SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ सागारधर्मः। तत्त्यागविशेषयोः संज्ञाविशेषप्रकाशनार्थमाह तदित्यादि । व्यपदिश्यते । कोऽसौ, तत्परिहारः । किं, नियमः । नियम इति संज्ञया व्यवन्हियते इत्यर्थः । किंविशिष्टः, परिमितकालः एकद्विव्यादिसंख्यापरिच्छिन्नदिवसमासादिसमयः। तथा व्यपदिश्यते । कोऽसौ, तत्परिहारः । किं, यमः । यम इति नाम्ना व्यवन्हियत इत्यर्थः । किंविशिष्टः, कालान्तः कालो मरणमन्तोऽवसानं यस्य स कालान्तो मरणपर्यन्त इत्यर्थः ॥ १४ ॥ त्रसघातबहुवधप्रमादविषयानिष्टानुपसेव्यार्थत्यागवतपञ्चकमप्यत्रैवान्तर्भावयितुमाह पलमधुमद्यवदखिलवसबहुघातप्रमादविषयोऽर्थः। त्याज्योऽन्यथाऽप्यनिष्टोऽनुपसेव्यश्च व्रताद्धि फलमिष्टम् १५ टीका-त्याज्यः प्रत्याख्यातव्यः । कोऽसौ, अर्थ इन्द्रियोपभोग्यो रसश्च। केन, भोगोपभोगपरिसंख्यानव्रतिना । किंविशिष्टः । त्रसेत्यादि-त्रसा द्वीन्द्रियादिजीवाः बहवः प्रचुगस्त्रसस्थावरजीवाः त्रसाश्च बहवश्व त्रसबहवस्तेषां घातौ त्रसबहुधातौ त्रसघातो बहुघातश्चेत्यर्थः । प्रमादो धर्मभ्रंशनोपायः । त्रसबहुधातौ च प्रमादश्च त्रसबहुघातप्रमादा: ते विषया यस्य स त्रसबहुघातप्रमादविषयः । किविशिष्टः, अखिलः सर्वः । किंवत्, पलमधुमद्यवत् । यथा त्रसघाताश्रयत्वापिशितं त्यज्यते, यथा च बहुवधाश्रयत्वान्माक्षिकं त्यज्यते, यथा च प्रमादाश्रयत्वान्मद्यं त्यज्यते तथा यथासंख्यं त्रसघाताद्याश्रयोऽर्थस्त्याज्य इत्यर्थः । तत्र त्रसघातविषयोऽन्तःसुषिरप्रायं नालीनलपलक्यामृणालनालप्रमुखमागन्तुजन्तूनां सम्मूछिमजन्तूनां च योग्यमध्यावकाशं तथा बहुजन्तुयोग्यस्थानं केतकीनिम्बार्जुनारणिशिग्रुपुष्पमधूकबिल्वादिफलादि च वस्तु । बहुघातविषयो गुडूचीमूलकलशुनाशृङ्गवरादिकं । प्रमाद विषयो दृषिविषभाङ्गिकाधत्तूरकादि वस्तु। एतेन धनार्थ क्रूरव्यापाराणामपि त्याज्यत्वमुक्तं प्रतिपत्तव्यं । तथा त्याज्यो धर्मार्थिना । कोऽसौ, अखिलोऽर्थः। किंविशिष्टः, अनिष्टः कथं, अन्यथाऽपि त्रसघाताद्य
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy