SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ८६ सांगारधर्मः । न कापीत्यर्थः । कोसौ, गृही प्रकृतत्वादर्शनिकः।क, पदे संयमस्थाने। किविशिष्टे, परे व्रतिकप्रतिमायां वानप्रस्थाद्याश्रमे वा । कथं, विना अन्तरेण । के सुपुत्रं आत्मसमानमात्मजं । किंवत्, गणिवत् धर्माचार्यो यथा। कं सुशिष्यमामसमानमेवाचार्याद्विना । कुत्र, श्रमणे । स्वं भारं संघनिर्वाहलक्षणं। न्यस्य निराकुलों निर्व्यापेक्षः सन् पदे आत्मसंस्कारादौ मोक्षपदे वा प्रोत्सहेत, न कापीत्यर्थः । इदमत्रैदम्पर्य- दर्शनिकेन धर्माचार्येण च परं पदमाश्रयितुमिच्छता सत्पुत्रः सच्छिष्यश्वात्मवन्निष्पादनीयः ॥ ३१ ॥ - प्रकृतमर्थमुपसंहरन् बतिकप्रतिमारोहणयोग्यता सूत्रयन्नाह दर्शनप्रतिमाभित्थमारुह्य विषयेष्वरम् ।। विरज्यन सवसन्जः सन्बती भवितुमर्हति ॥ ३२ ।। टीका--अर्हति योग्यो भवति । कोऽसौ, श्रावकः । किं कर्तु, भवितुं सम्पत्तुं किंविशिष्टो, व्रती व्रतिकप्रतिमावान् । किंविशिष्टः सन्, सत्त्वसज्जः धैर्या दिसात्विकभावनिष्ठः । किं कुर्वन, विरज्यन् स्वयमेव विरक्तिं गच्छन् । केषु, विषयेषु कामिन्यादिषु । कथं, अरं पाक्षिकापेक्षया स्वस्य च प्राक्तनावस्थापेक्षयातिशयेन । किं कृत्वा, आरुह्य पर्यन्तं प्राप्य । कां, दर्शनप्रतिमां । कथम् , इत्थमनेन पाक्षिकाचारसंस्कारेत्यादिपूर्वोक्तप्रकारेणेति भद्रम् ॥ ३२ ॥ इत्याशाधविरचितायां स्वोरज्ञधर्मामृतसागारधर्मदीपिकायां भव्यकुमुदचन्द्रिकासञ्ज्ञायामादितो द्वादशः प्रक्रमाच्च तृतीयोऽध्यायः समाप्तः ।। ३ ।।
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy