________________
सागारधर्मः ।
एष द्विविधत्रिविधाख्यः स्थूलहिसादिविरतिभङ्गो बहुविषयत्वात् श्रेयान् । अपिशब्दः प्रकारान्तरेणापि स्थूलहिंसादिनिवृत्तेरणुत्वख्यापनार्थः । शक्त्या हि व्रतं प्रतिपन्नं सुखनिर्वाहं श्रेयोऽर्थ च स्यात् । तद्विरतिभङ्गाः करणादित्रिकेण योगत्रिकेण च धिशिष्यमाणा एकोनपञ्चाशद्भवन्ति। यथा हिंसां न करोति मनसा १,वाचार,कायेन च३,मनसा वाचा४,मनसा कायेन'१,वाचा कायेन६, मनसा वाचा कायेन च ७, एते करणेन सप्त भङ्गाः एवं कारणेन सप्त । अनुमत्यापि सप्त । तथा हिंसां न करोति न कारयति च मनसा १, वाचा २, कायेन ३, मनसा वाचा ४, मनसा कायेन ५, वाचा कायेन ६, मनसा वाचा कायेन च ७, एते करणकारणाभ्यां सप्त । एवं करणानुमतिभ्यां सप्त । कारणानुमतिभ्यामपि सप्त । करणकारणानुमतिभिरपि सप्त । एवं सर्वे मिलिता एकोनपश्चाशद्भवन्ति । एते च त्रिकालविषयत्वात्प्रत्याख्यानस्य कालत्रयेण गुणिताः सप्तचत्वारिंशदधिकं शतं भवन्ति १४७ । त्रिकालविषयता चातीतस्य निन्दया साम्प्रतिकस्य संवरणेनानागतस्य च प्रत्याख्यानेनेति । एते च भङ्गा अहिंसाव्रतवद् व्रतान्तरेष्वपि द्रष्टव्याः। अत्रेयं भावना दिक्। तत्र तावडाहुल्येनोपदेशाद् द्विविधत्रिविधभङ्गमाश्रित्योच्यते । स्थूलहिंसां न करोत्यात्मना न कारयत्यन्येन मनसा वाचा कायेन चेति । तथा स्थूलहिंसां न करोति न कारयति मनसा वाचा । यद्वा मनसा कायेन अथवा वचसा कायेन चेति । तन्न यदा मनसा वाचा न करोति न कारयति तदा मनसाऽभिसन्धिरहित एव वाचाऽपि हिंसकमब्रुवन्नेव कायेनैव दुश्चेष्टितादि असंज्ञिवत्करोति । यदा तु मनसा कायेन न करोति न कारयति तदा मनसाऽभिसन्धिरहित एव कायेन दुश्चेष्टितादि परिहरन्नेबानाभोगाद्वाचैव हन्मि घातयामि वेति ब्रूते । यदा तु वाचा कायेन च न करोति न कारयति तदा मनसैवाभिसन्धीकृत्य करोति कारयति च । अनुमतिस्तु त्रिभिरपि सर्वत्रवास्ति। एवं शेषविकल्पा अपि भावनीयाः । स्थूलग्रहणमुपलक्षणं । तेन निरपराधसंकल्पपूर्वकहिंसा
१ पंगुकुष्टिकुणित्वादि दृष्ट्वा हिंसाफलं सुधीः । । निरागस्त्रसजन्तूनां हिंसां संकल्पतस्त्यजेत् ॥