SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ । सागारधर्मः । सोऽर्थी गृही। कान् , समयिकान् समयाश्रितान् गृहस्थान् यतीन् वा। किं कुर्वाणो, विनियुञ्जानो व्ययमानः । किं तत् , धनं कतिधा, बहुधा बहुभिः अंकोरैः लज्जाभयाक्षपातादिभि. । किंविशिष्टं धनं, लब्धं प्राप्तं । कस्मात् , डैवात्पुण्योदयान्न पुरुषकारात् , तस्य संसारे गौणत्वात् । किंविशिष्ट, मवश्यंविनाशि नियमेन गत्वरं । कथं, सह । कैः, प्राणैः ॥ ६३ ॥ दैव किं तर्हि कुर्या दित्याह -- वि विन्यस्यदंयुगीनेषु प्रतिमासु जिनानिव । भक्त्या पूर्वमुनीनचेत्कुतः श्रेयोऽतिचर्चिनाम् ॥ ६४ ॥ टीका-अर्चत् पूजयेत्। कोऽसौ, सद्गृही। कान् , पूर्वमुनीन् प्राक्तनसा बून् । कया, भक्त्या । किं कृत्वा, विन्यस्य नामादिविधिना निक्षिप्याकेषु, ऐदंयुगीनेषु अस्मिन् युगे साधुषु । कास्विव कान् , प्रतिमासु जिनानिव प्रति छिम्बेष्वर्हतो यथा यतः कुतो भवात, न कुतश्चित् । किं तत् , श्रेयः पुण्यं । हषाम्, अतिचर्चिनाम् अतिमात्रं क्षोदकाराणाम् ॥ ६४ ॥ हि पुनस्तदर्थसमर्थनार्थमाह३ १ भुक्तिमानप्रदाने तु का परीक्षा तपस्विनाम् । ते सन्तः सन्त्वसन्तो वा शूद्रो दानेन शुध्द्यति ।। सर्वारम्भप्रवृत्तानां गृहस्थानां धनव्ययः । बहुधाऽस्ति ततोऽत्यर्थ न कर्तव्या विचारणा ॥ यथा यथा विशिष्यन्ते तपोज्ञानादिभिर्गुणैः । तथा तथाऽधिकं पूज्या मुनयो गृहमेधिभिः ॥ देवाल्लब्धं धनं धन्यवतव्यं समयाश्रिते । एको मुनिर्भवेल्लभ्यो न लभ्यो वा यथागमं । उच्चावचजनपायः समयोऽयं जिनेशिनाम् । नैकस्मिन्पुरुषे तिष्ठे देकस्तम्भ इवालय ते नामस्थापनाद्रव्य-भावन्यासश्चतुर्विधाः। भवन्ति मुनयः सर्वे दानमानादिकर्मसु उत्तरोत्तरमावेन विधिस्तेषु विशिष्यते। पुण्यार्जने गृहस्थानां जिनप्रतिकृतिष्विव ॥ काल कला चले चित्ते दहे चान्नादिकीटके । एतच्चित्रं यदद्यापि जिनरूपधरा नराः। - यथा पूज्यं जिनेद्राणां रूपं लेपादिनिर्मितम् । तथा पूर्वमुनिच्छायाः पूज्याः सम्प्रति संयताः।
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy