SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ सागारधर्मः। सत्कन्यां ददता दत्तः सत्रिवों गृहाश्रमः । गहं हि गृहिणीमाहु-न कुड्यकटसंहतिम् ॥ ५९ ॥ टीका--दत्तो बितीर्णः सद्गृहिणा साधर्मिकाय । कोऽसौ, गृहाश्रमः गृहे आश्रमो धर्मानुष्ठानं गृहमेव वाऽश्रमस्तपःस्थानं । किं कुर्वता, ददता । कां, सत्कन्यां सती प्रशस्ता कौलीन्यादिगुणोपेता सामुद्रिकोक्तदोषरहिता च कन्या कुमारी सत्कन्या तां। किंविशिष्टो गृहाश्रमो दत्तः, सत्रिवर्गो धर्मार्थकामानां भगृहिणीमूलत्वात् । तथाहि--धर्मः स्वदारसन्तोषाद्यात्मकसंयमलक्षणो देवादिपरिचरणस्वरूपः सत्पात्रदानादिस्वभावश्च, अर्थो वेश्या दिव्यसनव्यावतेनेन निष्प्रत्यूहमर्थस्योपार्जनादुपार्जितस्य च रक्षणाद्रक्षितस्य च वर्द्धनाद्यथाभाग्य ग्रामसुवर्णादिसम्पत्तिः, “संकल्परमणीयस्य प्रीतिसम्भोगशोभिनो रुचिस्याभिलाषस्य नाम काम ' इति स्मृतिरिति वचनात् कामश्च यथेष्टमाभिमानिकरसानुविद्धसर्वेन्द्रियप्रीतिहेतु: कुलाङ्गनामङ्गिनां सुप्रतीतः । हि यस्मात् । आहुः ब्रुवन्ति विद्वांसः । किं, गृहं । कां, गृहिणीं कुलपत्नीं। न आहुः। किं तत्, गहं । कुड्यकटसंहति भित्तिवंशादिच्छादनसङ्घातम् ॥ ५९ ॥ __कुलस्त्रीपरिग्रहं लोकद्वयाभिमतफलसम्पादकत्वात् त्रैवर्गिकस्य विधेयतयोपदिशति धर्मसन्ततिमक्लिष्टां रति वृत्तकुलोन्नतिम् । देवादिसत्कृति चेच्छन्सत्कन्यां यत्नतो बहेतु ॥६॥ टीका-वहेत् परिणयेत । कोऽसौ, श्रावकः । कां सत्कन्यां सती प्रशस्ता सतश्च सज्जनस्य कन्या सत्कन्या तां । कस्मात्, यत्नतः प्रयत्नेन तत्परतया । किं कुर्वन्, आकांक्षन् । किं किं, धर्मसन्ततिं धर्मार्था सन्ततिरपत्या नि अथवा धर्मस्य सन्ततिरविच्छेदो धर्मसन्ततिस्तां, तथा अक्लिष्टामनुपहतां रति संम्भोगं, तथा वृत्तकुलोन्नतिं वृत्तस्याचारस्य कुलस्य च वंशस्य गृहस्य वा उन्नतिरुद्गतिस्तां, तथा देवोदिसत्कृति देवद्विजातिथिवान्धवसत्कारम् ॥६०॥ दुष्कलत्रस्याकलत्रस्य वा पात्रस्य भूम्यादिदानान्न कश्चिदुपकारः स्यादित्यमुमर्थमवश्यं तत्कन्याविनियोगेन सधर्माणमनुगृह्णीया दिति विधिव्यवस्थापनार्थमर्थान्तरन्यासेन समर्थयते
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy