________________
चतुर्थोध्यायः।
कचित्तु राज्यभोजनमध्यणुव्रतमुच्यते । तथा भवति । किं तत्, गुणवतं । कतिघा, त्रेधा । गुणार्थमणुव्रतानामुपकारार्थ व्रत गुणवतं दिग्विरत्यादीना- . मणुव्रतानुबहणार्थत्वात् । तथा भवति । किं तत्, शिक्षाव्रतं । कतिधा, चतुर्धा शिक्षायै अभ्यासाय व्रतं देशावका शिकादीनां प्रतिदिवसाभ्यसनीयत्वात् । अत एव गुणव्रतादस्य भेदः । गुणव्रतं हि प्रायो यावज्जीविकमाहुः । अथवा शिक्षा विद्योपादानं शिक्षाप्रधानं व्रतं शिक्षात देशावकाशिकादेविशिष्टश्रुतज्ञानभावनापरिणतत्वेनैव निर्वाह्यत्वात् ॥ सामान्येन पञ्चाणुव्रतानि लक्षयन्नाहविरतिः स्थूलवधामनोवचोकृतकारितानुमतैः ।
कचिदपरेऽप्यननुमतैः पञ्चाहिंसाधणुवतानि स्युः ॥५॥ टीका-स्युः भवेयुः । कानि, अहिंसाद्यणुव्रतानि । कति, पञ्च। विरतिः निवृत्तिः। कस्मात्, स्थुलवधादेः। कैः, मन इत्यादि-कृतादयो भावे क्तसाधनाः । मनश्च वचश्च अङ्गं च मनोवचोऽङ्गानि, तेषां प्रत्येकं कृतं च कारितं चानुमतं च मनोवचोऽङ्गकृतकारितानुमतानि तैः । केषां पञ्चाणुव्रतानि स्युः, कचिद् गृहवासनिवृत्ते श्रावके तथा अपरे गृहवासनिरते श्रावके । अननुमतैरनुमतिवर्जितैस्तैः षड्भिस्तानि स्युरिति संक्षेपः। इतो विस्तरः-स्थूलजीवादिविषयत्वान्मिथ्यादृष्टीनामपि हिंसादित्वेन प्रसिद्धत्वाद्वा स्थूलो वधादिः स्थूला हिंसानृतस्तेयाब्रह्मपरिग्रहा इत्यर्थः । ततो मनसा वाचा कायेन च पृथक्करणकारणानुमननैर्निवृत्तिरहिंसासूनृतास्तेयब्रह्मचर्यापरिग्रहाख्यानि पञ्चा- . णुव्रतानि क्वचिद्गृहवासनिवृत्ते श्रावके भवेयुरित्युत्कर्षवृत्त्याऽणुव्रतान्युपदिश्यन्ते। यान्यपरे गृहवासनिरते श्रावकेऽननुमतैरनुमतिविवर्जितैर्मनस्करणादिभिः षड्भिः स्थूलहिंसा दिनिवृत्त्या सम्पद्यन्ते तानि मध्यमवृत्त्या व्रतान्यभिमन्यन्ते । तस्यापत्यादिभिर्हिसादिकरणे तत्कारणे वा अनुमतेरशक्यप्रतिषेधत्वात् । स उक्तं च चारित्रसार१ बघादसत्याचौर्याच कामाद् प्रन्यान्निवर्तनम् ।
पञ्चधाऽणुव्रतं राज्यभुक्तिः षष्ठमणुव्रतम् ।।