________________
तृतीयोऽध्यायः।
नैष्ठिकलक्षणमाहदेशयमनकषायक्षयोपशमतारतम्यवशतः स्यात् ।
दर्शनिकायेकादशदशावशो नैष्ठिकः सुलेश्यतरः ॥ १॥ टीका-स्याद्भवेत्। कोऽसौ, नैष्ठिकः।श्रावकः । किंविशिष्टो, दर्शनिकायेकादशदशावशः, दर्शन निर्मलमद्यादिविरत्याहितातिशयं सम्यक्त्वमस्यास्तीति 'अतिशायने ठावत' इति ठः । एवं व्रतिकादित्रयो व्युत्पाद्याः । दर्शनिक आदिर्यासां व्रतिकादीनां ता दर्शनिकादय एकादशदशाः श्रावकसंयमस्थानानि, तासां वशः पारतंत्र्यं यस्य स घटमानदेशसंयम इत्यर्थः । कस्मात् , देशेत्यादि--देशयमध्ना अप्रत्याख्यानावरणाख्याः कषापाः क्रोधादयस्तेषां क्षयेनोदयाभावेन प्रत्याख्यानावरणकषायोदयविशिष्टेन युक्त उपशमः सदवस्था तत्क्षयोपशमस्तस्य तारतम्यं यथोत्तरमुत्कर्षस्तद्वशतस्तत्पारतन्ध्यात् । पुनः किंविशिष्टः स्यात् , सुलेश्यतरः । लिंपति स्वीकरोति पुण्यपापे स्वयं जीवो यया सा लेश्या, अथवा लिशत्यल्पीकरोत्यात्मानमित्ति लेश्या कषायोदयः
१ लिम्पत्यात्मीकरात्यात्मा पुण्यपापे यया स्वयम् । सा लेश्येत्युच्यते सद्भिर्द्विविधा द्रव्यभावतः ॥ प्रवृत्तियौगिकी लेश्या कषायोदयरजिता । भावतो द्रव्यतो देहच्छवि: षोढामयी मता ॥ .. कृष्णा नीलाऽथ कापोती पीता पद्मा सिता स्मृता । लेश्या षड्भिः सदा तागृह्यते कर्म जन्मिभिः ॥ योगाविरतिमिथ्यात्वकषायजनितोऽङ्गिनाम् ।। संस्कारो भावलेश्याऽस्ति कल्माषावकारणम् ।। कापोती कथिता तीवो नीला तीव्रतरो जिनः । । कृष्णा तीव्रतमो लेश्या परिणामः शरीरिणाम् ॥ . पीता निवेदिता मन्दः पद्मा मन्दतरो बुरैः। ....: शुक्ला मन्दतमस्तासां वृद्धिः षट्स्थानयायिनी ॥