________________
अथ चतुर्थोऽध्यायः। अथ व्रतिकप्रतिमामध्यायत्रयेण प्रपञ्चयिष्यन् प्रथमं तावत्तलक्षण संग्रह्णन्नाह
सम्पूर्णदृग्मूलगुणो निःशल्यः साम्यकाम्यया ।
धारयन्नुत्तरगुणानक्षूणान्त्रतिको भवेत् ॥ १॥ टीका-भवेत् । कोऽसौ, बतिकः। किं कुर्वन, धारयन् अकृच्छ्रेण दधन्। कान,उत्तरगुणान् वक्ष्यमाणान् । किंविशिष्टान् ,अक्षूणान् निरतिचारान् । कया, साम्यकाम्यया इष्टानिष्टयो रागद्वेषोपरमवाञ्छयान पुनर्लाभादीच्छया। किंविशिटः सन,सम्पूर्णग्मूलगुणः सम्पूर्णा उपयोगमात्राश्रयेणान्तरङ्गेण चेष्टामात्राश्रयेण च बहिरङ्गेणातिचारेण रहितत्वादखण्डा दृक् सम्यक्त्वं,मूलगुणाश्च यस्य स तथोक्तः। पुनः किंविशिष्टः,निःशल्यः शृणाति हिनस्तीति शल्यं शरीरानुप्रवेशिकाण्डादि,शल्यमिव शल्यं कर्मोदयविकारः शारीरमानसबाधाहेतुत्वात्। तत् त्रिविधं मिथ्यात्वमायानिदानभेदात्। मिथ्यात्वं विपरीताभिनिवेशः,माया वञ्चना,निदान तपःसंयमाद्यनुभावन कांक्षाविशेषः, शल्यान्निष्क्रान्तो निःशल्यः । ननु च सम्पू
हरमूलगुण इत्यनेनैव शल्यपरिहारस्य सिद्धत्वाद् व्यर्थमिदमिति चेत्सत्यं, किंत्वचिरप्रतिपन्नव्रतस्य पूर्व विभ्रमसंस्कारारोप्यमाणतत्परिणामानुसरणनिवारणार्थ भूयो यत्नः क्रियते । उपदेशे च पौनरुक्त्यं न दोषः ॥ १ ॥
१ तप:संयमाद्यनुभावनकांक्षाविशेषो निदानम् । तद द्वेधा प्रशस्तेतरभेदात्, प्रशस्तं पुनर्द्धिविध विमुक्तिसंसारानिमित्तभेदात् तत्र विमुक्तिनिमित्तं कर्मक्षयाद्याकाङ्क्षा । उक्त च
कर्मव्यपायं भवदुःखहानि बोधिं समाधि जिनबोधसिद्धिम् । आकांक्षितं क्षीणकषायवृत्तेर्विमुक्तिहेतुः कथितं निदानम् ॥ जिनधर्मसिद्धयर्थं तु जात्याद्याकाङक्षणं संसारनिमित्तम् । जातिं कुलं बन्धविवर्जितत्वं दरिद्रता वा जिनधर्मसिद्धयै । प्रयाचमानस्य विशुद्धवृत्ते: संसारहेतुर्गदितं निदानम् ॥ मोक्षेऽपि मोहादभिलाषदोषो विशेषतो मोक्षनिषेधकारी। यतस्ततोऽध्यात्मरतो मुमुक्षुर्भवेत्किमन्यत्र कृताभिलाष: ॥