SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ षष्ठोध्यायः । कस्मात् , तल्पात् त्यक्तशयनीय इत्यर्थः । किं कृत्वा, आस्थाय प्रतिज्ञाय। कथम्, इत्येवमनादावित्यादिना पूर्वोक्तप्रकारेण ।। ३ ।। ततश्च समाध्युपरमे शान्तिमनुध्याय यथावलम् । प्रत्याख्यानं गृहीत्वेष्टं प्रार्थ्य गन्तुं नमेत् प्रभुम् ॥ ४॥ टीका-नमेत् पञ्चाङ्गप्रणामेन नमस्येत कृतक्रियः श्रावकः । कं, प्रभु अर्हदेवं । किं कर्तु, गन्तुं इष्टदेशान्तरं विहर्तु । किं कृत्वा, प्रार्थ्य याचित्वा । किं तत्, इष्टं वांछित पुनदर्शनसमाधिमरणादिकं । किं कृत्वा, गृहीत्वा प्रतिपद्य । किं तत्, प्रत्याख्यानं भोगोपभोगादिनियमविशेष । कथं, यथाबलं शस्यनतिक्रमेण । किं कृत्वा, अनुध्याय अनुचिन्त्य । कां, शान्ति येऽभ्यर्चिता मुकुटकुण्डलहाररत्नरित्या दिगंबधेन श्रूयमाणां । क सति, समाध्युपरमे समाधेरवश्यकरणीयस्य धर्म्यध्यानस्य निवृत्तौ ॥ ४ ॥ ततश्च साम्यामृतसुधौतान्त-रात्मराजज्जिनाकृतिः । दैवादैश्वर्यदौर्गत्ये ध्यायन गच्छेज्जिनालयम् ॥५॥ टीका-गच्छेत् व्रजेत् तथानुष्ठितावश्यकः श्रावकः । कं, जिनालय अर्हचैत्यगृहं । किंविशिष्टः सन, सामेत्यादि साम्य जीवितमरणादौ समतापरिणामस्तदेवामृतं प्रसक्तिप्रकर्षहेतुत्वात्तन सुष्टु संस्कारदाढ्यलक्षणप्रकर्षापादनेन अतिशयन धौतः क्षालितो विशुद्धिमापादितः अन्तरात्मा स्वपरभेदज्ञानोन्मुखमन्तःकरणं तत्र राजन्ती दीप्यमाना जिनाकृतिः परमात्ममूर्तिर्यस्य सतथोक्तः। किं कुर्वन् गच्छेद्, ध्यायन् चिन्तयन् । के, ऐश्वर्यदौर्गत्ये ऐश्वर्यमद्याधिपत्यं दौर्गत्यं दारिद्यं ऐश्वर्व च दौर्गत्यं च ऐश्वर्यदौर्गत्ये सम्भवत इति ध्यायन् । कम्मात् , दैवात् पुराकृतशुभाशुभकर्मविपाकात्। इदमत्रदम्पर्य यदीश्वरो महद्धिको राजा सामन्तादिर्वा भवति तदा पुण्यविपाकप्रभवा सम्पदिय न पौरुषेयी तदस्यां कथमात्मज्ञो मदमुपयादिति भावयन् गच्छेत् । अथ दरिद्रस्तदा पापविपाकजनितमिदं दारिद्यदुःख न कनापि च्छेत्तुं
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy