________________
सागारधर्मः
किं कृत्वा, संशोध्य । एवमसाधारणमाचारमुक्त्वा साधारण तमाह- इच्छेत्यादि । कुर्वते विदधते । के, सर्वे एकादशापि श्रावकाः । कं, समाचारं । किंविशिष्टमिच्छाकारं इच्छामीत्येवं विधोच्चारणलक्षणं । कथं, मिथः परस्परं । तुर्विशेषे ॥ ४९ ॥
इदानीं दशभिः पद्यैः शषं संगृह्णन्नाह—
२०४
श्रावको वीरचर्या प्रतिमातापनादिषु । स्यानाधिकारी सिद्धान्तरहस्याध्ययनेऽपि च ॥ ५० ॥ टीका- न स्यात् । कोऽसौ, श्रावकः । किंविशिष्टः, अधिकारी योग्यः । क, वीरेत्यादि वीरचर्या स्वयं भ्रामर्या भोजनं, अहः प्रतिमा दिनप्रतिमा आतापनात्रिकालयोगाः ग्रीष्मे सूर्याभिमुखं गिरिशिखरेऽवस्थानं, वर्षासु वृक्षमूले, शीतकाले रजन्यां चतुष्पदे, इत्येवंलक्षणास्त्रयः कायक्लेशविशेषाः । तथा सिद्धान्तस्य परमागमस्य सूत्ररूपस्य रहस्यस्य च प्रायश्चित्तशास्त्रस्याध्ययने पाठे श्रावको नाधिकारी स्यादिति सम्बन्धः ॥ ५० ॥ दानशीलोपवासाचभेदादपि चतुर्विधः ।
स्वधर्मः श्रावकैः कृत्यो भवोच्छित्त्यै यथायथम् ॥ ५१ ॥ टीका-कृत्योऽनुष्ठेयः । कोऽसौ, स्वधर्मः आत्मन आचारः । कैः, श्रावकैः देशसंयतैः । किंविशिष्टश्चतुर्विधोऽपि । कस्माद्दानशीलोपवासाचभेदात् दानं च शीलं चोपवासश्चार्चा च जिनादिपूजा ताभिर्भेदस्तस्मात् । अपिशब्दान्न केवलं दर्शनादिभेदादेकादशधेति ग्राह्यं । कथं यथायथं स्वप्रतिमाचरणाविरोधेन । किमर्थ, भवोच्छित्त्यै संसार निरासार्थं ॥ ५१ ॥
इत उत्तरं व्रतरक्षायां यत्नविधानार्थं प्रबन्धेनाभिधत्ते
――――
प्राणान्तेऽपि न भक्तव्यं गुरुसाक्षि श्रितं व्रतम् । प्राणान्तस्तत्क्षणे दुःखं व्रतभङ्गो भवे भवे ।। ५२ ।।