SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ तृतीमोध्यायः। ८५ कस्यां, सधर्मिण्यां समानो धर्मो अस्यामस्तीति नित्ययोगे 'इन् ' कुलस्त्रियामित्यर्थः । आत्मनो जात आत्मज इत्यत्वर्थतासिद्धयर्थ कुलस्त्रीरक्षायां नित्य यतितव्यमिति प्रतिपत्तव्यं । तथा प्रयतेत । कोऽसौ, सः। किं कर्तु, व्युत्पादयितुं विविधमुत्कृष्टं ज्ञानं प्रापयितुं । कम् , आत्मजं। क, आचारे कुललोकसंव्यवहारे। किंवत्, स्ववत् आत्मना तुल्यं । तथा प्रयतेतासौ। किं कर्तु, त्रातुं रक्षित निवर्तयितुमित्यर्थः । कम्, आत्मजं । कस्मात्, अपथात् धर्मादिभ्रंशनोपायात् दुराचारादित्यर्थः । स्ववदित्यत्रापि योज्य। अथशब्दः समुच्चये ॥३०॥ ___ सत्पुत्ररहितेन श्रावकेणोत्तरपदं प्रति प्रोत्साहो दुष्करः स्यादिति दृष्टान्तेनोपष्टम्भयन्नाचष्टे-- विना सुपुत्रं कुत्र स्वं न्यस्य भारं निराकुलः। गृही सुशिष्यं गणिवत् प्रोत्सहेत परे पदे ॥ ३१॥ . टीका-कुत्र, कस्मिन् पुंसि स्वमात्मीयं भारं पोष्यादिनिर्वाहभरं न्यस्य स्थापयित्वा निराकुलो निर्द्वन्द्वः सन् प्रोत्सहेत प्रकृष्टमुद्योगं कुर्यात् ऋतावतीते योनिः स्याच्छुक्रं नातः प्रतीच्छति । मासेनोपचितं रक्तं दमनिभ्यामृतौ पुनः ॥ ईषत्कृष्णं विगन्धं च वायुर्योनिमुखान्नुदेत् । ततः पक्षेक्षणादेव कल्याणध्यायिनी व्यहम् ॥ सजालङ्काररहिता दर्मसंस्तरशायिनी । झरेयं यावक स्तोक कोष्ठशोधनकर्शनम् ।। पणे शरावे हस्ते वा भुंजीत ब्रह्मचारिणी। चतुर्थेऽन्हि ततः स्नाता शुक्लमाल्याम्बरा शुचिः ॥ इच्छन्ती भर्तृसदृशं पुत्रं पश्येत्पुरः पतिम् । ऋतुस्तु द्वादश निशाः पूर्वास्तिस्रोऽथ निन्दिताः॥ एकादशी च युग्मासु स्यात्पुत्रोऽन्यासु कन्यका ।
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy