________________
१८४
सागारधर्मः
पञ्चकस्याप्यनुचरणात् । कियत्कालं, यावत्प्रोषधानशनवतं प्रोषधोपवासतिज्ञाविषयीकृतान् षोडश यामान । किंविशिष्टः सन्, सिद्धः निष्पन्नः प्रतीतो वा । क्व, प्रतिमात्रये दर्शनव्रतसामायिकप्रतिमासु ॥ ४ ॥ प्रोषधोपवासिनो निष्ठाकाष्ठां निर्दिशति
त्यक्ताहाराङ्गसंस्कारव्यापारः प्रोषधं श्रितः ।
चेलोपसृष्टमुनिवद्भाति नेदीयसामपि ॥ ५ ॥ टीका-भाति प्रतिभासते । कोऽसौ, प्रोषधं श्रितः प्रोषधोपवासनिष्ठः ॥ किंवत् , चेलोपसृष्टमुनिवत् उपसर्गवशाद्वस्त्रेण वेष्टितो निर्ग्रन्थो यथा ब्रह्मचर्यधारणशरीरादिममत्ववर्जनयोगात् । केषां, नेदीयसां पार्श्ववर्तिलोकानां बान्धवादीनां वा । विशेषतोऽन्येषामित्यपिशब्दार्थो विस्मये वा अपिशब्दः । किंविशिष्टः सन् , त्यक्तेत्यादि-आहारोऽशनादिश्चतुर्विधः अङ्गसंस्कारः स्नानोद्वर्तनवर्णकविलेपनपुष्पगन्धविशिष्टवस्त्राभरणादि व्यापारः साहचर्यात्सावद्यारम्भः आहारश्वाङ्गसंस्कारश्च व्यापारश्वाहाराङ्गसंस्काख्यापारास्त्यक्ताः सर्वात्मना प्रत्याख्यातास्ते त्रयो येन। एतेन आहारादित्रयवर्जनाद्ब्रह्मचर्यधारणाच्च चतुर्विधं प्रोषधव्रतमुक्तम् ॥५॥ सामायिकपोषधोपवासयोः प्रतिमाभावे युक्तिमाह
यत्प्राक्सामायिकं शीलं तद्रतं प्रतिमावतः ।
यथा तथा प्रोषधोपवासोऽपीत्यत्र युक्तिवाक् ॥ ६ ॥ टीका-अस्ति । काऽसौ, युक्तिवाक् समाधानवचनं । क, अत्र सामायिकपोषधोपवासयोः प्रतिमाभावविप्रतिपत्तौ । कथं, इति । किमिति, भवति । कोऽसौ, प्राक् शीलतया अभ्यस्तः प्रोषधोपवासोऽपि । किं, व्रतं । कस्य, प्रतिमावतः चतुर्थसंयमविशेषपदमनुतिष्ठतः श्रावकस्य । कथं, तथा । यथा किं, यथा भवति । किं तत्, सामायिकं । किं भवति, व्रतं सस्यवद्रक्षणीयत्वात् । कस्य, प्रतिमावतः तृतीयसंयमविशेषपदमनुतिष्ठतः श्रावकस्य । यत्