SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ पंचमोध्यायः । विषयोऽप्यों योऽनिष्टो यदा स्वस्याप्यनभिमतः प्रकृतिसात्मको न भवति सोऽपि तदा प्रत्याख्येय इत्यर्थः । तथा त्याज्यः । कोऽसौ, अखिलोऽर्थः । किविशिष्टः,अनुपसेव्यः इष्टोऽपि शिष्टानां शीलनायोग्यः चित्रवस्त्रविकृतवेषाभरणादिरुद्गारलालामूत्रपुरीषश्लेष्मादिश्च । एतत्प्रत्याख्यानस्याप्यभिमतार्थहेतुत्वमुखेन करणीयत्वं समर्थयत व्रताद्धि फलमिष्टमिति-हि यस्माद्भवति । किं तत्, फलं साध्यं । किविशिष्टं, इष्टमभिप्रेतमभ्युदयादिकं । कस्मात, व्रतात् योग्याद्विषयादभिसन्धिकृताया विरतेः ॥ १५ ॥ उक्तमेवार्थ संव्यवहारप्रसिद्धयर्थ श्लोकत्रयेण दर्शयतिनालीसूरणकालिन्दद्रोणपुष्पादि वर्जयेत् ।। आजन्म तद्भुजां ह्यल्पं फलं घातश्च भूयसाम् ॥ १६ ॥ टीका- वर्जयेत् धर्मार्थी त्यजेत् । किं तत्, नालीत्यादि-आदिशब्देन मूलकाकनिम्बकुसुमकेतकादि । कथं, आजन्म यावज्जीवं। कुत इत्याह-हि यस्माद् भवति । किं तत्, फलं जिव्हेन्द्रियप्रीणनमात्र । किंविशिष्टं, अल्पं स्तोकं भक्ष्यमाणक्षणमात्रभावि । केषां, तद्भुजां नालीसूरणा दिभक्षकाणां। भवति च । कोऽसौ, घातः तद्भक्षणे वधः । केषां, भूयसां बहुतराणां तदाश्रितजीवानाम् ॥ १६ ॥ उक्तमेवार्थ व्रतदाार्थ पुनर्विशेषतोऽभिवत्ते अनन्तकायाः सर्वेऽपि सदा हेया दयापरैः। यदेकमपि तं हन्तुं प्रवृत्तो हन्त्यनन्तकान् ॥ १७॥ टीका-हेयाः प्रत्याख्येया। सदा नित्यं । के, अनन्तकायाः। कति,सर्वेऽपि। कैः, दयापरैः अनुकम्पाप्रधानः श्रावकैः। कुत इत्याह-यद्यस्मात् । हन्ति हिनस्ति । कोऽसौ, पुरुषः। कान्, अनन्तकान् अनन्तप्रमितान जीवान कशब्देनात्र जीवार्थस्य विवक्षितत्वादनन्ताश्च ते काश्च जीवाश्चेति विग्रहः। किंविशिष्टः,प्रवृत्तः। किं कर्तु, हन्तुं भक्षणादिद्वारेण मारयितु। कं, तमनन्तकार्य। किंविशिष्टं, एक व्यवहारेणैकसंख्यमपि किं पुनद्वर्यादीन् । एतेनानन्तैर्जीवरुपलक्षितः
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy