SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ द्वितीयोध्यायः। सुकलत्रं विना पाते भूहेमादिव्ययो वृथा । कीटैर्दन्दश्यमानेऽन्तः कोऽम्बुसेकाद्रुमे गुणःना ६१ ॥ टीका-भवति । कोऽसौ, भूहेमादिव्ययः भूमिसुवर्णादिदानं । कथम्भूतो, वृथा व्यर्थः । क, पात्रे संयुज्यमानमोक्षकारणगुणे गृहिणि। कथं, विना । किं तत्, सुकलंत्रं सत्पत्नीं । अत्र दृष्टान्तमाह-को भवति, न कश्चित् । कोऽसौ गुण उपकारः । कस्मात्, अम्बुसेकात् जलसेचनात् । क, द्रुमे वृक्षे। किं क्रियमाणे, दन्दश्यमाने गर्हितं भक्ष्यमाणे । कैः, कीटैः घुणैः। क्व, अन्तर्मध्ये । विषयसुखोपभोगेनैव चारित्रमोहोदयोद्रेकस्य शक्यप्रतीकारत्वात्तद्वारेणैव तस्मादपवात्मानमिव साधर्मिकमपि विषयेभ्यो व्युपरमयेदित्युपदेशार्थमाह विषयेषु सुखभ्रांतिं कर्माभिमुखपाकजाम् । छित्वा तदुपभोगेन त्याजयेत्तान्स्वक्त्परम् ॥ ६२॥ टीका- त्याजयेद्विमोचयेत् । कोऽसौ, सद्गृही । कं, परं कन्यादिदानेन विषयी क्रियमाणं साधर्मि। कान् तान्, सुकलत्रादिविषयान् । किंवत् , स्ववत् आत्मानं यथा । कृत्वा, छित्वा प्रशमय्य । कां, सुखभ्रान्ति सुखयन्तीति सुखाः सुखहेतव इमे सुखं वेति विपर्यासमति ! केषु, विषयेषु। किंविशिष्टां, कर्माभिमुखपाकजां कर्मणश्चारित्रमोहस्याभिमुखो निजफलदानोद्यतः पाको रसः कर्माभिमुखपाक स्तस्मात् जातां । छित्वा प्रशमय्य । कां, सुखभ्रांतिं । केन, तदुपभोगेन विषयानुभवनेन ॥ ६२ ॥ दुप्षमाकालवशात्प्रायेण पुरुषाणामाचारविप्लवदर्शनाद्विचिकित्साकुलितचित्तस्य दातुः सौचित्यविधानार्थ चतुरः श्लोकानाह। 'दैवाल्लब्धं धनं प्राणैः सहावश्यंविनाशि च । . - बहुधा विनियुञ्जानः सुधीः समयिकान्क्षिपेत् ॥ ६३॥ टीका-क्षिपेत् धिगिमान् सम्भाषणमात्रस्याप्ययोग्यानित्याद्यवर्णवादेन तिरस्कुर्यादिति काका न क्षिपेदिति प्रतिषेधे पर्यवस्यति । कोऽसौ, सुधीः
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy