्थ व्रतं चरतोऽपि न मुक्तिः स्यत्तदलं तदवीयस्त्वे व्रतयत्नेनेत्यारेकायां समाधत्ते. कार्यों मुक्तौ दवीयस्यामपि यत्नः सदा व्रते। वरं स्वः समयाकारो व्रतात्र नरकेऽवतात् ॥ १९ ॥ टीका-कार्यः सदा जिनभाक्तिकैः कर्तव्यः । कोसौ, यत्नस्तात्पर्य । क्व, व्रते । कस्यां सत्यां, मुक्तौ निर्वृतौ । किविशिष्टायां, दवीयस्थां दुरतरायां चिरभाविन्यामपि । किं पुनरितरस्यां । अत्रोपपत्तिमाह-वरं भद्रं भवतु । कोऽसौ, स्वः स्वर्गे समयाकारः मुक्तरक्किालयापना कस्मात्, व्रतात् बतानुष्ठानार्जितपुण्यविपाकात् । न वरं। कोसौ, समयाकारः । क्व, नरके नरकादिदुर्गतौ । कस्माद् अव्रतात् हिंसाद्याचरणार्जितपापविपाकात् ॥ १९ ॥ भक्तपत्याख्यानयोग्यतामाह धर्माय व्याधिदुर्भिक्षजरादौ निष्प्रतिक्रिये । त्यक्तुं वपुः स्वपाकेन तच्च्युतौ चाऽशनं त्यजेत् ॥ २० ॥ टीका-त्यजेत् प्रत्याख्यायात् श्रावको यमी वा । किं तत, अशनं भक्तं भक्तप्रत्याख्यानं कुर्यादित्यर्थः । किं कर्तु, त्यक्तुं मोक्तुं । किं तद्, वपुः शरीरं । कस्मै धर्माय आत्मना सह धर्म भवान्तरं नेतुं । क सति, व्याधिदुर्भिक्षज्वरोपसर्गादौ धर्मध्वंसहेतावुपस्थिते । किंविशिष्टे, निष्पतिक्रिये प्रतीकाररहित तथा स्वपाकेन स्वयं कालक्रमेण परिणम्यायुःक्षये । तच्च्युतो तस्य वपुषश्च्यवने । चशब्दात् घोरोपसर्गादिना च्याव्यमाने च सत्यशनं त्यजेत् । एतेन शरीरत्यजनच्यवनच्यावनविषय त्रिविधं भक्त प्रत्याख्यानं मरणमन्वाख्यातं बोद्धव्यम्॥२०॥
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy