SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ सप्तमोध्यायः । १८३ कृत्वा यथोक्तं कृतिकर्म सन्ध्यात्रयेऽपि यावनियम समाधेः। यो वज्रपातेऽपि न जात्वपैति सामायिकी कस्य स न प्रशस्यः ।। टीका–स कस्य सामायिकार्थिनः शक्रादेर्वा नप्रशस्यः सर्वस्यापि श्लाव्य इत्यर्थः । यः किं, यो नापति न प्रच्यवते। कस्मात्, समाधेः रत्नत्रयैकाग्यलक्षणाद्योगात् । कदा, जातु कदाचिदपि । क सति, वज्रेऽपि पतति सति । किं पुनरन्यत्रोपसर्गकारणे । कियत्कालमित्याह-यावन्नियमं प्रतिज्ञावधि । एतन्निश्चयसामायिकं। किं कृत्वा, अनुष्ठाय । किं तत्, कृतिकर्म। किंविशिष्टं, यथोक्तं आवश्यकाध्याये योग्यकालेत्यादिप्रबन्धेन व्याख्यातं वंदनाकर्म। क, सन्ध्यात्रयेऽपि तिसृष्वपि सन्ध्यासु शक्त्याऽन्यदाऽपि । साम्यभावनानुज्ञानार्थो वा अपिशब्दः। एतयवहारसामायिकम् । २॥ निश्चयसामायिकशिखराधिरूढाय श्लाघते____ आरोपितः सामयिकवतप्रासादमूर्धनि । कलशस्तेन येनैषा भूरारोहि महात्मना ॥३॥ टीका-आरोपितः स्थापितः । कोऽसौ, कलशः । केन, तेन । क्व, सामायिकेत्यादि-समयः केशबन्धादिनियमितः कालस्तत्र भवं सामायिक साम्यभावनं तदेव व्रतं सामायिकवतं तदेव प्रासादो देवगृहं दुरासदत्वात् दुरारोहत्वादिष्टसिद्धिनिबन्धनत्वाच्च तस्य मूर्धनि शिखराग्रे । येन किं कृतं, येन महास्मना गणधरचक्रधरेन्द्रादीनां स्पृहणीयेन आरोहि आरूढा । काऽसौ, एषा भूर्व्यवहारसामायिकपूर्वा निश्चयसामायिकप्रतिमा ॥ ३॥ स प्रोषधोपवासी स्याद्यः सिद्धः प्रतिमात्रये । साम्यान च्यवते यावत्प्रोषधानशनव्रतम् ॥ ४ ॥ टीका–स्याद्भवेत् । कोऽसौ, स श्रावकः । किंविशिष्टः, प्रोषधोपवासी प्रोषधोपवासपतिमावान् । यः कि, यो न च्यवते न भ्रश्यति । कस्मात्साम्यात् भावसामायिकात् । प्रोषधोपवासशीले तु तदुपरमे नामादिसामायिक
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy