________________
१२६
सागारधर्मः । त्रातु निर्मलशीलसप्तकमिदं ये पालयन्त्यादरात
ते सन्यासविधिप्रमुक्ततनवः सौर्वीः श्रियो भुंजते ॥ ६६ ॥ टीका--भुञ्जते अनुभवन्ति । के, ते निर्मलाणुव्रतशीलपालिनो भव्याः । काः, श्रियः सम्पदः । किंविशिष्टाः, सौर्वीः स्वर्भवाः यथास्वं सौधर्माद्यच्युलान्तकल्पसम्बन्धिनीः । किंविशिष्टाः सन्तः, सन्न्यासेत्यादि सन्न्यासविधिना सप्तदशाध्यायोक्तेन प्रकर्वेण सकलसङ्घसमक्षतालक्षणेन मुक्ता त्यक्ता तनुः शरीरं यैस्ते तथोक्ताः । सति साधने निस्तरणमणि तिरियं । ये के, ये पालयन्ति । किं तत् , इदमनन्तराध्याये वक्ष्यमाण। निर्मलशीलसप्तकं । कस्मात आदरात् तत्परतया । किं कर्तु, त्रातुं पालयितुं । निर्वहणार्थमिदं । कानि, अणुव्रतानि, । कति, पञ्च अपिशब्दादेक द्वे त्रीणि चत्वारि वा। कथं, एवं उक्तप्रकारेण । किं विशिष्टानि सन्ति, अर्पितानि परिणमितानि । क, आत्मनि अन्तस्तत्त्वे । उद्यपनप्रकाशनेयं । किंविशिष्ट, समतापीयूषपानोन्मुखे साम्यामृतपानाद्यभिमुखे । किं कृत्वा, अमलीकृत्य तत्तदतीचारेभ्यः प्रच्याव्य । उद्द्योतनोक्तिरियं । काभिः, सामान्येतरभावनाभिः सामान्यभावनाभिर्मेध्यादिभिर्विशेषभावनाभिः प्रतिव्रतं पञ्चशो नियमिताभिर्महाव्रताधिकारोक्ताभिरिति भद्रम् ॥ ६६ ॥
इत्याशाधरविरचितायां स्वोपज्ञधर्मामृतसागारधर्मदीपिकायां भव्यकुमुदचन्द्रिकासञ्ज्ञायामादित एकादशः प्रक्रमाच्च चतुथाऽध्यायः समाप्तः ॥ ४ ॥
अथ पञ्चमोऽध्यायः अथ शीलसप्तकं व्याकर्तुकामस्तद्विकल्पभूतानि गुणव्रतानि तावल्लक्षयति -
यद्गुणायोपकारायाणुव्रतानां व्रतानि तत् ।
गुणव्रतानि त्रीण्याहुर्दिग्विरत्यादिकान्यपि ॥ १॥ टीका-तत्तस्नादाहुब्रुवन्ति । स्वामिमतानुसारिणः । कानि, गुणव्रतानि । कति, त्रीणि। कानि, दिग्विरत्यादिकानि दिग्विातिमनर्थदण्डविरतिं भोगोप. भोगपरिमाणं । अपिशब्दः सितपटोक्तखरकर्मज्ञापनार्थः । यद्यस्मात् भवन्त्य-.