SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ सागारधर्मः। आनन्दस्य, कीर्तर्यशसः एकमुत्कष्टमव्यभिचारि केतन गृहं ध्वजो वा यास्ताः धर्मश्रीशर्मकीककेतनं । नित्यधर्मादिमत्यो धर्मादिविख्याता वा इत्यर्थः।२८॥ धर्माद्यर्थिनः कुलस्त्रियामप्यत्यासक्तिं निषेधयन्नाह भजेदेहमनस्तापशमान्त स्त्रियमभवत् । क्षीयन्ते खलु धर्मार्थकायास्तदतिसेवया ॥ २९ ॥ टीका-भजेत् सेवेत । कोऽसौ, त्रैवर्णिकः विशेषणादर्शनिकः श्रावकः । कां, स्त्रियं । कथं, यथा भवति देहमनस्तापशमान्तं शरीरमनसोः सन्तापशमो यथा भवति न पुनरत्यासक्त्या । किंवत्, अन्नवत् भोजनं यथा । खलु यस्मात् । क्षीयन्ते क्षयं यान्ति । के, धर्मार्थकामाः धर्मो, धनं, शरीरं च त्रीण्यपि । कया, तदतिसेवया अन्नस्येव स्त्रिया अप्यतिमात्रोपयोगेन ॥३० पुत्रस्योत्पादनादिप्रयत्नविधिमाह प्रयतेत सधर्मिण्यामुत्पादयितुमात्मजम् ॥ व्युत्पादयितुमाचारे स्त्रवत्त्रातुमथापथात् ॥ ३० ॥ टीका-पयतेत परमादरं कुर्यात्। कोऽसौ,दर्शनिकः । किं कर्तुम्, उत्पादयितुं जनयितुं । कम् , आत्मजमौरसं पुत्रं । क्षेत्रजाघेकादशपुत्राणामनभ्युपगमात्। १ पुत्रोत्पादनविधिस्त्वयमष्टाङ्गहृदयोक्तः -- पूर्णषोडशवर्षा स्त्री पूर्णविशेन सङ्गता। शुद्धे गर्भाशय मागे रक्ते शुक्रेऽनिले हृदि । वार्यवन्तं सुतं सूते ततो न्यूनाब्दयोः पुनः । रोग्यल्पायुरधन्यो वा गर्भो भवति नैव वा शुक्र शुक्लं गुरु स्निग्धं मधुरं बहुलं बहु । घृतमाक्षिकतैलाभ सद्यार्तवं पुनः ।। लाक्षारसशशास्त्राभं धौत यश्च विरज्यते । शुद्धशुक्रातवं स्वस्थं संरक्तं मिथुनं मिथः । स्नेहैः पुंसवनैः स्निग्धं शुद्ध शीलितवस्तिकम् । नरं विशेषात्क्षीराद्यैर्मधुरोषधसंस्कृतैः नारी तैलेन मारैश्च पित्तलैः समुपाचरेत् । क्षामप्रसन्नवदनां स्फुरच्छोगिपयोधराम् ।। सस्ताविकुक्षि पुंस्कामा विद्यादृतुमती स्त्रियम् । पदं सङ्कोचमायाति दिनेऽतीते यथा तथा॥
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy